Home / Mahabharata / Virāṭaparva
Aṣṭapañcāśo'dhyāyaḥ||58||
Virāṭaparva
अष्टपञ्चाशोऽध्यायः॥५८॥
वैशम्पायन उवाच
तत् प्रभग्नं बलं सर्वं विपुलौघस्वनं तथा।
भीष्ममासाद्य सन्तस्थौ वेलामिव महोदधिः॥१॥
भीष्ममासाद्य सन्तस्थौ वेलामिव महोदधिः॥१॥
तानि सर्वाणि गाङ्गेयः समाश्वास्य परन्तपः।
ततो व्यूह्य महाबाहुः समरेष्वपराजितः॥२॥
ततो व्यूह्य महाबाहुः समरेष्वपराजितः॥२॥
रथनागाश्वकलिकं युयुजे युद्धकोविदः।
अभेद्यं परसैन्यानां शूरैरपि समीक्षितम्॥३॥
अभेद्यं परसैन्यानां शूरैरपि समीक्षितम्॥३॥
आचार्यदुर्योधनसूतपुत्रैः
कृपेण भीष्मेण च पालितानि।
अवध्यकल्पानि दुरासदानि
रथाश्वमातङ्गसमाकुलानि॥४॥
कृपेण भीष्मेण च पालितानि।
अवध्यकल्पानि दुरासदानि
रथाश्वमातङ्गसमाकुलानि॥४॥
तेषामनीकानि किरीटमाली
व्यूढानि दृष्ट्वा विपुलध्वजानि।
गाण्डीवधन्वा द्विषतां निहन्ता
वैराटिमामन्त्र्य ततोऽभ्युवाच॥५॥
व्यूढानि दृष्ट्वा विपुलध्वजानि।
गाण्डीवधन्वा द्विषतां निहन्ता
वैराटिमामन्त्र्य ततोऽभ्युवाच॥५॥
सुसङ्गृहीतैरथ रश्मिभिस्त्वं
हयान् नियम्य प्रसमीक्ष्य यत्तः।
सम्प्रेषयाऽऽशु प्रतिवीरमेनं
वैकर्तनं योधयितुं वृणोमि॥६॥
हयान् नियम्य प्रसमीक्ष्य यत्तः।
सम्प्रेषयाऽऽशु प्रतिवीरमेनं
वैकर्तनं योधयितुं वृणोमि॥६॥
यां हस्तिकक्ष्यां बहुधा विचित्रां
स्तम्भे रथे पश्यसि दर्शनीयाम्।
विवर्तमानां ज्वलनप्रकाशां
वैकर्तनस्यैतदनीकमग्र्यम्॥७॥
स्तम्भे रथे पश्यसि दर्शनीयाम्।
विवर्तमानां ज्वलनप्रकाशां
वैकर्तनस्यैतदनीकमग्र्यम्॥७॥
एतेन शीघ्रं प्रतिपादयेमान्
श्वेतान् हयान् काञ्चनजालकक्ष्यान्।
सर्वं जवं तत्र विदर्शयिष्ये
ह्यासादयैतद् रथवीरवृन्दम्॥८॥
श्वेतान् हयान् काञ्चनजालकक्ष्यान्।
सर्वं जवं तत्र विदर्शयिष्ये
ह्यासादयैतद् रथवीरवृन्दम्॥८॥
गजो गजेनेव हि योद्धुकामो
मया सदा काङ्क्षति सूतपुत्रः।
तमेव मां प्रापय सूतपुत्रं
दुर्योधनोपाश्रयजातदर्पम्।
तं पातयिष्यामि रथस्य मध्ये
सहस्रनेत्रोऽशनिनेव वृत्रम्॥९॥
मया सदा काङ्क्षति सूतपुत्रः।
तमेव मां प्रापय सूतपुत्रं
दुर्योधनोपाश्रयजातदर्पम्।
तं पातयिष्यामि रथस्य मध्ये
सहस्रनेत्रोऽशनिनेव वृत्रम्॥९॥
वैशम्पायन उवाच
स तैर्हयैर्जातजवैर्बृहद्भिः
पुत्रो विराटस्य हिरण्यकक्ष्यै।
विध्वंसयंस्तद् रथिनामनीकं
ततोऽवहत् पाण्डवमाजिमध्ये॥१०॥
पुत्रो विराटस्य हिरण्यकक्ष्यै।
विध्वंसयंस्तद् रथिनामनीकं
ततोऽवहत् पाण्डवमाजिमध्ये॥१०॥
तमापतन्तं परमेण तेजसा
समीक्ष्य वैकर्तनमभ्यरक्षन्।
अभ्यद्रवंस्ते रथवीरवृन्दा
व्याघ्रेण चाक्रान्तमिवर्षभं रणे॥११॥
समीक्ष्य वैकर्तनमभ्यरक्षन्।
अभ्यद्रवंस्ते रथवीरवृन्दा
व्याघ्रेण चाक्रान्तमिवर्षभं रणे॥११॥
चित्राङ्गदश्चित्ररथश्च वीरः
सङ्ग्रामजिद् दुःसहचित्रसेनौ।
विविंशतिर्दुर्मुखदुर्जयौ च
विकर्णदुःशासनसौबलाश्च।
शोणो निषेधश्च तमन्वयुस्ते
वैकर्तनं शीघ्रतरं युवानः॥१२॥
सङ्ग्रामजिद् दुःसहचित्रसेनौ।
विविंशतिर्दुर्मुखदुर्जयौ च
विकर्णदुःशासनसौबलाश्च।
शोणो निषेधश्च तमन्वयुस्ते
वैकर्तनं शीघ्रतरं युवानः॥१२॥
पुत्रा ययुस्ते सहसोदराश्च
वैकर्तनं पार्थगतं समीक्ष्य।
प्रगृह्य चापानि महाबला रणे
धनञ्जयं पर्यकिरञ्छरार्चिभिः॥१३॥
वैकर्तनं पार्थगतं समीक्ष्य।
प्रगृह्य चापानि महाबला रणे
धनञ्जयं पर्यकिरञ्छरार्चिभिः॥१३॥
तेषां धनुर्ज्याकृतनैकतन्त्रीं
प्रासोपवीणां शरसङ्घकोणाम्।
कराग्रयन्त्रां स्थिरचापदण्डां
वीणामुपावादयदाशु पार्थः॥१४॥
प्रासोपवीणां शरसङ्घकोणाम्।
कराग्रयन्त्रां स्थिरचापदण्डां
वीणामुपावादयदाशु पार्थः॥१४॥
तस्मिंस्तु युद्धे तुमुले प्रवृत्ते
पार्थं विकर्णोऽतिरथं रथेन।
विपाठवर्षेण कुरुप्रवीरो
भीमेन भीमानुजमाससाद॥१५॥
पार्थं विकर्णोऽतिरथं रथेन।
विपाठवर्षेण कुरुप्रवीरो
भीमेन भीमानुजमाससाद॥१५॥
ततो विकर्णस्य धनुर्विकृत्य
जाम्बूनदेनोपहितं दृढज्यम्।
न्यपातयत् तद्ध्वजमस्य विद्ध्वा
छिन्नध्वजः सोऽप्यपयाज्जवेन॥१६॥
जाम्बूनदेनोपहितं दृढज्यम्।
न्यपातयत् तद्ध्वजमस्य विद्ध्वा
छिन्नध्वजः सोऽप्यपयाज्जवेन॥१६॥
तं शात्रवाणां गणवाधितारं
कर्माणि कुर्वाणममानुषाणि।
शत्रुन्तपो वैरममृष्यमाणः
समार्पयत् कूर्मनखेन पार्थम्॥१७॥
कर्माणि कुर्वाणममानुषाणि।
शत्रुन्तपो वैरममृष्यमाणः
समार्पयत् कूर्मनखेन पार्थम्॥१७॥
स तेन राज्ञाऽतिरथेन विद्धो
विगाहमानो ध्वजिनीं परेषाम्।
शत्रुन्तपं पञ्चभिराशु विद्ध्वा
ततोऽस्य सूतं दशभिर्जघान॥१८॥
विगाहमानो ध्वजिनीं परेषाम्।
शत्रुन्तपं पञ्चभिराशु विद्ध्वा
ततोऽस्य सूतं दशभिर्जघान॥१८॥
ततः स विद्धो भरतर्षभेण
बाणेन कायावरणातिगेन।
गतासुराजौ निपपात राजन्
नगो नगाग्रादिव वातरुग्णः॥१९॥
बाणेन कायावरणातिगेन।
गतासुराजौ निपपात राजन्
नगो नगाग्रादिव वातरुग्णः॥१९॥
रथर्षभास्ते तु रथर्षभेण
वीरा रणे वीरतरेण भग्नाः।
चकम्पिरे वातवशेन काले
प्रकम्पितानीव महावनानि॥२०॥
वीरा रणे वीरतरेण भग्नाः।
चकम्पिरे वातवशेन काले
प्रकम्पितानीव महावनानि॥२०॥
हताश्च पार्थेन नरप्रवीरा
भूमौ युवानः सुषुपुः सुवेषाः।
वसुप्रदा वासवतुल्यवीर्याः
पराजिता वासवजेन सङ्ख्ये।
सुवर्णकार्ष्णायसवर्मनद्धा
नागा यथा हैमवते प्रवृद्धाः॥२१॥
भूमौ युवानः सुषुपुः सुवेषाः।
वसुप्रदा वासवतुल्यवीर्याः
पराजिता वासवजेन सङ्ख्ये।
सुवर्णकार्ष्णायसवर्मनद्धा
नागा यथा हैमवते प्रवृद्धाः॥२१॥
तथा स शत्रून् समरे विनिघ्नन्
गाण्डीवधन्वा पुरुषप्रवीरः।
चचार सङ्ख्ये विदिशो दिशश्च
दहन्निवाग्निर्वनमातपान्ते॥२२॥
गाण्डीवधन्वा पुरुषप्रवीरः।
चचार सङ्ख्ये विदिशो दिशश्च
दहन्निवाग्निर्वनमातपान्ते॥२२॥
सुजीर्णपर्णानि यथा वसन्ते
विशातयित्वा तु रजो नुदन् खे।
तथा सपत्नान् विकिरन् किरीटी
चचार सङ्ख्येऽतिरथो रथेन॥२३॥
विशातयित्वा तु रजो नुदन् खे।
तथा सपत्नान् विकिरन् किरीटी
चचार सङ्ख्येऽतिरथो रथेन॥२३॥
शोणाश्ववाहस्य हयान् निहत्य
वैकर्तनभ्रातुरदीनसत्त्वः।
एकेन सङ्ग्रामजितः शरेण
शिरो जहाराथ किरीटमाली॥२४॥
वैकर्तनभ्रातुरदीनसत्त्वः।
एकेन सङ्ग्रामजितः शरेण
शिरो जहाराथ किरीटमाली॥२४॥
तस्मिन् हते भ्रातरि सूतपुत्रो
वैकर्तनो वीर्यमदप्रतापी।
प्रगृह्य दन्ताविव नागराजो
महाबलः सिंहमिवाजगाम॥२५॥
वैकर्तनो वीर्यमदप्रतापी।
प्रगृह्य दन्ताविव नागराजो
महाबलः सिंहमिवाजगाम॥२५॥
स पाण्डवं द्वादशभिः पृषत्कैर्-
वैकर्तनः पार्थमुपाजघान।
विव्याध गात्रेषु हयांश्च सर्वान्
विराटपुत्रं च शरैर्विजघ्ने॥२६॥
वैकर्तनः पार्थमुपाजघान।
विव्याध गात्रेषु हयांश्च सर्वान्
विराटपुत्रं च शरैर्विजघ्ने॥२६॥
तमापतन्तं समरे किरीटी
वैकर्तनं सर्वसमृद्धतेजाः।
प्रच्छादयामास महाधनुष्मान्
न्यषेधयच्छत्रुगणांश्च वीरः॥२७॥
वैकर्तनं सर्वसमृद्धतेजाः।
प्रच्छादयामास महाधनुष्मान्
न्यषेधयच्छत्रुगणांश्च वीरः॥२७॥
निहत्य कर्णस्य ततः किरीटी
पुरश्चरांश्चापि च पृष्ठगोपान्।
समीपमभ्यागमदप्रमेयो
वितत्य पक्षौ गरुडो यथोरगम्॥२८॥
पुरश्चरांश्चापि च पृष्ठगोपान्।
समीपमभ्यागमदप्रमेयो
वितत्य पक्षौ गरुडो यथोरगम्॥२८॥
तावुत्तमौ सर्वधनुर्धराणां
महाबलौ सर्वसपत्नसाहौ।
कर्णं च पार्थं च निशम्य युद्धे
दिदृक्षमाणाः कुरवोऽवतस्थुः॥२९॥
महाबलौ सर्वसपत्नसाहौ।
कर्णं च पार्थं च निशम्य युद्धे
दिदृक्षमाणाः कुरवोऽवतस्थुः॥२९॥
तं पाण्डवः स्पष्टमुदीर्णकोपं
कृतागसं कर्णमुदीक्ष्य कोपात्।
क्षणेन साश्वं सरथं ससूत-
मन्तर्दधे मेघ इवातिवृष्ट्या॥३०॥
कृतागसं कर्णमुदीक्ष्य कोपात्।
क्षणेन साश्वं सरथं ससूत-
मन्तर्दधे मेघ इवातिवृष्ट्या॥३०॥
ततः सयुग्याः सरथाः सनागा
योधा विनेदुर्भरतर्षभाणाम्।
अन्तर्हितं भीष्ममुखाः समीक्ष्य
किरीटिना कर्णरथं पृषत्कैः॥३१॥
योधा विनेदुर्भरतर्षभाणाम्।
अन्तर्हितं भीष्ममुखाः समीक्ष्य
किरीटिना कर्णरथं पृषत्कैः॥३१॥
स चापि तानर्जुनबाहुमुक्ताञ्-
शराञ्छरौघैः प्रतिहत्य तूर्णम्।
बभौ महात्मा सधनुः सबाणः
सविष्फुलिङ्गोऽग्निरिवाथ कर्णः॥३२॥
शराञ्छरौघैः प्रतिहत्य तूर्णम्।
बभौ महात्मा सधनुः सबाणः
सविष्फुलिङ्गोऽग्निरिवाथ कर्णः॥३२॥
ततस्तु जज्ञे करतालघोषः
सशङ्खभेरीपणवाकुलस्तु।
प्रक्ष्वेलितास्फोटितसिंहनादैर्-
वैकर्तनं पूजयतां कुरूणाम्॥३३॥
सशङ्खभेरीपणवाकुलस्तु।
प्रक्ष्वेलितास्फोटितसिंहनादैर्-
वैकर्तनं पूजयतां कुरूणाम्॥३३॥
आधूतलाङ्गूलमहापताकं
रथोत्तमं श्रेष्ठतमं कुरूणाम्।
ततः सगाण्डीवकृतप्रणादं
किरीटिनं प्रेक्ष्य ननाद कर्णः॥३४॥
रथोत्तमं श्रेष्ठतमं कुरूणाम्।
ततः सगाण्डीवकृतप्रणादं
किरीटिनं प्रेक्ष्य ननाद कर्णः॥३४॥
पार्थोऽपि वैकर्तनमर्दयित्वा
साश्वं सकेतुं सरथं ससूतम्।
ननाद हर्षात् सहसा किरीटी
पितामहं द्रोणकृपौ च दृष्ट्वा॥३५॥
साश्वं सकेतुं सरथं ससूतम्।
ननाद हर्षात् सहसा किरीटी
पितामहं द्रोणकृपौ च दृष्ट्वा॥३५॥
सिषेच पार्थं बहुभिः शरौघैर्-
वैकर्तनः संयति तीक्ष्णवेगैः।
वैकर्तनश्चापि किरीटमाली
प्रच्छादयामास शितैः शरौघैः॥३६॥
वैकर्तनः संयति तीक्ष्णवेगैः।
वैकर्तनश्चापि किरीटमाली
प्रच्छादयामास शितैः शरौघैः॥३६॥
तयोरमोघन् सृजतोः शरौघा-
नस्त्रज्ञयोरास महान् विमर्दः।
राहुप्रमुक्ताविव चन्द्रसूर्यौ
क्षणान्तरेणानुददर्श लोकः॥३७॥
नस्त्रज्ञयोरास महान् विमर्दः।
राहुप्रमुक्ताविव चन्द्रसूर्यौ
क्षणान्तरेणानुददर्श लोकः॥३७॥
हतास्तु पार्थेन रथप्रवीरा
भूमौ युवानः सुषुपुः सुकेशाः।
सुवर्णलोहायसवर्मगात्रा
वृक्षा यथा हैमवते निकृत्ताः॥३८॥
भूमौ युवानः सुषुपुः सुकेशाः।
सुवर्णलोहायसवर्मगात्रा
वृक्षा यथा हैमवते निकृत्ताः॥३८॥
तथा स शत्रून् समरे विनिघ्नन्
गाण्डीवधन्वा व्यधमत् सपत्नान्।
चचार सङ्ख्ये विदिशो दिशश्च
दहन्निवाग्निर्वनमातपान्ते॥३९॥
गाण्डीवधन्वा व्यधमत् सपत्नान्।
चचार सङ्ख्ये विदिशो दिशश्च
दहन्निवाग्निर्वनमातपान्ते॥३९॥
सुशीर्णपर्णानि यथा वसन्ते
विधूनयन्वायुरिवाल्पसारान्।
तथा सपत्नान् विधमन् किरीटी
चचार सङ्ख्येऽतिरथो रथेन॥४०॥
विधूनयन्वायुरिवाल्पसारान्।
तथा सपत्नान् विधमन् किरीटी
चचार सङ्ख्येऽतिरथो रथेन॥४०॥
शत्रूनिवेन्द्रः समरे किरीटी
विद्रावयंस्तद् रथवीरबृन्दम्।
प्राच्छादयच्चारुकिरीटमाली
वरेषुभिः शत्रुगणाननेकान्॥४१॥
विद्रावयंस्तद् रथवीरबृन्दम्।
प्राच्छादयच्चारुकिरीटमाली
वरेषुभिः शत्रुगणाननेकान्॥४१॥
कर्णं तदोवाच किरीटमाली
शूरः कुरूणां प्रवरोऽभिगर्जन्॥४२॥
कर्ण यस्त्वं सभामध्ये बह्वबद्धं प्रभाषसे।
न मे युधि समोऽस्तीति तदिदं प्रत्युपस्थितम्॥४३॥
न मे युधि समोऽस्तीति तदिदं प्रत्युपस्थितम्॥४३॥
सभायां पौरुषं प्रोच्य धर्ममुत्सृज्य केवलम्।
कर्तुमिच्छसि यत् कर्म तन्मन्ये दुष्करं त्वया॥४४॥
कर्तुमिच्छसि यत् कर्म तन्मन्ये दुष्करं त्वया॥४४॥
यत् त्वया कथितं पूर्वं नास्ति मत्सम इत्यपि।
तत् सत्यं कुरु राधेय कुरुमध्ये मया सह॥४५॥
तत् सत्यं कुरु राधेय कुरुमध्ये मया सह॥४५॥
सभायां यस्तु पाञ्चालीं क्लिश्यमानां तदा त्वया।
दृष्टवानस्मि तस्याद्य फलमश्नुहि केवलम्॥४६॥
दृष्टवानस्मि तस्याद्य फलमश्नुहि केवलम्॥४६॥
धर्मपाशनिबद्धेन यन्मया मर्षितं तव।
तस्य पापस्य राधेय फलं प्राप्नुहि दुर्मते॥४७॥
तस्य पापस्य राधेय फलं प्राप्नुहि दुर्मते॥४७॥
एहि कर्ण मया सार्धमिहाद्य कुरु वैशसम्।
प्रेक्षका कुरवः सन्तु सर्वे ते सहसैनिकाः॥४८॥
प्रेक्षका कुरवः सन्तु सर्वे ते सहसैनिकाः॥४८॥
इदानीमेव तावत् त्वमपयातो रणान्मम।
कस्माज्जीवसि राधेय निहतस्त्वनुजस्तव॥४९॥
कस्माज्जीवसि राधेय निहतस्त्वनुजस्तव॥४९॥
यो भ्रातरं पातयित्वा कस्त्यक्त्वा च रणाजिरम्।
त्वदन्यः पुरुषः सत्सु ब्रूयादेवं व्यवस्थितः॥५०॥
त्वदन्यः पुरुषः सत्सु ब्रूयादेवं व्यवस्थितः॥५०॥
कर्ण उवाच
ब्रवीषि वाचा यत् पार्थ कर्मणा तत् समाचर।
विशेषितो हि त्वं वाचा कर्मणाऽप्रतिमं भुवि॥५१॥
विशेषितो हि त्वं वाचा कर्मणाऽप्रतिमं भुवि॥५१॥
यत् त्वया मर्षितं पूर्वं तदशक्तेन मर्षितम्।
इति गृह्णीम ते पार्थ तमदृष्ट्वा पराक्रमम्॥५२॥
इति गृह्णीम ते पार्थ तमदृष्ट्वा पराक्रमम्॥५२॥
धर्मपाशनिबद्धेन यत् त्वया मर्षितं पुरा।
तथैव बद्धमात्मानमबद्ध इति मन्यसे॥५३॥
तथैव बद्धमात्मानमबद्ध इति मन्यसे॥५३॥
न हि तावद् वने वासो यथोक्तं चरितस्त्वया।
क्लिष्टस्त्वमर्थलोभात् तु समयं छेत्तुमिच्छसि॥५४॥
क्लिष्टस्त्वमर्थलोभात् तु समयं छेत्तुमिच्छसि॥५४॥
यदि चेन्द्रः स्वयं पार्थ तव युद्ध्येत कारणात्।
तथाऽपि न व्यथा काचिन्मम स्याद् विक्रमिष्यतः॥५५॥
तथाऽपि न व्यथा काचिन्मम स्याद् विक्रमिष्यतः॥५५॥
अयं कौन्तेयकामस्ते न चिरात् समुपस्थितः।
योत्स्यसे हि मया सार्धमत्र पश्यामि ते बलम्॥५६॥
योत्स्यसे हि मया सार्धमत्र पश्यामि ते बलम्॥५६॥
वैशम्पायन उवाच
इति कर्णो ब्रुवन्नेव बीभत्सुमपराजितम्।
अभ्ययाद् विसृजन् बाणान् कायावरणभेदिनः॥५७॥
अभ्ययाद् विसृजन् बाणान् कायावरणभेदिनः॥५७॥
प्रतिजग्राह तान् पार्थः प्रीयमाणो महारथः॥५८॥
शरवर्षेण महता पर्जन्य इव वृष्टिमान्।
अभीयाय हि बीभत्सुर्गाण्डीवं विक्षिपन् धनुः॥५९॥
अभीयाय हि बीभत्सुर्गाण्डीवं विक्षिपन् धनुः॥५९॥
जिघांसुः समरे कर्णं विससर्ज शरान् बहून्।
तान् कर्णः प्रतिजग्राह वायुवेगमिवाचलः॥६०॥
तान् कर्णः प्रतिजग्राह वायुवेगमिवाचलः॥६०॥
तयोर्दैवासुरसमः सन्निपातोऽभवन्महान्।
किरतोः शरजालानि कृत्स्नं व्योम निरन्तरम्॥६१॥
किरतोः शरजालानि कृत्स्नं व्योम निरन्तरम्॥६१॥
उत्पेतुर्मेघजालानि घोररूपाणि सर्वशः।
ववर्ष च रजो भौमं कर्णपार्थसमागमे॥६२॥
ववर्ष च रजो भौमं कर्णपार्थसमागमे॥६२॥
न स्म सूर्यः प्रतपति न च वाति समीरणः।
शरप्रच्छादितं व्योम छायाभूतमिवाभवत्॥६३॥
शरप्रच्छादितं व्योम छायाभूतमिवाभवत्॥६३॥
गाण्डीवस्य च निर्घोषः कर्णस्य धनुषस्तथा।
दह्यतामिव वेणूनामासीत् परमदारुणः॥६४॥
दह्यतामिव वेणूनामासीत् परमदारुणः॥६४॥
अर्जुनस्तु हयान् नागान् रथांश्च विनिपातयन्।
क्षोभयामास तत् सैन्यं कर्णं विव्याध चासकृत्॥६५॥
क्षोभयामास तत् सैन्यं कर्णं विव्याध चासकृत्॥६५॥
ततः पार्थो महाबाहुः कर्णस्य धनुरच्छिनत्।
छिन्नधन्वा ततः कर्णः शक्तिं चिक्षेप वेगवान्।
तां शक्तिं समरे पार्थश्चिच्छेद निशितैः शरैः॥६६॥
छिन्नधन्वा ततः कर्णः शक्तिं चिक्षेप वेगवान्।
तां शक्तिं समरे पार्थश्चिच्छेद निशितैः शरैः॥६६॥
ततो निपेतुर्बहुशो राधेयस्य पदानुगाः।
तांश्च गाण्डीवनिर्मुक्तैः प्राहिणोद् यमसादनम्॥६७॥
तांश्च गाण्डीवनिर्मुक्तैः प्राहिणोद् यमसादनम्॥६७॥
अशेरताऽऽवृत्य महीं समग्रां
पार्थेषुमार्गे निहता द्विपेन्द्राः।
हिरण्यकक्ष्यां शरजालचित्रा
यथा नगाः पावकजालनद्धाः॥६८॥
पार्थेषुमार्गे निहता द्विपेन्द्राः।
हिरण्यकक्ष्यां शरजालचित्रा
यथा नगाः पावकजालनद्धाः॥६८॥
तं शत्रुसेनाङ्गनिबर्हणानि
कर्माणि कुर्वाणममानुषाणि।
वैकर्तनः पूर्वममृष्यमाणः
समार्पयल्लक्ष्यमिवाऽऽशु पार्थम्॥६९॥
कर्माणि कुर्वाणममानुषाणि।
वैकर्तनः पूर्वममृष्यमाणः
समार्पयल्लक्ष्यमिवाऽऽशु पार्थम्॥६९॥
ततश्चतुर्भिस्तुरगान् विकृष्य
विव्याध कर्णोऽथ धनञ्जयस्य।
षड्भिश्च सूतं दशभिर्हयांश्च
षष्ट्या च पार्थं त्रिभिरस्य केतुम्॥७०॥
विव्याध कर्णोऽथ धनञ्जयस्य।
षड्भिश्च सूतं दशभिर्हयांश्च
षष्ट्या च पार्थं त्रिभिरस्य केतुम्॥७०॥
सविष्फुलिङ्गोज्ज्वलभीमघोषः
कोपेन्धनः केतुशिखः शरार्चिः।
कर्णाग्निरस्त्रानिलभीमवातो
बभौ दिधक्षन्निव पार्थकक्षम्॥७१॥
कोपेन्धनः केतुशिखः शरार्चिः।
कर्णाग्निरस्त्रानिलभीमवातो
बभौ दिधक्षन्निव पार्थकक्षम्॥७१॥
स्वनेमिशङ्खस्वनभीमघोषश्-
चलत्पताकोज्ज्वलभीमविद्युत्।
पार्थाम्बुदः शस्त्रशराम्बुधारः
कर्णानलं संशमयां चकार॥७२॥
चलत्पताकोज्ज्वलभीमविद्युत्।
पार्थाम्बुदः शस्त्रशराम्बुधारः
कर्णानलं संशमयां चकार॥७२॥
तेनातिविद्धः समरे किरीटी
प्रबोधितः सिंह इव प्रसुप्तः।
गाण्डीवधन्वा प्रवरः कुरूणां
प्रतत्त्वरे कर्णवधाय जिष्णुः॥७३॥
प्रबोधितः सिंह इव प्रसुप्तः।
गाण्डीवधन्वा प्रवरः कुरूणां
प्रतत्त्वरे कर्णवधाय जिष्णुः॥७३॥
स ब्राह्ममस्त्रं समरे किरीटी
प्रादुश्चकाराद्भुतवीर्यकर्मा।
सन्तापयन् कर्णरथं शरौघैर्-
लोकानिमान्त्सूर्य इवांशुमाली॥७४॥
प्रादुश्चकाराद्भुतवीर्यकर्मा।
सन्तापयन् कर्णरथं शरौघैर्-
लोकानिमान्त्सूर्य इवांशुमाली॥७४॥
स हस्तिनेवाभिहतो गजेन्द्रः
प्रगृह्य भल्लान् निशितान् निषङ्गात्।
आकर्णपूर्णे तु धनुर्विकृष्य
विव्याध बाणैरथ सूतपुत्रम्॥७५॥
प्रगृह्य भल्लान् निशितान् निषङ्गात्।
आकर्णपूर्णे तु धनुर्विकृष्य
विव्याध बाणैरथ सूतपुत्रम्॥७५॥
अथास्य बाहू सशिरो ललाटं
ग्रीवामुरः स्कन्धभुजान्तरं च।
कर्णस्य पार्थो युधि निर्बिभेद
वज्रैरिवाद्रिं भगवान् महेन्द्रः॥७६॥
ग्रीवामुरः स्कन्धभुजान्तरं च।
कर्णस्य पार्थो युधि निर्बिभेद
वज्रैरिवाद्रिं भगवान् महेन्द्रः॥७६॥
स पार्थमुक्तानविषह्य बाणान्
गजो गजेनेव जितस्तरस्वी।
विहाय सङ्ग्रामशिरोपयातो
वैकर्तनः पार्थशराभितप्तः॥७७॥
गजो गजेनेव जितस्तरस्वी।
विहाय सङ्ग्रामशिरोपयातो
वैकर्तनः पार्थशराभितप्तः॥७७॥
॥इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि अष्टपञ्चाशोऽध्यायः॥५८॥
ಅಷ್ಟಪಂಚಾಶೋಽಧ್ಯಾಯಃ॥೫೮॥
ವೈಶಂಪಾಯನ ಉವಾಚ
ತತ್ ಪ್ರಭಗ್ನಂ ಬಲಂ ಸರ್ವಂ ವಿಪುಲೌಘಸ್ವನಂ ತಥಾ।
ಭೀಷ್ಮಮಾಸಾದ್ಯ ಸಂತಸ್ಥೌ ವೇಲಾಮಿವ ಮಹೋದಧಿಃ॥೧॥
ಭೀಷ್ಮಮಾಸಾದ್ಯ ಸಂತಸ್ಥೌ ವೇಲಾಮಿವ ಮಹೋದಧಿಃ॥೧॥
ತಾನಿ ಸರ್ವಾಣಿ ಗಾಂಗೇಯಃ ಸಮಾಶ್ವಾಸ್ಯ ಪರಂತಪಃ।
ತತೋ ವ್ಯೂಹ್ಯ ಮಹಾಬಾಹುಃ ಸಮರೇಷ್ವಪರಾಜಿತಃ॥೨॥
ತತೋ ವ್ಯೂಹ್ಯ ಮಹಾಬಾಹುಃ ಸಮರೇಷ್ವಪರಾಜಿತಃ॥೨॥
ರಥನಾಗಾಶ್ವಕಲಿಕಂ ಯುಯುಜೇ ಯುದ್ಧಕೋವಿದಃ।
ಅಭೇದ್ಯಂ ಪರಸೈನ್ಯಾನಾಂ ಶೂರೈರಪಿ ಸಮೀಕ್ಷಿತಮ್॥೩॥
ಅಭೇದ್ಯಂ ಪರಸೈನ್ಯಾನಾಂ ಶೂರೈರಪಿ ಸಮೀಕ್ಷಿತಮ್॥೩॥
ಆಚಾರ್ಯದುರ್ಯೋಧನಸೂತಪುತ್ರೈಃ
ಕೃಪೇಣ ಭೀಷ್ಮೇಣ ಚ ಪಾಲಿತಾನಿ।
ಅವಧ್ಯಕಲ್ಪಾನಿ ದುರಾಸದಾನಿ
ರಥಾಶ್ವಮಾತಂಗಸಮಾಕುಲಾನಿ॥೪॥
ಕೃಪೇಣ ಭೀಷ್ಮೇಣ ಚ ಪಾಲಿತಾನಿ।
ಅವಧ್ಯಕಲ್ಪಾನಿ ದುರಾಸದಾನಿ
ರಥಾಶ್ವಮಾತಂಗಸಮಾಕುಲಾನಿ॥೪॥
ತೇಷಾಮನೀಕಾನಿ ಕಿರೀಟಮಾಲೀ
ವ್ಯೂಢಾನಿ ದೃಷ್ಟ್ವಾ ವಿಪುಲಧ್ವಜಾನಿ।
ಗಾಂಡೀವಧನ್ವಾ ದ್ವಿಷತಾಂ ನಿಹಂತಾ
ವೈರಾಟಿಮಾಮಂತ್ರ್ಯ ತತೋಽಭ್ಯುವಾಚ॥೫॥
ವ್ಯೂಢಾನಿ ದೃಷ್ಟ್ವಾ ವಿಪುಲಧ್ವಜಾನಿ।
ಗಾಂಡೀವಧನ್ವಾ ದ್ವಿಷತಾಂ ನಿಹಂತಾ
ವೈರಾಟಿಮಾಮಂತ್ರ್ಯ ತತೋಽಭ್ಯುವಾಚ॥೫॥
ಸುಸಂಗೃಹೀತೈರಥ ರಶ್ಮಿಭಿಸ್ತ್ವಂ
ಹಯಾನ್ ನಿಯಮ್ಯ ಪ್ರಸಮೀಕ್ಷ್ಯ ಯತ್ತಃ।
ಸಂಪ್ರೇಷಯಾಽಽಶು ಪ್ರತಿವೀರಮೇನಂ
ವೈಕರ್ತನಂ ಯೋಧಯಿತುಂ ವೃಣೋಮಿ॥೬॥
ಹಯಾನ್ ನಿಯಮ್ಯ ಪ್ರಸಮೀಕ್ಷ್ಯ ಯತ್ತಃ।
ಸಂಪ್ರೇಷಯಾಽಽಶು ಪ್ರತಿವೀರಮೇನಂ
ವೈಕರ್ತನಂ ಯೋಧಯಿತುಂ ವೃಣೋಮಿ॥೬॥
ಯಾಂ ಹಸ್ತಿಕಕ್ಷ್ಯಾಂ ಬಹುಧಾ ವಿಚಿತ್ರಾಂ
ಸ್ತಂಭೇ ರಥೇ ಪಶ್ಯಸಿ ದರ್ಶನೀಯಾಮ್।
ವಿವರ್ತಮಾನಾಂ ಜ್ವಲನಪ್ರಕಾಶಾಂ
ವೈಕರ್ತನಸ್ಯೈತದನೀಕಮಗ್ರ್ಯಮ್॥೭॥
ಸ್ತಂಭೇ ರಥೇ ಪಶ್ಯಸಿ ದರ್ಶನೀಯಾಮ್।
ವಿವರ್ತಮಾನಾಂ ಜ್ವಲನಪ್ರಕಾಶಾಂ
ವೈಕರ್ತನಸ್ಯೈತದನೀಕಮಗ್ರ್ಯಮ್॥೭॥
ಏತೇನ ಶೀಘ್ರಂ ಪ್ರತಿಪಾದಯೇಮಾನ್
ಶ್ವೇತಾನ್ ಹಯಾನ್ ಕಾಂಚನಜಾಲಕಕ್ಷ್ಯಾನ್।
ಸರ್ವಂ ಜವಂ ತತ್ರ ವಿದರ್ಶಯಿಷ್ಯೇ
ಹ್ಯಾಸಾದಯೈತದ್ ರಥವೀರವೃಂದಮ್॥೮॥
ಶ್ವೇತಾನ್ ಹಯಾನ್ ಕಾಂಚನಜಾಲಕಕ್ಷ್ಯಾನ್।
ಸರ್ವಂ ಜವಂ ತತ್ರ ವಿದರ್ಶಯಿಷ್ಯೇ
ಹ್ಯಾಸಾದಯೈತದ್ ರಥವೀರವೃಂದಮ್॥೮॥
ಗಜೋ ಗಜೇನೇವ ಹಿ ಯೋದ್ಧುಕಾಮೋ
ಮಯಾ ಸದಾ ಕಾಂಕ್ಷತಿ ಸೂತಪುತ್ರಃ।
ತಮೇವ ಮಾಂ ಪ್ರಾಪಯ ಸೂತಪುತ್ರಂ
ದುರ್ಯೋಧನೋಪಾಶ್ರಯಜಾತದರ್ಪಮ್।
ತಂ ಪಾತಯಿಷ್ಯಾಮಿ ರಥಸ್ಯ ಮಧ್ಯೇ
ಸಹಸ್ರನೇತ್ರೋಽಶನಿನೇವ ವೃತ್ರಮ್॥೯॥
ಮಯಾ ಸದಾ ಕಾಂಕ್ಷತಿ ಸೂತಪುತ್ರಃ।
ತಮೇವ ಮಾಂ ಪ್ರಾಪಯ ಸೂತಪುತ್ರಂ
ದುರ್ಯೋಧನೋಪಾಶ್ರಯಜಾತದರ್ಪಮ್।
ತಂ ಪಾತಯಿಷ್ಯಾಮಿ ರಥಸ್ಯ ಮಧ್ಯೇ
ಸಹಸ್ರನೇತ್ರೋಽಶನಿನೇವ ವೃತ್ರಮ್॥೯॥
ವೈಶಂಪಾಯನ ಉವಾಚ
ಸ ತೈರ್ಹಯೈರ್ಜಾತಜವೈರ್ಬೃಹದ್ಭಿಃ
ಪುತ್ರೋ ವಿರಾಟಸ್ಯ ಹಿರಣ್ಯಕಕ್ಷ್ಯೈ।
ವಿಧ್ವಂಸಯಂಸ್ತದ್ ರಥಿನಾಮನೀಕಂ
ತತೋಽವಹತ್ ಪಾಂಡವಮಾಜಿಮಧ್ಯೇ॥೧೦॥
ಪುತ್ರೋ ವಿರಾಟಸ್ಯ ಹಿರಣ್ಯಕಕ್ಷ್ಯೈ।
ವಿಧ್ವಂಸಯಂಸ್ತದ್ ರಥಿನಾಮನೀಕಂ
ತತೋಽವಹತ್ ಪಾಂಡವಮಾಜಿಮಧ್ಯೇ॥೧೦॥
ತಮಾಪತಂತಂ ಪರಮೇಣ ತೇಜಸಾ
ಸಮೀಕ್ಷ್ಯ ವೈಕರ್ತನಮಭ್ಯರಕ್ಷನ್।
ಅಭ್ಯದ್ರವಂಸ್ತೇ ರಥವೀರವೃಂದಾ
ವ್ಯಾಘ್ರೇಣ ಚಾಕ್ರಾಂತಮಿವರ್ಷಭಂ ರಣೇ॥೧೧॥
ಸಮೀಕ್ಷ್ಯ ವೈಕರ್ತನಮಭ್ಯರಕ್ಷನ್।
ಅಭ್ಯದ್ರವಂಸ್ತೇ ರಥವೀರವೃಂದಾ
ವ್ಯಾಘ್ರೇಣ ಚಾಕ್ರಾಂತಮಿವರ್ಷಭಂ ರಣೇ॥೧೧॥
ಚಿತ್ರಾಂಗದಶ್ಚಿತ್ರರಥಶ್ಚ ವೀರಃ
ಸಂಗ್ರಾಮಜಿದ್ ದುಃಸಹಚಿತ್ರಸೇನೌ।
ವಿವಿಂಶತಿರ್ದುರ್ಮುಖದುರ್ಜಯೌ ಚ
ವಿಕರ್ಣದುಃಶಾಸನಸೌಬಲಾಶ್ಚ।
ಶೋಣೋ ನಿಷೇಧಶ್ಚ ತಮನ್ವಯುಸ್ತೇ
ವೈಕರ್ತನಂ ಶೀಘ್ರತರಂ ಯುವಾನಃ॥೧೨॥
ಸಂಗ್ರಾಮಜಿದ್ ದುಃಸಹಚಿತ್ರಸೇನೌ।
ವಿವಿಂಶತಿರ್ದುರ್ಮುಖದುರ್ಜಯೌ ಚ
ವಿಕರ್ಣದುಃಶಾಸನಸೌಬಲಾಶ್ಚ।
ಶೋಣೋ ನಿಷೇಧಶ್ಚ ತಮನ್ವಯುಸ್ತೇ
ವೈಕರ್ತನಂ ಶೀಘ್ರತರಂ ಯುವಾನಃ॥೧೨॥
ಪುತ್ರಾ ಯಯುಸ್ತೇ ಸಹಸೋದರಾಶ್ಚ
ವೈಕರ್ತನಂ ಪಾರ್ಥಗತಂ ಸಮೀಕ್ಷ್ಯ।
ಪ್ರಗೃಹ್ಯ ಚಾಪಾನಿ ಮಹಾಬಲಾ ರಣೇ
ಧನಂಜಯಂ ಪರ್ಯಕಿರಂಛರಾರ್ಚಿಭಿಃ॥೧೩॥
ವೈಕರ್ತನಂ ಪಾರ್ಥಗತಂ ಸಮೀಕ್ಷ್ಯ।
ಪ್ರಗೃಹ್ಯ ಚಾಪಾನಿ ಮಹಾಬಲಾ ರಣೇ
ಧನಂಜಯಂ ಪರ್ಯಕಿರಂಛರಾರ್ಚಿಭಿಃ॥೧೩॥
ತೇಷಾಂ ಧನುರ್ಜ್ಯಾಕೃತನೈಕತಂತ್ರೀಂ
ಪ್ರಾಸೋಪವೀಣಾಂ ಶರಸಂಘಕೋಣಾಮ್।
ಕರಾಗ್ರಯಂತ್ರಾಂ ಸ್ಥಿರಚಾಪದಂಡಾಂ
ವೀಣಾಮುಪಾವಾದಯದಾಶು ಪಾರ್ಥಃ॥೧೪॥
ಪ್ರಾಸೋಪವೀಣಾಂ ಶರಸಂಘಕೋಣಾಮ್।
ಕರಾಗ್ರಯಂತ್ರಾಂ ಸ್ಥಿರಚಾಪದಂಡಾಂ
ವೀಣಾಮುಪಾವಾದಯದಾಶು ಪಾರ್ಥಃ॥೧೪॥
ತಸ್ಮಿಂಸ್ತು ಯುದ್ಧೇ ತುಮುಲೇ ಪ್ರವೃತ್ತೇ
ಪಾರ್ಥಂ ವಿಕರ್ಣೋಽತಿರಥಂ ರಥೇನ।
ವಿಪಾಠವರ್ಷೇಣ ಕುರುಪ್ರವೀರೋ
ಭೀಮೇನ ಭೀಮಾನುಜಮಾಸಸಾದ॥೧೫॥
ಪಾರ್ಥಂ ವಿಕರ್ಣೋಽತಿರಥಂ ರಥೇನ।
ವಿಪಾಠವರ್ಷೇಣ ಕುರುಪ್ರವೀರೋ
ಭೀಮೇನ ಭೀಮಾನುಜಮಾಸಸಾದ॥೧೫॥
ತತೋ ವಿಕರ್ಣಸ್ಯ ಧನುರ್ವಿಕೃತ್ಯ
ಜಾಂಬೂನದೇನೋಪಹಿತಂ ದೃಢಜ್ಯಮ್।
ನ್ಯಪಾತಯತ್ ತದ್ಧ್ವಜಮಸ್ಯ ವಿದ್ಧ್ವಾ
ಛಿನ್ನಧ್ವಜಃ ಸೋಽಪ್ಯಪಯಾಜ್ಜವೇನ॥೧೬॥
ಜಾಂಬೂನದೇನೋಪಹಿತಂ ದೃಢಜ್ಯಮ್।
ನ್ಯಪಾತಯತ್ ತದ್ಧ್ವಜಮಸ್ಯ ವಿದ್ಧ್ವಾ
ಛಿನ್ನಧ್ವಜಃ ಸೋಽಪ್ಯಪಯಾಜ್ಜವೇನ॥೧೬॥
ತಂ ಶಾತ್ರವಾಣಾಂ ಗಣವಾಧಿತಾರಂ
ಕರ್ಮಾಣಿ ಕುರ್ವಾಣಮಮಾನುಷಾಣಿ।
ಶತ್ರುಂತಪೋ ವೈರಮಮೃಷ್ಯಮಾಣಃ
ಸಮಾರ್ಪಯತ್ ಕೂರ್ಮನಖೇನ ಪಾರ್ಥಮ್॥೧೭॥
ಕರ್ಮಾಣಿ ಕುರ್ವಾಣಮಮಾನುಷಾಣಿ।
ಶತ್ರುಂತಪೋ ವೈರಮಮೃಷ್ಯಮಾಣಃ
ಸಮಾರ್ಪಯತ್ ಕೂರ್ಮನಖೇನ ಪಾರ್ಥಮ್॥೧೭॥
ಸ ತೇನ ರಾಜ್ಞಾಽತಿರಥೇನ ವಿದ್ಧೋ
ವಿಗಾಹಮಾನೋ ಧ್ವಜಿನೀಂ ಪರೇಷಾಮ್।
ಶತ್ರುಂತಪಂ ಪಂಚಭಿರಾಶು ವಿದ್ಧ್ವಾ
ತತೋಽಸ್ಯ ಸೂತಂ ದಶಭಿರ್ಜಘಾನ॥೧೮॥
ವಿಗಾಹಮಾನೋ ಧ್ವಜಿನೀಂ ಪರೇಷಾಮ್।
ಶತ್ರುಂತಪಂ ಪಂಚಭಿರಾಶು ವಿದ್ಧ್ವಾ
ತತೋಽಸ್ಯ ಸೂತಂ ದಶಭಿರ್ಜಘಾನ॥೧೮॥
ತತಃ ಸ ವಿದ್ಧೋ ಭರತರ್ಷಭೇಣ
ಬಾಣೇನ ಕಾಯಾವರಣಾತಿಗೇನ।
ಗತಾಸುರಾಜೌ ನಿಪಪಾತ ರಾಜನ್
ನಗೋ ನಗಾಗ್ರಾದಿವ ವಾತರುಗ್ಣಃ॥೧೯॥
ಬಾಣೇನ ಕಾಯಾವರಣಾತಿಗೇನ।
ಗತಾಸುರಾಜೌ ನಿಪಪಾತ ರಾಜನ್
ನಗೋ ನಗಾಗ್ರಾದಿವ ವಾತರುಗ್ಣಃ॥೧೯॥
ರಥರ್ಷಭಾಸ್ತೇ ತು ರಥರ್ಷಭೇಣ
ವೀರಾ ರಣೇ ವೀರತರೇಣ ಭಗ್ನಾಃ।
ಚಕಂಪಿರೇ ವಾತವಶೇನ ಕಾಲೇ
ಪ್ರಕಂಪಿತಾನೀವ ಮಹಾವನಾನಿ॥೨೦॥
ವೀರಾ ರಣೇ ವೀರತರೇಣ ಭಗ್ನಾಃ।
ಚಕಂಪಿರೇ ವಾತವಶೇನ ಕಾಲೇ
ಪ್ರಕಂಪಿತಾನೀವ ಮಹಾವನಾನಿ॥೨೦॥
ಹತಾಶ್ಚ ಪಾರ್ಥೇನ ನರಪ್ರವೀರಾ
ಭೂಮೌ ಯುವಾನಃ ಸುಷುಪುಃ ಸುವೇಷಾಃ।
ವಸುಪ್ರದಾ ವಾಸವತುಲ್ಯವೀರ್ಯಾಃ
ಪರಾಜಿತಾ ವಾಸವಜೇನ ಸಂಖ್ಯೇ।
ಸುವರ್ಣಕಾರ್ಷ್ಣಾಯಸವರ್ಮನದ್ಧಾ
ನಾಗಾ ಯಥಾ ಹೈಮವತೇ ಪ್ರವೃದ್ಧಾಃ॥೨೧॥
ಭೂಮೌ ಯುವಾನಃ ಸುಷುಪುಃ ಸುವೇಷಾಃ।
ವಸುಪ್ರದಾ ವಾಸವತುಲ್ಯವೀರ್ಯಾಃ
ಪರಾಜಿತಾ ವಾಸವಜೇನ ಸಂಖ್ಯೇ।
ಸುವರ್ಣಕಾರ್ಷ್ಣಾಯಸವರ್ಮನದ್ಧಾ
ನಾಗಾ ಯಥಾ ಹೈಮವತೇ ಪ್ರವೃದ್ಧಾಃ॥೨೧॥
ತಥಾ ಸ ಶತ್ರೂನ್ ಸಮರೇ ವಿನಿಘ್ನನ್
ಗಾಂಡೀವಧನ್ವಾ ಪುರುಷಪ್ರವೀರಃ।
ಚಚಾರ ಸಂಖ್ಯೇ ವಿದಿಶೋ ದಿಶಶ್ಚ
ದಹನ್ನಿವಾಗ್ನಿರ್ವನಮಾತಪಾಂತೇ॥೨೨॥
ಗಾಂಡೀವಧನ್ವಾ ಪುರುಷಪ್ರವೀರಃ।
ಚಚಾರ ಸಂಖ್ಯೇ ವಿದಿಶೋ ದಿಶಶ್ಚ
ದಹನ್ನಿವಾಗ್ನಿರ್ವನಮಾತಪಾಂತೇ॥೨೨॥
ಸುಜೀರ್ಣಪರ್ಣಾನಿ ಯಥಾ ವಸಂತೇ
ವಿಶಾತಯಿತ್ವಾ ತು ರಜೋ ನುದನ್ ಖೇ।
ತಥಾ ಸಪತ್ನಾನ್ ವಿಕಿರನ್ ಕಿರೀಟೀ
ಚಚಾರ ಸಂಖ್ಯೇಽತಿರಥೋ ರಥೇನ॥೨೩॥
ವಿಶಾತಯಿತ್ವಾ ತು ರಜೋ ನುದನ್ ಖೇ।
ತಥಾ ಸಪತ್ನಾನ್ ವಿಕಿರನ್ ಕಿರೀಟೀ
ಚಚಾರ ಸಂಖ್ಯೇಽತಿರಥೋ ರಥೇನ॥೨೩॥
ಶೋಣಾಶ್ವವಾಹಸ್ಯ ಹಯಾನ್ ನಿಹತ್ಯ
ವೈಕರ್ತನಭ್ರಾತುರದೀನಸತ್ತ್ವಃ।
ಏಕೇನ ಸಂಗ್ರಾಮಜಿತಃ ಶರೇಣ
ಶಿರೋ ಜಹಾರಾಥ ಕಿರೀಟಮಾಲೀ॥೨೪॥
ವೈಕರ್ತನಭ್ರಾತುರದೀನಸತ್ತ್ವಃ।
ಏಕೇನ ಸಂಗ್ರಾಮಜಿತಃ ಶರೇಣ
ಶಿರೋ ಜಹಾರಾಥ ಕಿರೀಟಮಾಲೀ॥೨೪॥
ತಸ್ಮಿನ್ ಹತೇ ಭ್ರಾತರಿ ಸೂತಪುತ್ರೋ
ವೈಕರ್ತನೋ ವೀರ್ಯಮದಪ್ರತಾಪೀ।
ಪ್ರಗೃಹ್ಯ ದಂತಾವಿವ ನಾಗರಾಜೋ
ಮಹಾಬಲಃ ಸಿಂಹಮಿವಾಜಗಾಮ॥೨೫॥
ವೈಕರ್ತನೋ ವೀರ್ಯಮದಪ್ರತಾಪೀ।
ಪ್ರಗೃಹ್ಯ ದಂತಾವಿವ ನಾಗರಾಜೋ
ಮಹಾಬಲಃ ಸಿಂಹಮಿವಾಜಗಾಮ॥೨೫॥
ಸ ಪಾಂಡವಂ ದ್ವಾದಶಭಿಃ ಪೃಷತ್ಕೈರ್-
ವೈಕರ್ತನಃ ಪಾರ್ಥಮುಪಾಜಘಾನ।
ವಿವ್ಯಾಧ ಗಾತ್ರೇಷು ಹಯಾಂಶ್ಚ ಸರ್ವಾನ್
ವಿರಾಟಪುತ್ರಂ ಚ ಶರೈರ್ವಿಜಘ್ನೇ॥೨೬॥
ವೈಕರ್ತನಃ ಪಾರ್ಥಮುಪಾಜಘಾನ।
ವಿವ್ಯಾಧ ಗಾತ್ರೇಷು ಹಯಾಂಶ್ಚ ಸರ್ವಾನ್
ವಿರಾಟಪುತ್ರಂ ಚ ಶರೈರ್ವಿಜಘ್ನೇ॥೨೬॥
ತಮಾಪತಂತಂ ಸಮರೇ ಕಿರೀಟೀ
ವೈಕರ್ತನಂ ಸರ್ವಸಮೃದ್ಧತೇಜಾಃ।
ಪ್ರಚ್ಛಾದಯಾಮಾಸ ಮಹಾಧನುಷ್ಮಾನ್
ನ್ಯಷೇಧಯಚ್ಛತ್ರುಗಣಾಂಶ್ಚ ವೀರಃ॥೨೭॥
ವೈಕರ್ತನಂ ಸರ್ವಸಮೃದ್ಧತೇಜಾಃ।
ಪ್ರಚ್ಛಾದಯಾಮಾಸ ಮಹಾಧನುಷ್ಮಾನ್
ನ್ಯಷೇಧಯಚ್ಛತ್ರುಗಣಾಂಶ್ಚ ವೀರಃ॥೨೭॥
ನಿಹತ್ಯ ಕರ್ಣಸ್ಯ ತತಃ ಕಿರೀಟೀ
ಪುರಶ್ಚರಾಂಶ್ಚಾಪಿ ಚ ಪೃಷ್ಠಗೋಪಾನ್।
ಸಮೀಪಮಭ್ಯಾಗಮದಪ್ರಮೇಯೋ
ವಿತತ್ಯ ಪಕ್ಷೌ ಗರುಡೋ ಯಥೋರಗಮ್॥೨೮॥
ಪುರಶ್ಚರಾಂಶ್ಚಾಪಿ ಚ ಪೃಷ್ಠಗೋಪಾನ್।
ಸಮೀಪಮಭ್ಯಾಗಮದಪ್ರಮೇಯೋ
ವಿತತ್ಯ ಪಕ್ಷೌ ಗರುಡೋ ಯಥೋರಗಮ್॥೨೮॥
ತಾವುತ್ತಮೌ ಸರ್ವಧನುರ್ಧರಾಣಾಂ
ಮಹಾಬಲೌ ಸರ್ವಸಪತ್ನಸಾಹೌ।
ಕರ್ಣಂ ಚ ಪಾರ್ಥಂ ಚ ನಿಶಮ್ಯ ಯುದ್ಧೇ
ದಿದೃಕ್ಷಮಾಣಾಃ ಕುರವೋಽವತಸ್ಥುಃ॥೨೯॥
ಮಹಾಬಲೌ ಸರ್ವಸಪತ್ನಸಾಹೌ।
ಕರ್ಣಂ ಚ ಪಾರ್ಥಂ ಚ ನಿಶಮ್ಯ ಯುದ್ಧೇ
ದಿದೃಕ್ಷಮಾಣಾಃ ಕುರವೋಽವತಸ್ಥುಃ॥೨೯॥
ತಂ ಪಾಂಡವಃ ಸ್ಪಷ್ಟಮುದೀರ್ಣಕೋಪಂ
ಕೃತಾಗಸಂ ಕರ್ಣಮುದೀಕ್ಷ್ಯ ಕೋಪಾತ್।
ಕ್ಷಣೇನ ಸಾಶ್ವಂ ಸರಥಂ ಸಸೂತ-
ಮಂತರ್ದಧೇ ಮೇಘ ಇವಾತಿವೃಷ್ಟ್ಯಾ॥೩೦॥
ಕೃತಾಗಸಂ ಕರ್ಣಮುದೀಕ್ಷ್ಯ ಕೋಪಾತ್।
ಕ್ಷಣೇನ ಸಾಶ್ವಂ ಸರಥಂ ಸಸೂತ-
ಮಂತರ್ದಧೇ ಮೇಘ ಇವಾತಿವೃಷ್ಟ್ಯಾ॥೩೦॥
ತತಃ ಸಯುಗ್ಯಾಃ ಸರಥಾಃ ಸನಾಗಾ
ಯೋಧಾ ವಿನೇದುರ್ಭರತರ್ಷಭಾಣಾಮ್।
ಅಂತರ್ಹಿತಂ ಭೀಷ್ಮಮುಖಾಃ ಸಮೀಕ್ಷ್ಯ
ಕಿರೀಟಿನಾ ಕರ್ಣರಥಂ ಪೃಷತ್ಕೈಃ॥೩೧॥
ಯೋಧಾ ವಿನೇದುರ್ಭರತರ್ಷಭಾಣಾಮ್।
ಅಂತರ್ಹಿತಂ ಭೀಷ್ಮಮುಖಾಃ ಸಮೀಕ್ಷ್ಯ
ಕಿರೀಟಿನಾ ಕರ್ಣರಥಂ ಪೃಷತ್ಕೈಃ॥೩೧॥
ಸ ಚಾಪಿ ತಾನರ್ಜುನಬಾಹುಮುಕ್ತಾಞ್-
ಶರಾಂಛರೌಘೈಃ ಪ್ರತಿಹತ್ಯ ತೂರ್ಣಮ್।
ಬಭೌ ಮಹಾತ್ಮಾ ಸಧನುಃ ಸಬಾಣಃ
ಸವಿಷ್ಫುಲಿಂಗೋಽಗ್ನಿರಿವಾಥ ಕರ್ಣಃ॥೩೨॥
ಶರಾಂಛರೌಘೈಃ ಪ್ರತಿಹತ್ಯ ತೂರ್ಣಮ್।
ಬಭೌ ಮಹಾತ್ಮಾ ಸಧನುಃ ಸಬಾಣಃ
ಸವಿಷ್ಫುಲಿಂಗೋಽಗ್ನಿರಿವಾಥ ಕರ್ಣಃ॥೩೨॥
ತತಸ್ತು ಜಜ್ಞೇ ಕರತಾಲಘೋಷಃ
ಸಶಂಖಭೇರೀಪಣವಾಕುಲಸ್ತು।
ಪ್ರಕ್ಷ್ವೇಲಿತಾಸ್ಫೋಟಿತಸಿಂಹನಾದೈರ್-
ವೈಕರ್ತನಂ ಪೂಜಯತಾಂ ಕುರೂಣಾಮ್॥೩೩॥
ಸಶಂಖಭೇರೀಪಣವಾಕುಲಸ್ತು।
ಪ್ರಕ್ಷ್ವೇಲಿತಾಸ್ಫೋಟಿತಸಿಂಹನಾದೈರ್-
ವೈಕರ್ತನಂ ಪೂಜಯತಾಂ ಕುರೂಣಾಮ್॥೩೩॥
ಆಧೂತಲಾಂಗೂಲಮಹಾಪತಾಕಂ
ರಥೋತ್ತಮಂ ಶ್ರೇಷ್ಠತಮಂ ಕುರೂಣಾಮ್।
ತತಃ ಸಗಾಂಡೀವಕೃತಪ್ರಣಾದಂ
ಕಿರೀಟಿನಂ ಪ್ರೇಕ್ಷ್ಯ ನನಾದ ಕರ್ಣಃ॥೩೪॥
ರಥೋತ್ತಮಂ ಶ್ರೇಷ್ಠತಮಂ ಕುರೂಣಾಮ್।
ತತಃ ಸಗಾಂಡೀವಕೃತಪ್ರಣಾದಂ
ಕಿರೀಟಿನಂ ಪ್ರೇಕ್ಷ್ಯ ನನಾದ ಕರ್ಣಃ॥೩೪॥
ಪಾರ್ಥೋಽಪಿ ವೈಕರ್ತನಮರ್ದಯಿತ್ವಾ
ಸಾಶ್ವಂ ಸಕೇತುಂ ಸರಥಂ ಸಸೂತಮ್।
ನನಾದ ಹರ್ಷಾತ್ ಸಹಸಾ ಕಿರೀಟೀ
ಪಿತಾಮಹಂ ದ್ರೋಣಕೃಪೌ ಚ ದೃಷ್ಟ್ವಾ॥೩೫॥
ಸಾಶ್ವಂ ಸಕೇತುಂ ಸರಥಂ ಸಸೂತಮ್।
ನನಾದ ಹರ್ಷಾತ್ ಸಹಸಾ ಕಿರೀಟೀ
ಪಿತಾಮಹಂ ದ್ರೋಣಕೃಪೌ ಚ ದೃಷ್ಟ್ವಾ॥೩೫॥
ಸಿಷೇಚ ಪಾರ್ಥಂ ಬಹುಭಿಃ ಶರೌಘೈರ್-
ವೈಕರ್ತನಃ ಸಂಯತಿ ತೀಕ್ಷ್ಣವೇಗೈಃ।
ವೈಕರ್ತನಶ್ಚಾಪಿ ಕಿರೀಟಮಾಲೀ
ಪ್ರಚ್ಛಾದಯಾಮಾಸ ಶಿತೈಃ ಶರೌಘೈಃ॥೩೬॥
ವೈಕರ್ತನಃ ಸಂಯತಿ ತೀಕ್ಷ್ಣವೇಗೈಃ।
ವೈಕರ್ತನಶ್ಚಾಪಿ ಕಿರೀಟಮಾಲೀ
ಪ್ರಚ್ಛಾದಯಾಮಾಸ ಶಿತೈಃ ಶರೌಘೈಃ॥೩೬॥
ತಯೋರಮೋಘನ್ ಸೃಜತೋಃ ಶರೌಘಾ-
ನಸ್ತ್ರಜ್ಞಯೋರಾಸ ಮಹಾನ್ ವಿಮರ್ದಃ।
ರಾಹುಪ್ರಮುಕ್ತಾವಿವ ಚಂದ್ರಸೂರ್ಯೌ
ಕ್ಷಣಾಂತರೇಣಾನುದದರ್ಶ ಲೋಕಃ॥೩೭॥
ನಸ್ತ್ರಜ್ಞಯೋರಾಸ ಮಹಾನ್ ವಿಮರ್ದಃ।
ರಾಹುಪ್ರಮುಕ್ತಾವಿವ ಚಂದ್ರಸೂರ್ಯೌ
ಕ್ಷಣಾಂತರೇಣಾನುದದರ್ಶ ಲೋಕಃ॥೩೭॥
ಹತಾಸ್ತು ಪಾರ್ಥೇನ ರಥಪ್ರವೀರಾ
ಭೂಮೌ ಯುವಾನಃ ಸುಷುಪುಃ ಸುಕೇಶಾಃ।
ಸುವರ್ಣಲೋಹಾಯಸವರ್ಮಗಾತ್ರಾ
ವೃಕ್ಷಾ ಯಥಾ ಹೈಮವತೇ ನಿಕೃತ್ತಾಃ॥೩೮॥
ಭೂಮೌ ಯುವಾನಃ ಸುಷುಪುಃ ಸುಕೇಶಾಃ।
ಸುವರ್ಣಲೋಹಾಯಸವರ್ಮಗಾತ್ರಾ
ವೃಕ್ಷಾ ಯಥಾ ಹೈಮವತೇ ನಿಕೃತ್ತಾಃ॥೩೮॥
ತಥಾ ಸ ಶತ್ರೂನ್ ಸಮರೇ ವಿನಿಘ್ನನ್
ಗಾಂಡೀವಧನ್ವಾ ವ್ಯಧಮತ್ ಸಪತ್ನಾನ್।
ಚಚಾರ ಸಂಖ್ಯೇ ವಿದಿಶೋ ದಿಶಶ್ಚ
ದಹನ್ನಿವಾಗ್ನಿರ್ವನಮಾತಪಾಂತೇ॥೩೯॥
ಗಾಂಡೀವಧನ್ವಾ ವ್ಯಧಮತ್ ಸಪತ್ನಾನ್।
ಚಚಾರ ಸಂಖ್ಯೇ ವಿದಿಶೋ ದಿಶಶ್ಚ
ದಹನ್ನಿವಾಗ್ನಿರ್ವನಮಾತಪಾಂತೇ॥೩೯॥
ಸುಶೀರ್ಣಪರ್ಣಾನಿ ಯಥಾ ವಸಂತೇ
ವಿಧೂನಯನ್ವಾಯುರಿವಾಲ್ಪಸಾರಾನ್।
ತಥಾ ಸಪತ್ನಾನ್ ವಿಧಮನ್ ಕಿರೀಟೀ
ಚಚಾರ ಸಂಖ್ಯೇಽತಿರಥೋ ರಥೇನ॥೪೦॥
ವಿಧೂನಯನ್ವಾಯುರಿವಾಲ್ಪಸಾರಾನ್।
ತಥಾ ಸಪತ್ನಾನ್ ವಿಧಮನ್ ಕಿರೀಟೀ
ಚಚಾರ ಸಂಖ್ಯೇಽತಿರಥೋ ರಥೇನ॥೪೦॥
ಶತ್ರೂನಿವೇಂದ್ರಃ ಸಮರೇ ಕಿರೀಟೀ
ವಿದ್ರಾವಯಂಸ್ತದ್ ರಥವೀರಬೃಂದಮ್।
ಪ್ರಾಚ್ಛಾದಯಚ್ಚಾರುಕಿರೀಟಮಾಲೀ
ವರೇಷುಭಿಃ ಶತ್ರುಗಣಾನನೇಕಾನ್॥೪೧॥
ವಿದ್ರಾವಯಂಸ್ತದ್ ರಥವೀರಬೃಂದಮ್।
ಪ್ರಾಚ್ಛಾದಯಚ್ಚಾರುಕಿರೀಟಮಾಲೀ
ವರೇಷುಭಿಃ ಶತ್ರುಗಣಾನನೇಕಾನ್॥೪೧॥
ಕರ್ಣಂ ತದೋವಾಚ ಕಿರೀಟಮಾಲೀ
ಶೂರಃ ಕುರೂಣಾಂ ಪ್ರವರೋಽಭಿಗರ್ಜನ್॥೪೨॥
ಕರ್ಣ ಯಸ್ತ್ವಂ ಸಭಾಮಧ್ಯೇ ಬಹ್ವಬದ್ಧಂ ಪ್ರಭಾಷಸೇ।
ನ ಮೇ ಯುಧಿ ಸಮೋಽಸ್ತೀತಿ ತದಿದಂ ಪ್ರತ್ಯುಪಸ್ಥಿತಮ್॥೪೩॥
ನ ಮೇ ಯುಧಿ ಸಮೋಽಸ್ತೀತಿ ತದಿದಂ ಪ್ರತ್ಯುಪಸ್ಥಿತಮ್॥೪೩॥
ಸಭಾಯಾಂ ಪೌರುಷಂ ಪ್ರೋಚ್ಯ ಧರ್ಮಮುತ್ಸೃಜ್ಯ ಕೇವಲಮ್।
ಕರ್ತುಮಿಚ್ಛಸಿ ಯತ್ ಕರ್ಮ ತನ್ಮನ್ಯೇ ದುಷ್ಕರಂ ತ್ವಯಾ॥೪೪॥
ಕರ್ತುಮಿಚ್ಛಸಿ ಯತ್ ಕರ್ಮ ತನ್ಮನ್ಯೇ ದುಷ್ಕರಂ ತ್ವಯಾ॥೪೪॥
ಯತ್ ತ್ವಯಾ ಕಥಿತಂ ಪೂರ್ವಂ ನಾಸ್ತಿ ಮತ್ಸಮ ಇತ್ಯಪಿ।
ತತ್ ಸತ್ಯಂ ಕುರು ರಾಧೇಯ ಕುರುಮಧ್ಯೇ ಮಯಾ ಸಹ॥೪೫॥
ತತ್ ಸತ್ಯಂ ಕುರು ರಾಧೇಯ ಕುರುಮಧ್ಯೇ ಮಯಾ ಸಹ॥೪೫॥
ಸಭಾಯಾಂ ಯಸ್ತು ಪಾಂಚಾಲೀಂ ಕ್ಲಿಶ್ಯಮಾನಾಂ ತದಾ ತ್ವಯಾ।
ದೃಷ್ಟವಾನಸ್ಮಿ ತಸ್ಯಾದ್ಯ ಫಲಮಶ್ನುಹಿ ಕೇವಲಮ್॥೪೬॥
ದೃಷ್ಟವಾನಸ್ಮಿ ತಸ್ಯಾದ್ಯ ಫಲಮಶ್ನುಹಿ ಕೇವಲಮ್॥೪೬॥
ಧರ್ಮಪಾಶನಿಬದ್ಧೇನ ಯನ್ಮಯಾ ಮರ್ಷಿತಂ ತವ।
ತಸ್ಯ ಪಾಪಸ್ಯ ರಾಧೇಯ ಫಲಂ ಪ್ರಾಪ್ನುಹಿ ದುರ್ಮತೇ॥೪೭॥
ತಸ್ಯ ಪಾಪಸ್ಯ ರಾಧೇಯ ಫಲಂ ಪ್ರಾಪ್ನುಹಿ ದುರ್ಮತೇ॥೪೭॥
ಏಹಿ ಕರ್ಣ ಮಯಾ ಸಾರ್ಧಮಿಹಾದ್ಯ ಕುರು ವೈಶಸಮ್।
ಪ್ರೇಕ್ಷಕಾ ಕುರವಃ ಸಂತು ಸರ್ವೇ ತೇ ಸಹಸೈನಿಕಾಃ॥೪೮॥
ಪ್ರೇಕ್ಷಕಾ ಕುರವಃ ಸಂತು ಸರ್ವೇ ತೇ ಸಹಸೈನಿಕಾಃ॥೪೮॥
ಇದಾನೀಮೇವ ತಾವತ್ ತ್ವಮಪಯಾತೋ ರಣಾನ್ಮಮ।
ಕಸ್ಮಾಜ್ಜೀವಸಿ ರಾಧೇಯ ನಿಹತಸ್ತ್ವನುಜಸ್ತವ॥೪೯॥
ಕಸ್ಮಾಜ್ಜೀವಸಿ ರಾಧೇಯ ನಿಹತಸ್ತ್ವನುಜಸ್ತವ॥೪೯॥
ಯೋ ಭ್ರಾತರಂ ಪಾತಯಿತ್ವಾ ಕಸ್ತ್ಯಕ್ತ್ವಾ ಚ ರಣಾಜಿರಮ್।
ತ್ವದನ್ಯಃ ಪುರುಷಃ ಸತ್ಸು ಬ್ರೂಯಾದೇವಂ ವ್ಯವಸ್ಥಿತಃ॥೫೦॥
ತ್ವದನ್ಯಃ ಪುರುಷಃ ಸತ್ಸು ಬ್ರೂಯಾದೇವಂ ವ್ಯವಸ್ಥಿತಃ॥೫೦॥
ಕರ್ಣ ಉವಾಚ
ಬ್ರವೀಷಿ ವಾಚಾ ಯತ್ ಪಾರ್ಥ ಕರ್ಮಣಾ ತತ್ ಸಮಾಚರ।
ವಿಶೇಷಿತೋ ಹಿ ತ್ವಂ ವಾಚಾ ಕರ್ಮಣಾಽಪ್ರತಿಮಂ ಭುವಿ॥೫೧॥
ವಿಶೇಷಿತೋ ಹಿ ತ್ವಂ ವಾಚಾ ಕರ್ಮಣಾಽಪ್ರತಿಮಂ ಭುವಿ॥೫೧॥
ಯತ್ ತ್ವಯಾ ಮರ್ಷಿತಂ ಪೂರ್ವಂ ತದಶಕ್ತೇನ ಮರ್ಷಿತಮ್।
ಇತಿ ಗೃಹ್ಣೀಮ ತೇ ಪಾರ್ಥ ತಮದೃಷ್ಟ್ವಾ ಪರಾಕ್ರಮಮ್॥೫೨॥
ಇತಿ ಗೃಹ್ಣೀಮ ತೇ ಪಾರ್ಥ ತಮದೃಷ್ಟ್ವಾ ಪರಾಕ್ರಮಮ್॥೫೨॥
ಧರ್ಮಪಾಶನಿಬದ್ಧೇನ ಯತ್ ತ್ವಯಾ ಮರ್ಷಿತಂ ಪುರಾ।
ತಥೈವ ಬದ್ಧಮಾತ್ಮಾನಮಬದ್ಧ ಇತಿ ಮನ್ಯಸೇ॥೫೩॥
ತಥೈವ ಬದ್ಧಮಾತ್ಮಾನಮಬದ್ಧ ಇತಿ ಮನ್ಯಸೇ॥೫೩॥
ನ ಹಿ ತಾವದ್ ವನೇ ವಾಸೋ ಯಥೋಕ್ತಂ ಚರಿತಸ್ತ್ವಯಾ।
ಕ್ಲಿಷ್ಟಸ್ತ್ವಮರ್ಥಲೋಭಾತ್ ತು ಸಮಯಂ ಛೇತ್ತುಮಿಚ್ಛಸಿ॥೫೪॥
ಕ್ಲಿಷ್ಟಸ್ತ್ವಮರ್ಥಲೋಭಾತ್ ತು ಸಮಯಂ ಛೇತ್ತುಮಿಚ್ಛಸಿ॥೫೪॥
ಯದಿ ಚೇಂದ್ರಃ ಸ್ವಯಂ ಪಾರ್ಥ ತವ ಯುದ್ಧ್ಯೇತ ಕಾರಣಾತ್।
ತಥಾಽಪಿ ನ ವ್ಯಥಾ ಕಾಚಿನ್ಮಮ ಸ್ಯಾದ್ ವಿಕ್ರಮಿಷ್ಯತಃ॥೫೫॥
ತಥಾಽಪಿ ನ ವ್ಯಥಾ ಕಾಚಿನ್ಮಮ ಸ್ಯಾದ್ ವಿಕ್ರಮಿಷ್ಯತಃ॥೫೫॥
ಅಯಂ ಕೌಂತೇಯಕಾಮಸ್ತೇ ನ ಚಿರಾತ್ ಸಮುಪಸ್ಥಿತಃ।
ಯೋತ್ಸ್ಯಸೇ ಹಿ ಮಯಾ ಸಾರ್ಧಮತ್ರ ಪಶ್ಯಾಮಿ ತೇ ಬಲಮ್॥೫೬॥
ಯೋತ್ಸ್ಯಸೇ ಹಿ ಮಯಾ ಸಾರ್ಧಮತ್ರ ಪಶ್ಯಾಮಿ ತೇ ಬಲಮ್॥೫೬॥
ವೈಶಂಪಾಯನ ಉವಾಚ
ಇತಿ ಕರ್ಣೋ ಬ್ರುವನ್ನೇವ ಬೀಭತ್ಸುಮಪರಾಜಿತಮ್।
ಅಭ್ಯಯಾದ್ ವಿಸೃಜನ್ ಬಾಣಾನ್ ಕಾಯಾವರಣಭೇದಿನಃ॥೫೭॥
ಅಭ್ಯಯಾದ್ ವಿಸೃಜನ್ ಬಾಣಾನ್ ಕಾಯಾವರಣಭೇದಿನಃ॥೫೭॥
ಪ್ರತಿಜಗ್ರಾಹ ತಾನ್ ಪಾರ್ಥಃ ಪ್ರೀಯಮಾಣೋ ಮಹಾರಥಃ॥೫೮॥
ಶರವರ್ಷೇಣ ಮಹತಾ ಪರ್ಜನ್ಯ ಇವ ವೃಷ್ಟಿಮಾನ್।
ಅಭೀಯಾಯ ಹಿ ಬೀಭತ್ಸುರ್ಗಾಂಡೀವಂ ವಿಕ್ಷಿಪನ್ ಧನುಃ॥೫೯॥
ಅಭೀಯಾಯ ಹಿ ಬೀಭತ್ಸುರ್ಗಾಂಡೀವಂ ವಿಕ್ಷಿಪನ್ ಧನುಃ॥೫೯॥
ಜಿಘಾಂಸುಃ ಸಮರೇ ಕರ್ಣಂ ವಿಸಸರ್ಜ ಶರಾನ್ ಬಹೂನ್।
ತಾನ್ ಕರ್ಣಃ ಪ್ರತಿಜಗ್ರಾಹ ವಾಯುವೇಗಮಿವಾಚಲಃ॥೬೦॥
ತಾನ್ ಕರ್ಣಃ ಪ್ರತಿಜಗ್ರಾಹ ವಾಯುವೇಗಮಿವಾಚಲಃ॥೬೦॥
ತಯೋರ್ದೈವಾಸುರಸಮಃ ಸನ್ನಿಪಾತೋಽಭವನ್ಮಹಾನ್।
ಕಿರತೋಃ ಶರಜಾಲಾನಿ ಕೃತ್ಸ್ನಂ ವ್ಯೋಮ ನಿರಂತರಮ್॥೬೧॥
ಕಿರತೋಃ ಶರಜಾಲಾನಿ ಕೃತ್ಸ್ನಂ ವ್ಯೋಮ ನಿರಂತರಮ್॥೬೧॥
ಉತ್ಪೇತುರ್ಮೇಘಜಾಲಾನಿ ಘೋರರೂಪಾಣಿ ಸರ್ವಶಃ।
ವವರ್ಷ ಚ ರಜೋ ಭೌಮಂ ಕರ್ಣಪಾರ್ಥಸಮಾಗಮೇ॥೬೨॥
ವವರ್ಷ ಚ ರಜೋ ಭೌಮಂ ಕರ್ಣಪಾರ್ಥಸಮಾಗಮೇ॥೬೨॥
ನ ಸ್ಮ ಸೂರ್ಯಃ ಪ್ರತಪತಿ ನ ಚ ವಾತಿ ಸಮೀರಣಃ।
ಶರಪ್ರಚ್ಛಾದಿತಂ ವ್ಯೋಮ ಛಾಯಾಭೂತಮಿವಾಭವತ್॥೬೩॥
ಶರಪ್ರಚ್ಛಾದಿತಂ ವ್ಯೋಮ ಛಾಯಾಭೂತಮಿವಾಭವತ್॥೬೩॥
ಗಾಂಡೀವಸ್ಯ ಚ ನಿರ್ಘೋಷಃ ಕರ್ಣಸ್ಯ ಧನುಷಸ್ತಥಾ।
ದಹ್ಯತಾಮಿವ ವೇಣೂನಾಮಾಸೀತ್ ಪರಮದಾರುಣಃ॥೬೪॥
ದಹ್ಯತಾಮಿವ ವೇಣೂನಾಮಾಸೀತ್ ಪರಮದಾರುಣಃ॥೬೪॥
ಅರ್ಜುನಸ್ತು ಹಯಾನ್ ನಾಗಾನ್ ರಥಾಂಶ್ಚ ವಿನಿಪಾತಯನ್।
ಕ್ಷೋಭಯಾಮಾಸ ತತ್ ಸೈನ್ಯಂ ಕರ್ಣಂ ವಿವ್ಯಾಧ ಚಾಸಕೃತ್॥೬೫॥
ಕ್ಷೋಭಯಾಮಾಸ ತತ್ ಸೈನ್ಯಂ ಕರ್ಣಂ ವಿವ್ಯಾಧ ಚಾಸಕೃತ್॥೬೫॥
ತತಃ ಪಾರ್ಥೋ ಮಹಾಬಾಹುಃ ಕರ್ಣಸ್ಯ ಧನುರಚ್ಛಿನತ್।
ಛಿನ್ನಧನ್ವಾ ತತಃ ಕರ್ಣಃ ಶಕ್ತಿಂ ಚಿಕ್ಷೇಪ ವೇಗವಾನ್।
ತಾಂ ಶಕ್ತಿಂ ಸಮರೇ ಪಾರ್ಥಶ್ಚಿಚ್ಛೇದ ನಿಶಿತೈಃ ಶರೈಃ॥೬೬॥
ಛಿನ್ನಧನ್ವಾ ತತಃ ಕರ್ಣಃ ಶಕ್ತಿಂ ಚಿಕ್ಷೇಪ ವೇಗವಾನ್।
ತಾಂ ಶಕ್ತಿಂ ಸಮರೇ ಪಾರ್ಥಶ್ಚಿಚ್ಛೇದ ನಿಶಿತೈಃ ಶರೈಃ॥೬೬॥
ತತೋ ನಿಪೇತುರ್ಬಹುಶೋ ರಾಧೇಯಸ್ಯ ಪದಾನುಗಾಃ।
ತಾಂಶ್ಚ ಗಾಂಡೀವನಿರ್ಮುಕ್ತೈಃ ಪ್ರಾಹಿಣೋದ್ ಯಮಸಾದನಮ್॥೬೭॥
ತಾಂಶ್ಚ ಗಾಂಡೀವನಿರ್ಮುಕ್ತೈಃ ಪ್ರಾಹಿಣೋದ್ ಯಮಸಾದನಮ್॥೬೭॥
ಅಶೇರತಾಽಽವೃತ್ಯ ಮಹೀಂ ಸಮಗ್ರಾಂ
ಪಾರ್ಥೇಷುಮಾರ್ಗೇ ನಿಹತಾ ದ್ವಿಪೇಂದ್ರಾಃ।
ಹಿರಣ್ಯಕಕ್ಷ್ಯಾಂ ಶರಜಾಲಚಿತ್ರಾ
ಯಥಾ ನಗಾಃ ಪಾವಕಜಾಲನದ್ಧಾಃ॥೬೮॥
ಪಾರ್ಥೇಷುಮಾರ್ಗೇ ನಿಹತಾ ದ್ವಿಪೇಂದ್ರಾಃ।
ಹಿರಣ್ಯಕಕ್ಷ್ಯಾಂ ಶರಜಾಲಚಿತ್ರಾ
ಯಥಾ ನಗಾಃ ಪಾವಕಜಾಲನದ್ಧಾಃ॥೬೮॥
ತಂ ಶತ್ರುಸೇನಾಂಗನಿಬರ್ಹಣಾನಿ
ಕರ್ಮಾಣಿ ಕುರ್ವಾಣಮಮಾನುಷಾಣಿ।
ವೈಕರ್ತನಃ ಪೂರ್ವಮಮೃಷ್ಯಮಾಣಃ
ಸಮಾರ್ಪಯಲ್ಲಕ್ಷ್ಯಮಿವಾಽಽಶು ಪಾರ್ಥಮ್॥೬೯॥
ಕರ್ಮಾಣಿ ಕುರ್ವಾಣಮಮಾನುಷಾಣಿ।
ವೈಕರ್ತನಃ ಪೂರ್ವಮಮೃಷ್ಯಮಾಣಃ
ಸಮಾರ್ಪಯಲ್ಲಕ್ಷ್ಯಮಿವಾಽಽಶು ಪಾರ್ಥಮ್॥೬೯॥
ತತಶ್ಚತುರ್ಭಿಸ್ತುರಗಾನ್ ವಿಕೃಷ್ಯ
ವಿವ್ಯಾಧ ಕರ್ಣೋಽಥ ಧನಂಜಯಸ್ಯ।
ಷಡ್ಭಿಶ್ಚ ಸೂತಂ ದಶಭಿರ್ಹಯಾಂಶ್ಚ
ಷಷ್ಟ್ಯಾ ಚ ಪಾರ್ಥಂ ತ್ರಿಭಿರಸ್ಯ ಕೇತುಮ್॥೭೦॥
ವಿವ್ಯಾಧ ಕರ್ಣೋಽಥ ಧನಂಜಯಸ್ಯ।
ಷಡ್ಭಿಶ್ಚ ಸೂತಂ ದಶಭಿರ್ಹಯಾಂಶ್ಚ
ಷಷ್ಟ್ಯಾ ಚ ಪಾರ್ಥಂ ತ್ರಿಭಿರಸ್ಯ ಕೇತುಮ್॥೭೦॥
ಸವಿಷ್ಫುಲಿಂಗೋಜ್ಜ್ವಲಭೀಮಘೋಷಃ
ಕೋಪೇಂಧನಃ ಕೇತುಶಿಖಃ ಶರಾರ್ಚಿಃ।
ಕರ್ಣಾಗ್ನಿರಸ್ತ್ರಾನಿಲಭೀಮವಾತೋ
ಬಭೌ ದಿಧಕ್ಷನ್ನಿವ ಪಾರ್ಥಕಕ್ಷಮ್॥೭೧॥
ಕೋಪೇಂಧನಃ ಕೇತುಶಿಖಃ ಶರಾರ್ಚಿಃ।
ಕರ್ಣಾಗ್ನಿರಸ್ತ್ರಾನಿಲಭೀಮವಾತೋ
ಬಭೌ ದಿಧಕ್ಷನ್ನಿವ ಪಾರ್ಥಕಕ್ಷಮ್॥೭೧॥
ಸ್ವನೇಮಿಶಂಖಸ್ವನಭೀಮಘೋಷಶ್-
ಚಲತ್ಪತಾಕೋಜ್ಜ್ವಲಭೀಮವಿದ್ಯುತ್।
ಪಾರ್ಥಾಂಬುದಃ ಶಸ್ತ್ರಶರಾಂಬುಧಾರಃ
ಕರ್ಣಾನಲಂ ಸಂಶಮಯಾಂ ಚಕಾರ॥೭೨॥
ಚಲತ್ಪತಾಕೋಜ್ಜ್ವಲಭೀಮವಿದ್ಯುತ್।
ಪಾರ್ಥಾಂಬುದಃ ಶಸ್ತ್ರಶರಾಂಬುಧಾರಃ
ಕರ್ಣಾನಲಂ ಸಂಶಮಯಾಂ ಚಕಾರ॥೭೨॥
ತೇನಾತಿವಿದ್ಧಃ ಸಮರೇ ಕಿರೀಟೀ
ಪ್ರಬೋಧಿತಃ ಸಿಂಹ ಇವ ಪ್ರಸುಪ್ತಃ।
ಗಾಂಡೀವಧನ್ವಾ ಪ್ರವರಃ ಕುರೂಣಾಂ
ಪ್ರತತ್ತ್ವರೇ ಕರ್ಣವಧಾಯ ಜಿಷ್ಣುಃ॥೭೩॥
ಪ್ರಬೋಧಿತಃ ಸಿಂಹ ಇವ ಪ್ರಸುಪ್ತಃ।
ಗಾಂಡೀವಧನ್ವಾ ಪ್ರವರಃ ಕುರೂಣಾಂ
ಪ್ರತತ್ತ್ವರೇ ಕರ್ಣವಧಾಯ ಜಿಷ್ಣುಃ॥೭೩॥
ಸ ಬ್ರಾಹ್ಮಮಸ್ತ್ರಂ ಸಮರೇ ಕಿರೀಟೀ
ಪ್ರಾದುಶ್ಚಕಾರಾದ್ಭುತವೀರ್ಯಕರ್ಮಾ।
ಸಂತಾಪಯನ್ ಕರ್ಣರಥಂ ಶರೌಘೈರ್-
ಲೋಕಾನಿಮಾಂತ್ಸೂರ್ಯ ಇವಾಂಶುಮಾಲೀ॥೭೪॥
ಪ್ರಾದುಶ್ಚಕಾರಾದ್ಭುತವೀರ್ಯಕರ್ಮಾ।
ಸಂತಾಪಯನ್ ಕರ್ಣರಥಂ ಶರೌಘೈರ್-
ಲೋಕಾನಿಮಾಂತ್ಸೂರ್ಯ ಇವಾಂಶುಮಾಲೀ॥೭೪॥
ಸ ಹಸ್ತಿನೇವಾಭಿಹತೋ ಗಜೇಂದ್ರಃ
ಪ್ರಗೃಹ್ಯ ಭಲ್ಲಾನ್ ನಿಶಿತಾನ್ ನಿಷಂಗಾತ್।
ಆಕರ್ಣಪೂರ್ಣೇ ತು ಧನುರ್ವಿಕೃಷ್ಯ
ವಿವ್ಯಾಧ ಬಾಣೈರಥ ಸೂತಪುತ್ರಮ್॥೭೫॥
ಪ್ರಗೃಹ್ಯ ಭಲ್ಲಾನ್ ನಿಶಿತಾನ್ ನಿಷಂಗಾತ್।
ಆಕರ್ಣಪೂರ್ಣೇ ತು ಧನುರ್ವಿಕೃಷ್ಯ
ವಿವ್ಯಾಧ ಬಾಣೈರಥ ಸೂತಪುತ್ರಮ್॥೭೫॥
ಅಥಾಸ್ಯ ಬಾಹೂ ಸಶಿರೋ ಲಲಾಟಂ
ಗ್ರೀವಾಮುರಃ ಸ್ಕಂಧಭುಜಾಂತರಂ ಚ।
ಕರ್ಣಸ್ಯ ಪಾರ್ಥೋ ಯುಧಿ ನಿರ್ಬಿಭೇದ
ವಜ್ರೈರಿವಾದ್ರಿಂ ಭಗವಾನ್ ಮಹೇಂದ್ರಃ॥೭೬॥
ಗ್ರೀವಾಮುರಃ ಸ್ಕಂಧಭುಜಾಂತರಂ ಚ।
ಕರ್ಣಸ್ಯ ಪಾರ್ಥೋ ಯುಧಿ ನಿರ್ಬಿಭೇದ
ವಜ್ರೈರಿವಾದ್ರಿಂ ಭಗವಾನ್ ಮಹೇಂದ್ರಃ॥೭೬॥
ಸ ಪಾರ್ಥಮುಕ್ತಾನವಿಷಹ್ಯ ಬಾಣಾನ್
ಗಜೋ ಗಜೇನೇವ ಜಿತಸ್ತರಸ್ವೀ।
ವಿಹಾಯ ಸಂಗ್ರಾಮಶಿರೋಪಯಾತೋ
ವೈಕರ್ತನಃ ಪಾರ್ಥಶರಾಭಿತಪ್ತಃ॥೭೭॥
ಗಜೋ ಗಜೇನೇವ ಜಿತಸ್ತರಸ್ವೀ।
ವಿಹಾಯ ಸಂಗ್ರಾಮಶಿರೋಪಯಾತೋ
ವೈಕರ್ತನಃ ಪಾರ್ಥಶರಾಭಿತಪ್ತಃ॥೭೭॥
॥ಇತಿ ಶ್ರೀಮನ್ಮಹಾಭಾರತೇ ವಿರಾಟಪರ್ವಣಿ ಗೋಗ್ರಹಣಪರ್ವಣಿ ಅಷ್ಟಪಂಚಾಶೋಽಧ್ಯಾಯಃ॥೫೮॥
Aṣṭapañcāśo'dhyāyaḥ||58||
vaiśampāyana uvāca
tat prabhagnaṃ balaṃ sarvaṃ vipulaughasvanaṃ tathā|
bhīṣmamāsādya santasthau velāmiva mahodadhiḥ||1||
bhīṣmamāsādya santasthau velāmiva mahodadhiḥ||1||
tāni sarvāṇi gāṅgeyaḥ samāśvāsya parantapaḥ|
tato vyūhya mahābāhuḥ samareṣvaparājitaḥ||2||
tato vyūhya mahābāhuḥ samareṣvaparājitaḥ||2||
rathanāgāśvakalikaṃ yuyuje yuddhakovidaḥ|
abhedyaṃ parasainyānāṃ śūrairapi samīkṣitam||3||
abhedyaṃ parasainyānāṃ śūrairapi samīkṣitam||3||
ācāryaduryodhanasūtaputraiḥ
kṛpeṇa bhīṣmeṇa ca pālitāni|
avadhyakalpāni durāsadāni
rathāśvamātaṅgasamākulāni||4||
kṛpeṇa bhīṣmeṇa ca pālitāni|
avadhyakalpāni durāsadāni
rathāśvamātaṅgasamākulāni||4||
teṣāmanīkāni kirīṭamālī
vyūḍhāni dṛṣṭvā vipuladhvajāni|
gāṇḍīvadhanvā dviṣatāṃ nihantā
vairāṭimāmantrya tato'bhyuvāca||5||
vyūḍhāni dṛṣṭvā vipuladhvajāni|
gāṇḍīvadhanvā dviṣatāṃ nihantā
vairāṭimāmantrya tato'bhyuvāca||5||
susaṅgṛhītairatha raśmibhistvaṃ
hayān niyamya prasamīkṣya yattaḥ|
sampreṣayā''śu prativīramenaṃ
vaikartanaṃ yodhayituṃ vṛṇomi||6||
hayān niyamya prasamīkṣya yattaḥ|
sampreṣayā''śu prativīramenaṃ
vaikartanaṃ yodhayituṃ vṛṇomi||6||
yāṃ hastikakṣyāṃ bahudhā vicitrāṃ
stambhe rathe paśyasi darśanīyām|
vivartamānāṃ jvalanaprakāśāṃ
vaikartanasyaitadanīkamagryam||7||
stambhe rathe paśyasi darśanīyām|
vivartamānāṃ jvalanaprakāśāṃ
vaikartanasyaitadanīkamagryam||7||
etena śīghraṃ pratipādayemān
śvetān hayān kāñcanajālakakṣyān|
sarvaṃ javaṃ tatra vidarśayiṣye
hyāsādayaitad rathavīravṛndam||8||
śvetān hayān kāñcanajālakakṣyān|
sarvaṃ javaṃ tatra vidarśayiṣye
hyāsādayaitad rathavīravṛndam||8||
gajo gajeneva hi yoddhukāmo
mayā sadā kāṅkṣati sūtaputraḥ|
tameva māṃ prāpaya sūtaputraṃ
duryodhanopāśrayajātadarpam|
taṃ pātayiṣyāmi rathasya madhye
sahasranetro'śanineva vṛtram||9||
mayā sadā kāṅkṣati sūtaputraḥ|
tameva māṃ prāpaya sūtaputraṃ
duryodhanopāśrayajātadarpam|
taṃ pātayiṣyāmi rathasya madhye
sahasranetro'śanineva vṛtram||9||
vaiśampāyana uvāca
sa tairhayairjātajavairbṛhadbhiḥ
putro virāṭasya hiraṇyakakṣyai|
vidhvaṃsayaṃstad rathināmanīkaṃ
tato'vahat pāṇḍavamājimadhye||10||
putro virāṭasya hiraṇyakakṣyai|
vidhvaṃsayaṃstad rathināmanīkaṃ
tato'vahat pāṇḍavamājimadhye||10||
tamāpatantaṃ parameṇa tejasā
samīkṣya vaikartanamabhyarakṣan|
abhyadravaṃste rathavīravṛndā
vyāghreṇa cākrāntamivarṣabhaṃ raṇe||11||
samīkṣya vaikartanamabhyarakṣan|
abhyadravaṃste rathavīravṛndā
vyāghreṇa cākrāntamivarṣabhaṃ raṇe||11||
citrāṅgadaścitrarathaśca vīraḥ
saṅgrāmajid duḥsahacitrasenau|
viviṃśatirdurmukhadurjayau ca
vikarṇaduḥśāsanasaubalāśca|
śoṇo niṣedhaśca tamanvayuste
vaikartanaṃ śīghrataraṃ yuvānaḥ||12||
saṅgrāmajid duḥsahacitrasenau|
viviṃśatirdurmukhadurjayau ca
vikarṇaduḥśāsanasaubalāśca|
śoṇo niṣedhaśca tamanvayuste
vaikartanaṃ śīghrataraṃ yuvānaḥ||12||
putrā yayuste sahasodarāśca
vaikartanaṃ pārthagataṃ samīkṣya|
pragṛhya cāpāni mahābalā raṇe
dhanañjayaṃ paryakirañcharārcibhiḥ||13||
vaikartanaṃ pārthagataṃ samīkṣya|
pragṛhya cāpāni mahābalā raṇe
dhanañjayaṃ paryakirañcharārcibhiḥ||13||
teṣāṃ dhanurjyākṛtanaikatantrīṃ
prāsopavīṇāṃ śarasaṅghakoṇām|
karāgrayantrāṃ sthiracāpadaṇḍāṃ
vīṇāmupāvādayadāśu pārthaḥ||14||
prāsopavīṇāṃ śarasaṅghakoṇām|
karāgrayantrāṃ sthiracāpadaṇḍāṃ
vīṇāmupāvādayadāśu pārthaḥ||14||
tasmiṃstu yuddhe tumule pravṛtte
pārthaṃ vikarṇo'tirathaṃ rathena|
vipāṭhavarṣeṇa kurupravīro
bhīmena bhīmānujamāsasāda||15||
pārthaṃ vikarṇo'tirathaṃ rathena|
vipāṭhavarṣeṇa kurupravīro
bhīmena bhīmānujamāsasāda||15||
tato vikarṇasya dhanurvikṛtya
jāmbūnadenopahitaṃ dṛḍhajyam|
nyapātayat taddhvajamasya viddhvā
chinnadhvajaḥ so'pyapayājjavena||16||
jāmbūnadenopahitaṃ dṛḍhajyam|
nyapātayat taddhvajamasya viddhvā
chinnadhvajaḥ so'pyapayājjavena||16||
taṃ śātravāṇāṃ gaṇavādhitāraṃ
karmāṇi kurvāṇamamānuṣāṇi|
śatruntapo vairamamṛṣyamāṇaḥ
samārpayat kūrmanakhena pārtham||17||
karmāṇi kurvāṇamamānuṣāṇi|
śatruntapo vairamamṛṣyamāṇaḥ
samārpayat kūrmanakhena pārtham||17||
sa tena rājñā'tirathena viddho
vigāhamāno dhvajinīṃ pareṣām|
śatruntapaṃ pañcabhirāśu viddhvā
tato'sya sūtaṃ daśabhirjaghāna||18||
vigāhamāno dhvajinīṃ pareṣām|
śatruntapaṃ pañcabhirāśu viddhvā
tato'sya sūtaṃ daśabhirjaghāna||18||
tataḥ sa viddho bharatarṣabheṇa
bāṇena kāyāvaraṇātigena|
gatāsurājau nipapāta rājan
nago nagāgrādiva vātarugṇaḥ||19||
bāṇena kāyāvaraṇātigena|
gatāsurājau nipapāta rājan
nago nagāgrādiva vātarugṇaḥ||19||
ratharṣabhāste tu ratharṣabheṇa
vīrā raṇe vīratareṇa bhagnāḥ|
cakampire vātavaśena kāle
prakampitānīva mahāvanāni||20||
vīrā raṇe vīratareṇa bhagnāḥ|
cakampire vātavaśena kāle
prakampitānīva mahāvanāni||20||
hatāśca pārthena narapravīrā
bhūmau yuvānaḥ suṣupuḥ suveṣāḥ|
vasupradā vāsavatulyavīryāḥ
parājitā vāsavajena saṅkhye|
suvarṇakārṣṇāyasavarmanaddhā
nāgā yathā haimavate pravṛddhāḥ||21||
bhūmau yuvānaḥ suṣupuḥ suveṣāḥ|
vasupradā vāsavatulyavīryāḥ
parājitā vāsavajena saṅkhye|
suvarṇakārṣṇāyasavarmanaddhā
nāgā yathā haimavate pravṛddhāḥ||21||
tathā sa śatrūn samare vinighnan
gāṇḍīvadhanvā puruṣapravīraḥ|
cacāra saṅkhye vidiśo diśaśca
dahannivāgnirvanamātapānte||22||
gāṇḍīvadhanvā puruṣapravīraḥ|
cacāra saṅkhye vidiśo diśaśca
dahannivāgnirvanamātapānte||22||
sujīrṇaparṇāni yathā vasante
viśātayitvā tu rajo nudan khe|
tathā sapatnān vikiran kirīṭī
cacāra saṅkhye'tiratho rathena||23||
viśātayitvā tu rajo nudan khe|
tathā sapatnān vikiran kirīṭī
cacāra saṅkhye'tiratho rathena||23||
śoṇāśvavāhasya hayān nihatya
vaikartanabhrāturadīnasattvaḥ|
ekena saṅgrāmajitaḥ śareṇa
śiro jahārātha kirīṭamālī||24||
vaikartanabhrāturadīnasattvaḥ|
ekena saṅgrāmajitaḥ śareṇa
śiro jahārātha kirīṭamālī||24||
tasmin hate bhrātari sūtaputro
vaikartano vīryamadapratāpī|
pragṛhya dantāviva nāgarājo
mahābalaḥ siṃhamivājagāma||25||
vaikartano vīryamadapratāpī|
pragṛhya dantāviva nāgarājo
mahābalaḥ siṃhamivājagāma||25||
sa pāṇḍavaṃ dvādaśabhiḥ pṛṣatkair-
vaikartanaḥ pārthamupājaghāna|
vivyādha gātreṣu hayāṃśca sarvān
virāṭaputraṃ ca śarairvijaghne||26||
vaikartanaḥ pārthamupājaghāna|
vivyādha gātreṣu hayāṃśca sarvān
virāṭaputraṃ ca śarairvijaghne||26||
tamāpatantaṃ samare kirīṭī
vaikartanaṃ sarvasamṛddhatejāḥ|
pracchādayāmāsa mahādhanuṣmān
nyaṣedhayacchatrugaṇāṃśca vīraḥ||27||
vaikartanaṃ sarvasamṛddhatejāḥ|
pracchādayāmāsa mahādhanuṣmān
nyaṣedhayacchatrugaṇāṃśca vīraḥ||27||
nihatya karṇasya tataḥ kirīṭī
puraścarāṃścāpi ca pṛṣṭhagopān|
samīpamabhyāgamadaprameyo
vitatya pakṣau garuḍo yathoragam||28||
puraścarāṃścāpi ca pṛṣṭhagopān|
samīpamabhyāgamadaprameyo
vitatya pakṣau garuḍo yathoragam||28||
tāvuttamau sarvadhanurdharāṇāṃ
mahābalau sarvasapatnasāhau|
karṇaṃ ca pārthaṃ ca niśamya yuddhe
didṛkṣamāṇāḥ kuravo'vatasthuḥ||29||
mahābalau sarvasapatnasāhau|
karṇaṃ ca pārthaṃ ca niśamya yuddhe
didṛkṣamāṇāḥ kuravo'vatasthuḥ||29||
taṃ pāṇḍavaḥ spaṣṭamudīrṇakopaṃ
kṛtāgasaṃ karṇamudīkṣya kopāt|
kṣaṇena sāśvaṃ sarathaṃ sasūta-
mantardadhe megha ivātivṛṣṭyā||30||
kṛtāgasaṃ karṇamudīkṣya kopāt|
kṣaṇena sāśvaṃ sarathaṃ sasūta-
mantardadhe megha ivātivṛṣṭyā||30||
tataḥ sayugyāḥ sarathāḥ sanāgā
yodhā vinedurbharatarṣabhāṇām|
antarhitaṃ bhīṣmamukhāḥ samīkṣya
kirīṭinā karṇarathaṃ pṛṣatkaiḥ||31||
yodhā vinedurbharatarṣabhāṇām|
antarhitaṃ bhīṣmamukhāḥ samīkṣya
kirīṭinā karṇarathaṃ pṛṣatkaiḥ||31||
sa cāpi tānarjunabāhumuktāñ-
śarāñcharaughaiḥ pratihatya tūrṇam|
babhau mahātmā sadhanuḥ sabāṇaḥ
saviṣphuliṅgo'gnirivātha karṇaḥ||32||
śarāñcharaughaiḥ pratihatya tūrṇam|
babhau mahātmā sadhanuḥ sabāṇaḥ
saviṣphuliṅgo'gnirivātha karṇaḥ||32||
tatastu jajñe karatālaghoṣaḥ
saśaṅkhabherīpaṇavākulastu|
prakṣvelitāsphoṭitasiṃhanādair-
vaikartanaṃ pūjayatāṃ kurūṇām||33||
saśaṅkhabherīpaṇavākulastu|
prakṣvelitāsphoṭitasiṃhanādair-
vaikartanaṃ pūjayatāṃ kurūṇām||33||
ādhūtalāṅgūlamahāpatākaṃ
rathottamaṃ śreṣṭhatamaṃ kurūṇām|
tataḥ sagāṇḍīvakṛtapraṇādaṃ
kirīṭinaṃ prekṣya nanāda karṇaḥ||34||
rathottamaṃ śreṣṭhatamaṃ kurūṇām|
tataḥ sagāṇḍīvakṛtapraṇādaṃ
kirīṭinaṃ prekṣya nanāda karṇaḥ||34||
pārtho'pi vaikartanamardayitvā
sāśvaṃ saketuṃ sarathaṃ sasūtam|
nanāda harṣāt sahasā kirīṭī
pitāmahaṃ droṇakṛpau ca dṛṣṭvā||35||
sāśvaṃ saketuṃ sarathaṃ sasūtam|
nanāda harṣāt sahasā kirīṭī
pitāmahaṃ droṇakṛpau ca dṛṣṭvā||35||
siṣeca pārthaṃ bahubhiḥ śaraughair-
vaikartanaḥ saṃyati tīkṣṇavegaiḥ|
vaikartanaścāpi kirīṭamālī
pracchādayāmāsa śitaiḥ śaraughaiḥ||36||
vaikartanaḥ saṃyati tīkṣṇavegaiḥ|
vaikartanaścāpi kirīṭamālī
pracchādayāmāsa śitaiḥ śaraughaiḥ||36||
tayoramoghan sṛjatoḥ śaraughā-
nastrajñayorāsa mahān vimardaḥ|
rāhupramuktāviva candrasūryau
kṣaṇāntareṇānudadarśa lokaḥ||37||
nastrajñayorāsa mahān vimardaḥ|
rāhupramuktāviva candrasūryau
kṣaṇāntareṇānudadarśa lokaḥ||37||
hatāstu pārthena rathapravīrā
bhūmau yuvānaḥ suṣupuḥ sukeśāḥ|
suvarṇalohāyasavarmagātrā
vṛkṣā yathā haimavate nikṛttāḥ||38||
bhūmau yuvānaḥ suṣupuḥ sukeśāḥ|
suvarṇalohāyasavarmagātrā
vṛkṣā yathā haimavate nikṛttāḥ||38||
tathā sa śatrūn samare vinighnan
gāṇḍīvadhanvā vyadhamat sapatnān|
cacāra saṅkhye vidiśo diśaśca
dahannivāgnirvanamātapānte||39||
gāṇḍīvadhanvā vyadhamat sapatnān|
cacāra saṅkhye vidiśo diśaśca
dahannivāgnirvanamātapānte||39||
suśīrṇaparṇāni yathā vasante
vidhūnayanvāyurivālpasārān|
tathā sapatnān vidhaman kirīṭī
cacāra saṅkhye'tiratho rathena||40||
vidhūnayanvāyurivālpasārān|
tathā sapatnān vidhaman kirīṭī
cacāra saṅkhye'tiratho rathena||40||
śatrūnivendraḥ samare kirīṭī
vidrāvayaṃstad rathavīrabṛndam|
prācchādayaccārukirīṭamālī
vareṣubhiḥ śatrugaṇānanekān||41||
vidrāvayaṃstad rathavīrabṛndam|
prācchādayaccārukirīṭamālī
vareṣubhiḥ śatrugaṇānanekān||41||
karṇaṃ tadovāca kirīṭamālī
śūraḥ kurūṇāṃ pravaro'bhigarjan||42||
karṇa yastvaṃ sabhāmadhye bahvabaddhaṃ prabhāṣase|
na me yudhi samo'stīti tadidaṃ pratyupasthitam||43||
na me yudhi samo'stīti tadidaṃ pratyupasthitam||43||
sabhāyāṃ pauruṣaṃ procya dharmamutsṛjya kevalam|
kartumicchasi yat karma tanmanye duṣkaraṃ tvayā||44||
kartumicchasi yat karma tanmanye duṣkaraṃ tvayā||44||
yat tvayā kathitaṃ pūrvaṃ nāsti matsama ityapi|
tat satyaṃ kuru rādheya kurumadhye mayā saha||45||
tat satyaṃ kuru rādheya kurumadhye mayā saha||45||
sabhāyāṃ yastu pāñcālīṃ kliśyamānāṃ tadā tvayā|
dṛṣṭavānasmi tasyādya phalamaśnuhi kevalam||46||
dṛṣṭavānasmi tasyādya phalamaśnuhi kevalam||46||
dharmapāśanibaddhena yanmayā marṣitaṃ tava|
tasya pāpasya rādheya phalaṃ prāpnuhi durmate||47||
tasya pāpasya rādheya phalaṃ prāpnuhi durmate||47||
ehi karṇa mayā sārdhamihādya kuru vaiśasam|
prekṣakā kuravaḥ santu sarve te sahasainikāḥ||48||
prekṣakā kuravaḥ santu sarve te sahasainikāḥ||48||
idānīmeva tāvat tvamapayāto raṇānmama|
kasmājjīvasi rādheya nihatastvanujastava||49||
kasmājjīvasi rādheya nihatastvanujastava||49||
yo bhrātaraṃ pātayitvā kastyaktvā ca raṇājiram|
tvadanyaḥ puruṣaḥ satsu brūyādevaṃ vyavasthitaḥ||50||
tvadanyaḥ puruṣaḥ satsu brūyādevaṃ vyavasthitaḥ||50||
karṇa uvāca
bravīṣi vācā yat pārtha karmaṇā tat samācara|
viśeṣito hi tvaṃ vācā karmaṇā'pratimaṃ bhuvi||51||
viśeṣito hi tvaṃ vācā karmaṇā'pratimaṃ bhuvi||51||
yat tvayā marṣitaṃ pūrvaṃ tadaśaktena marṣitam|
iti gṛhṇīma te pārtha tamadṛṣṭvā parākramam||52||
iti gṛhṇīma te pārtha tamadṛṣṭvā parākramam||52||
dharmapāśanibaddhena yat tvayā marṣitaṃ purā|
tathaiva baddhamātmānamabaddha iti manyase||53||
tathaiva baddhamātmānamabaddha iti manyase||53||
na hi tāvad vane vāso yathoktaṃ caritastvayā|
kliṣṭastvamarthalobhāt tu samayaṃ chettumicchasi||54||
kliṣṭastvamarthalobhāt tu samayaṃ chettumicchasi||54||
yadi cendraḥ svayaṃ pārtha tava yuddhyeta kāraṇāt|
tathā'pi na vyathā kācinmama syād vikramiṣyataḥ||55||
tathā'pi na vyathā kācinmama syād vikramiṣyataḥ||55||
ayaṃ kaunteyakāmaste na cirāt samupasthitaḥ|
yotsyase hi mayā sārdhamatra paśyāmi te balam||56||
yotsyase hi mayā sārdhamatra paśyāmi te balam||56||
vaiśampāyana uvāca
iti karṇo bruvanneva bībhatsumaparājitam|
abhyayād visṛjan bāṇān kāyāvaraṇabhedinaḥ||57||
abhyayād visṛjan bāṇān kāyāvaraṇabhedinaḥ||57||
pratijagrāha tān pārthaḥ prīyamāṇo mahārathaḥ||58||
śaravarṣeṇa mahatā parjanya iva vṛṣṭimān|
abhīyāya hi bībhatsurgāṇḍīvaṃ vikṣipan dhanuḥ||59||
abhīyāya hi bībhatsurgāṇḍīvaṃ vikṣipan dhanuḥ||59||
jighāṃsuḥ samare karṇaṃ visasarja śarān bahūn|
tān karṇaḥ pratijagrāha vāyuvegamivācalaḥ||60||
tān karṇaḥ pratijagrāha vāyuvegamivācalaḥ||60||
tayordaivāsurasamaḥ sannipāto'bhavanmahān|
kiratoḥ śarajālāni kṛtsnaṃ vyoma nirantaram||61||
kiratoḥ śarajālāni kṛtsnaṃ vyoma nirantaram||61||
utpeturmeghajālāni ghorarūpāṇi sarvaśaḥ|
vavarṣa ca rajo bhaumaṃ karṇapārthasamāgame||62||
vavarṣa ca rajo bhaumaṃ karṇapārthasamāgame||62||
na sma sūryaḥ pratapati na ca vāti samīraṇaḥ|
śarapracchāditaṃ vyoma chāyābhūtamivābhavat||63||
śarapracchāditaṃ vyoma chāyābhūtamivābhavat||63||
gāṇḍīvasya ca nirghoṣaḥ karṇasya dhanuṣastathā|
dahyatāmiva veṇūnāmāsīt paramadāruṇaḥ||64||
dahyatāmiva veṇūnāmāsīt paramadāruṇaḥ||64||
arjunastu hayān nāgān rathāṃśca vinipātayan|
kṣobhayāmāsa tat sainyaṃ karṇaṃ vivyādha cāsakṛt||65||
kṣobhayāmāsa tat sainyaṃ karṇaṃ vivyādha cāsakṛt||65||
tataḥ pārtho mahābāhuḥ karṇasya dhanuracchinat|
chinnadhanvā tataḥ karṇaḥ śaktiṃ cikṣepa vegavān|
tāṃ śaktiṃ samare pārthaściccheda niśitaiḥ śaraiḥ||66||
chinnadhanvā tataḥ karṇaḥ śaktiṃ cikṣepa vegavān|
tāṃ śaktiṃ samare pārthaściccheda niśitaiḥ śaraiḥ||66||
tato nipeturbahuśo rādheyasya padānugāḥ|
tāṃśca gāṇḍīvanirmuktaiḥ prāhiṇod yamasādanam||67||
tāṃśca gāṇḍīvanirmuktaiḥ prāhiṇod yamasādanam||67||
aśeratā''vṛtya mahīṃ samagrāṃ
pārtheṣumārge nihatā dvipendrāḥ|
hiraṇyakakṣyāṃ śarajālacitrā
yathā nagāḥ pāvakajālanaddhāḥ||68||
pārtheṣumārge nihatā dvipendrāḥ|
hiraṇyakakṣyāṃ śarajālacitrā
yathā nagāḥ pāvakajālanaddhāḥ||68||
taṃ śatrusenāṅganibarhaṇāni
karmāṇi kurvāṇamamānuṣāṇi|
vaikartanaḥ pūrvamamṛṣyamāṇaḥ
samārpayallakṣyamivā''śu pārtham||69||
karmāṇi kurvāṇamamānuṣāṇi|
vaikartanaḥ pūrvamamṛṣyamāṇaḥ
samārpayallakṣyamivā''śu pārtham||69||
tataścaturbhisturagān vikṛṣya
vivyādha karṇo'tha dhanañjayasya|
ṣaḍbhiśca sūtaṃ daśabhirhayāṃśca
ṣaṣṭyā ca pārthaṃ tribhirasya ketum||70||
vivyādha karṇo'tha dhanañjayasya|
ṣaḍbhiśca sūtaṃ daśabhirhayāṃśca
ṣaṣṭyā ca pārthaṃ tribhirasya ketum||70||
saviṣphuliṅgojjvalabhīmaghoṣaḥ
kopendhanaḥ ketuśikhaḥ śarārciḥ|
karṇāgnirastrānilabhīmavāto
babhau didhakṣanniva pārthakakṣam||71||
kopendhanaḥ ketuśikhaḥ śarārciḥ|
karṇāgnirastrānilabhīmavāto
babhau didhakṣanniva pārthakakṣam||71||
svanemiśaṅkhasvanabhīmaghoṣaś-
calatpatākojjvalabhīmavidyut|
pārthāmbudaḥ śastraśarāmbudhāraḥ
karṇānalaṃ saṃśamayāṃ cakāra||72||
calatpatākojjvalabhīmavidyut|
pārthāmbudaḥ śastraśarāmbudhāraḥ
karṇānalaṃ saṃśamayāṃ cakāra||72||
tenātividdhaḥ samare kirīṭī
prabodhitaḥ siṃha iva prasuptaḥ|
gāṇḍīvadhanvā pravaraḥ kurūṇāṃ
pratattvare karṇavadhāya jiṣṇuḥ||73||
prabodhitaḥ siṃha iva prasuptaḥ|
gāṇḍīvadhanvā pravaraḥ kurūṇāṃ
pratattvare karṇavadhāya jiṣṇuḥ||73||
sa brāhmamastraṃ samare kirīṭī
prāduścakārādbhutavīryakarmā|
santāpayan karṇarathaṃ śaraughair-
lokānimāntsūrya ivāṃśumālī||74||
prāduścakārādbhutavīryakarmā|
santāpayan karṇarathaṃ śaraughair-
lokānimāntsūrya ivāṃśumālī||74||
sa hastinevābhihato gajendraḥ
pragṛhya bhallān niśitān niṣaṅgāt|
ākarṇapūrṇe tu dhanurvikṛṣya
vivyādha bāṇairatha sūtaputram||75||
pragṛhya bhallān niśitān niṣaṅgāt|
ākarṇapūrṇe tu dhanurvikṛṣya
vivyādha bāṇairatha sūtaputram||75||
athāsya bāhū saśiro lalāṭaṃ
grīvāmuraḥ skandhabhujāntaraṃ ca|
karṇasya pārtho yudhi nirbibheda
vajrairivādriṃ bhagavān mahendraḥ||76||
grīvāmuraḥ skandhabhujāntaraṃ ca|
karṇasya pārtho yudhi nirbibheda
vajrairivādriṃ bhagavān mahendraḥ||76||
sa pārthamuktānaviṣahya bāṇān
gajo gajeneva jitastarasvī|
vihāya saṅgrāmaśiropayāto
vaikartanaḥ pārthaśarābhitaptaḥ||77||
gajo gajeneva jitastarasvī|
vihāya saṅgrāmaśiropayāto
vaikartanaḥ pārthaśarābhitaptaḥ||77||
||iti śrīmanmahābhārate virāṭaparvaṇi gograhaṇaparvaṇi aṣṭapañcāśo'dhyāyaḥ||58||