Home / Mahabharata / Virāṭaparva
Ekonaṣaṣṭitamo'dhyāyaḥ||59||
Virāṭaparva
एकोनषष्टितमोऽध्यायः॥५९॥
वैशम्पायन उवाच
जितं वैकर्तनं दृष्ट्वा पार्थो वैराटिमब्रवीत्।
स्थिरो भव त्वं सङ्ग्रामे जयोऽस्माकं नृपात्मजः॥१॥
स्थिरो भव त्वं सङ्ग्रामे जयोऽस्माकं नृपात्मजः॥१॥
यावच्छङ्खमुपाध्यास्ये द्विषतां रोमहर्षणम्।
अविक्लबमसम्भ्रान्तमव्यक्तहृदयेक्षणम्॥२॥
अविक्लबमसम्भ्रान्तमव्यक्तहृदयेक्षणम्॥२॥
याहि शीघ्रं यतो द्रोणो ममाऽऽचार्यो रणे स्थितः।
तथा सङ्क्रीडमानस्य अर्जुनस्य रणाजिरे॥३॥
तथा सङ्क्रीडमानस्य अर्जुनस्य रणाजिरे॥३॥
बलं सत्त्वं च तेजश्च लाघवं च व्यवर्धत।
तच्चाद्भुतमभिप्रेक्ष्य भयमुत्तरमाविशत्॥४॥
तच्चाद्भुतमभिप्रेक्ष्य भयमुत्तरमाविशत्॥४॥
उत्तर उवाच
अस्त्राणां तव दिव्यानां शरौघान् क्षिपतः शितान्।
मनो मे मुह्यतेऽत्यर्थं तव दृष्ट्वा पराक्रमम्॥५॥
मनो मे मुह्यतेऽत्यर्थं तव दृष्ट्वा पराक्रमम्॥५॥
द्वैधीभूतं मनो मह्यं भयाद् भरतसत्तम।
अदृष्टपूर्वं पश्यामि तव गाण्डीवनिस्वनम्॥६॥
अदृष्टपूर्वं पश्यामि तव गाण्डीवनिस्वनम्॥६॥
तव बाहुबलं चैव धनुः कर्षयतो बहु।
तव तेजो दुराधर्षं यथा विष्णोस्त्रिविक्रमे॥७॥
तव तेजो दुराधर्षं यथा विष्णोस्त्रिविक्रमे॥७॥
वैशम्पायन उवाच
तमुत्तरश्चित्रमवेक्ष्य गाण्डिवं
शरांश्च मुक्तान् सहसा किरीटिना।
भीतोऽब्रवीदर्जुनमाजिमध्ये
नाहं तवाश्वान् विषहे नियन्तुम्॥८॥
शरांश्च मुक्तान् सहसा किरीटिना।
भीतोऽब्रवीदर्जुनमाजिमध्ये
नाहं तवाश्वान् विषहे नियन्तुम्॥८॥
तमब्रवीत् किञ्चिदिव प्रहस्य
गाण्डीवधन्वा द्विषतां निहन्ता।
मया सहायेन कुतोऽस्ति ते भयं
प्रेह्युत्तराश्वाननुमन्त्र्य वाहय॥९॥
गाण्डीवधन्वा द्विषतां निहन्ता।
मया सहायेन कुतोऽस्ति ते भयं
प्रेह्युत्तराश्वाननुमन्त्र्य वाहय॥९॥
वैशम्पायन उवाच
आश्वासितस्तेन धनञ्जयेन
वैराटिरश्वान् प्रतुतोद शीघ्रम्।
धनञ्जयश्चापि विकृष्य चापं
विष्फारयामास महेन्द्रकल्पः॥१०॥
वैराटिरश्वान् प्रतुतोद शीघ्रम्।
धनञ्जयश्चापि विकृष्य चापं
विष्फारयामास महेन्द्रकल्पः॥१०॥
उत्तरं चैव बीभत्सुरब्रवीत् पुनरर्जुनः।
न भेतव्यं मया सार्धं तात सङ्ग्राममूर्धनि॥११॥
न भेतव्यं मया सार्धं तात सङ्ग्राममूर्धनि॥११॥
राजपुत्रोऽसि ते भद्रं कुले महति मात्स्यके।
जातस्त्वं क्षत्रियकुले न विषीदितुमर्हसि॥१२॥
जातस्त्वं क्षत्रियकुले न विषीदितुमर्हसि॥१२॥
धृतिं कृत्वा सुविपुलां राजपुत्र रथं मम।
युध्यमानस्य सङ्ग्रामे राजभिः सह वाहय॥१३॥
युध्यमानस्य सङ्ग्रामे राजभिः सह वाहय॥१३॥
उक्त्वा तमेवं बीभत्सुरर्जुनः पुनरब्रवीत्।
पाण्डवो रथिनां श्रेष्ठो भारद्वाजं समीक्ष्य तु॥१४॥
पाण्डवो रथिनां श्रेष्ठो भारद्वाजं समीक्ष्य तु॥१४॥
यत्रैषा काञ्चनी वेदिर्दृश्यतेऽग्निशिखोपमा।
उच्छ्रिता काञ्चने दण्डे पताकाभिरलङ्कृता॥१५॥
उच्छ्रिता काञ्चने दण्डे पताकाभिरलङ्कृता॥१५॥
तत्र मां वह भद्रं ते द्रोणं योत्स्यामि सत्तमम्।
भारद्वाजेन योत्स्येऽहमाचार्येण महात्मना॥१६॥
भारद्वाजेन योत्स्येऽहमाचार्येण महात्मना॥१६॥
अमी शोणाः प्रकाशन्ते तुरगाः साधुवाहिनः।
मुक्ता रथवरे तस्य सर्वशिक्षाविशारदाः॥१७॥
मुक्ता रथवरे तस्य सर्वशिक्षाविशारदाः॥१७॥
यतो रथवरे शूरः सर्वशस्त्रभृतां वरः।
स्निग्धवैडूर्यसङ्काशस्ताम्राक्षः प्रियदर्शनः॥१८॥
स्निग्धवैडूर्यसङ्काशस्ताम्राक्षः प्रियदर्शनः॥१८॥
आदित्य इव तेजस्वी बलवीर्यसमन्वितः।
सर्वलोकधनुःश्रेष्ठः सर्वलोकेषु पूजितः।
अङ्गिरोशनसोऽस्तुल्यो नये बुद्धिमतां वरः॥१९॥
सर्वलोकधनुःश्रेष्ठः सर्वलोकेषु पूजितः।
अङ्गिरोशनसोऽस्तुल्यो नये बुद्धिमतां वरः॥१९॥
चत्वारो निखिला वेदाः साङ्गोपाङ्गाः सलक्षणाः।
धनुर्वेदश्च कार्त्स्न्येन ब्राह्मं चास्त्रं प्रतिष्ठितम्॥२०॥
धनुर्वेदश्च कार्त्स्न्येन ब्राह्मं चास्त्रं प्रतिष्ठितम्॥२०॥
पुराणमितिहासश्च अर्थविद्या च मानवम्।
भारद्वाजे समस्तानि सर्वाण्येतानि साम्प्रतम्॥२१॥
भारद्वाजे समस्तानि सर्वाण्येतानि साम्प्रतम्॥२१॥
क्षमा दमश्च सत्यं च तेजो मार्दवमार्जवम्।
प्रतिष्ठिता गुणा यस्मिन् बहवो द्विजसत्तमे॥२२॥
प्रतिष्ठिता गुणा यस्मिन् बहवो द्विजसत्तमे॥२२॥
यस्याहमिष्टः सततं मम चेष्टः सदा च सः।
क्षत्रधर्मं पुरस्कृत्य तेन योत्स्ये हि साम्प्रतम्॥२३॥
क्षत्रधर्मं पुरस्कृत्य तेन योत्स्ये हि साम्प्रतम्॥२३॥
आचार्यं प्रापयेदानीं ममोत्तर महारथम्।
अपरं पश्य सङ्ग्राममद्भुतं मम तस्य च॥२४॥
अपरं पश्य सङ्ग्राममद्भुतं मम तस्य च॥२४॥
उत्तरस्त्वेवमुक्तोऽश्वांश्चोदयामास तं प्रति।
आजगामार्जुनरथो भारद्वाजरथं प्रति॥२५॥
आजगामार्जुनरथो भारद्वाजरथं प्रति॥२५॥
तमापतन्तं वेगेन पाण्डवं सरथं रणे।
द्रोणोऽप्यभ्यद्रवत् पार्थं मतो मत्तमिव द्विपम्॥२६॥
द्रोणोऽप्यभ्यद्रवत् पार्थं मतो मत्तमिव द्विपम्॥२६॥
स तु रुक्मरथं दृष्ट्वा कौन्तेयः समभिद्रुतम्।
आचार्यं तं महाबाहुः प्राञ्जलिर्वाक्यमब्रवीत्॥२७॥
आचार्यं तं महाबाहुः प्राञ्जलिर्वाक्यमब्रवीत्॥२७॥
उषिताः स्मो वने वासं प्रतिकर्मचिकीर्षवः।
कोपं नार्हसि नः कर्तुं सदा समरदुर्जय॥२८॥
कोपं नार्हसि नः कर्तुं सदा समरदुर्जय॥२८॥
अहं तु ताडितः पूर्वं प्रहरेयं तवानघ।
इति मे वर्तते बुद्धिस्तद् भवान् क्षन्तुमर्हति॥२९॥
इति मे वर्तते बुद्धिस्तद् भवान् क्षन्तुमर्हति॥२९॥
ततः प्राध्मापयच्छङ्खं भेरीपटहवादितम्।
व्यक्षोभत बलं सर्वमुद्धूतमिव सागरम्॥३०॥
व्यक्षोभत बलं सर्वमुद्धूतमिव सागरम्॥३०॥
वैशम्पायन उवाच
ततस्तु प्राहिणोद् द्रोणः शरानथ स विंशतिम्।
अप्राप्तानेव तान् पार्थश्चिच्छेद कृतहस्तवान्॥३१॥
अप्राप्तानेव तान् पार्थश्चिच्छेद कृतहस्तवान्॥३१॥
ततः शरसहस्रेण रथं पार्थस्य वीर्यवान्।
अवाकिरत् ततो द्रोणः शीघ्रहस्तं प्रदर्शयन्॥३२॥
अवाकिरत् ततो द्रोणः शीघ्रहस्तं प्रदर्शयन्॥३२॥
एवं प्रववृते युद्धं भारद्वाजकिरीटिनोः॥३३॥
अश्वाञ्छोणान् महावेगान् हंसवर्णैस्तु वाजिभिः।
मिश्रितान् समरे दृष्ट्वा व्यस्मयन्त पृथग्जनाः॥३४॥
मिश्रितान् समरे दृष्ट्वा व्यस्मयन्त पृथग्जनाः॥३४॥
रथं रथेन पार्थस्य समाहत्य परन्तपः।
हर्षयुक्तस्तदाऽऽचार्यः प्रत्यगृह्णात् स पाण्डवम्॥३५॥
हर्षयुक्तस्तदाऽऽचार्यः प्रत्यगृह्णात् स पाण्डवम्॥३५॥
समाश्लिष्टाविवान्योन्यं द्रोणपाण्डवयोर्ध्वजौ।
दृष्ट्वा प्राकम्पत मुहुर्भारतानां महाचमूः॥३६॥
दृष्ट्वा प्राकम्पत मुहुर्भारतानां महाचमूः॥३६॥
तत् तु युद्धं प्रववृते ह्याचार्यस्यार्जुनस्य च।
विमुञ्चतोः शरानुग्रान् विशिखान् दीप्ततेजसः॥३७॥
विमुञ्चतोः शरानुग्रान् विशिखान् दीप्ततेजसः॥३७॥
तौ वीरौ वीर्यसम्पन्नौ दृष्ट्वा समरमूर्धनि।
आचार्यशिष्यौ रथिनौ कृतवीर्यौ तरस्विनौ॥३८॥
आचार्यशिष्यौ रथिनौ कृतवीर्यौ तरस्विनौ॥३८॥
उभौ विश्रुतकर्माणावुभौ श्रमगतौ जये।
उभावतिरथौ लोके ह्युभौ परपुरञ्जयौ।
क्षिपन्तौ शरजालानि क्षत्रियान् मोह आविशत्॥३९॥
उभावतिरथौ लोके ह्युभौ परपुरञ्जयौ।
क्षिपन्तौ शरजालानि क्षत्रियान् मोह आविशत्॥३९॥
व्यस्मयन्त नराः सर्वे द्रोणार्जुनसमागमे।
नराणां ब्रुवतां वाक्यं श्रूयते स महास्वनः॥४०॥
नराणां ब्रुवतां वाक्यं श्रूयते स महास्वनः॥४०॥
द्रोणं हि समरे कोऽन्यो योद्धुमर्हत्यथार्जुनात्।
रौद्रः क्षत्रियधर्मोऽयं गुरं वै यदयोधयत्॥४१॥
रौद्रः क्षत्रियधर्मोऽयं गुरं वै यदयोधयत्॥४१॥
इत्यब्रुवञ्जनास्तत्र सङ्ग्रामशिरसि स्थिताः।
तौ समीक्ष्य तु संरब्धौ सन्निकृष्टौ महारथौ॥४२॥
तौ समीक्ष्य तु संरब्धौ सन्निकृष्टौ महारथौ॥४२॥
छादयेतां शरौघैस्तावन्योन्यमपराजितौ।
संयुगे सञ्चकाशेतां कालसूर्याविवोदितौ॥४३॥
संयुगे सञ्चकाशेतां कालसूर्याविवोदितौ॥४३॥
विष्फार्य च महाचापं हेमपृष्ठं दुरासदम्।
संरब्धस्तु तदा द्रोणः प्रत्ययुध्यत फल्गुनम्॥४४॥
संरब्धस्तु तदा द्रोणः प्रत्ययुध्यत फल्गुनम्॥४४॥
स सायकमयैर्जालैरर्जुनस्य रथं प्रति।
भानुमद्भिः शिलाधौतैर्बाणैः प्राच्छादयद् दिशः॥४५॥
भानुमद्भिः शिलाधौतैर्बाणैः प्राच्छादयद् दिशः॥४५॥
अर्जुनस्तु तदा द्रोणं महावेगैर्महारथः।
विव्याध शतशो बाणैर्धाराभिरिव पर्वतम्॥४६॥
विव्याध शतशो बाणैर्धाराभिरिव पर्वतम्॥४६॥
कालमेघ इवोष्णान्ते फल्गुनः समवाकिरत्॥४७॥
तस्य जाम्बूनदमयैश्चित्रैश्चापच्युतैः शरैः।
प्राच्छादयद् रथश्रेष्ठं भारद्वाजोऽर्जुनस्य वै॥४८॥
प्राच्छादयद् रथश्रेष्ठं भारद्वाजोऽर्जुनस्य वै॥४८॥
तथैव दिव्यं गाण्डीवं धनुरानम्य चार्जुनः।
शत्रुघ्नं वेगवत्सृष्टं भारसाधनमुत्तमम्॥४९॥
शत्रुघ्नं वेगवत्सृष्टं भारसाधनमुत्तमम्॥४९॥
शोभते स्म महाबाहुर्गाण्डीवं विक्षिपन् धनुः।
शरांश्च विसृजंश्चित्रान् सुवर्णविकृतान् बहून्॥५०॥
शरांश्च विसृजंश्चित्रान् सुवर्णविकृतान् बहून्॥५०॥
प्राच्छादयदमेयात्मा भारद्वाजरथं प्रति।
द्रोणचापविनिर्मुक्तान् बाणान् बाणैरवारयत्॥५१॥
द्रोणचापविनिर्मुक्तान् बाणान् बाणैरवारयत्॥५१॥
सरथोऽप्यचरत् पार्थः प्रेक्षणीयो महारथः।
युगपद् दिक्षु सर्वासु सर्वतोऽस्त्राण्यवासृजम्॥५२॥
युगपद् दिक्षु सर्वासु सर्वतोऽस्त्राण्यवासृजम्॥५२॥
आददानं शरान् घोरान् सन्दधानं च पाण्डवम्।
विसृजन्तं च कौन्तेयं न स्म पश्यन्ति लाघवात्॥५३॥
विसृजन्तं च कौन्तेयं न स्म पश्यन्ति लाघवात्॥५३॥
एकच्छायमिवाकाशं बाणैश्चक्रे समन्ततः।
नादृश्यत ततो द्रोणो नीहारेणेव पर्वतः॥५४॥
नादृश्यत ततो द्रोणो नीहारेणेव पर्वतः॥५४॥
मरीचिविकचस्येव राजन् भानुमतो वपुः।
आसीत् पार्थस्य सुमहद्वपुः शरशतार्चितम्॥५५॥
आसीत् पार्थस्य सुमहद्वपुः शरशतार्चितम्॥५५॥
क्षिपतः शरजालानि कौन्तेयस्य महात्मनः।
तान् विधूय शरान् घोरान् द्रोणोऽपि समितिञ्जयः।
बभासे तिमिरं व्योम्नि विधूय सविता यथा॥५६॥
तान् विधूय शरान् घोरान् द्रोणोऽपि समितिञ्जयः।
बभासे तिमिरं व्योम्नि विधूय सविता यथा॥५६॥
अग्निचक्रोपमं घोरं मण्डलीकृतमाहवे।
विकृष्य सुमहच्चापं मेघस्तनितनिस्वनम्।
असकृन्मुञ्चतो बाणान् ददृशुः कुरवो युधि॥५७॥
विकृष्य सुमहच्चापं मेघस्तनितनिस्वनम्।
असकृन्मुञ्चतो बाणान् ददृशुः कुरवो युधि॥५७॥
दिक्षु सर्वासु विपुलः शुश्रुवेऽथ जनैस्तदा।
द्रोणस्यापि धनुर्घोषो विद्युत्स्तनितनिस्वनः।
अभवद् विस्मयकरः सैन्यानां भरतर्षभ॥५८॥
द्रोणस्यापि धनुर्घोषो विद्युत्स्तनितनिस्वनः।
अभवद् विस्मयकरः सैन्यानां भरतर्षभ॥५८॥
तप्तजाम्बूनदमयैर्दीप्तैरग्निसमैः शरैः।
प्राच्छादयदमेयात्मा दिशः सूर्यस्य च प्रभाम्॥५९॥
प्राच्छादयदमेयात्मा दिशः सूर्यस्य च प्रभाम्॥५९॥
ततः काञ्चनपुङ्खानां शराणां नतपर्वणाम्।
वियद्गतानां चरतां दृश्यन्ते बहवो व्रजाः॥६०॥
वियद्गतानां चरतां दृश्यन्ते बहवो व्रजाः॥६०॥
शरासनात् तु द्रोणस्य प्रभवन्ति स्म सायकाः।
एको दीर्घ इवाभान्तः प्रदृश्यन्ते महाशराः।
आकाशे समदृश्यन्त हंसानामिव पङ्क्तयः॥६१॥
एको दीर्घ इवाभान्तः प्रदृश्यन्ते महाशराः।
आकाशे समदृश्यन्त हंसानामिव पङ्क्तयः॥६१॥
एवं सुवर्णविकृतान् विमुञ्चन्तौ शरान् बहून्।
आकाशं संवृतं वीरावुल्काभिरिव चक्रतुः॥६२॥
आकाशं संवृतं वीरावुल्काभिरिव चक्रतुः॥६२॥
तयोः शराश्च विबभुः कङ्कबर्हिणवाससः।
पङ्क्त्यः शरदि मत्तानां सारसानामिवाम्बरे॥६३॥
पङ्क्त्यः शरदि मत्तानां सारसानामिवाम्बरे॥६३॥
तत् तु युद्धं महाघोरं तयोः संरब्धयोरभूत्।
अत्यद्भुतमचिन्त्यं च वृत्रवासवयोरिव॥६४॥
अत्यद्भुतमचिन्त्यं च वृत्रवासवयोरिव॥६४॥
महागजाविवासाद्य विषाणाग्रैः परस्परम्।
शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः॥६५॥
शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः॥६५॥
अथ त्वाचार्यमुख्येन शरान् सृष्टाञ्छिलाशितान्।
अवारयच्छितैर्बाणैरर्जुनो जयतां वरः॥६६॥
अवारयच्छितैर्बाणैरर्जुनो जयतां वरः॥६६॥
दर्शयन्नैन्द्रमात्मानमुग्रमुग्रुपराक्रमः।
इषुभिस्तूर्णमाकाशं बहुभिश्च समावृणोत्॥६७॥
इषुभिस्तूर्णमाकाशं बहुभिश्च समावृणोत्॥६७॥
जिघांसन्तं नरव्याघ्रमर्जुनं भीमदर्शनम्।
विव्याध निशितैर्द्रोणः शरैः सन्नतपर्वभिः॥६८॥
विव्याध निशितैर्द्रोणः शरैः सन्नतपर्वभिः॥६८॥
हृष्टः समभवद् द्रोणो रणशौण्डः प्रतापवान्।
अर्जुनेन समं क्रीडञ्छरैः सन्नतपर्वभिः॥६९॥
अर्जुनेन समं क्रीडञ्छरैः सन्नतपर्वभिः॥६९॥
तौ व्यदारयतां शूरौ सन्नद्धौ रणशोभिनौ।
उदीरयन्तौ दिव्यानि ब्राह्माद्यस्त्राणि भागशः॥७०॥
उदीरयन्तौ दिव्यानि ब्राह्माद्यस्त्राणि भागशः॥७०॥
पार्थस्तु समरे शूरो दर्शयन् वीर्यमात्मनः।
स महास्त्रैर्महात्मानं द्रोणं प्राच्छादयच्छरैः॥७१॥
स महास्त्रैर्महात्मानं द्रोणं प्राच्छादयच्छरैः॥७१॥
अस्त्रैरस्त्राणि संवार्य पार्थो द्रोणमवारयत्॥७२॥
तयोरासीत् सम्प्रहारः क्रुद्धयोर्नरसिंहयोः।
अमृष्यमाणयोः सङ्ख्ये बलिवासवयोरिव॥७३॥
अमृष्यमाणयोः सङ्ख्ये बलिवासवयोरिव॥७३॥
दर्शयेतां महास्त्राणि भारद्वाजार्जुनौ रणे॥७४॥
ऐन्द्रं वायव्यमाग्नेयमस्त्रमस्त्रेण पाण्डवः।
मुक्तं मुक्तं द्रोणचापाद् ग्रसते स्म पुनः पुनः॥७५॥
मुक्तं मुक्तं द्रोणचापाद् ग्रसते स्म पुनः पुनः॥७५॥
एवं शूरौ महेष्वासौ विसृजन्तौ शिलाशितान्।
एकच्छायमकुर्वातां गगनं शरवृष्टिभिः॥७६॥
एकच्छायमकुर्वातां गगनं शरवृष्टिभिः॥७६॥
ततोऽर्जुनेन मुक्तानां पततां च शरीरिषु।
पर्वतेष्विव वज्राणां शराणां श्रूयते स्वनः॥७७॥
पर्वतेष्विव वज्राणां शराणां श्रूयते स्वनः॥७७॥
ततो नागा रथाश्वाश्च सादिनश्च विशाम्पते।
शोणिताक्ताश्च दृश्यन्ते पुष्पिता इव किंशुकाः॥७८॥
शोणिताक्ताश्च दृश्यन्ते पुष्पिता इव किंशुकाः॥७८॥
बाहुभिश्च सकेयूरैर्निकृत्तैश्च महारथैः।
सुवर्णचित्रैः कवचैर्ध्वजैश्च विनिपातितैः॥७९॥
सुवर्णचित्रैः कवचैर्ध्वजैश्च विनिपातितैः॥७९॥
योधैश्च निहतैस्तत्र पार्थबाणाभिपीडितैः।
बलमासीत् सुसम्भ्रान्तं द्रोणार्जुनसमागमे॥८०॥
बलमासीत् सुसम्भ्रान्तं द्रोणार्जुनसमागमे॥८०॥
विधून्वानौ तु तौ वीरौ धनुषी भारसाधने।
प्राच्छादयेतामन्योन्यं दिधक्षन्तौ वरेषुभिः॥८१॥
प्राच्छादयेतामन्योन्यं दिधक्षन्तौ वरेषुभिः॥८१॥
अथान्तरिक्षे नादोऽभूद् द्रोणं तत्र प्रशंसताम्।
दुष्करं कृतवान् द्रोणो यदर्जुनमयोधयत्॥८२॥
दुष्करं कृतवान् द्रोणो यदर्जुनमयोधयत्॥८२॥
प्रमाथिनं महावीर्यं दृढमुष्टिं दुरासदम्।
जेतारं सर्वदैत्यानां सर्वेषां च महारथम्॥८३॥
जेतारं सर्वदैत्यानां सर्वेषां च महारथम्॥८३॥
अविभ्रमं च शिक्षां च लाघवं दूरपातनम्।
पार्थस्य समरे दृष्ट्वा द्रोणस्यासीच्च विस्मयः॥८४॥
पार्थस्य समरे दृष्ट्वा द्रोणस्यासीच्च विस्मयः॥८४॥
तत् प्रवृत्तं चिरं घोरं तयोर्युद्धं महात्मनोः।
अवर्तत महारौद्रं लोकसङ्क्षोभकारकम्॥८५॥
अवर्तत महारौद्रं लोकसङ्क्षोभकारकम्॥८५॥
अथ गाण्डीवमुद्यम्य दिव्यं धनुरमर्षणः।
विचकर्ष रणे पार्थो बाहुभ्यां भरतर्षभः॥८६॥
विचकर्ष रणे पार्थो बाहुभ्यां भरतर्षभः॥८६॥
तस्य बाणमयं वर्षे शलभानामिवाभवत्।
न च बाणान्तरे तस्य वायुः शक्नोति सर्पितुम्॥८७॥
न च बाणान्तरे तस्य वायुः शक्नोति सर्पितुम्॥८७॥
अभीक्ष्णं सन्दधानस्य बाणानुत्सृजतस्तथा।
नान्तरं ददृशे किञ्चित् पार्थस्यापततोऽपि च॥८८॥
नान्तरं ददृशे किञ्चित् पार्थस्यापततोऽपि च॥८८॥
युद्धे तु कृतशीघ्रास्त्रे वर्तमाने सुदारुणे।
शीघ्राच्छीघ्रतरं पार्थः शरानन्यानुदैरयत्॥८९॥
शीघ्राच्छीघ्रतरं पार्थः शरानन्यानुदैरयत्॥८९॥
ततः शरसहस्राणि शराणां नतपर्वणाम्।
युगपत् प्रापतंस्तत्र द्रोणस्य रथमन्तिकात्॥९०॥
युगपत् प्रापतंस्तत्र द्रोणस्य रथमन्तिकात्॥९०॥
विकीर्यमाणे द्रोणे तु शरैर्गाण्डीवधन्वना।
हाहाकारो महानासीत् सैन्यानां भरतर्षभ॥९१॥
हाहाकारो महानासीत् सैन्यानां भरतर्षभ॥९१॥
पाण्डवस्य तु शीघ्रास्त्रं मघवा समपूजयत्।
गन्धर्वाप्सरसश्चैव ये च तत्र समागताः॥९२॥
गन्धर्वाप्सरसश्चैव ये च तत्र समागताः॥९२॥
द्रोणं युद्धार्णवे मग्नं दृष्ट्वा पुत्रः प्रतापवान्।
ततो वृन्देन महता रथिनां रथियूथपः।
आचार्यपुत्रस्तु शरैः पाण्डवं प्रत्यवारयत्॥९३॥
ततो वृन्देन महता रथिनां रथियूथपः।
आचार्यपुत्रस्तु शरैः पाण्डवं प्रत्यवारयत्॥९३॥
अश्वत्थामा तु तत् कर्म हृदयेन महात्मनः।
पूजयामास पार्थस्य कोपं चास्य तदाऽकरोत्॥९४॥
पूजयामास पार्थस्य कोपं चास्य तदाऽकरोत्॥९४॥
स मन्युवशमापन्नः पार्थमभ्यद्रवद्रणे।
किरञ्छरसहस्राणि पर्जन्य इव वृष्टिमान्॥९५॥
किरञ्छरसहस्राणि पर्जन्य इव वृष्टिमान्॥९५॥
आवृत्य च महाबाहुर्यतो द्रोणस्ततोऽभवत्।
अन्तरं प्रददौ पार्थो द्रोणस्य व्यपसर्पितुम्॥९६॥
अन्तरं प्रददौ पार्थो द्रोणस्य व्यपसर्पितुम्॥९६॥
स तु लब्धान्तरस्तूर्णमपायाञ्जवनैर्हयैः।
छिन्नवर्मध्वजरथो निकृत्तः परमेषुभिः॥९७॥
छिन्नवर्मध्वजरथो निकृत्तः परमेषुभिः॥९७॥
पराजिते तदा द्रोणे द्रोणपुत्रः समागतः।
सदण्ड इव रक्ताक्षः कृतान्तः समरे स्थितः॥९८॥
सदण्ड इव रक्ताक्षः कृतान्तः समरे स्थितः॥९८॥
॥इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि एकोनषष्टितमोऽध्यायः॥५९॥
ಏಕೋನಷಷ್ಟಿತಮೋಽಧ್ಯಾಯಃ॥೫೯॥
ವೈಶಂಪಾಯನ ಉವಾಚ
ಜಿತಂ ವೈಕರ್ತನಂ ದೃಷ್ಟ್ವಾ ಪಾರ್ಥೋ ವೈರಾಟಿಮಬ್ರವೀತ್।
ಸ್ಥಿರೋ ಭವ ತ್ವಂ ಸಂಗ್ರಾಮೇ ಜಯೋಽಸ್ಮಾಕಂ ನೃಪಾತ್ಮಜಃ॥೧॥
ಸ್ಥಿರೋ ಭವ ತ್ವಂ ಸಂಗ್ರಾಮೇ ಜಯೋಽಸ್ಮಾಕಂ ನೃಪಾತ್ಮಜಃ॥೧॥
ಯಾವಚ್ಛಂಖಮುಪಾಧ್ಯಾಸ್ಯೇ ದ್ವಿಷತಾಂ ರೋಮಹರ್ಷಣಮ್।
ಅವಿಕ್ಲಬಮಸಂಭ್ರಾಂತಮವ್ಯಕ್ತಹೃದಯೇಕ್ಷಣಮ್॥೨॥
ಅವಿಕ್ಲಬಮಸಂಭ್ರಾಂತಮವ್ಯಕ್ತಹೃದಯೇಕ್ಷಣಮ್॥೨॥
ಯಾಹಿ ಶೀಘ್ರಂ ಯತೋ ದ್ರೋಣೋ ಮಮಾಽಽಚಾರ್ಯೋ ರಣೇ ಸ್ಥಿತಃ।
ತಥಾ ಸಂಕ್ರೀಡಮಾನಸ್ಯ ಅರ್ಜುನಸ್ಯ ರಣಾಜಿರೇ॥೩॥
ತಥಾ ಸಂಕ್ರೀಡಮಾನಸ್ಯ ಅರ್ಜುನಸ್ಯ ರಣಾಜಿರೇ॥೩॥
ಬಲಂ ಸತ್ತ್ವಂ ಚ ತೇಜಶ್ಚ ಲಾಘವಂ ಚ ವ್ಯವರ್ಧತ।
ತಚ್ಚಾದ್ಭುತಮಭಿಪ್ರೇಕ್ಷ್ಯ ಭಯಮುತ್ತರಮಾವಿಶತ್॥೪॥
ತಚ್ಚಾದ್ಭುತಮಭಿಪ್ರೇಕ್ಷ್ಯ ಭಯಮುತ್ತರಮಾವಿಶತ್॥೪॥
ಉತ್ತರ ಉವಾಚ
ಅಸ್ತ್ರಾಣಾಂ ತವ ದಿವ್ಯಾನಾಂ ಶರೌಘಾನ್ ಕ್ಷಿಪತಃ ಶಿತಾನ್।
ಮನೋ ಮೇ ಮುಹ್ಯತೇಽತ್ಯರ್ಥಂ ತವ ದೃಷ್ಟ್ವಾ ಪರಾಕ್ರಮಮ್॥೫॥
ಮನೋ ಮೇ ಮುಹ್ಯತೇಽತ್ಯರ್ಥಂ ತವ ದೃಷ್ಟ್ವಾ ಪರಾಕ್ರಮಮ್॥೫॥
ದ್ವೈಧೀಭೂತಂ ಮನೋ ಮಹ್ಯಂ ಭಯಾದ್ ಭರತಸತ್ತಮ।
ಅದೃಷ್ಟಪೂರ್ವಂ ಪಶ್ಯಾಮಿ ತವ ಗಾಂಡೀವನಿಸ್ವನಮ್॥೬॥
ಅದೃಷ್ಟಪೂರ್ವಂ ಪಶ್ಯಾಮಿ ತವ ಗಾಂಡೀವನಿಸ್ವನಮ್॥೬॥
ತವ ಬಾಹುಬಲಂ ಚೈವ ಧನುಃ ಕರ್ಷಯತೋ ಬಹು।
ತವ ತೇಜೋ ದುರಾಧರ್ಷಂ ಯಥಾ ವಿಷ್ಣೋಸ್ತ್ರಿವಿಕ್ರಮೇ॥೭॥
ತವ ತೇಜೋ ದುರಾಧರ್ಷಂ ಯಥಾ ವಿಷ್ಣೋಸ್ತ್ರಿವಿಕ್ರಮೇ॥೭॥
ವೈಶಂಪಾಯನ ಉವಾಚ
ತಮುತ್ತರಶ್ಚಿತ್ರಮವೇಕ್ಷ್ಯ ಗಾಂಡಿವಂ
ಶರಾಂಶ್ಚ ಮುಕ್ತಾನ್ ಸಹಸಾ ಕಿರೀಟಿನಾ।
ಭೀತೋಽಬ್ರವೀದರ್ಜುನಮಾಜಿಮಧ್ಯೇ
ನಾಹಂ ತವಾಶ್ವಾನ್ ವಿಷಹೇ ನಿಯಂತುಮ್॥೮॥
ಶರಾಂಶ್ಚ ಮುಕ್ತಾನ್ ಸಹಸಾ ಕಿರೀಟಿನಾ।
ಭೀತೋಽಬ್ರವೀದರ್ಜುನಮಾಜಿಮಧ್ಯೇ
ನಾಹಂ ತವಾಶ್ವಾನ್ ವಿಷಹೇ ನಿಯಂತುಮ್॥೮॥
ತಮಬ್ರವೀತ್ ಕಿಂಚಿದಿವ ಪ್ರಹಸ್ಯ
ಗಾಂಡೀವಧನ್ವಾ ದ್ವಿಷತಾಂ ನಿಹಂತಾ।
ಮಯಾ ಸಹಾಯೇನ ಕುತೋಽಸ್ತಿ ತೇ ಭಯಂ
ಪ್ರೇಹ್ಯುತ್ತರಾಶ್ವಾನನುಮಂತ್ರ್ಯ ವಾಹಯ॥೯॥
ಗಾಂಡೀವಧನ್ವಾ ದ್ವಿಷತಾಂ ನಿಹಂತಾ।
ಮಯಾ ಸಹಾಯೇನ ಕುತೋಽಸ್ತಿ ತೇ ಭಯಂ
ಪ್ರೇಹ್ಯುತ್ತರಾಶ್ವಾನನುಮಂತ್ರ್ಯ ವಾಹಯ॥೯॥
ವೈಶಂಪಾಯನ ಉವಾಚ
ಆಶ್ವಾಸಿತಸ್ತೇನ ಧನಂಜಯೇನ
ವೈರಾಟಿರಶ್ವಾನ್ ಪ್ರತುತೋದ ಶೀಘ್ರಮ್।
ಧನಂಜಯಶ್ಚಾಪಿ ವಿಕೃಷ್ಯ ಚಾಪಂ
ವಿಷ್ಫಾರಯಾಮಾಸ ಮಹೇಂದ್ರಕಲ್ಪಃ॥೧೦॥
ವೈರಾಟಿರಶ್ವಾನ್ ಪ್ರತುತೋದ ಶೀಘ್ರಮ್।
ಧನಂಜಯಶ್ಚಾಪಿ ವಿಕೃಷ್ಯ ಚಾಪಂ
ವಿಷ್ಫಾರಯಾಮಾಸ ಮಹೇಂದ್ರಕಲ್ಪಃ॥೧೦॥
ಉತ್ತರಂ ಚೈವ ಬೀಭತ್ಸುರಬ್ರವೀತ್ ಪುನರರ್ಜುನಃ।
ನ ಭೇತವ್ಯಂ ಮಯಾ ಸಾರ್ಧಂ ತಾತ ಸಂಗ್ರಾಮಮೂರ್ಧನಿ॥೧೧॥
ನ ಭೇತವ್ಯಂ ಮಯಾ ಸಾರ್ಧಂ ತಾತ ಸಂಗ್ರಾಮಮೂರ್ಧನಿ॥೧೧॥
ರಾಜಪುತ್ರೋಽಸಿ ತೇ ಭದ್ರಂ ಕುಲೇ ಮಹತಿ ಮಾತ್ಸ್ಯಕೇ।
ಜಾತಸ್ತ್ವಂ ಕ್ಷತ್ರಿಯಕುಲೇ ನ ವಿಷೀದಿತುಮರ್ಹಸಿ॥೧೨॥
ಜಾತಸ್ತ್ವಂ ಕ್ಷತ್ರಿಯಕುಲೇ ನ ವಿಷೀದಿತುಮರ್ಹಸಿ॥೧೨॥
ಧೃತಿಂ ಕೃತ್ವಾ ಸುವಿಪುಲಾಂ ರಾಜಪುತ್ರ ರಥಂ ಮಮ।
ಯುಧ್ಯಮಾನಸ್ಯ ಸಂಗ್ರಾಮೇ ರಾಜಭಿಃ ಸಹ ವಾಹಯ॥೧೩॥
ಯುಧ್ಯಮಾನಸ್ಯ ಸಂಗ್ರಾಮೇ ರಾಜಭಿಃ ಸಹ ವಾಹಯ॥೧೩॥
ಉಕ್ತ್ವಾ ತಮೇವಂ ಬೀಭತ್ಸುರರ್ಜುನಃ ಪುನರಬ್ರವೀತ್।
ಪಾಂಡವೋ ರಥಿನಾಂ ಶ್ರೇಷ್ಠೋ ಭಾರದ್ವಾಜಂ ಸಮೀಕ್ಷ್ಯ ತು॥೧೪॥
ಪಾಂಡವೋ ರಥಿನಾಂ ಶ್ರೇಷ್ಠೋ ಭಾರದ್ವಾಜಂ ಸಮೀಕ್ಷ್ಯ ತು॥೧೪॥
ಯತ್ರೈಷಾ ಕಾಂಚನೀ ವೇದಿರ್ದೃಶ್ಯತೇಽಗ್ನಿಶಿಖೋಪಮಾ।
ಉಚ್ಛ್ರಿತಾ ಕಾಂಚನೇ ದಂಡೇ ಪತಾಕಾಭಿರಲಂಕೃತಾ॥೧೫॥
ಉಚ್ಛ್ರಿತಾ ಕಾಂಚನೇ ದಂಡೇ ಪತಾಕಾಭಿರಲಂಕೃತಾ॥೧೫॥
ತತ್ರ ಮಾಂ ವಹ ಭದ್ರಂ ತೇ ದ್ರೋಣಂ ಯೋತ್ಸ್ಯಾಮಿ ಸತ್ತಮಮ್।
ಭಾರದ್ವಾಜೇನ ಯೋತ್ಸ್ಯೇಽಹಮಾಚಾರ್ಯೇಣ ಮಹಾತ್ಮನಾ॥೧೬॥
ಭಾರದ್ವಾಜೇನ ಯೋತ್ಸ್ಯೇಽಹಮಾಚಾರ್ಯೇಣ ಮಹಾತ್ಮನಾ॥೧೬॥
ಅಮೀ ಶೋಣಾಃ ಪ್ರಕಾಶಂತೇ ತುರಗಾಃ ಸಾಧುವಾಹಿನಃ।
ಮುಕ್ತಾ ರಥವರೇ ತಸ್ಯ ಸರ್ವಶಿಕ್ಷಾವಿಶಾರದಾಃ॥೧೭॥
ಮುಕ್ತಾ ರಥವರೇ ತಸ್ಯ ಸರ್ವಶಿಕ್ಷಾವಿಶಾರದಾಃ॥೧೭॥
ಯತೋ ರಥವರೇ ಶೂರಃ ಸರ್ವಶಸ್ತ್ರಭೃತಾಂ ವರಃ।
ಸ್ನಿಗ್ಧವೈಡೂರ್ಯಸಂಕಾಶಸ್ತಾಮ್ರಾಕ್ಷಃ ಪ್ರಿಯದರ್ಶನಃ॥೧೮॥
ಸ್ನಿಗ್ಧವೈಡೂರ್ಯಸಂಕಾಶಸ್ತಾಮ್ರಾಕ್ಷಃ ಪ್ರಿಯದರ್ಶನಃ॥೧೮॥
ಆದಿತ್ಯ ಇವ ತೇಜಸ್ವೀ ಬಲವೀರ್ಯಸಮನ್ವಿತಃ।
ಸರ್ವಲೋಕಧನುಃಶ್ರೇಷ್ಠಃ ಸರ್ವಲೋಕೇಷು ಪೂಜಿತಃ।
ಅಂಗಿರೋಶನಸೋಽಸ್ತುಲ್ಯೋ ನಯೇ ಬುದ್ಧಿಮತಾಂ ವರಃ॥೧೯॥
ಸರ್ವಲೋಕಧನುಃಶ್ರೇಷ್ಠಃ ಸರ್ವಲೋಕೇಷು ಪೂಜಿತಃ।
ಅಂಗಿರೋಶನಸೋಽಸ್ತುಲ್ಯೋ ನಯೇ ಬುದ್ಧಿಮತಾಂ ವರಃ॥೧೯॥
ಚತ್ವಾರೋ ನಿಖಿಲಾ ವೇದಾಃ ಸಾಂಗೋಪಾಂಗಾಃ ಸಲಕ್ಷಣಾಃ।
ಧನುರ್ವೇದಶ್ಚ ಕಾರ್ತ್ಸ್ನ್ಯೇನ ಬ್ರಾಹ್ಮಂ ಚಾಸ್ತ್ರಂ ಪ್ರತಿಷ್ಠಿತಮ್॥೨೦॥
ಧನುರ್ವೇದಶ್ಚ ಕಾರ್ತ್ಸ್ನ್ಯೇನ ಬ್ರಾಹ್ಮಂ ಚಾಸ್ತ್ರಂ ಪ್ರತಿಷ್ಠಿತಮ್॥೨೦॥
ಪುರಾಣಮಿತಿಹಾಸಶ್ಚ ಅರ್ಥವಿದ್ಯಾ ಚ ಮಾನವಮ್।
ಭಾರದ್ವಾಜೇ ಸಮಸ್ತಾನಿ ಸರ್ವಾಣ್ಯೇತಾನಿ ಸಾಂಪ್ರತಮ್॥೨೧॥
ಭಾರದ್ವಾಜೇ ಸಮಸ್ತಾನಿ ಸರ್ವಾಣ್ಯೇತಾನಿ ಸಾಂಪ್ರತಮ್॥೨೧॥
ಕ್ಷಮಾ ದಮಶ್ಚ ಸತ್ಯಂ ಚ ತೇಜೋ ಮಾರ್ದವಮಾರ್ಜವಮ್।
ಪ್ರತಿಷ್ಠಿತಾ ಗುಣಾ ಯಸ್ಮಿನ್ ಬಹವೋ ದ್ವಿಜಸತ್ತಮೇ॥೨೨॥
ಪ್ರತಿಷ್ಠಿತಾ ಗುಣಾ ಯಸ್ಮಿನ್ ಬಹವೋ ದ್ವಿಜಸತ್ತಮೇ॥೨೨॥
ಯಸ್ಯಾಹಮಿಷ್ಟಃ ಸತತಂ ಮಮ ಚೇಷ್ಟಃ ಸದಾ ಚ ಸಃ।
ಕ್ಷತ್ರಧರ್ಮಂ ಪುರಸ್ಕೃತ್ಯ ತೇನ ಯೋತ್ಸ್ಯೇ ಹಿ ಸಾಂಪ್ರತಮ್॥೨೩॥
ಕ್ಷತ್ರಧರ್ಮಂ ಪುರಸ್ಕೃತ್ಯ ತೇನ ಯೋತ್ಸ್ಯೇ ಹಿ ಸಾಂಪ್ರತಮ್॥೨೩॥
ಆಚಾರ್ಯಂ ಪ್ರಾಪಯೇದಾನೀಂ ಮಮೋತ್ತರ ಮಹಾರಥಮ್।
ಅಪರಂ ಪಶ್ಯ ಸಂಗ್ರಾಮಮದ್ಭುತಂ ಮಮ ತಸ್ಯ ಚ॥೨೪॥
ಅಪರಂ ಪಶ್ಯ ಸಂಗ್ರಾಮಮದ್ಭುತಂ ಮಮ ತಸ್ಯ ಚ॥೨೪॥
ಉತ್ತರಸ್ತ್ವೇವಮುಕ್ತೋಽಶ್ವಾಂಶ್ಚೋದಯಾಮಾಸ ತಂ ಪ್ರತಿ।
ಆಜಗಾಮಾರ್ಜುನರಥೋ ಭಾರದ್ವಾಜರಥಂ ಪ್ರತಿ॥೨೫॥
ಆಜಗಾಮಾರ್ಜುನರಥೋ ಭಾರದ್ವಾಜರಥಂ ಪ್ರತಿ॥೨೫॥
ತಮಾಪತಂತಂ ವೇಗೇನ ಪಾಂಡವಂ ಸರಥಂ ರಣೇ।
ದ್ರೋಣೋಽಪ್ಯಭ್ಯದ್ರವತ್ ಪಾರ್ಥಂ ಮತೋ ಮತ್ತಮಿವ ದ್ವಿಪಮ್॥೨೬॥
ದ್ರೋಣೋಽಪ್ಯಭ್ಯದ್ರವತ್ ಪಾರ್ಥಂ ಮತೋ ಮತ್ತಮಿವ ದ್ವಿಪಮ್॥೨೬॥
ಸ ತು ರುಕ್ಮರಥಂ ದೃಷ್ಟ್ವಾ ಕೌಂತೇಯಃ ಸಮಭಿದ್ರುತಮ್।
ಆಚಾರ್ಯಂ ತಂ ಮಹಾಬಾಹುಃ ಪ್ರಾಂಜಲಿರ್ವಾಕ್ಯಮಬ್ರವೀತ್॥೨೭॥
ಆಚಾರ್ಯಂ ತಂ ಮಹಾಬಾಹುಃ ಪ್ರಾಂಜಲಿರ್ವಾಕ್ಯಮಬ್ರವೀತ್॥೨೭॥
ಉಷಿತಾಃ ಸ್ಮೋ ವನೇ ವಾಸಂ ಪ್ರತಿಕರ್ಮಚಿಕೀರ್ಷವಃ।
ಕೋಪಂ ನಾರ್ಹಸಿ ನಃ ಕರ್ತುಂ ಸದಾ ಸಮರದುರ್ಜಯ॥೨೮॥
ಕೋಪಂ ನಾರ್ಹಸಿ ನಃ ಕರ್ತುಂ ಸದಾ ಸಮರದುರ್ಜಯ॥೨೮॥
ಅಹಂ ತು ತಾಡಿತಃ ಪೂರ್ವಂ ಪ್ರಹರೇಯಂ ತವಾನಘ।
ಇತಿ ಮೇ ವರ್ತತೇ ಬುದ್ಧಿಸ್ತದ್ ಭವಾನ್ ಕ್ಷಂತುಮರ್ಹತಿ॥೨೯॥
ಇತಿ ಮೇ ವರ್ತತೇ ಬುದ್ಧಿಸ್ತದ್ ಭವಾನ್ ಕ್ಷಂತುಮರ್ಹತಿ॥೨೯॥
ತತಃ ಪ್ರಾಧ್ಮಾಪಯಚ್ಛಂಖಂ ಭೇರೀಪಟಹವಾದಿತಮ್।
ವ್ಯಕ್ಷೋಭತ ಬಲಂ ಸರ್ವಮುದ್ಧೂತಮಿವ ಸಾಗರಮ್॥೩೦॥
ವ್ಯಕ್ಷೋಭತ ಬಲಂ ಸರ್ವಮುದ್ಧೂತಮಿವ ಸಾಗರಮ್॥೩೦॥
ವೈಶಂಪಾಯನ ಉವಾಚ
ತತಸ್ತು ಪ್ರಾಹಿಣೋದ್ ದ್ರೋಣಃ ಶರಾನಥ ಸ ವಿಂಶತಿಮ್।
ಅಪ್ರಾಪ್ತಾನೇವ ತಾನ್ ಪಾರ್ಥಶ್ಚಿಚ್ಛೇದ ಕೃತಹಸ್ತವಾನ್॥೩೧॥
ಅಪ್ರಾಪ್ತಾನೇವ ತಾನ್ ಪಾರ್ಥಶ್ಚಿಚ್ಛೇದ ಕೃತಹಸ್ತವಾನ್॥೩೧॥
ತತಃ ಶರಸಹಸ್ರೇಣ ರಥಂ ಪಾರ್ಥಸ್ಯ ವೀರ್ಯವಾನ್।
ಅವಾಕಿರತ್ ತತೋ ದ್ರೋಣಃ ಶೀಘ್ರಹಸ್ತಂ ಪ್ರದರ್ಶಯನ್॥೩೨॥
ಅವಾಕಿರತ್ ತತೋ ದ್ರೋಣಃ ಶೀಘ್ರಹಸ್ತಂ ಪ್ರದರ್ಶಯನ್॥೩೨॥
ಏವಂ ಪ್ರವವೃತೇ ಯುದ್ಧಂ ಭಾರದ್ವಾಜಕಿರೀಟಿನೋಃ॥೩೩॥
ಅಶ್ವಾಂಛೋಣಾನ್ ಮಹಾವೇಗಾನ್ ಹಂಸವರ್ಣೈಸ್ತು ವಾಜಿಭಿಃ।
ಮಿಶ್ರಿತಾನ್ ಸಮರೇ ದೃಷ್ಟ್ವಾ ವ್ಯಸ್ಮಯಂತ ಪೃಥಗ್ಜನಾಃ॥೩೪॥
ಮಿಶ್ರಿತಾನ್ ಸಮರೇ ದೃಷ್ಟ್ವಾ ವ್ಯಸ್ಮಯಂತ ಪೃಥಗ್ಜನಾಃ॥೩೪॥
ರಥಂ ರಥೇನ ಪಾರ್ಥಸ್ಯ ಸಮಾಹತ್ಯ ಪರಂತಪಃ।
ಹರ್ಷಯುಕ್ತಸ್ತದಾಽಽಚಾರ್ಯಃ ಪ್ರತ್ಯಗೃಹ್ಣಾತ್ ಸ ಪಾಂಡವಮ್॥೩೫॥
ಹರ್ಷಯುಕ್ತಸ್ತದಾಽಽಚಾರ್ಯಃ ಪ್ರತ್ಯಗೃಹ್ಣಾತ್ ಸ ಪಾಂಡವಮ್॥೩೫॥
ಸಮಾಶ್ಲಿಷ್ಟಾವಿವಾನ್ಯೋನ್ಯಂ ದ್ರೋಣಪಾಂಡವಯೋರ್ಧ್ವಜೌ।
ದೃಷ್ಟ್ವಾ ಪ್ರಾಕಂಪತ ಮುಹುರ್ಭಾರತಾನಾಂ ಮಹಾಚಮೂಃ॥೩೬॥
ದೃಷ್ಟ್ವಾ ಪ್ರಾಕಂಪತ ಮುಹುರ್ಭಾರತಾನಾಂ ಮಹಾಚಮೂಃ॥೩೬॥
ತತ್ ತು ಯುದ್ಧಂ ಪ್ರವವೃತೇ ಹ್ಯಾಚಾರ್ಯಸ್ಯಾರ್ಜುನಸ್ಯ ಚ।
ವಿಮುಂಚತೋಃ ಶರಾನುಗ್ರಾನ್ ವಿಶಿಖಾನ್ ದೀಪ್ತತೇಜಸಃ॥೩೭॥
ವಿಮುಂಚತೋಃ ಶರಾನುಗ್ರಾನ್ ವಿಶಿಖಾನ್ ದೀಪ್ತತೇಜಸಃ॥೩೭॥
ತೌ ವೀರೌ ವೀರ್ಯಸಂಪನ್ನೌ ದೃಷ್ಟ್ವಾ ಸಮರಮೂರ್ಧನಿ।
ಆಚಾರ್ಯಶಿಷ್ಯೌ ರಥಿನೌ ಕೃತವೀರ್ಯೌ ತರಸ್ವಿನೌ॥೩೮॥
ಆಚಾರ್ಯಶಿಷ್ಯೌ ರಥಿನೌ ಕೃತವೀರ್ಯೌ ತರಸ್ವಿನೌ॥೩೮॥
ಉಭೌ ವಿಶ್ರುತಕರ್ಮಾಣಾವುಭೌ ಶ್ರಮಗತೌ ಜಯೇ।
ಉಭಾವತಿರಥೌ ಲೋಕೇ ಹ್ಯುಭೌ ಪರಪುರಂಜಯೌ।
ಕ್ಷಿಪಂತೌ ಶರಜಾಲಾನಿ ಕ್ಷತ್ರಿಯಾನ್ ಮೋಹ ಆವಿಶತ್॥೩೯॥
ಉಭಾವತಿರಥೌ ಲೋಕೇ ಹ್ಯುಭೌ ಪರಪುರಂಜಯೌ।
ಕ್ಷಿಪಂತೌ ಶರಜಾಲಾನಿ ಕ್ಷತ್ರಿಯಾನ್ ಮೋಹ ಆವಿಶತ್॥೩೯॥
ವ್ಯಸ್ಮಯಂತ ನರಾಃ ಸರ್ವೇ ದ್ರೋಣಾರ್ಜುನಸಮಾಗಮೇ।
ನರಾಣಾಂ ಬ್ರುವತಾಂ ವಾಕ್ಯಂ ಶ್ರೂಯತೇ ಸ ಮಹಾಸ್ವನಃ॥೪೦॥
ನರಾಣಾಂ ಬ್ರುವತಾಂ ವಾಕ್ಯಂ ಶ್ರೂಯತೇ ಸ ಮಹಾಸ್ವನಃ॥೪೦॥
ದ್ರೋಣಂ ಹಿ ಸಮರೇ ಕೋಽನ್ಯೋ ಯೋದ್ಧುಮರ್ಹತ್ಯಥಾರ್ಜುನಾತ್।
ರೌದ್ರಃ ಕ್ಷತ್ರಿಯಧರ್ಮೋಽಯಂ ಗುರಂ ವೈ ಯದಯೋಧಯತ್॥೪೧॥
ರೌದ್ರಃ ಕ್ಷತ್ರಿಯಧರ್ಮೋಽಯಂ ಗುರಂ ವೈ ಯದಯೋಧಯತ್॥೪೧॥
ಇತ್ಯಬ್ರುವಂಜನಾಸ್ತತ್ರ ಸಂಗ್ರಾಮಶಿರಸಿ ಸ್ಥಿತಾಃ।
ತೌ ಸಮೀಕ್ಷ್ಯ ತು ಸಂರಬ್ಧೌ ಸನ್ನಿಕೃಷ್ಟೌ ಮಹಾರಥೌ॥೪೨॥
ತೌ ಸಮೀಕ್ಷ್ಯ ತು ಸಂರಬ್ಧೌ ಸನ್ನಿಕೃಷ್ಟೌ ಮಹಾರಥೌ॥೪೨॥
ಛಾದಯೇತಾಂ ಶರೌಘೈಸ್ತಾವನ್ಯೋನ್ಯಮಪರಾಜಿತೌ।
ಸಂಯುಗೇ ಸಂಚಕಾಶೇತಾಂ ಕಾಲಸೂರ್ಯಾವಿವೋದಿತೌ॥೪೩॥
ಸಂಯುಗೇ ಸಂಚಕಾಶೇತಾಂ ಕಾಲಸೂರ್ಯಾವಿವೋದಿತೌ॥೪೩॥
ವಿಷ್ಫಾರ್ಯ ಚ ಮಹಾಚಾಪಂ ಹೇಮಪೃಷ್ಠಂ ದುರಾಸದಮ್।
ಸಂರಬ್ಧಸ್ತು ತದಾ ದ್ರೋಣಃ ಪ್ರತ್ಯಯುಧ್ಯತ ಫಲ್ಗುನಮ್॥೪೪॥
ಸಂರಬ್ಧಸ್ತು ತದಾ ದ್ರೋಣಃ ಪ್ರತ್ಯಯುಧ್ಯತ ಫಲ್ಗುನಮ್॥೪೪॥
ಸ ಸಾಯಕಮಯೈರ್ಜಾಲೈರರ್ಜುನಸ್ಯ ರಥಂ ಪ್ರತಿ।
ಭಾನುಮದ್ಭಿಃ ಶಿಲಾಧೌತೈರ್ಬಾಣೈಃ ಪ್ರಾಚ್ಛಾದಯದ್ ದಿಶಃ॥೪೫॥
ಭಾನುಮದ್ಭಿಃ ಶಿಲಾಧೌತೈರ್ಬಾಣೈಃ ಪ್ರಾಚ್ಛಾದಯದ್ ದಿಶಃ॥೪೫॥
ಅರ್ಜುನಸ್ತು ತದಾ ದ್ರೋಣಂ ಮಹಾವೇಗೈರ್ಮಹಾರಥಃ।
ವಿವ್ಯಾಧ ಶತಶೋ ಬಾಣೈರ್ಧಾರಾಭಿರಿವ ಪರ್ವತಮ್॥೪೬॥
ವಿವ್ಯಾಧ ಶತಶೋ ಬಾಣೈರ್ಧಾರಾಭಿರಿವ ಪರ್ವತಮ್॥೪೬॥
ಕಾಲಮೇಘ ಇವೋಷ್ಣಾಂತೇ ಫಲ್ಗುನಃ ಸಮವಾಕಿರತ್॥೪೭॥
ತಸ್ಯ ಜಾಂಬೂನದಮಯೈಶ್ಚಿತ್ರೈಶ್ಚಾಪಚ್ಯುತೈಃ ಶರೈಃ।
ಪ್ರಾಚ್ಛಾದಯದ್ ರಥಶ್ರೇಷ್ಠಂ ಭಾರದ್ವಾಜೋಽರ್ಜುನಸ್ಯ ವೈ॥೪೮॥
ಪ್ರಾಚ್ಛಾದಯದ್ ರಥಶ್ರೇಷ್ಠಂ ಭಾರದ್ವಾಜೋಽರ್ಜುನಸ್ಯ ವೈ॥೪೮॥
ತಥೈವ ದಿವ್ಯಂ ಗಾಂಡೀವಂ ಧನುರಾನಮ್ಯ ಚಾರ್ಜುನಃ।
ಶತ್ರುಘ್ನಂ ವೇಗವತ್ಸೃಷ್ಟಂ ಭಾರಸಾಧನಮುತ್ತಮಮ್॥೪೯॥
ಶತ್ರುಘ್ನಂ ವೇಗವತ್ಸೃಷ್ಟಂ ಭಾರಸಾಧನಮುತ್ತಮಮ್॥೪೯॥
ಶೋಭತೇ ಸ್ಮ ಮಹಾಬಾಹುರ್ಗಾಂಡೀವಂ ವಿಕ್ಷಿಪನ್ ಧನುಃ।
ಶರಾಂಶ್ಚ ವಿಸೃಜಂಶ್ಚಿತ್ರಾನ್ ಸುವರ್ಣವಿಕೃತಾನ್ ಬಹೂನ್॥೫೦॥
ಶರಾಂಶ್ಚ ವಿಸೃಜಂಶ್ಚಿತ್ರಾನ್ ಸುವರ್ಣವಿಕೃತಾನ್ ಬಹೂನ್॥೫೦॥
ಪ್ರಾಚ್ಛಾದಯದಮೇಯಾತ್ಮಾ ಭಾರದ್ವಾಜರಥಂ ಪ್ರತಿ।
ದ್ರೋಣಚಾಪವಿನಿರ್ಮುಕ್ತಾನ್ ಬಾಣಾನ್ ಬಾಣೈರವಾರಯತ್॥೫೧॥
ದ್ರೋಣಚಾಪವಿನಿರ್ಮುಕ್ತಾನ್ ಬಾಣಾನ್ ಬಾಣೈರವಾರಯತ್॥೫೧॥
ಸರಥೋಽಪ್ಯಚರತ್ ಪಾರ್ಥಃ ಪ್ರೇಕ್ಷಣೀಯೋ ಮಹಾರಥಃ।
ಯುಗಪದ್ ದಿಕ್ಷು ಸರ್ವಾಸು ಸರ್ವತೋಽಸ್ತ್ರಾಣ್ಯವಾಸೃಜಮ್॥೫೨॥
ಯುಗಪದ್ ದಿಕ್ಷು ಸರ್ವಾಸು ಸರ್ವತೋಽಸ್ತ್ರಾಣ್ಯವಾಸೃಜಮ್॥೫೨॥
ಆದದಾನಂ ಶರಾನ್ ಘೋರಾನ್ ಸಂದಧಾನಂ ಚ ಪಾಂಡವಮ್।
ವಿಸೃಜಂತಂ ಚ ಕೌಂತೇಯಂ ನ ಸ್ಮ ಪಶ್ಯಂತಿ ಲಾಘವಾತ್॥೫೩॥
ವಿಸೃಜಂತಂ ಚ ಕೌಂತೇಯಂ ನ ಸ್ಮ ಪಶ್ಯಂತಿ ಲಾಘವಾತ್॥೫೩॥
ಏಕಚ್ಛಾಯಮಿವಾಕಾಶಂ ಬಾಣೈಶ್ಚಕ್ರೇ ಸಮಂತತಃ।
ನಾದೃಶ್ಯತ ತತೋ ದ್ರೋಣೋ ನೀಹಾರೇಣೇವ ಪರ್ವತಃ॥೫೪॥
ನಾದೃಶ್ಯತ ತತೋ ದ್ರೋಣೋ ನೀಹಾರೇಣೇವ ಪರ್ವತಃ॥೫೪॥
ಮರೀಚಿವಿಕಚಸ್ಯೇವ ರಾಜನ್ ಭಾನುಮತೋ ವಪುಃ।
ಆಸೀತ್ ಪಾರ್ಥಸ್ಯ ಸುಮಹದ್ವಪುಃ ಶರಶತಾರ್ಚಿತಮ್॥೫೫॥
ಆಸೀತ್ ಪಾರ್ಥಸ್ಯ ಸುಮಹದ್ವಪುಃ ಶರಶತಾರ್ಚಿತಮ್॥೫೫॥
ಕ್ಷಿಪತಃ ಶರಜಾಲಾನಿ ಕೌಂತೇಯಸ್ಯ ಮಹಾತ್ಮನಃ।
ತಾನ್ ವಿಧೂಯ ಶರಾನ್ ಘೋರಾನ್ ದ್ರೋಣೋಽಪಿ ಸಮಿತಿಂಜಯಃ।
ಬಭಾಸೇ ತಿಮಿರಂ ವ್ಯೋಮ್ನಿ ವಿಧೂಯ ಸವಿತಾ ಯಥಾ॥೫೬॥
ತಾನ್ ವಿಧೂಯ ಶರಾನ್ ಘೋರಾನ್ ದ್ರೋಣೋಽಪಿ ಸಮಿತಿಂಜಯಃ।
ಬಭಾಸೇ ತಿಮಿರಂ ವ್ಯೋಮ್ನಿ ವಿಧೂಯ ಸವಿತಾ ಯಥಾ॥೫೬॥
ಅಗ್ನಿಚಕ್ರೋಪಮಂ ಘೋರಂ ಮಂಡಲೀಕೃತಮಾಹವೇ।
ವಿಕೃಷ್ಯ ಸುಮಹಚ್ಚಾಪಂ ಮೇಘಸ್ತನಿತನಿಸ್ವನಮ್।
ಅಸಕೃನ್ಮುಂಚತೋ ಬಾಣಾನ್ ದದೃಶುಃ ಕುರವೋ ಯುಧಿ॥೫೭॥
ವಿಕೃಷ್ಯ ಸುಮಹಚ್ಚಾಪಂ ಮೇಘಸ್ತನಿತನಿಸ್ವನಮ್।
ಅಸಕೃನ್ಮುಂಚತೋ ಬಾಣಾನ್ ದದೃಶುಃ ಕುರವೋ ಯುಧಿ॥೫೭॥
ದಿಕ್ಷು ಸರ್ವಾಸು ವಿಪುಲಃ ಶುಶ್ರುವೇಽಥ ಜನೈಸ್ತದಾ।
ದ್ರೋಣಸ್ಯಾಪಿ ಧನುರ್ಘೋಷೋ ವಿದ್ಯುತ್ಸ್ತನಿತನಿಸ್ವನಃ।
ಅಭವದ್ ವಿಸ್ಮಯಕರಃ ಸೈನ್ಯಾನಾಂ ಭರತರ್ಷಭ॥೫೮॥
ದ್ರೋಣಸ್ಯಾಪಿ ಧನುರ್ಘೋಷೋ ವಿದ್ಯುತ್ಸ್ತನಿತನಿಸ್ವನಃ।
ಅಭವದ್ ವಿಸ್ಮಯಕರಃ ಸೈನ್ಯಾನಾಂ ಭರತರ್ಷಭ॥೫೮॥
ತಪ್ತಜಾಂಬೂನದಮಯೈರ್ದೀಪ್ತೈರಗ್ನಿಸಮೈಃ ಶರೈಃ।
ಪ್ರಾಚ್ಛಾದಯದಮೇಯಾತ್ಮಾ ದಿಶಃ ಸೂರ್ಯಸ್ಯ ಚ ಪ್ರಭಾಮ್॥೫೯॥
ಪ್ರಾಚ್ಛಾದಯದಮೇಯಾತ್ಮಾ ದಿಶಃ ಸೂರ್ಯಸ್ಯ ಚ ಪ್ರಭಾಮ್॥೫೯॥
ತತಃ ಕಾಂಚನಪುಂಖಾನಾಂ ಶರಾಣಾಂ ನತಪರ್ವಣಾಮ್।
ವಿಯದ್ಗತಾನಾಂ ಚರತಾಂ ದೃಶ್ಯಂತೇ ಬಹವೋ ವ್ರಜಾಃ॥೬೦॥
ವಿಯದ್ಗತಾನಾಂ ಚರತಾಂ ದೃಶ್ಯಂತೇ ಬಹವೋ ವ್ರಜಾಃ॥೬೦॥
ಶರಾಸನಾತ್ ತು ದ್ರೋಣಸ್ಯ ಪ್ರಭವಂತಿ ಸ್ಮ ಸಾಯಕಾಃ।
ಏಕೋ ದೀರ್ಘ ಇವಾಭಾಂತಃ ಪ್ರದೃಶ್ಯಂತೇ ಮಹಾಶರಾಃ।
ಆಕಾಶೇ ಸಮದೃಶ್ಯಂತ ಹಂಸಾನಾಮಿವ ಪಂಕ್ತಯಃ॥೬೧॥
ಏಕೋ ದೀರ್ಘ ಇವಾಭಾಂತಃ ಪ್ರದೃಶ್ಯಂತೇ ಮಹಾಶರಾಃ।
ಆಕಾಶೇ ಸಮದೃಶ್ಯಂತ ಹಂಸಾನಾಮಿವ ಪಂಕ್ತಯಃ॥೬೧॥
ಏವಂ ಸುವರ್ಣವಿಕೃತಾನ್ ವಿಮುಂಚಂತೌ ಶರಾನ್ ಬಹೂನ್।
ಆಕಾಶಂ ಸಂವೃತಂ ವೀರಾವುಲ್ಕಾಭಿರಿವ ಚಕ್ರತುಃ॥೬೨॥
ಆಕಾಶಂ ಸಂವೃತಂ ವೀರಾವುಲ್ಕಾಭಿರಿವ ಚಕ್ರತುಃ॥೬೨॥
ತಯೋಃ ಶರಾಶ್ಚ ವಿಬಭುಃ ಕಂಕಬರ್ಹಿಣವಾಸಸಃ।
ಪಂಕ್ತ್ಯಃ ಶರದಿ ಮತ್ತಾನಾಂ ಸಾರಸಾನಾಮಿವಾಂಬರೇ॥೬೩॥
ಪಂಕ್ತ್ಯಃ ಶರದಿ ಮತ್ತಾನಾಂ ಸಾರಸಾನಾಮಿವಾಂಬರೇ॥೬೩॥
ತತ್ ತು ಯುದ್ಧಂ ಮಹಾಘೋರಂ ತಯೋಃ ಸಂರಬ್ಧಯೋರಭೂತ್।
ಅತ್ಯದ್ಭುತಮಚಿಂತ್ಯಂ ಚ ವೃತ್ರವಾಸವಯೋರಿವ॥೬೪॥
ಅತ್ಯದ್ಭುತಮಚಿಂತ್ಯಂ ಚ ವೃತ್ರವಾಸವಯೋರಿವ॥೬೪॥
ಮಹಾಗಜಾವಿವಾಸಾದ್ಯ ವಿಷಾಣಾಗ್ರೈಃ ಪರಸ್ಪರಮ್।
ಶರೈಃ ಪೂರ್ಣಾಯತೋತ್ಸೃಷ್ಟೈರನ್ಯೋನ್ಯಮಭಿಜಘ್ನತುಃ॥೬೫॥
ಶರೈಃ ಪೂರ್ಣಾಯತೋತ್ಸೃಷ್ಟೈರನ್ಯೋನ್ಯಮಭಿಜಘ್ನತುಃ॥೬೫॥
ಅಥ ತ್ವಾಚಾರ್ಯಮುಖ್ಯೇನ ಶರಾನ್ ಸೃಷ್ಟಾಂಛಿಲಾಶಿತಾನ್।
ಅವಾರಯಚ್ಛಿತೈರ್ಬಾಣೈರರ್ಜುನೋ ಜಯತಾಂ ವರಃ॥೬೬॥
ಅವಾರಯಚ್ಛಿತೈರ್ಬಾಣೈರರ್ಜುನೋ ಜಯತಾಂ ವರಃ॥೬೬॥
ದರ್ಶಯನ್ನೈಂದ್ರಮಾತ್ಮಾನಮುಗ್ರಮುಗ್ರುಪರಾಕ್ರಮಃ।
ಇಷುಭಿಸ್ತೂರ್ಣಮಾಕಾಶಂ ಬಹುಭಿಶ್ಚ ಸಮಾವೃಣೋತ್॥೬೭॥
ಇಷುಭಿಸ್ತೂರ್ಣಮಾಕಾಶಂ ಬಹುಭಿಶ್ಚ ಸಮಾವೃಣೋತ್॥೬೭॥
ಜಿಘಾಂಸಂತಂ ನರವ್ಯಾಘ್ರಮರ್ಜುನಂ ಭೀಮದರ್ಶನಮ್।
ವಿವ್ಯಾಧ ನಿಶಿತೈರ್ದ್ರೋಣಃ ಶರೈಃ ಸನ್ನತಪರ್ವಭಿಃ॥೬೮॥
ವಿವ್ಯಾಧ ನಿಶಿತೈರ್ದ್ರೋಣಃ ಶರೈಃ ಸನ್ನತಪರ್ವಭಿಃ॥೬೮॥
ಹೃಷ್ಟಃ ಸಮಭವದ್ ದ್ರೋಣೋ ರಣಶೌಂಡಃ ಪ್ರತಾಪವಾನ್।
ಅರ್ಜುನೇನ ಸಮಂ ಕ್ರೀಡಂಛರೈಃ ಸನ್ನತಪರ್ವಭಿಃ॥೬೯॥
ಅರ್ಜುನೇನ ಸಮಂ ಕ್ರೀಡಂಛರೈಃ ಸನ್ನತಪರ್ವಭಿಃ॥೬೯॥
ತೌ ವ್ಯದಾರಯತಾಂ ಶೂರೌ ಸನ್ನದ್ಧೌ ರಣಶೋಭಿನೌ।
ಉದೀರಯಂತೌ ದಿವ್ಯಾನಿ ಬ್ರಾಹ್ಮಾದ್ಯಸ್ತ್ರಾಣಿ ಭಾಗಶಃ॥೭೦॥
ಉದೀರಯಂತೌ ದಿವ್ಯಾನಿ ಬ್ರಾಹ್ಮಾದ್ಯಸ್ತ್ರಾಣಿ ಭಾಗಶಃ॥೭೦॥
ಪಾರ್ಥಸ್ತು ಸಮರೇ ಶೂರೋ ದರ್ಶಯನ್ ವೀರ್ಯಮಾತ್ಮನಃ।
ಸ ಮಹಾಸ್ತ್ರೈರ್ಮಹಾತ್ಮಾನಂ ದ್ರೋಣಂ ಪ್ರಾಚ್ಛಾದಯಚ್ಛರೈಃ॥೭೧॥
ಸ ಮಹಾಸ್ತ್ರೈರ್ಮಹಾತ್ಮಾನಂ ದ್ರೋಣಂ ಪ್ರಾಚ್ಛಾದಯಚ್ಛರೈಃ॥೭೧॥
ಅಸ್ತ್ರೈರಸ್ತ್ರಾಣಿ ಸಂವಾರ್ಯ ಪಾರ್ಥೋ ದ್ರೋಣಮವಾರಯತ್॥೭೨॥
ತಯೋರಾಸೀತ್ ಸಂಪ್ರಹಾರಃ ಕ್ರುದ್ಧಯೋರ್ನರಸಿಂಹಯೋಃ।
ಅಮೃಷ್ಯಮಾಣಯೋಃ ಸಂಖ್ಯೇ ಬಲಿವಾಸವಯೋರಿವ॥೭೩॥
ಅಮೃಷ್ಯಮಾಣಯೋಃ ಸಂಖ್ಯೇ ಬಲಿವಾಸವಯೋರಿವ॥೭೩॥
ದರ್ಶಯೇತಾಂ ಮಹಾಸ್ತ್ರಾಣಿ ಭಾರದ್ವಾಜಾರ್ಜುನೌ ರಣೇ॥೭೪॥
ಐಂದ್ರಂ ವಾಯವ್ಯಮಾಗ್ನೇಯಮಸ್ತ್ರಮಸ್ತ್ರೇಣ ಪಾಂಡವಃ।
ಮುಕ್ತಂ ಮುಕ್ತಂ ದ್ರೋಣಚಾಪಾದ್ ಗ್ರಸತೇ ಸ್ಮ ಪುನಃ ಪುನಃ॥೭೫॥
ಮುಕ್ತಂ ಮುಕ್ತಂ ದ್ರೋಣಚಾಪಾದ್ ಗ್ರಸತೇ ಸ್ಮ ಪುನಃ ಪುನಃ॥೭೫॥
ಏವಂ ಶೂರೌ ಮಹೇಷ್ವಾಸೌ ವಿಸೃಜಂತೌ ಶಿಲಾಶಿತಾನ್।
ಏಕಚ್ಛಾಯಮಕುರ್ವಾತಾಂ ಗಗನಂ ಶರವೃಷ್ಟಿಭಿಃ॥೭೬॥
ಏಕಚ್ಛಾಯಮಕುರ್ವಾತಾಂ ಗಗನಂ ಶರವೃಷ್ಟಿಭಿಃ॥೭೬॥
ತತೋಽರ್ಜುನೇನ ಮುಕ್ತಾನಾಂ ಪತತಾಂ ಚ ಶರೀರಿಷು।
ಪರ್ವತೇಷ್ವಿವ ವಜ್ರಾಣಾಂ ಶರಾಣಾಂ ಶ್ರೂಯತೇ ಸ್ವನಃ॥೭೭॥
ಪರ್ವತೇಷ್ವಿವ ವಜ್ರಾಣಾಂ ಶರಾಣಾಂ ಶ್ರೂಯತೇ ಸ್ವನಃ॥೭೭॥
ತತೋ ನಾಗಾ ರಥಾಶ್ವಾಶ್ಚ ಸಾದಿನಶ್ಚ ವಿಶಾಂಪತೇ।
ಶೋಣಿತಾಕ್ತಾಶ್ಚ ದೃಶ್ಯಂತೇ ಪುಷ್ಪಿತಾ ಇವ ಕಿಂಶುಕಾಃ॥೭೮॥
ಶೋಣಿತಾಕ್ತಾಶ್ಚ ದೃಶ್ಯಂತೇ ಪುಷ್ಪಿತಾ ಇವ ಕಿಂಶುಕಾಃ॥೭೮॥
ಬಾಹುಭಿಶ್ಚ ಸಕೇಯೂರೈರ್ನಿಕೃತ್ತೈಶ್ಚ ಮಹಾರಥೈಃ।
ಸುವರ್ಣಚಿತ್ರೈಃ ಕವಚೈರ್ಧ್ವಜೈಶ್ಚ ವಿನಿಪಾತಿತೈಃ॥೭೯॥
ಸುವರ್ಣಚಿತ್ರೈಃ ಕವಚೈರ್ಧ್ವಜೈಶ್ಚ ವಿನಿಪಾತಿತೈಃ॥೭೯॥
ಯೋಧೈಶ್ಚ ನಿಹತೈಸ್ತತ್ರ ಪಾರ್ಥಬಾಣಾಭಿಪೀಡಿತೈಃ।
ಬಲಮಾಸೀತ್ ಸುಸಂಭ್ರಾಂತಂ ದ್ರೋಣಾರ್ಜುನಸಮಾಗಮೇ॥೮೦॥
ಬಲಮಾಸೀತ್ ಸುಸಂಭ್ರಾಂತಂ ದ್ರೋಣಾರ್ಜುನಸಮಾಗಮೇ॥೮೦॥
ವಿಧೂನ್ವಾನೌ ತು ತೌ ವೀರೌ ಧನುಷೀ ಭಾರಸಾಧನೇ।
ಪ್ರಾಚ್ಛಾದಯೇತಾಮನ್ಯೋನ್ಯಂ ದಿಧಕ್ಷಂತೌ ವರೇಷುಭಿಃ॥೮೧॥
ಪ್ರಾಚ್ಛಾದಯೇತಾಮನ್ಯೋನ್ಯಂ ದಿಧಕ್ಷಂತೌ ವರೇಷುಭಿಃ॥೮೧॥
ಅಥಾಂತರಿಕ್ಷೇ ನಾದೋಽಭೂದ್ ದ್ರೋಣಂ ತತ್ರ ಪ್ರಶಂಸತಾಮ್।
ದುಷ್ಕರಂ ಕೃತವಾನ್ ದ್ರೋಣೋ ಯದರ್ಜುನಮಯೋಧಯತ್॥೮೨॥
ದುಷ್ಕರಂ ಕೃತವಾನ್ ದ್ರೋಣೋ ಯದರ್ಜುನಮಯೋಧಯತ್॥೮೨॥
ಪ್ರಮಾಥಿನಂ ಮಹಾವೀರ್ಯಂ ದೃಢಮುಷ್ಟಿಂ ದುರಾಸದಮ್।
ಜೇತಾರಂ ಸರ್ವದೈತ್ಯಾನಾಂ ಸರ್ವೇಷಾಂ ಚ ಮಹಾರಥಮ್॥೮೩॥
ಜೇತಾರಂ ಸರ್ವದೈತ್ಯಾನಾಂ ಸರ್ವೇಷಾಂ ಚ ಮಹಾರಥಮ್॥೮೩॥
ಅವಿಭ್ರಮಂ ಚ ಶಿಕ್ಷಾಂ ಚ ಲಾಘವಂ ದೂರಪಾತನಮ್।
ಪಾರ್ಥಸ್ಯ ಸಮರೇ ದೃಷ್ಟ್ವಾ ದ್ರೋಣಸ್ಯಾಸೀಚ್ಚ ವಿಸ್ಮಯಃ॥೮೪॥
ಪಾರ್ಥಸ್ಯ ಸಮರೇ ದೃಷ್ಟ್ವಾ ದ್ರೋಣಸ್ಯಾಸೀಚ್ಚ ವಿಸ್ಮಯಃ॥೮೪॥
ತತ್ ಪ್ರವೃತ್ತಂ ಚಿರಂ ಘೋರಂ ತಯೋರ್ಯುದ್ಧಂ ಮಹಾತ್ಮನೋಃ।
ಅವರ್ತತ ಮಹಾರೌದ್ರಂ ಲೋಕಸಂಕ್ಷೋಭಕಾರಕಮ್॥೮೫॥
ಅವರ್ತತ ಮಹಾರೌದ್ರಂ ಲೋಕಸಂಕ್ಷೋಭಕಾರಕಮ್॥೮೫॥
ಅಥ ಗಾಂಡೀವಮುದ್ಯಮ್ಯ ದಿವ್ಯಂ ಧನುರಮರ್ಷಣಃ।
ವಿಚಕರ್ಷ ರಣೇ ಪಾರ್ಥೋ ಬಾಹುಭ್ಯಾಂ ಭರತರ್ಷಭಃ॥೮೬॥
ವಿಚಕರ್ಷ ರಣೇ ಪಾರ್ಥೋ ಬಾಹುಭ್ಯಾಂ ಭರತರ್ಷಭಃ॥೮೬॥
ತಸ್ಯ ಬಾಣಮಯಂ ವರ್ಷೇ ಶಲಭಾನಾಮಿವಾಭವತ್।
ನ ಚ ಬಾಣಾಂತರೇ ತಸ್ಯ ವಾಯುಃ ಶಕ್ನೋತಿ ಸರ್ಪಿತುಮ್॥೮೭॥
ನ ಚ ಬಾಣಾಂತರೇ ತಸ್ಯ ವಾಯುಃ ಶಕ್ನೋತಿ ಸರ್ಪಿತುಮ್॥೮೭॥
ಅಭೀಕ್ಷ್ಣಂ ಸಂದಧಾನಸ್ಯ ಬಾಣಾನುತ್ಸೃಜತಸ್ತಥಾ।
ನಾಂತರಂ ದದೃಶೇ ಕಿಂಚಿತ್ ಪಾರ್ಥಸ್ಯಾಪತತೋಽಪಿ ಚ॥೮೮॥
ನಾಂತರಂ ದದೃಶೇ ಕಿಂಚಿತ್ ಪಾರ್ಥಸ್ಯಾಪತತೋಽಪಿ ಚ॥೮೮॥
ಯುದ್ಧೇ ತು ಕೃತಶೀಘ್ರಾಸ್ತ್ರೇ ವರ್ತಮಾನೇ ಸುದಾರುಣೇ।
ಶೀಘ್ರಾಚ್ಛೀಘ್ರತರಂ ಪಾರ್ಥಃ ಶರಾನನ್ಯಾನುದೈರಯತ್॥೮೯॥
ಶೀಘ್ರಾಚ್ಛೀಘ್ರತರಂ ಪಾರ್ಥಃ ಶರಾನನ್ಯಾನುದೈರಯತ್॥೮೯॥
ತತಃ ಶರಸಹಸ್ರಾಣಿ ಶರಾಣಾಂ ನತಪರ್ವಣಾಮ್।
ಯುಗಪತ್ ಪ್ರಾಪತಂಸ್ತತ್ರ ದ್ರೋಣಸ್ಯ ರಥಮಂತಿಕಾತ್॥೯೦॥
ಯುಗಪತ್ ಪ್ರಾಪತಂಸ್ತತ್ರ ದ್ರೋಣಸ್ಯ ರಥಮಂತಿಕಾತ್॥೯೦॥
ವಿಕೀರ್ಯಮಾಣೇ ದ್ರೋಣೇ ತು ಶರೈರ್ಗಾಂಡೀವಧನ್ವನಾ।
ಹಾಹಾಕಾರೋ ಮಹಾನಾಸೀತ್ ಸೈನ್ಯಾನಾಂ ಭರತರ್ಷಭ॥೯೧॥
ಹಾಹಾಕಾರೋ ಮಹಾನಾಸೀತ್ ಸೈನ್ಯಾನಾಂ ಭರತರ್ಷಭ॥೯೧॥
ಪಾಂಡವಸ್ಯ ತು ಶೀಘ್ರಾಸ್ತ್ರಂ ಮಘವಾ ಸಮಪೂಜಯತ್।
ಗಂಧರ್ವಾಪ್ಸರಸಶ್ಚೈವ ಯೇ ಚ ತತ್ರ ಸಮಾಗತಾಃ॥೯೨॥
ಗಂಧರ್ವಾಪ್ಸರಸಶ್ಚೈವ ಯೇ ಚ ತತ್ರ ಸಮಾಗತಾಃ॥೯೨॥
ದ್ರೋಣಂ ಯುದ್ಧಾರ್ಣವೇ ಮಗ್ನಂ ದೃಷ್ಟ್ವಾ ಪುತ್ರಃ ಪ್ರತಾಪವಾನ್।
ತತೋ ವೃಂದೇನ ಮಹತಾ ರಥಿನಾಂ ರಥಿಯೂಥಪಃ।
ಆಚಾರ್ಯಪುತ್ರಸ್ತು ಶರೈಃ ಪಾಂಡವಂ ಪ್ರತ್ಯವಾರಯತ್॥೯೩॥
ತತೋ ವೃಂದೇನ ಮಹತಾ ರಥಿನಾಂ ರಥಿಯೂಥಪಃ।
ಆಚಾರ್ಯಪುತ್ರಸ್ತು ಶರೈಃ ಪಾಂಡವಂ ಪ್ರತ್ಯವಾರಯತ್॥೯೩॥
ಅಶ್ವತ್ಥಾಮಾ ತು ತತ್ ಕರ್ಮ ಹೃದಯೇನ ಮಹಾತ್ಮನಃ।
ಪೂಜಯಾಮಾಸ ಪಾರ್ಥಸ್ಯ ಕೋಪಂ ಚಾಸ್ಯ ತದಾಽಕರೋತ್॥೯೪॥
ಪೂಜಯಾಮಾಸ ಪಾರ್ಥಸ್ಯ ಕೋಪಂ ಚಾಸ್ಯ ತದಾಽಕರೋತ್॥೯೪॥
ಸ ಮನ್ಯುವಶಮಾಪನ್ನಃ ಪಾರ್ಥಮಭ್ಯದ್ರವದ್ರಣೇ।
ಕಿರಂಛರಸಹಸ್ರಾಣಿ ಪರ್ಜನ್ಯ ಇವ ವೃಷ್ಟಿಮಾನ್॥೯೫॥
ಕಿರಂಛರಸಹಸ್ರಾಣಿ ಪರ್ಜನ್ಯ ಇವ ವೃಷ್ಟಿಮಾನ್॥೯೫॥
ಆವೃತ್ಯ ಚ ಮಹಾಬಾಹುರ್ಯತೋ ದ್ರೋಣಸ್ತತೋಽಭವತ್।
ಅಂತರಂ ಪ್ರದದೌ ಪಾರ್ಥೋ ದ್ರೋಣಸ್ಯ ವ್ಯಪಸರ್ಪಿತುಮ್॥೯೬॥
ಅಂತರಂ ಪ್ರದದೌ ಪಾರ್ಥೋ ದ್ರೋಣಸ್ಯ ವ್ಯಪಸರ್ಪಿತುಮ್॥೯೬॥
ಸ ತು ಲಬ್ಧಾಂತರಸ್ತೂರ್ಣಮಪಾಯಾಂಜವನೈರ್ಹಯೈಃ।
ಛಿನ್ನವರ್ಮಧ್ವಜರಥೋ ನಿಕೃತ್ತಃ ಪರಮೇಷುಭಿಃ॥೯೭॥
ಛಿನ್ನವರ್ಮಧ್ವಜರಥೋ ನಿಕೃತ್ತಃ ಪರಮೇಷುಭಿಃ॥೯೭॥
ಪರಾಜಿತೇ ತದಾ ದ್ರೋಣೇ ದ್ರೋಣಪುತ್ರಃ ಸಮಾಗತಃ।
ಸದಂಡ ಇವ ರಕ್ತಾಕ್ಷಃ ಕೃತಾಂತಃ ಸಮರೇ ಸ್ಥಿತಃ॥೯೮॥
ಸದಂಡ ಇವ ರಕ್ತಾಕ್ಷಃ ಕೃತಾಂತಃ ಸಮರೇ ಸ್ಥಿತಃ॥೯೮॥
॥ಇತಿ ಶ್ರೀಮನ್ಮಹಾಭಾರತೇ ವಿರಾಟಪರ್ವಣಿ ಗೋಗ್ರಹಣಪರ್ವಣಿ ಏಕೋನಷಷ್ಟಿತಮೋಽಧ್ಯಾಯಃ॥೫೯॥
Ekonaṣaṣṭitamo'dhyāyaḥ||59||
vaiśampāyana uvāca
jitaṃ vaikartanaṃ dṛṣṭvā pārtho vairāṭimabravīt|
sthiro bhava tvaṃ saṅgrāme jayo'smākaṃ nṛpātmajaḥ||1||
sthiro bhava tvaṃ saṅgrāme jayo'smākaṃ nṛpātmajaḥ||1||
yāvacchaṅkhamupādhyāsye dviṣatāṃ romaharṣaṇam|
aviklabamasambhrāntamavyaktahṛdayekṣaṇam||2||
aviklabamasambhrāntamavyaktahṛdayekṣaṇam||2||
yāhi śīghraṃ yato droṇo mamā''cāryo raṇe sthitaḥ|
tathā saṅkrīḍamānasya arjunasya raṇājire||3||
tathā saṅkrīḍamānasya arjunasya raṇājire||3||
balaṃ sattvaṃ ca tejaśca lāghavaṃ ca vyavardhata|
taccādbhutamabhiprekṣya bhayamuttaramāviśat||4||
taccādbhutamabhiprekṣya bhayamuttaramāviśat||4||
uttara uvāca
astrāṇāṃ tava divyānāṃ śaraughān kṣipataḥ śitān|
mano me muhyate'tyarthaṃ tava dṛṣṭvā parākramam||5||
mano me muhyate'tyarthaṃ tava dṛṣṭvā parākramam||5||
dvaidhībhūtaṃ mano mahyaṃ bhayād bharatasattama|
adṛṣṭapūrvaṃ paśyāmi tava gāṇḍīvanisvanam||6||
adṛṣṭapūrvaṃ paśyāmi tava gāṇḍīvanisvanam||6||
tava bāhubalaṃ caiva dhanuḥ karṣayato bahu|
tava tejo durādharṣaṃ yathā viṣṇostrivikrame||7||
tava tejo durādharṣaṃ yathā viṣṇostrivikrame||7||
vaiśampāyana uvāca
tamuttaraścitramavekṣya gāṇḍivaṃ
śarāṃśca muktān sahasā kirīṭinā|
bhīto'bravīdarjunamājimadhye
nāhaṃ tavāśvān viṣahe niyantum||8||
śarāṃśca muktān sahasā kirīṭinā|
bhīto'bravīdarjunamājimadhye
nāhaṃ tavāśvān viṣahe niyantum||8||
tamabravīt kiñcidiva prahasya
gāṇḍīvadhanvā dviṣatāṃ nihantā|
mayā sahāyena kuto'sti te bhayaṃ
prehyuttarāśvānanumantrya vāhaya||9||
gāṇḍīvadhanvā dviṣatāṃ nihantā|
mayā sahāyena kuto'sti te bhayaṃ
prehyuttarāśvānanumantrya vāhaya||9||
vaiśampāyana uvāca
āśvāsitastena dhanañjayena
vairāṭiraśvān pratutoda śīghram|
dhanañjayaścāpi vikṛṣya cāpaṃ
viṣphārayāmāsa mahendrakalpaḥ||10||
vairāṭiraśvān pratutoda śīghram|
dhanañjayaścāpi vikṛṣya cāpaṃ
viṣphārayāmāsa mahendrakalpaḥ||10||
uttaraṃ caiva bībhatsurabravīt punararjunaḥ|
na bhetavyaṃ mayā sārdhaṃ tāta saṅgrāmamūrdhani||11||
na bhetavyaṃ mayā sārdhaṃ tāta saṅgrāmamūrdhani||11||
rājaputro'si te bhadraṃ kule mahati mātsyake|
jātastvaṃ kṣatriyakule na viṣīditumarhasi||12||
jātastvaṃ kṣatriyakule na viṣīditumarhasi||12||
dhṛtiṃ kṛtvā suvipulāṃ rājaputra rathaṃ mama|
yudhyamānasya saṅgrāme rājabhiḥ saha vāhaya||13||
yudhyamānasya saṅgrāme rājabhiḥ saha vāhaya||13||
uktvā tamevaṃ bībhatsurarjunaḥ punarabravīt|
pāṇḍavo rathināṃ śreṣṭho bhāradvājaṃ samīkṣya tu||14||
pāṇḍavo rathināṃ śreṣṭho bhāradvājaṃ samīkṣya tu||14||
yatraiṣā kāñcanī vedirdṛśyate'gniśikhopamā|
ucchritā kāñcane daṇḍe patākābhiralaṅkṛtā||15||
ucchritā kāñcane daṇḍe patākābhiralaṅkṛtā||15||
tatra māṃ vaha bhadraṃ te droṇaṃ yotsyāmi sattamam|
bhāradvājena yotsye'hamācāryeṇa mahātmanā||16||
bhāradvājena yotsye'hamācāryeṇa mahātmanā||16||
amī śoṇāḥ prakāśante turagāḥ sādhuvāhinaḥ|
muktā rathavare tasya sarvaśikṣāviśāradāḥ||17||
muktā rathavare tasya sarvaśikṣāviśāradāḥ||17||
yato rathavare śūraḥ sarvaśastrabhṛtāṃ varaḥ|
snigdhavaiḍūryasaṅkāśastāmrākṣaḥ priyadarśanaḥ||18||
snigdhavaiḍūryasaṅkāśastāmrākṣaḥ priyadarśanaḥ||18||
āditya iva tejasvī balavīryasamanvitaḥ|
sarvalokadhanuḥśreṣṭhaḥ sarvalokeṣu pūjitaḥ|
aṅgirośanaso'stulyo naye buddhimatāṃ varaḥ||19||
sarvalokadhanuḥśreṣṭhaḥ sarvalokeṣu pūjitaḥ|
aṅgirośanaso'stulyo naye buddhimatāṃ varaḥ||19||
catvāro nikhilā vedāḥ sāṅgopāṅgāḥ salakṣaṇāḥ|
dhanurvedaśca kārtsnyena brāhmaṃ cāstraṃ pratiṣṭhitam||20||
dhanurvedaśca kārtsnyena brāhmaṃ cāstraṃ pratiṣṭhitam||20||
purāṇamitihāsaśca arthavidyā ca mānavam|
bhāradvāje samastāni sarvāṇyetāni sāmpratam||21||
bhāradvāje samastāni sarvāṇyetāni sāmpratam||21||
kṣamā damaśca satyaṃ ca tejo mārdavamārjavam|
pratiṣṭhitā guṇā yasmin bahavo dvijasattame||22||
pratiṣṭhitā guṇā yasmin bahavo dvijasattame||22||
yasyāhamiṣṭaḥ satataṃ mama ceṣṭaḥ sadā ca saḥ|
kṣatradharmaṃ puraskṛtya tena yotsye hi sāmpratam||23||
kṣatradharmaṃ puraskṛtya tena yotsye hi sāmpratam||23||
ācāryaṃ prāpayedānīṃ mamottara mahāratham|
aparaṃ paśya saṅgrāmamadbhutaṃ mama tasya ca||24||
aparaṃ paśya saṅgrāmamadbhutaṃ mama tasya ca||24||
uttarastvevamukto'śvāṃścodayāmāsa taṃ prati|
ājagāmārjunaratho bhāradvājarathaṃ prati||25||
ājagāmārjunaratho bhāradvājarathaṃ prati||25||
tamāpatantaṃ vegena pāṇḍavaṃ sarathaṃ raṇe|
droṇo'pyabhyadravat pārthaṃ mato mattamiva dvipam||26||
droṇo'pyabhyadravat pārthaṃ mato mattamiva dvipam||26||
sa tu rukmarathaṃ dṛṣṭvā kaunteyaḥ samabhidrutam|
ācāryaṃ taṃ mahābāhuḥ prāñjalirvākyamabravīt||27||
ācāryaṃ taṃ mahābāhuḥ prāñjalirvākyamabravīt||27||
uṣitāḥ smo vane vāsaṃ pratikarmacikīrṣavaḥ|
kopaṃ nārhasi naḥ kartuṃ sadā samaradurjaya||28||
kopaṃ nārhasi naḥ kartuṃ sadā samaradurjaya||28||
ahaṃ tu tāḍitaḥ pūrvaṃ prahareyaṃ tavānagha|
iti me vartate buddhistad bhavān kṣantumarhati||29||
iti me vartate buddhistad bhavān kṣantumarhati||29||
tataḥ prādhmāpayacchaṅkhaṃ bherīpaṭahavāditam|
vyakṣobhata balaṃ sarvamuddhūtamiva sāgaram||30||
vyakṣobhata balaṃ sarvamuddhūtamiva sāgaram||30||
vaiśampāyana uvāca
tatastu prāhiṇod droṇaḥ śarānatha sa viṃśatim|
aprāptāneva tān pārthaściccheda kṛtahastavān||31||
aprāptāneva tān pārthaściccheda kṛtahastavān||31||
tataḥ śarasahasreṇa rathaṃ pārthasya vīryavān|
avākirat tato droṇaḥ śīghrahastaṃ pradarśayan||32||
avākirat tato droṇaḥ śīghrahastaṃ pradarśayan||32||
evaṃ pravavṛte yuddhaṃ bhāradvājakirīṭinoḥ||33||
aśvāñchoṇān mahāvegān haṃsavarṇaistu vājibhiḥ|
miśritān samare dṛṣṭvā vyasmayanta pṛthagjanāḥ||34||
miśritān samare dṛṣṭvā vyasmayanta pṛthagjanāḥ||34||
rathaṃ rathena pārthasya samāhatya parantapaḥ|
harṣayuktastadā''cāryaḥ pratyagṛhṇāt sa pāṇḍavam||35||
harṣayuktastadā''cāryaḥ pratyagṛhṇāt sa pāṇḍavam||35||
samāśliṣṭāvivānyonyaṃ droṇapāṇḍavayordhvajau|
dṛṣṭvā prākampata muhurbhāratānāṃ mahācamūḥ||36||
dṛṣṭvā prākampata muhurbhāratānāṃ mahācamūḥ||36||
tat tu yuddhaṃ pravavṛte hyācāryasyārjunasya ca|
vimuñcatoḥ śarānugrān viśikhān dīptatejasaḥ||37||
vimuñcatoḥ śarānugrān viśikhān dīptatejasaḥ||37||
tau vīrau vīryasampannau dṛṣṭvā samaramūrdhani|
ācāryaśiṣyau rathinau kṛtavīryau tarasvinau||38||
ācāryaśiṣyau rathinau kṛtavīryau tarasvinau||38||
ubhau viśrutakarmāṇāvubhau śramagatau jaye|
ubhāvatirathau loke hyubhau parapurañjayau|
kṣipantau śarajālāni kṣatriyān moha āviśat||39||
ubhāvatirathau loke hyubhau parapurañjayau|
kṣipantau śarajālāni kṣatriyān moha āviśat||39||
vyasmayanta narāḥ sarve droṇārjunasamāgame|
narāṇāṃ bruvatāṃ vākyaṃ śrūyate sa mahāsvanaḥ||40||
narāṇāṃ bruvatāṃ vākyaṃ śrūyate sa mahāsvanaḥ||40||
droṇaṃ hi samare ko'nyo yoddhumarhatyathārjunāt|
raudraḥ kṣatriyadharmo'yaṃ guraṃ vai yadayodhayat||41||
raudraḥ kṣatriyadharmo'yaṃ guraṃ vai yadayodhayat||41||
ityabruvañjanāstatra saṅgrāmaśirasi sthitāḥ|
tau samīkṣya tu saṃrabdhau sannikṛṣṭau mahārathau||42||
tau samīkṣya tu saṃrabdhau sannikṛṣṭau mahārathau||42||
chādayetāṃ śaraughaistāvanyonyamaparājitau|
saṃyuge sañcakāśetāṃ kālasūryāvivoditau||43||
saṃyuge sañcakāśetāṃ kālasūryāvivoditau||43||
viṣphārya ca mahācāpaṃ hemapṛṣṭhaṃ durāsadam|
saṃrabdhastu tadā droṇaḥ pratyayudhyata phalgunam||44||
saṃrabdhastu tadā droṇaḥ pratyayudhyata phalgunam||44||
sa sāyakamayairjālairarjunasya rathaṃ prati|
bhānumadbhiḥ śilādhautairbāṇaiḥ prācchādayad diśaḥ||45||
bhānumadbhiḥ śilādhautairbāṇaiḥ prācchādayad diśaḥ||45||
arjunastu tadā droṇaṃ mahāvegairmahārathaḥ|
vivyādha śataśo bāṇairdhārābhiriva parvatam||46||
vivyādha śataśo bāṇairdhārābhiriva parvatam||46||
kālamegha ivoṣṇānte phalgunaḥ samavākirat||47||
tasya jāmbūnadamayaiścitraiścāpacyutaiḥ śaraiḥ|
prācchādayad rathaśreṣṭhaṃ bhāradvājo'rjunasya vai||48||
prācchādayad rathaśreṣṭhaṃ bhāradvājo'rjunasya vai||48||
tathaiva divyaṃ gāṇḍīvaṃ dhanurānamya cārjunaḥ|
śatrughnaṃ vegavatsṛṣṭaṃ bhārasādhanamuttamam||49||
śatrughnaṃ vegavatsṛṣṭaṃ bhārasādhanamuttamam||49||
śobhate sma mahābāhurgāṇḍīvaṃ vikṣipan dhanuḥ|
śarāṃśca visṛjaṃścitrān suvarṇavikṛtān bahūn||50||
śarāṃśca visṛjaṃścitrān suvarṇavikṛtān bahūn||50||
prācchādayadameyātmā bhāradvājarathaṃ prati|
droṇacāpavinirmuktān bāṇān bāṇairavārayat||51||
droṇacāpavinirmuktān bāṇān bāṇairavārayat||51||
saratho'pyacarat pārthaḥ prekṣaṇīyo mahārathaḥ|
yugapad dikṣu sarvāsu sarvato'strāṇyavāsṛjam||52||
yugapad dikṣu sarvāsu sarvato'strāṇyavāsṛjam||52||
ādadānaṃ śarān ghorān sandadhānaṃ ca pāṇḍavam|
visṛjantaṃ ca kaunteyaṃ na sma paśyanti lāghavāt||53||
visṛjantaṃ ca kaunteyaṃ na sma paśyanti lāghavāt||53||
ekacchāyamivākāśaṃ bāṇaiścakre samantataḥ|
nādṛśyata tato droṇo nīhāreṇeva parvataḥ||54||
nādṛśyata tato droṇo nīhāreṇeva parvataḥ||54||
marīcivikacasyeva rājan bhānumato vapuḥ|
āsīt pārthasya sumahadvapuḥ śaraśatārcitam||55||
āsīt pārthasya sumahadvapuḥ śaraśatārcitam||55||
kṣipataḥ śarajālāni kaunteyasya mahātmanaḥ|
tān vidhūya śarān ghorān droṇo'pi samitiñjayaḥ|
babhāse timiraṃ vyomni vidhūya savitā yathā||56||
tān vidhūya śarān ghorān droṇo'pi samitiñjayaḥ|
babhāse timiraṃ vyomni vidhūya savitā yathā||56||
agnicakropamaṃ ghoraṃ maṇḍalīkṛtamāhave|
vikṛṣya sumahaccāpaṃ meghastanitanisvanam|
asakṛnmuñcato bāṇān dadṛśuḥ kuravo yudhi||57||
vikṛṣya sumahaccāpaṃ meghastanitanisvanam|
asakṛnmuñcato bāṇān dadṛśuḥ kuravo yudhi||57||
dikṣu sarvāsu vipulaḥ śuśruve'tha janaistadā|
droṇasyāpi dhanurghoṣo vidyutstanitanisvanaḥ|
abhavad vismayakaraḥ sainyānāṃ bharatarṣabha||58||
droṇasyāpi dhanurghoṣo vidyutstanitanisvanaḥ|
abhavad vismayakaraḥ sainyānāṃ bharatarṣabha||58||
taptajāmbūnadamayairdīptairagnisamaiḥ śaraiḥ|
prācchādayadameyātmā diśaḥ sūryasya ca prabhām||59||
prācchādayadameyātmā diśaḥ sūryasya ca prabhām||59||
tataḥ kāñcanapuṅkhānāṃ śarāṇāṃ nataparvaṇām|
viyadgatānāṃ caratāṃ dṛśyante bahavo vrajāḥ||60||
viyadgatānāṃ caratāṃ dṛśyante bahavo vrajāḥ||60||
śarāsanāt tu droṇasya prabhavanti sma sāyakāḥ|
eko dīrgha ivābhāntaḥ pradṛśyante mahāśarāḥ|
ākāśe samadṛśyanta haṃsānāmiva paṅktayaḥ||61||
eko dīrgha ivābhāntaḥ pradṛśyante mahāśarāḥ|
ākāśe samadṛśyanta haṃsānāmiva paṅktayaḥ||61||
evaṃ suvarṇavikṛtān vimuñcantau śarān bahūn|
ākāśaṃ saṃvṛtaṃ vīrāvulkābhiriva cakratuḥ||62||
ākāśaṃ saṃvṛtaṃ vīrāvulkābhiriva cakratuḥ||62||
tayoḥ śarāśca vibabhuḥ kaṅkabarhiṇavāsasaḥ|
paṅktyaḥ śaradi mattānāṃ sārasānāmivāmbare||63||
paṅktyaḥ śaradi mattānāṃ sārasānāmivāmbare||63||
tat tu yuddhaṃ mahāghoraṃ tayoḥ saṃrabdhayorabhūt|
atyadbhutamacintyaṃ ca vṛtravāsavayoriva||64||
atyadbhutamacintyaṃ ca vṛtravāsavayoriva||64||
mahāgajāvivāsādya viṣāṇāgraiḥ parasparam|
śaraiḥ pūrṇāyatotsṛṣṭairanyonyamabhijaghnatuḥ||65||
śaraiḥ pūrṇāyatotsṛṣṭairanyonyamabhijaghnatuḥ||65||
atha tvācāryamukhyena śarān sṛṣṭāñchilāśitān|
avārayacchitairbāṇairarjuno jayatāṃ varaḥ||66||
avārayacchitairbāṇairarjuno jayatāṃ varaḥ||66||
darśayannaindramātmānamugramugruparākramaḥ|
iṣubhistūrṇamākāśaṃ bahubhiśca samāvṛṇot||67||
iṣubhistūrṇamākāśaṃ bahubhiśca samāvṛṇot||67||
jighāṃsantaṃ naravyāghramarjunaṃ bhīmadarśanam|
vivyādha niśitairdroṇaḥ śaraiḥ sannataparvabhiḥ||68||
vivyādha niśitairdroṇaḥ śaraiḥ sannataparvabhiḥ||68||
hṛṣṭaḥ samabhavad droṇo raṇaśauṇḍaḥ pratāpavān|
arjunena samaṃ krīḍañcharaiḥ sannataparvabhiḥ||69||
arjunena samaṃ krīḍañcharaiḥ sannataparvabhiḥ||69||
tau vyadārayatāṃ śūrau sannaddhau raṇaśobhinau|
udīrayantau divyāni brāhmādyastrāṇi bhāgaśaḥ||70||
udīrayantau divyāni brāhmādyastrāṇi bhāgaśaḥ||70||
pārthastu samare śūro darśayan vīryamātmanaḥ|
sa mahāstrairmahātmānaṃ droṇaṃ prācchādayaccharaiḥ||71||
sa mahāstrairmahātmānaṃ droṇaṃ prācchādayaccharaiḥ||71||
astrairastrāṇi saṃvārya pārtho droṇamavārayat||72||
tayorāsīt samprahāraḥ kruddhayornarasiṃhayoḥ|
amṛṣyamāṇayoḥ saṅkhye balivāsavayoriva||73||
amṛṣyamāṇayoḥ saṅkhye balivāsavayoriva||73||
darśayetāṃ mahāstrāṇi bhāradvājārjunau raṇe||74||
aindraṃ vāyavyamāgneyamastramastreṇa pāṇḍavaḥ|
muktaṃ muktaṃ droṇacāpād grasate sma punaḥ punaḥ||75||
muktaṃ muktaṃ droṇacāpād grasate sma punaḥ punaḥ||75||
evaṃ śūrau maheṣvāsau visṛjantau śilāśitān|
ekacchāyamakurvātāṃ gaganaṃ śaravṛṣṭibhiḥ||76||
ekacchāyamakurvātāṃ gaganaṃ śaravṛṣṭibhiḥ||76||
tato'rjunena muktānāṃ patatāṃ ca śarīriṣu|
parvateṣviva vajrāṇāṃ śarāṇāṃ śrūyate svanaḥ||77||
parvateṣviva vajrāṇāṃ śarāṇāṃ śrūyate svanaḥ||77||
tato nāgā rathāśvāśca sādinaśca viśāmpate|
śoṇitāktāśca dṛśyante puṣpitā iva kiṃśukāḥ||78||
śoṇitāktāśca dṛśyante puṣpitā iva kiṃśukāḥ||78||
bāhubhiśca sakeyūrairnikṛttaiśca mahārathaiḥ|
suvarṇacitraiḥ kavacairdhvajaiśca vinipātitaiḥ||79||
suvarṇacitraiḥ kavacairdhvajaiśca vinipātitaiḥ||79||
yodhaiśca nihataistatra pārthabāṇābhipīḍitaiḥ|
balamāsīt susambhrāntaṃ droṇārjunasamāgame||80||
balamāsīt susambhrāntaṃ droṇārjunasamāgame||80||
vidhūnvānau tu tau vīrau dhanuṣī bhārasādhane|
prācchādayetāmanyonyaṃ didhakṣantau vareṣubhiḥ||81||
prācchādayetāmanyonyaṃ didhakṣantau vareṣubhiḥ||81||
athāntarikṣe nādo'bhūd droṇaṃ tatra praśaṃsatām|
duṣkaraṃ kṛtavān droṇo yadarjunamayodhayat||82||
duṣkaraṃ kṛtavān droṇo yadarjunamayodhayat||82||
pramāthinaṃ mahāvīryaṃ dṛḍhamuṣṭiṃ durāsadam|
jetāraṃ sarvadaityānāṃ sarveṣāṃ ca mahāratham||83||
jetāraṃ sarvadaityānāṃ sarveṣāṃ ca mahāratham||83||
avibhramaṃ ca śikṣāṃ ca lāghavaṃ dūrapātanam|
pārthasya samare dṛṣṭvā droṇasyāsīcca vismayaḥ||84||
pārthasya samare dṛṣṭvā droṇasyāsīcca vismayaḥ||84||
tat pravṛttaṃ ciraṃ ghoraṃ tayoryuddhaṃ mahātmanoḥ|
avartata mahāraudraṃ lokasaṅkṣobhakārakam||85||
avartata mahāraudraṃ lokasaṅkṣobhakārakam||85||
atha gāṇḍīvamudyamya divyaṃ dhanuramarṣaṇaḥ|
vicakarṣa raṇe pārtho bāhubhyāṃ bharatarṣabhaḥ||86||
vicakarṣa raṇe pārtho bāhubhyāṃ bharatarṣabhaḥ||86||
tasya bāṇamayaṃ varṣe śalabhānāmivābhavat|
na ca bāṇāntare tasya vāyuḥ śaknoti sarpitum||87||
na ca bāṇāntare tasya vāyuḥ śaknoti sarpitum||87||
abhīkṣṇaṃ sandadhānasya bāṇānutsṛjatastathā|
nāntaraṃ dadṛśe kiñcit pārthasyāpatato'pi ca||88||
nāntaraṃ dadṛśe kiñcit pārthasyāpatato'pi ca||88||
yuddhe tu kṛtaśīghrāstre vartamāne sudāruṇe|
śīghrācchīghrataraṃ pārthaḥ śarānanyānudairayat||89||
śīghrācchīghrataraṃ pārthaḥ śarānanyānudairayat||89||
tataḥ śarasahasrāṇi śarāṇāṃ nataparvaṇām|
yugapat prāpataṃstatra droṇasya rathamantikāt||90||
yugapat prāpataṃstatra droṇasya rathamantikāt||90||
vikīryamāṇe droṇe tu śarairgāṇḍīvadhanvanā|
hāhākāro mahānāsīt sainyānāṃ bharatarṣabha||91||
hāhākāro mahānāsīt sainyānāṃ bharatarṣabha||91||
pāṇḍavasya tu śīghrāstraṃ maghavā samapūjayat|
gandharvāpsarasaścaiva ye ca tatra samāgatāḥ||92||
gandharvāpsarasaścaiva ye ca tatra samāgatāḥ||92||
droṇaṃ yuddhārṇave magnaṃ dṛṣṭvā putraḥ pratāpavān|
tato vṛndena mahatā rathināṃ rathiyūthapaḥ|
ācāryaputrastu śaraiḥ pāṇḍavaṃ pratyavārayat||93||
tato vṛndena mahatā rathināṃ rathiyūthapaḥ|
ācāryaputrastu śaraiḥ pāṇḍavaṃ pratyavārayat||93||
aśvatthāmā tu tat karma hṛdayena mahātmanaḥ|
pūjayāmāsa pārthasya kopaṃ cāsya tadā'karot||94||
pūjayāmāsa pārthasya kopaṃ cāsya tadā'karot||94||
sa manyuvaśamāpannaḥ pārthamabhyadravadraṇe|
kirañcharasahasrāṇi parjanya iva vṛṣṭimān||95||
kirañcharasahasrāṇi parjanya iva vṛṣṭimān||95||
āvṛtya ca mahābāhuryato droṇastato'bhavat|
antaraṃ pradadau pārtho droṇasya vyapasarpitum||96||
antaraṃ pradadau pārtho droṇasya vyapasarpitum||96||
sa tu labdhāntarastūrṇamapāyāñjavanairhayaiḥ|
chinnavarmadhvajaratho nikṛttaḥ parameṣubhiḥ||97||
chinnavarmadhvajaratho nikṛttaḥ parameṣubhiḥ||97||
parājite tadā droṇe droṇaputraḥ samāgataḥ|
sadaṇḍa iva raktākṣaḥ kṛtāntaḥ samare sthitaḥ||98||
sadaṇḍa iva raktākṣaḥ kṛtāntaḥ samare sthitaḥ||98||
||iti śrīmanmahābhārate virāṭaparvaṇi gograhaṇaparvaṇi ekonaṣaṣṭitamo'dhyāyaḥ||59||