Home / Puja Vidhanam

Śrī-ṛṣipañcamī-vratam

Puja Vidhanam

श्री-ऋषिपञ्चमी-व्रतम्

(मूलम्—श्रीव्रतरत्नाकरः, प्रथमो भागः; उद्यापनविधिः ब्रह्माण्डपुराणोक्तः)

पूर्वाङ्ग-विघ्नेश्वर-पूजा

(आचम्य)

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये॥

प्राणान् आयम्य।
[अप उपस्पृश्य, पुष्पाक्षतान् गृहीत्वा।]

तदेव लग्नं सुदिनं तदेव ताराबलं चन्द्रबलं तदेव।
विद्याबलं दैवबलं तदेव लक्ष्मीपतेरङ्घ्रियुगं स्मरामि॥

ममोपात्त-समस्त-दुरित-क्षयद्वारा
श्री-परमेश्वर-प्रीत्यर्थं करिष्यमाणस्य कर्मणः
अविघ्नेन परिसमाप्त्यर्थम् आदौ विघ्नेश्वरपूजां करिष्ये।
[अप उपस्पृश्य]

अगजानानपद्मार्कं गजाननमहर्निशम्।
अनेकदं तं भक्तानाम् एकदन्तमुपास्महे॥

अस्मिन् हरिद्राबिम्बे सुमुखं महागणपतिं ध्यायामि, आवाहयामि।
श्री- महागणपतये नमः, आसनं समर्पयामि।
श्री- महागणपतये नमः, पादयोः पाद्यं समर्पयामि।
श्री- महागणपतये नमः, अर्घ्यं समर्पयामि।
श्री- महागणपतये नमः, आचमनीयं समर्पयामि।
श्री- महागणपतये नमः, मधुपर्कं समर्पयामि।
श्री- महागणपतये नमः, शुद्धोदकस्नानं समर्पयामि। स्नानानन्तरमाचमनीयं समर्पयामि।
श्री- महागणपतये नमः, वस्त्रार्थमक्षतान् समर्पयामि।
श्री- महागणपतये नमः, यज्ञोपवीताभरणार्थे अक्षतान् समर्पयामि।
श्री- महागणपतये नमः, दिव्यपरिमलगन्धान् धारयामि। गन्धस्योपरि हरिद्राकुङ्कुमं समर्पयामि।
श्री- महागणपतये नमः, अक्षतान् समर्पयामि।
श्री- महागणपतये नमः, पुष्पमालिकां समर्पयामि। पुष्पैः पूजयामि।

अर्चना

सुमुखाय नमः
एकदन्ताय नमः
कपिलाय नमः
गजकर्णकाय नमः
लम्बोदराय नमः
विकटाय नमः
विघ्नराजाय नमः
विनायकाय नमः
धूमकेतवे नमः
गणाध्यक्षाय नमः
फालचन्द्राय नमः
गजाननाय नमः
वक्रतुण्डाय नमः
शूर्पकर्णाय नमः
हेरम्बाय नमः
स्कन्दपूर्वजाय नमः
श्री- महागणपतये नमः, नानाविधपरिमलपत्रपुष्पाणि समर्पयामि।
श्री- महागणपतये नमः, धूपमाघ्रापयामि।
श्री- महागणपतये नमः, अलङ्कारदीपं सन्दर्शयामि।
श्री- महागणपतये नमः, ( ) (नैवेद्यं) निवेदयामि।
निवेदनान्तरम् आचमनीयं समर्पयामि।
श्री- महागणपतये नमः, ताम्बूलं समर्पयामि।
श्री- महागणपतये नमः, कर्पूरनीराजनं दर्शयामि। कर्पूरनीराजनानन्तरमाचमनीयं समर्पयामि।
श्री- महागणपतये नमः, मन्त्रपुष्पं समर्पयामि। स्वर्णपुष्पं समर्पयामि।

अभीप्सितार्थसिद्ध्यर्थं पूजितो यः सुरैरपि।
सर्वविघ्नच्छिदे तस्मै गणाधिपतये नमः॥
गजाननं भूतगणादिसेवितं कपित्थ-जम्बूफल-सार-भक्षितम्।
उमासुतं शोकविनाशकारणं नमामि विघ्नेश्वरपादपङ्कजम्॥

अनन्तकोटिप्रदक्षिणनमस्कारान् समर्पयामि।
छत्त्रचामरादिसमस्तोपचारान् समर्पयामि।

वक्रतुण्डमहाकाय कोटिसूर्यसमप्रभ।
अविघ्नं कुरु मे देव सर्वकार्येषु सर्वदा॥
सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः।
लम्बोदरश्च विकटो विघ्नराजो गणाधिपः॥
धूमकेतुर्गणाध्यक्षो फालचन्द्रो गजाननः।
वक्रतुण्डः शूर्पकर्णो हेरम्भः स्कन्दपूर्वजः॥
षोडशैतानि नामानि यः पठेच्छृणुयादपि।
विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा।
सङ्ग्रामे सर्वकार्येषु विघ्नस्तस्य न जायते॥

प्रार्थनाः समर्पयामि।

प्रधान-पूजा — सप्तर्षि-अरुन्धती-पूजा

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये॥

भाद्रपद-शुक्ल-पञ्चम्यां मध्याह्नव्यापिन्यां कर्तव्यमिदं व्रतम्। प्रातः स्नानानन्तरं
अपामार्ग-समिधा (अथवा सप्तसंख्याभिः) दन्तधावनं कुर्यात्।

दन्तधावन-प्रार्थना

आयुर्बलं यशो वर्चः प्रजाः पशुवसूनि च।
ब्रह्म प्रज्ञां च मेधां च त्वन्नो देहि वनस्पते॥
मुखदुर्गन्धनाशाय दन्तानां च विशुद्धये।
ष्ठीवनाय च गात्राणां कुर्वेऽहं दन्तधावनम्॥

अनेन दन्तान् संशोध्य मृत्स्नापूर्वकं स्नायात्। रजस्वला-दोष-निवृत्त्यर्थं रक्तवस्त्रदानं
कुर्यात्। ततः पञ्चगव्य-सम्मेलनं कृत्वा प्रतिमां शोधयेत्।

पञ्चगव्य-मन्त्राः

गायत्र्या गोमूत्रम्, "गन्धद्वारा"मिति गोमयम्, "आप्यायस्वे"ति क्षीरम्,
"दधिक्राव्णो" इति दधि, "शुक्रमसी"त्याज्यम्, "देवस्य त्वे"ति कुशोदकम् — एभिः
दर्भैः प्रणवेनालोड्य, प्रणवेनाभिमन्त्र्य पञ्चगव्येन प्रतिमाशुद्धिं कृत्वा प्राशयेत्।

यत्त्वगस्थिगतं पापं देहे तिष्ठति मामके।
प्राशनं पञ्चगव्यस्य दहत्वग्निरिवेन्धनम्॥

गृहं गत्वा गोमयेनोपलिप्तां रङ्गवल्लीशोभितां वेदिं सर्वतोभद्रमण्डलयुक्तां
कुर्यात्, अव्रणं सजलं ताम्रं वा मृण्मयं कुम्भं वस्त्रसंयुक्तं
पञ्चरत्नफलगन्धाक्षतैर्युतं सहिरण्यं संस्थाप्य, कण्ठे वेष्टितं वस्त्रेणाच्छाद्य,
अष्टदलं तत्र लिखित्वा तस्मिन् सप्त ऋषीन् दिव्यान् भक्तियुक्तः प्रपूजयेत्।

सङ्कल्पः

ममोपात्त-समस्त-दुरित-क्षयद्वारा श्री-परमेश्वर-प्रीत्यर्थं शुभे शोभने मुहूर्ते अद्य ब्रह्मणः
द्वितीयपरार्धे श्वेतवराहकल्पे वैवस्वतमन्वन्तरे अष्टाविंशतितमे कलियुगे प्रथमे पादे
जम्बूद्वीपे भारतवर्षे भरतखण्डे मेरोः दक्षिणे पार्श्वे शकाब्दे अस्मिन् वर्तमाने व्यावहारिकाणां
प्रभवादीनां षष्ट्याः संवत्सराणां मध्ये ( ) नाम संवत्सरे दक्षिणायने
वर्ष-ऋतौ भाद्रपद-मासे शुक्लपक्षे पञ्चम्यां शुभतिथौ ( ) वासरयुक्तायां मध्याह्नव्यापिन्यां
( ) नक्षत्र ( )-योग ( )-करण-युक्तायां च एवं गुण विशेषण विशिष्टायाम्
अस्याम् पञ्चम्यां शुभतिथौ
मम इहजन्मनि जन्मान्तरे च स्त्री-जन्म-प्रादुर्भाव-सम्भूत-रजोदर्शनादारभ्य रजोनिवृत्तिपर्यन्तं
मध्यवर्तिनि काले ऋतुमत्यां सत्यां ज्ञानतः अज्ञानतश्च आचरित-सकल-प्रतिबन्धक-दोष-निवृत्त्यर्थं
मम इहजन्मनि पूर्वजन्मनि जन्मान्तरे च सम्पादितानां ज्ञानाज्ञानकृतमहापातकचतुष्टय-व्यतिरिक्तानां
रहस्यकृतानां प्रकाशकृतानां सर्वेषां पापानां सद्य अपनोदनद्वारा सकल-पापक्षयार्थं
सौभाग्य-सन्तान-सौख्य-आयुरारोग्य-सिद्ध्यर्थम् अरुन्धती-सहित-कश्यपादि-सप्तर्षि-प्रसादसिद्ध्यर्थं
यथाशक्ति-ध्यानावाहनादिषोडशोपचारैः अरुन्धती-सहित-कश्यपादि-सप्तर्षि-पूजां करिष्ये। तदङ्गं कलशपूजां च करिष्ये।
श्रीविघ्नेश्वराय नमः यथास्थानं प्रतिष्ठापयामि। शोभनार्थे क्षेमाय पुनरागमनाय च।
(गणपति-प्रसादं शिरसा गृहीत्वा)

आसन-पूजा

पृथिव्या मेरुपृष्ठ ऋषिः। सुतलं छन्दः। कूर्मो देवता॥

पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता।
त्वं च धारय मां देवि पवित्रं चासनं कुरु॥

घण्टा-पूजा

आगमार्थं तु देवानां गमनार्थं तु रक्षसाम्।
घण्टारवं करोम्यादौ देवताऽऽह्वानकारणम्॥

कलश-पूजा

कलशाय नमः दिव्यगन्धान् धारयामि।

गङ्गे च यमुने चैव गोदावरि सरस्वति।
नर्मदे सिन्धुकावेरि जलेऽस्मिन् सन्निधिं कुरु॥

श्री- गङ्गायै नमः। श्री- यमुनायै नमः। श्री- गोदावर्यै नमः। श्री- सरस्वत्यै नमः। श्री- नर्मदायै नमः। श्री- सिन्धवे नमः। श्री- कावेर्यै नमः।
सप्तकोटिमहातीर्थान्यावाहयामि।
(अथ कलशं स्पृष्ट्वा जपं कुर्यात्)

कलशस्य मुखे विष्णुः कण्ठे रुद्रः समाश्रितः।
मूले तत्र स्थितो ब्रह्मा मध्ये मातृगणाः स्मृताः॥
कुक्षौ तु सागराः सर्वे सप्तद्वीपा वसुन्धरा।
ऋग्वेदोऽथ यजुर्वेदः सामवेदोऽप्यथर्वणः।
अङ्गैश्च सहिताः सर्वे कलशाम्बुसमाश्रिताः॥
सर्वे समुद्राः सरितः तीर्थानि च ह्रदा नदाः।
आयान्तु ऋषिपूजार्थं दुरितक्षयकारकाः॥

(इति कलशजलेन सर्वोपकरणानि आत्मानं च प्रोक्ष्य।)

आत्म-पूजा

आत्मने नमः, दिव्यगन्धान् धारयामि।

१. आत्मने नमः
२. अन्तरात्मने नमः
३. योगात्मने नमः
४. जीवात्मने नमः
५. परमात्मने नमः
६. ज्ञानात्मने नमः

समस्तोपचारान् समर्पयामि।

देहो देवालयः प्रोक्तो जीवो देवः सनातनः।
त्यजेदज्ञाननिर्माल्यं सोऽहं भावेन पूजयेत्॥

पीठ-पूजा

आधारशक्त्यै नमः
मूलप्रकृत्यै नमः
आदिकूर्माय नमः
आदिवराहाय नमः
अनन्ताय नमः
पृथिव्यै नमः
रत्नमण्डपाय नमः
रत्नवेदिकायै नमः
स्वर्णस्तम्भाय नमः
श्वेतच्छत्त्राय नमः
कल्पकवृक्षाय नमः
क्षीरसमुद्राय नमः
सितचामराभ्यां नमः
योगपीठासनाय नमः

गुरु-ध्यानम्

गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः।
गुरुः साक्षात् परं ब्रह्म तस्मै श्री-गुरवे नमः॥

प्रत्येक-ऋषि-पूजा

व्रतारम्भे आचार्य-ऋत्विग्वरणं कृत्वा, कुम्भेषु वरुणमावाह्य, तदुपरि प्रतिमासु
कश्यपादीन् आवाहयेत्। आदौ प्रत्येकम् एकैकं ऋषिं सम्पूज्य, ततः समया सर्वान् ऋषीन् पूजयेत्।

१. कश्यप-पूजा

जटिलं भस्मदिग्धाङ्गं साक्षसूत्रकमण्डलुम्।
वल्कलाजिनकौपीनं सातपत्रं सदण्डकम्॥

अदिति-सहितं कश्यपं ध्यायामि।
ऋषेर्मन्त्रकृतामित्यस्य मन्त्रस्य कश्यप ऋषिः। कश्यपो देवता। पङ्क्तिश्छन्दः।
कश्यपावाहने विनियोगः।

ऋषेर्मन्त्रकृतां स्तोमैः कश्यपोद्वर्धयन् गिरः।
सोमं नमस्य राजानं यो जज्ञे वीरुधां पतिः॥

अदिति-सहितं कश्यपम् आवाहयामि।
कश्यपाय आसनम्। मरीचिपुत्राय पाद्यम्। सूर्यजनकाय अर्घ्यम्। इन्द्रताताय
आचमनीयम्। वामनगुरवे मधुपर्कम्। अदितिभर्त्रे पञ्चामृतस्नानम्। ब्रह्मनेत्राय
शुद्धोदकस्नानम्। देवप्रियाय वस्त्रद्वयम्। सुवर्चसे यज्ञोपवीतम्। विशालाक्षाय
आभरणानि। सर्वविदे गन्धम्। महते अक्षतान् — इति क्रमेण समर्पयामि।
कश्यपाय नमः; वामनगुरवे नमः; विशालाक्षाय नमः; मरीचिपुत्राय नमः; अदितिभर्त्रे नमः; सर्वविदे नमः; कविजनकाय नमः; देवप्रियाय नमः; महते नमः; इन्द्रताताय नमः; सुवर्चसे नमः; विमलाय नमः।
इति पुष्पाणि समर्पयामि। धीमते धूपम्। अकल्मषाय दीपम्। सुमनोरथाय
नैवेद्यम्। जटिने ताम्बूलम्। दीप्ततेजसे नीराजनम्। दण्डिने मन्त्रपुष्पाणि समर्पयामि।

२. अत्रि-पूजा

मरीचितनयं देवं साक्षसूत्रकमण्डलुम्।
अनसूयापतिं शान्तम् अत्रिं निष्कल्मषं मुनिम्॥

अनसूया-समेतम् अत्रिं ध्यायामि।
स्वर्भानोरित्यस्य मन्त्रस्य मरीचिपुत्रोऽत्रिः ऋषिः। अत्रिर्देवता। त्रिष्टुप् छन्दः।
अत्र्यावाहने विनियोगः।

स्वर्भानो रथ यदिन्द्रमाया आवोदिवा वर्तमाना आवाहन्।
गूळ्हं सूर्यं तमसापवृतेन तुरीयेण ब्रह्मणा विन्ददत्रिः॥

अनसूया-समेतम् अत्रिम् आवाहयामि।
अत्रये आसनम्। धीमते पाद्यम्। योगीन्द्राय अर्घ्यम्। दत्तात्रेयप्रियाय आचमनीयम्।
चन्द्रताताय मधुपर्कम्। अनसूयापतये पञ्चामृतम्। नित्यशुद्धाय शुद्धोदकम्।
वल्कलधारिणे वस्त्रम्। ब्रह्मिष्ठाय यज्ञोपवीतम्। दीप्ताय आभरणम्। दण्डधारिणे
गन्धम्। त्रिमूर्तिजनकाय अक्षतान् — इति क्रमेण समर्पयामि।
अत्रये नमः; धीमते नमः; योगीन्द्राय नमः; दत्तात्रेयप्रियाय नमः; त्रिमूर्तिजनकाय नमः; चन्द्रताताय नमः; द्युतिमते नमः; मरीचिपुत्राय नमः।
इति पुष्पाणि समर्पयामि। सुगन्धदेहाय धूपम्। द्युतिमते दीपम्।
नित्यतृप्ताय नैवेद्यम्। विरागिणे ताम्बूलम्। अर्चिष्मते नीराजनम्। भ्राजिष्णवे
मन्त्रपुष्पम्। संयमिने प्रदक्षिणम्। दमिने नमस्कारान्। कल्मषघ्नाय पुनरर्घ्यं
समर्पयामि। अत्रये सर्वोपचारान् समर्पयामि।

३. भरद्वाज-पूजा

भरद्वाजं महाशान्तं सुशीलापतिम् ऊर्जितम्।
अक्षस्रग्गन्धहस्तं च मुनिम् आङ्गिरसं भजे॥

सुशीला-सहितं भरद्वाजं ध्यायामि।
अविन्दन्नित्यस्य मन्त्रस्य सौज्जिको भारद्वाज ऋषिः। भरद्वाजो देवता। त्रिष्टुप्छन्दः।
भरद्वाजावाहने विनियोगः।

अविन्दतेति हि हितं यदासीद्यज्ञस्य धाम परमं गुहा यत्।
धातुर्द्युतानात्सवितुश्च विष्णोर्भरद्वाजो बृहदाचक्रे अग्नेः॥

सुशीला-सहितं भरद्वाजम् आवाहयामि।
भरद्वाजाय आसनम्। भ्राजिष्णवे पाद्यम्। विदुषे अर्घ्यम्। अकल्मषाय आचमनीयम्।
वल्कलधारिणे मधुपर्कम्। पवित्रदेहाय पञ्चामृतस्नानम्। परिशुद्धाय
शुद्धोदकस्नानम्। ज्ञानिने वस्त्रम्। मुनये यज्ञोपवीतम्। ब्रह्मचारिणे आभरणानि।
त्रिकालज्ञानिने गन्धम्। मुनये अक्षतान् — इति क्रमेण समर्पयामि।
भरद्वाजाय नमः; वल्कलधारिणे नमः; मुनये नमः; भ्राजिष्णवे नमः; पवित्रदेहाय नमः; ब्रह्मचारिणे नमः; विदुषे नमः; परिशुद्धाय नमः; त्रिकालज्ञाय नमः; अकल्मषाय नमः; ज्ञानिने नमः; सुप्रसिद्धाय नमः।
इति पुष्पाणि समर्पयामि। सुनासिकाय धूपम्। ज्ञानिने दीपम्।
अवाप्तसकलकामाय नैवेद्यम्। सुमनस्काय ताम्बूलम्। तेजसे नीराजनम्। भ्राजिष्णवे
मन्त्रपुष्पम्। जितक्रोधाय आत्मप्रदक्षिणम्। अवन्दिने नमस्कारान्। मुमुक्षवे
पुनरर्घ्यम्। भरद्वाजाय सर्वोपचारान् समर्पयामि।

४. विश्वामित्र-पूजा

हिरण्यगर्भसम्भूतं जटामकुटधारिणम्।
कुमुद्वतीपतिं शान्तं विश्वामित्रमहं भजे॥

कुमुद्वती-सहितं विश्वामित्रं ध्यायामि।
इमे भोजा इत्यस्य मन्त्रस्य प्रगाथो विश्वामित्रः ऋषिः। त्रिष्टुप्छन्दः। गाधिपुत्रो
विश्वामित्रो देवता। विश्वामित्रावाहने विनियोगः।

इमे भोजा अङ्गिरसो विरूपा दिवस्पुत्रासो असुरस्य वीराः।
विश्वामित्राय ददतो मघानि सप्त प्रतिरन्तो न आयुः॥

कुमुद्वती-सहितं विश्वामित्रम् आवाहयामि।
विश्वामित्राय आसनम्। दग्धकल्मषाय पाद्यम्। शुद्धबुद्धये अर्घ्यम्। उग्रतपसे
आचमनीयम्। अव्यग्राय मधुपर्कम्। दण्डपाणये पञ्चामृतम्। कमण्डलुधराय
शुद्धोदकम्। अजिनाम्बराय वस्त्रम्। तेजस्विने यज्ञोपवीतम्। रम्याय आभरणानि।
कुशिकपौत्राय गन्धम्। वरदाय अक्षतान् — इति क्रमेण समर्पयामि।
मुमुक्षवे नमः; गायत्रीप्रियाय नमः; वेदशास्त्रार्थतत्त्वज्ञाय नमः; वीराय नमः; अमायिने नमः; ब्रह्मर्षये नमः; दग्धकल्मषाय नमः; अनघतेजसे नमः; बुद्धिप्रदाय नमः; उग्रतपसे नमः; अव्यग्राय नमः; दण्डपाणये नमः; कमण्डलुधराय नमः; अजिनाम्बराय नमः; तेजस्विने नमः; रम्याय नमः; कुशिकपौत्राय नमः; वरदाय नमः; गाधितनूभवाय नमः।
इति पुष्पाणि समर्पयामि। कमण्डलुधराय धूपम्। तेजसे दीपम्। रम्याय
नैवेद्यम्। कौशिकाय ताम्बूलम्। वरदाय नीराजनम्। गाधितनयाय मन्त्रपुष्पम्।
रुद्रप्रियाय प्रदक्षिणम्। गायत्रीजपानन्दाय नमस्कारान्। वेदशास्त्रार्थतत्त्वज्ञाय
पुनरर्घ्यम्। विश्वामित्राय सर्वोपचारान् समर्पयामि।

५. गौतम-पूजा

रहूगणात्मजं शान्तं त्रिपुण्ड्राङ्कितमस्तकम्।
अक्षस्रक्कुण्डले दण्डान् दधानं गौतमं भजे॥

अहल्या-सहितं गौतमं ध्यायामि।
अभित्वा गौतम इत्यस्य मन्त्रस्य गौतमः ऋषिः। गायत्रीछन्दः। गौतमो देवता।
गौतमावाहने विनियोगः।

अभि त्वा गौतमा गिरा जातवेदो विचर्षणे।
द्युम्नैरभि प्र णोनुमः॥

अहल्या-पतिं गौतमम् आवाहयामि।
गौतमाय आसनम्। भस्मोद्धूलितविग्रहाय पाद्यम्। रुद्राक्षमालिने अर्घ्यम्।
रुद्रप्रियाय आचमनीयम्। देवपूजानिरताय मधुपर्कम्। अहल्यापतये पञ्चामृतम्।
ध्वस्तपापाय शुद्धोदकस्नानम्। कमण्डलुधराय वस्त्रम्। सुवर्चसे यज्ञोपवीतम्।
निष्कल्मषाय आभरणानि। निरुपद्रवाय गन्धम्। निरहङ्काराय अक्षतान् — इति
क्रमेण समर्पयामि।
गौतमाय नमः; ध्वस्तपापाय नमः; भस्मोद्धूलितविग्रहाय नमः; कमण्डलुधराय नमः; निरहङ्काराय नमः; वल्कलाम्बराय नमः; नित्यतृप्ताय नमः; शिवलिङ्गार्चकाय नमः; निष्कल्मषाय नमः; निर्मोहाय नमः; निरुपद्रवाय नमः; रुद्राक्षमालिने नमः; सुवर्चसे नमः; अहल्यापतये नमः।
इति पुष्पाणि समर्पयामि। विमलाय धूपम्। द्युतिमते दीपम्। नित्यतृप्ताय
नैवेद्यम्। अक्लेशाय ताम्बूलम्। वरदाय नीराजनम्। जटिने मन्त्रपुष्पम्। संयमिने
प्रदक्षिणम्। मुमुक्षवे नमस्कारान्। गौतमाय पुनरर्घ्यं सर्वोपचारान् च समर्पयामि।

६. जमदग्नि-पूजा

शान्तं जितारिषड्वर्गं भृगुपुत्रं महाद्युतिम्।
दण्डाक्षसूत्रपाणिं च जमदग्निं नमाम्यहम्॥

रेणुका-सहितं जमदग्निं ध्यायामि।
प्रसूतो भक्षमित्यस्य मन्त्रस्य प्रगाथो जमदग्निः ऋषिः। जगतीछन्दः। जमदग्निर्देवता।
जमदग्न्यावाहने विनियोगः।

प्रसूतो भक्षं करामः स्तोमं चेमं प्रथमः सूरिरुन्मृजे।
सुते सातेन यद्यगामं वां प्रति विश्वामित्र जमदग्नीदमे॥

रेणुकापतिं जमदग्निम् आवाहयामि।
जमदग्नये आसनम्। निर्मदाय पाद्यम्। वीतरागाय अर्घ्यम्। कान्तिमते आचमनीयम्।
शान्ताय मधुपर्कम्। दान्ताय पञ्चामृतम्। शुचये शुद्धोदकम्। रामप्रियाय वस्त्रम्।
अकामाय यज्ञोपवीतम्। भक्तप्रियाय आभरणानि। दण्डिने गन्धम्। चण्डाय अक्षतान्
— इति क्रमेण समर्पयामि।
जमदग्नये नमः; कमण्डलुधराय नमः; इष्टाय नमः; साक्षस्रजे नमः; विमलाय नमः; पुष्टाय नमः; दयालवे नमः; कल्मषापहराय नमः; तुष्टाय नमः; दोषवर्जिताय नमः; इष्टप्रदाय नमः; त्वगम्बराय नमः।
इति पुष्पाणि समर्पयामि। दोषवर्जिताय धूपम्। ज्ञानिने दीपम्। विमलाय
नैवेद्यम्। कल्मषापहराय ताम्बूलम्। इष्टप्रदाय नीराजनम्। शिष्टाय मन्त्रपुष्पम्।
श्रेष्ठाय प्रदक्षिणम्। पुष्टाय नमस्कारान्। विशिष्टाय पुनरर्घ्यम्। जमदग्नये
सर्वोपचारपूजां समर्पयामि।

७. वसिष्ठ-पूजा

तपोनिधिं दयासिन्धुं ब्रह्मण्यं ब्रह्मसम्भवम्।
स्रग्गन्धपाणिं वरदं वसिष्ठं प्रणमाम्यहम्॥

अरुन्धती-सहितं वसिष्ठं ध्यायामि।
श्वित्यञ्चोमा इत्यस्य मन्त्रस्य मैत्रावरुणो वसिष्ठः ऋषिः। त्रिष्टुप्छन्दः। वसिष्ठो
देवता। वसिष्ठावाहने विनियोगः।

श्वित्यञ्चो मा दक्षिणतस्कपर्दा धियं जिन्वासो अभि हि प्र मन्दुः।
उत्तिष्ठन्वो वृषणो युध्यमाना नमेदूरादवितवे वसिष्ठाः॥

अरुन्धतीपतिं वसिष्ठम् आवाहयामि।
वसिष्ठाय आसनम्। वरिष्ठाय पाद्यम्। गरिष्ठाय अर्घ्यम्। धर्मिष्ठाय आचमनीयम्।
अरुन्धतीपतये मधुपर्कम्। दीप्तिमते पञ्चामृतस्नानम्। त्रिकालज्ञाय
शुद्धोदकस्नानम्। योगिने वस्त्रम्। रामप्रियाय यज्ञोपवीतम्।
शरणागतवत्सलाय आभरणम्। मनोरथफलप्रदाय अक्षतान् — इति क्रमेण समर्पयामि।
वसिष्ठाय नमः; अरुन्धतीपतये नमः; रामप्रियाय नमः; वरिष्ठाय नमः; दीप्तिमते नमः; शरणागतवत्सलाय नमः; गरिष्ठाय नमः; त्रिकालज्ञाय नमः; मनोरथफलप्रदाय नमः; धर्मिष्ठाय नमः; योगिने नमः; भक्ताभीष्टप्रदाय नमः।
इति पुष्पाणि समर्पयामि। निष्कल्मषाय धूपम्। मैत्रावरुणाय दीपम्।
ब्रह्मचारिणे नैवेद्यम्। विरागिणे ताम्बूलम्। ज्ञानिने नीराजनम्। जटिने पुनरर्घ्यम्।
वेदविदे मन्त्रपुष्पम्। दान्ताय प्रदक्षिणम्। शान्ताय नमस्कारान्। ब्रह्मिष्ठाय
पुनरर्घ्यम्। वसिष्ठाय सर्वोपचारपूजाः समर्पयामि।

८. अगस्त्य-पूजा

लोपामुद्रापतिं देवम् अगस्त्यम् ऋषिसत्तमम्।
दक्षिणाशापतिं रामतारकप्रियम् ऊर्जितम्॥

लोपामुद्रा-समेतम् अगस्त्यं ध्यायामि।
अगस्त्यः खनमान इत्यस्य मन्त्रस्य अगस्त्यः ऋषिः। त्रिष्टुप्छन्दः। अगस्त्यो देवता।
अगस्त्यावाहने विनियोगः।

अगस्त्यः खनमानः खनित्रैरुभे वर्णावृषिरुग्रः पुपोष।
सत्या देवेष्वाशिषो जगाम स्वादित्संगृभ्ण उभयाँ अमेने॥

लोपामुद्रा-समेतम् अगस्त्यम् आवाहयामि।
लोपामुद्रापतये आसनम्। आत्मवते अर्घ्यम्। इच्छापूर्तये पाद्यम्।
ईषणात्रयवर्जिताय आचमनीयम्। उत्तमाय मधुपर्कम्। ऊर्जिततपसे
पञ्चामृतस्नानम्। ऋग्यजुस्सामपारगाय शुद्धोदकस्नानम्। ऋणमोचनाय वस्त्रम्।
लुप्तपापाय यज्ञोपवीतम्। ओङ्कारप्रियाय आभरणानि। उदाराय अक्षतान् — इति
क्रमेण समर्पयामि।
अगस्त्याय नमः; साक्षिणे नमः; लोकपूजिताय नमः; सनातनाय नमः; ताराय नमः; तापसप्रियाय नमः; लोपामुद्रापतये नमः; रामप्रियाय नमः; विन्ध्यगुरवे नमः; कुम्भसम्भवाय नमः; रञ्जिततपसे नमः; वीतरागाय नमः; समुद्रपायिने नमः; तारकाय नमः; विष्णुरताय नमः; विश्वात्मने नमः।
इति पुष्पाणि समर्पयामि। गन्धज्ञाय धूपम्। ज्योतिष्मते दीपं दर्शयामि।
सारग्राहिणे नैवेद्यम्। शुचये ताम्बूलम्। प्रकाशरूपाय नीराजनम्। धनदाय दक्षिणाम्।
सुवर्चसे मन्त्रपुष्पम्। सुरेन्द्रवन्दिताय प्रदक्षिणम्। ऋषिवर्याय नमस्कारान्।
प्रसन्नाय पुनरर्घ्यम्। श्री-अगस्त्याय सर्वोपचारपूजाः समर्पयामि।
(अगस्त्यः ऋषिपञ्चमीव्रतस्य मूल-सप्तर्षि-सप्तकयोः अन्तर्गतो न भवति; अत्र
आतिथ्येन पूज्यते।)

९. अरुन्धती-पूजा

अरुन्धत्यै ध्यानम्। वसिष्ठपत्न्यै आवाहनम्। सत्यै आसनम्। पतिव्रतायै पाद्यम्।
सौमङ्गल्यहेतवे अर्घ्यम्। तपस्विन्यै आचमनीयम्। मुनिधर्मप्रवर्तिन्यै मधुपर्कम्।
नित्यनिर्मलायै स्नानम्। मानिन्यै वस्त्रम्। गोप्यै कञ्चुकम्। धर्मरतायै गन्धम्।
अक्षतव्रतायै अक्षतान्। सुमङ्गल्यै हरिद्राचूर्णम्। वसिष्ठप्रियायै कुङ्कुमम्।
सुगुणोज्ज्वलायै आभरणानि। पावन्यै पुष्पाणि — इति क्रमेण समर्पयामि।
हविर्गन्धप्रियायै धूपम्। ज्योतिर्मयायै दीपम्। धर्मब्रह्मानन्दवत्यै नैवेद्यम्।
सर्वभूतानुरागिण्यै ताम्बूलम्। ऋतुदक्षिणायै दक्षिणाम्। ऋषिपत्नीसमाश्रितायै
नीराजनम्। मन्त्रज्ञायै मन्त्रपुष्पम्। शिंशुमारगत्यै प्रदक्षिणम्।
सर्वलोकनमस्कृतायै नमस्कारान्। वसिष्ठकुटुम्बिन्यै पुनरर्घ्यं समर्पयामि।

स्मृतिमात्रेण भक्तानां सर्वपापविनोदिनि।
सूक्ष्मात्सूक्ष्मतरे मातर्दर्शनात्पुण्यदायिनि॥
पतिव्रताग्रगण्ये त्वं सौमङ्गल्यसुखप्रदे।
अरुन्धति महादेवि ब्रह्मशक्ते चिरन्तनि॥
जय त्वं नित्यकल्याणि वसिष्ठैककुटुम्बिनि।
पावनत्वं च सौभाग्यं सुखं शाश्वतमेव च॥
महादेवि जगद्वन्द्ये व्रतसम्पूर्णतां कुरु।

सामूहिक सप्तर्षि-अरुन्धती-पूजा

आगच्छन्तु महाभागाश्चतुर्वेदपरायणाः।
यावद्व्रतमिदं कुर्वे कृपया भवतामहम्॥

अरुन्धती-सहित-कश्यपादि-सप्तर्षीन् आवाहयामि। प्राणप्रतिष्ठां कुर्यात्।

ऋग्यजुस्सामवेदानां स्वरूपेभ्यो नमो नमः।
पुराणपुरुषेभ्यो हि देवर्षिभ्यो नमो नमः॥

अरुन्धतीसहित-कश्यपादि-सप्तर्षिभ्यो नमः आसनं समर्पयामि।

गन्धपुष्पाक्षतैर्युक्तं पाद्यं गृह्णन्तु वै द्विजाः।
प्रसादं कुर्वतां प्रीतास्तुष्टास्सन्तु सदा मम॥

...भ्यो नमः पाद्यं समर्पयामि।

नभस्ये शुक्लपञ्चम्यामर्चिता ऋषिसत्तमाः।
दहन्तु पापं मे सर्वे गृह्णन्त्वर्घ्यं नमो नमः॥

...भ्यो नमः अर्घ्यं समर्पयामि।

लोकानां तुष्टिकर्तारो यूयं सर्वे तपोधनाः।
नमो वो धर्मविज्ञेभ्यो महर्षिभ्यो नमो नमः॥

...भ्यो नमः आचमनीयं समर्पयामि।

पयो दधि घृतं चैव शर्करामधुसंयुतम्।
पञ्चामृतेन स्नपनं करोमि मुनिसत्तमाः॥

...भ्यो नमः पञ्चामृतस्नानं समर्पयामि।

मन्दाकिन्यास्समानीतं यमुनागौतमीजलम्।
कृष्णा-नर्मदा-गोदाभ्यः स्नानार्थमाहृतम्॥

...भ्यो नमः शुद्धोदकस्नानं समर्पयामि। स्नानानन्तरम् आचमनीयं समर्पयामि।

सर्वे नित्यं तपोनिष्ठा ब्रह्मज्ञास्सत्यवादिनः।
वस्त्राणि प्रतिगृह्णन्तु मुक्तिदास्सन्तु मे सदा॥

...भ्यो नमः वस्त्रं समर्पयामि।

नानामन्त्रैस्समुद्भूतं त्रिवृतं ब्रह्मसूत्रकम्।
प्रत्येकं च प्रयच्छामि मुनयः प्रतिगृह्यताम्॥

...भ्यो नमः उपवीतानि समर्पयामि।

कुङ्कुमागरुकर्पूरसुगन्धैर्मिश्रितं शुभम्।
गन्धाढ्यं चन्दनं दिव्यं गृह्णन्तु मुनिसत्तमाः॥

...भ्यो नमः गन्धं समर्पयामि।

शुभ्राक्षताश्च सम्पूर्णाः प्रक्षाल्य च नियोजिताः।
शोभायै वो मया दत्ता गृह्यन्तां मुनिसत्तमाः॥

...भ्यो नमः अक्षतान् समर्पयामि।

मालतीचम्पकामल्लीकेतक्यादीनि वै द्विजाः।
समर्पयामि पुष्पाणि पूजार्थं वः पदाम्बुजे॥

...भ्यो नमः पुष्पमालां समर्पयामि।

अङ्ग-पूजा

१.तीर्थपादेभ्योपादौ
२.सर्वभूतहितेभ्योगुल्फौ
३.विमलचरित्रेभ्योजङ्घे
४.सर्वलोकहितेभ्योऊरू
५.अजिनधारिभ्योकटिं
६.जितेन्द्रियेभ्योगुह्यम्
७.योगीश्वरेभ्योनाभिम्
८.परार्थैकप्रयोजनेभ्योपार्श्वे
९.सर्वशास्त्रविशारदेभ्योउदरम्
१०.परोपकारिभ्योहृदयम्
११.रुद्राक्षधारिभ्योकण्ठम्
१२.सर्वामरवन्दितेभ्योनासिकाम्
१३.श्रुतिपारगेभ्योश्रोत्रे
१४.तत्त्वविद्याविशारदेभ्योललाटम्
१५.जटामण्डलमण्डितेभ्योशिरः
१६.सप्तर्षिभ्योसर्वाण्यङ्गानि

ऋषि-अष्टोत्तरशत-नामावलिः

(प्रतिनाम "नमः" इति अनुसन्धेयम्)

ब्रह्मर्षिभ्यो
अध्वर्युभ्यो
वेदविद्भ्यो
यज्वभ्यो
तपस्विभ्यो
यज्ञदीक्षितेभ्यो
स्वरूपसुखिभ्यो
प्रवृत्तिधर्मपालकेभ्यो
निवृत्तिधर्मदर्शकेभ्यो
महात्मभ्यो
पूतेभ्यो
भगवत्प्रसादिभ्यो
मान्येभ्यो
पुरातनेभ्यो
देवगुरुभ्यो
ब्रह्मचर्यरतेभ्यो
सृष्टिकर्तृभ्यो
लोकगुरुभ्यो
सिद्धेभ्यो
स्थितिकर्तृभ्यो
सर्ववन्द्येभ्यो
कर्मठेभ्यो
लयकर्तृभ्यो
सर्वपूज्येभ्यो
योगिभ्यो
जपकर्तृभ्यो
गृहिभ्यो
अग्निहोत्रपरायणेभ्यो
होतृभ्यो
सूत्रकृद्भ्यो
सत्यव्रतेभ्यो
प्रस्तोतृभ्यो
भाष्यकृद्भ्यो
धर्मात्मभ्यो
प्रतिहर्तृभ्यो
महिमसिद्धेभ्यो
उद्गातृभ्यो
ज्ञानसिद्धेभ्यो
ब्रह्मण्येभ्यो
धर्मप्रवर्तकेभ्यो
निर्दुष्टेभ्यो
ब्रह्मास्त्रविद्भ्यो
आचारप्रवर्तकेभ्यो
शमधनेभ्यो
ब्रह्मदण्डधरेभ्यो
सम्प्रदायप्रवर्तकेभ्यो
तपोधनेभ्यो
ब्रह्मशीर्षविद्भ्यो
अनुशासितृभ्यो
शापशक्तेभ्यो
गायत्रीसिद्धेभ्यो
वेदवेदान्तपारगेभ्यो
मन्त्रमूर्तिभ्यो
सावित्रीसिद्धेभ्यो
वेदाङ्गप्रचारकेभ्यो
अष्टाङ्गयोगेभ्यो
सरस्वतीसिद्धेभ्यो
लोकशिक्षकेभ्यो
अणिमादिसिद्धेभ्यो
यजमानेभ्यो
शापानुग्रहशक्तेभ्यो
जीवन्मुक्तेभ्यो
याजकेभ्यो
स्वतन्त्रशक्तिभ्यो
शिवपूजारतेभ्यो
ऋत्विग्भ्यो
स्वाधीनचित्तेभ्यो
जितेन्द्रियेभ्यो
शान्तेभ्यो
दान्तेभ्यो
शुद्धेभ्यो
मुनिमुख्येभ्यो
रुद्राक्षधारिभ्यो
सुमुख्येभ्यो
वल्कलाजिनधारिभ्यो
जटिलेभ्यो
तितिक्षुभ्यो
आस्तिकेभ्यो
कमण्डलुधारिभ्यो
उपरतेभ्यो
विप्रेभ्यो
सपत्नीकेभ्यो
श्रद्धालुभ्यो
साङ्गेभ्यो
द्विजेभ्यो
विष्णुभक्तेभ्यो
ब्राह्मणेभ्यो
वेदवेद्येभ्यो
विवेकिभ्यो
उपवीतिभ्यो
स्मृतिकर्तृभ्यो
विज्ञेभ्यो
मेधाविभ्यो
ब्रह्मिष्ठेभ्यो
पवित्रपाणिभ्यो
मन्त्रकृद्भ्यो
दीनबन्धुभ्यो
ब्रह्मनिष्ठेभ्यो
संस्कृतेभ्यो
भगवद्भ्यो
सत्कृतेभ्यो
भस्मधारिभ्यो
सुकृतिभ्यो
श्रीकश्यपादिसप्तमहर्षिभ्यो
अरुन्धत्यादिसप्तर्षिपत्नीभ्यो

...भ्यो नमः नानाविधपरिमलपत्रपुष्पाणि समर्पयामि।

वनस्पतिरसोद्भूतो गन्धाढ्यस्सुमनोहरः।
आत्रेयस्सर्वदेवानां धूपोऽयं प्रतिगृह्यताम्॥

...भ्यो नमः धूपमाघ्रापयामि।

साज्यं त्रिवर्तिसंयुक्तं वह्निना योजितं मया।
गृहाण मङ्गलं दीपं त्रैलोक्यतिमिरापहम्॥

...भ्यो नमः अलङ्कारदीपं सन्दर्शयामि।

नानापक्वान्नसंयुक्तं रसैस्सप्तभिस्समन्वितम्।
गृह्णन्तु मुनयस्सर्वे नैवेद्यं वसुदायकाः॥

...भ्यो नमः नैवेद्यं निवेदयामि।
अमृतापिधानमसि। निवेदनानन्तरम् आचमनीयं समर्पयामि।

रसालजम्बूद्राक्षेक्षुकपित्थकदलीफलम्।
खर्जूरपनसादीनि नालिकेरफलानि च॥

...भ्यो नमः नानाविधफलानि समर्पयामि। ताम्बूलं समर्पयामि।

नीराजनं मुनिश्रेष्ठाः कोटिसूर्यसमप्रभाः।
अहं भक्त्या प्रदास्यामि स्वीकुरुध्वम् ऋषीश्वराः॥

...भ्यो नमः कर्पूरनीराजनं दर्शयामि। नीराजनानन्तरम् आचमनीयं समर्पयामि।

यानि कानि च पापानि ब्रह्महत्यासमानि च।
तानि तानि विनश्यन्ति प्रदक्षिणपदे पदे॥

...भ्यो नमः प्रदक्षिणानि समर्पयामि।

नमो महर्षिवृन्देभ्यो देवर्षिभ्यो नमो नमः।
सर्वपापहरेभ्योऽस्तु वेदविद्भ्यो नमो नमः॥

...भ्यो नमः नमस्कारान् समर्पयामि।

साक्षसूत्राश्च मुनयस्सर्वे वल्कलधारिणः।
मन्त्रपुष्पं प्रदास्यामि स्वीकुरुध्वं मुनीश्वराः॥

...भ्यो नमः मन्त्रपुष्पं समर्पयामि। सुवर्णपुष्पं समर्पयामि।

प्रार्थना

एते सप्तर्षयस्सर्वे भक्त्या सम्पूजिता मया।
सर्वे पापं व्यपोहन्तु ज्ञानतोऽज्ञानतः कृतम्॥

प्रार्थनाः समर्पयामि।

अर्घ्यम्

ममोपात्त-समस्त-दुरित-क्षयद्वारा अरुन्धती-सहित-कश्यपादि-सप्तर्षि-प्रीत्यर्थं
ऋषिपूजान्ते क्षीरार्घ्यप्रदानम् उपायनदानं च करिष्ये॥

प्रसन्नहृदयाश्शान्ता जटामण्डलमण्डिताः।
भक्त्या चार्घ्यं मया दत्तं स्वीकुर्वन्तु मुनीश्वराः॥१॥

अरुन्धती-सहित-कश्यपादि-सप्तर्षिभ्यो नमः इदमर्घ्यम्। (त्रिः)

जितकामाद्यरिचयाश्शमादिगुणभूषिताः।
इदमर्घ्यं प्रदास्यामि प्रसन्नास्सन्तु मे सदा॥२॥

इदमर्घ्यम्। (त्रिः)

ऋषयो ज्ञानसंसिद्धा ब्रह्मिष्ठा ब्रह्मवादिनः।
इदमर्घ्यं प्रदास्यामि मत्पापशमनाय च॥३॥

इदमर्घ्यम्। (त्रिः)

ब्रह्मदण्डधराश्शान्ताः कर्मठा वीतकल्मषाः।
मत्पापपरिहारार्थम् इदमर्घ्यं मुनीश्वराः॥४॥

इदमर्घ्यम्। (त्रिः)
अनेन अर्घ्यप्रदानेन भगवन्तस्सर्वात्मकाः अरुन्धती-सहित-कश्यपादि-सप्तर्षयः प्रीयन्ताम्।

उपायन-दानम्

सपात्रं फलसंयुक्तं सघृतं दक्षिणान्वितम्।
उपायनं प्रदास्यामि व्रतसम्पूर्तिहेतवे॥
भवन्तः प्रतिगृह्णन्तु तेजोरूपास्तपोधनाः।
ऋषयस्तारकास्सन्तूपायनस्य प्रदानतः॥

इति उपायनदानं कृत्वा।

न्यूनातिरिक्तकर्माणि मया यानि कृतानि च।
क्षमध्वं तानि सर्वाणि यूयं सर्वे तपोधनाः॥

इति ऋषिपूजाविधिः सम्पूर्णः॥

उद्यापन-विधिः

एवं प्रतियामं (प्रतिवर्षं) पूजां कृत्वा उपायनानि दत्त्वा कथां च श्रुत्वा, सप्तमे
वर्षे ततः परेद्युः नित्यकर्म समाप्य ऋषिपञ्चमीव्रतोद्यापनहोमं करिष्य इति सङ्कल्प्य
स्वगृह्योक्तविधानेन अग्निमुखान्तं कृत्वा "सहस्रोमा" इति मन्त्रेण पायसान्नं
समिदाज्यैः अष्टोत्तरशतसंख्यया अष्टाविंशत्या वा जुहुयात्। ततः स्विष्टकृदादि-होमशेषं
समापयेत्। पुनः पूजां करिष्य इति सङ्कल्प्य आसनादि-षोडशोपचारपूजां कृत्वा,
"यज्ञेन यज्ञम्" इति मन्त्रेण ऋषीन् उद्वास्य, "तत्त्वायामि" इति वरुणम् उद्वास्य,
कुम्भजलेन "देवस्य त्वा" इति मन्त्रेण त्रिपद-गायत्र्या व्याहृतिभिश्च यजमानं
परिवारं च प्रोक्षयेत्, कुम्भजलेन यजमानम् अभिषिच्य, धौतवस्त्र-पुण्ड्रधारणानि कृत्वा
तीर्थं प्राश्य, कलश-वस्त्र-प्रतिमादानानि करिष्य इति सङ्कल्प्य,

दान-मन्त्रः

प्रतिमां वस्त्रसंयुक्तां कुम्भोपकरणैर्युताम्।
तुभ्यं दास्यामि विप्रेन्द्र यथोक्तफलदो भव॥

इमां कश्यप-प्रतिमां सदक्षिणां सताम्बूलां कश्यप-प्रीतिं कामयमानः तुभ्यम् अहं
सम्प्रददे। एवं क्रमशः अत्रि-भरद्वाज-विश्वामित्र-गौतम-जमदग्नि-वसिष्ठ-अरुन्धती-
प्रतिमाः प्रीतिं कामयमानः दत्वा। अनन्तरं दशदान-षड्दान-मनोद्दिष्ट-दानानि
स्वशक्त्या विस्तरतः कृत्वा, दम्पति-पूजनं कृत्वा, ब्राह्मणान् भोजयित्वा,
ताम्बूलानन्तरम् आशिषः प्राप्य, तैः अनुज्ञातः पुत्रमित्रकलत्रादिभिः सह स्वयं
भुञ्जीत।
इति ब्रह्माण्डपुराणोक्त-ऋषिपञ्चमी-व्रतोद्यापन-विधिः सम्पूर्णः॥

प्रार्थना

यन्मयाऽऽचरितं देव व्रतमेतत् सुदुर्लभम्।
गणेश त्वं प्रसन्नः सन् सफलं कुरु सर्वदा॥

अपराध-क्षमापनम्

यस्य स्मृत्या च नामोक्त्या तपः पूजाक्रियादिषु।
न्यूनं सम्पूर्णतां याति सद्यो वन्दे गजाननम्॥
कायेन वाचा मनसेन्द्रियैर्वा
बुद्‌ध्याऽऽत्मना वा प्रकृतेः स्वभावात्।
करोमि यद्यत् सकलं परस्मै
नारायणायेति समर्पयामि॥

ॐ तत्सद्ब्रह्मार्पणमस्तु।

ऋषिपञ्चमी-व्रत-कथा

(मूलम्—श्रीभविष्योत्तरपुराणम्, यथा श्रीव्रतरत्नाकरे संगृहीतम्)

श्रुतानि देवदेवेश व्रतानि सुबहूनि च।
साम्प्रतं मे समाचक्ष्व व्रतं पापप्रणाशनम्॥१॥

ब्रह्मोवाच

शृणु राजन् प्रवक्ष्यामि व्रतानामुत्तमं व्रतम्।
ऋषिपञ्चमीति विख्यातं सर्वपापहरं परम्॥२॥
येन चीर्णेन राजेन्द्र नरकं नैव पश्यति।
अत्रैवोदाहरन्तीममितिहासं पुरातनम्॥३॥
वैदर्भे च द्विजवर उदको नाम नामतः।
तस्य भार्या सुशीलेति पतिव्रतपरायणा॥४॥
तस्या अपत्ययुगलं पुत्रो हि सुविभीषणः।
अधीतवान् सुतस्तस्य वेदान् साङ्गपदक्रमान्॥५॥
समानेन कुलीनेन सुता चापि विवाहिता।
नवोढात्वेऽपि सा दैवाद्वैधव्यं प्राप सत्तमा॥६॥
सतीत्वं पालयन्ती सा आस्ते निजपितुर्गृहे।
तस्या दुःखेन सन्तप्तस्सुतं संस्थाप्य वेश्मनि॥७॥
गङ्गातीरवनं प्राप्तः कदाचित्तु तया सह।
स तत्राध्यापयामास शिष्यान् वेदं द्विजोत्तमः॥८॥
सुता च कुरुते तस्य पितुश्शुश्रूषणं परम्।
पितुश्शुश्रूषणं कृत्वा परिश्रान्ता कदाचन॥९॥
निशीथे किल सुप्तायां क्रिमिराशिरजायत।
शिष्यास्तथाविधां दृष्ट्वा विवस्त्रां प्रस्तरे स्थिताम्॥१०॥
गत्वा निवेदयामासुस्तन्मातुः करुणां गताः।
न जानीमो वयं किञ्चिद्देवि साध्वी तथाविधा॥११॥
क्रिमिराशिमयी जाता मातस्सम्प्रति दृश्यते।
वज्रपातसमं श्रुत्वा तच्छिष्यैस्समुदाहृतम्॥१२॥
सा श्रान्तमानसा शीघ्रं तत्समीपमुपागमत्।
सुतां तथाविधां दृष्ट्वा विललाप सुदुःखिता॥१३॥
उरश्च ताडयामास सुतरां मोहमाप च।
क्षणेन प्राप्य चैतन्यमुत्थाप्य परिमृज्य च॥१४॥
समालिङ्ग्य च बाहुभ्यां निन्ये तत्पितुरन्तिकम्।
स्वामिन् कथय मे साध्वी केन दुष्कृतकर्मणा॥१५॥
निशीथे च प्रसुप्तेयं जायते क्रिमिसङ्कुला।
एवं श्रुत्वा ततो वाक्यम् ऋषिर्ध्यानपरायणः॥१६॥
ज्ञात्वा निवेदयामास तस्याः प्राग्जन्मचेष्टितम्॥१७॥

ऋषिरुवाच

प्राणीयं सप्तमेऽतीते जन्मनि ब्राह्मणी ह्यभूत्।
रजस्वला च सञ्जाता भाण्डादीनस्पृशत्तदा॥१८॥
अस्यास्तु पाप्मना तेन जायते क्रिमिवद्वपुः।
रजस्वलायाः पापेन युक्ता भवति साऽनघे॥१९॥
प्रथमेऽहनि चण्डाली द्वितीये ब्रह्मघातिनी।
तृतीये रजकी प्रोक्ता चतुर्थेऽहनि शुद्ध्यति॥२०॥
तदा तया सखीसङ्घातं दृष्ट्वाऽवमानितम्।
दृष्टव्रतप्रभावेण जाता द्विजकुलेऽमले॥२१॥
अवमानाद्व्रतस्यास्य क्रिमिराशिरिवाधुना।
एतत्ते कथितं सर्वं कारणं दुष्कृतस्य च॥२२॥

सुशीलोवाच

दर्शनादपि जन्तोरस्य द्विजानां निर्मले कुले।
जन्म युष्मद्विधानां हि जायते ब्रह्मतेजसाम्॥२३॥
अवज्ञया प्रजायन्ते निशीथे क्रिमिराशयः।
महाश्चर्यं कथं नाथ तद्व्रतं कथयस्व मे॥२४॥

उदक उवाच

सुशीले शृणु तत्सम्यक् व्रतं नामोत्तमं व्रतम्।
येन चीर्णेन सहसा पापादस्मात् प्रमुच्यते॥२५॥
दुःखत्रयाच्च मुच्येत नारी सौभाग्यमाप्नुयात्।
कल्याणानि विवर्धन्ते सम्पदश्च निरापदः॥२६॥

युधिष्ठिर उवाच

श्रुतानि देवदेवेश व्रतानि सुबहूनि च।
साम्प्रतं त्वन्यदाचक्ष्व व्रतं पापप्रणाशनम्॥२७॥

श्रीकृष्ण उवाच

अथान्यदपि राजेन्द्र पञ्चम्यामृषिपूजनम्।
कथयिष्यामि यत्कृत्वा नारी पापात् प्रमुच्यते॥२८॥

युधिष्ठिर उवाच

कीदृशी पञ्चमी कृष्ण कथं तदृषिपूजनम्।
पातकान्मुच्यते कस्मान्नारी यदुकुलोद्भव॥२९॥
पापानि च बहून्यत्र विद्यन्ते किल केशव।
कथं वा ऋषिपञ्चम्यां नारी कस्मात् प्रमुच्यते॥३०॥

श्रीकृष्ण उवाच

अज्ञानाज्ज्ञानतो वापि या स्त्री जाता रजस्वला।
दुष्टा स्पृशति भाण्डानि गृहकर्मणि संस्थिता॥३१॥
प्राप्नोति सा महापापं सर्वा ना रजस्वलाः।
शृणु तत्कारणं येन वर्जनीया रजस्वला॥३२॥
प्रोत्सार्या गृहतो दूरं चातुर्वर्ण्येन भारत।
ब्रह्महत्यां पुरा शक्रो वृत्रं हत्वा ह्यवाप च॥३३॥
तया वै राजशार्दूल पीडितो वृत्रसूदनः।
ब्रह्माणं समुपागच्छदात्मशुद्धिकारणात्॥३४॥
शुद्ध्यै शक्रस्य राजेन्द्र प्रहृष्टेनान्तरात्मना।
विभज्य ब्रह्महत्यां तु चतुर्धा स चतुर्मुखः॥३५॥
प्राक्षिपद्राजशार्दूल चतुःस्थानेषु वै तदा।
वह्नौ प्रथमजिह्वासु नदीनां प्रथमोदके॥३६॥
गिरिवृक्षादिभूमौ च नारीरजसि पार्थिव।
ततो रजस्वला नारी प्रोत्सार्या च प्रयत्नतः॥३७॥
ब्राह्मणशासनात्पार्थ चातुर्वर्ण्येन सर्वदा।
प्रथमेऽहनि चण्डाली द्वितीये ब्रह्मघातिनी॥३८॥
तृतीये रजकी प्रोक्ता चतुर्थेऽहनि शुद्ध्यति।
अज्ञानाज्ज्ञानतो वापि जातं सम्पर्कपातकम्॥३९॥
तत्पापसंक्षयार्थं वै कार्येयमृषिपञ्चमी।
सर्वपापप्रशमनी सर्वोपद्रवनाशिनी॥४०॥
ब्रह्मक्षत्रियविट्शूद्रस्त्रीभिः कार्या विशेषतः॥४१॥

कृष्ण उवाच

अत्रार्थे यत्पुरा वृत्तं प्रवक्ष्यामि कथात्मकम्॥४२॥
पुरा कृतयुगे राजा विदर्भाणां बभूव ह।
श्येनजिन्नाम राजर्षिश्चातुर्वर्ण्यानुपालकः॥४३॥
तस्य देशे वसन्विप्रो वेदवेदाङ्गपारगः।
सुमित्रो नाम विप्रेन्द्रः सर्वभूतहिते रतः॥४४॥
कृषिवृत्त्या सदा युक्तः कुटुम्बपरिपालकः।
तस्य भार्या सुसाध्वी च पतिशुश्रूषणे रता॥४५॥
जयश्रीर्नाम विख्याता बहुभृत्यसुहृज्जना।
अतिचिन्तान्विता सा च प्रावृट्काले सुमध्यमा॥४६॥
क्षेत्रादिषु रता साध्वी चाकुलीकृतमानसा।
एकदा साऽऽत्मनः प्राप्तमृतुकालं व्यलोकयत्॥४७॥
रजस्वलाऽपि सा राजन् गृहकर्म चकार ह।
भाण्डादीन्यस्पृशद्राजन् प्राप्तर्तुरपि भामिनी॥४८॥
कालेन बहुना साध्वी पञ्चत्वमगमत्तदा।
तस्या भर्ताऽपि विप्रोऽसौ कालधर्ममुपेयिवान्॥४९॥
एवं तौ दम्पती राजन् स्वकर्मवशगौ तदा।
भार्या तस्य जयश्रीस्सा ऋतुसम्पर्कदोषतः॥५०॥
शुनीयोनिसमुत्पन्ना शुनी चाभून्नरेश्वर।
तस्यास्सम्पर्कदोषेण बलीवर्दो बभूव सः॥५१॥
ऋतुसम्पर्कदोषेण तिर्यग्योनिमुपागतौ।
स्वधर्माचरणाज्जातावुभौ जातिस्मरौ तदा॥५२॥
सुतस्यैव गृहे राजन् स्मरन्तौ पूर्वपातकम्।
सुमित्रस्य च पुत्रोऽभूद्गुरुशुश्रूषणे रतः॥५३॥
सुमतिर्नाम धर्मज्ञो देवतातिथिपूजकः।
कालक्षयाहे सम्प्राप्ते पितुस्तु सुमतिस्तदा॥५४॥
भार्यां चन्द्रवतीं प्राप्य पैतृकश्रद्धयाऽन्वितः।
अद्य साम्वत्सरदिनं पितुर्मे चारुहासिनि॥५५॥
भोजनीया द्विजा भीरु पाकशुद्धिर्विधीयताम्।
तया कृता पाकशुद्धिस्सुमते शासनाद्गृहे॥५६॥
मुक्तं पायसभाण्डे वै सर्पेण गरलं ततः।
दृष्ट्वा ब्रह्मवधाद्भीता शुनी भाण्डानि साऽस्पृशत्॥५७॥
द्विजभार्या च तां दृष्ट्वा उल्मुकेन जघान ह।
भाण्डादीनि च प्रक्षाल्य त्यक्त्वा पाकं सुमध्यमा॥५८॥
पुनः पाकं च कृत्वा तु श्राद्धं कृत्वा विधानतः।
ततो भुक्तेषु विप्रेषु नोच्छिष्टं च ददौ बहिः॥५९॥
भूमौ क्षिप्तं तया शुन्या उपवासस्ततोऽभवत्।
ततो रात्र्यां प्रवृत्तायां सा शुनी क्षुधिता भृशम्॥६०॥
बलीवर्दमुपागत्य भर्तारमिदमब्रवीत्॥६१॥

शुन्युवाच

बुभुक्षिता गृहे भर्तर्न दत्तं भोजनादिकम्।
ग्रासादिकं च न प्राप्तं क्षुधा मां बाधते भृशम्॥६२॥
अन्यस्मिन् दिवसे पुत्रो मम लेह्यं ददात्यसौ।
अद्य मह्यं किमप्येष उच्छिष्टमपि नो ददौ॥६३॥
पायसान्ने पपाताद्य गरलं सर्पसम्भवम्।
मया विचिन्त्य मनसा मरिष्यन्ति द्विजोत्तमाः॥६४॥
संस्पृष्टं पायसं गत्वा तत्राहं ताडिता भृशम्।
दुःखितं तेन मे गात्रं कटिर्भग्ना करोमि किम्॥६५॥

बलीवर्द उवाच

भद्रे ते पापजं फलम्॥६६॥
किं करोमि शक्तोऽहं भारवाहोऽद्य सुस्थितः।
अद्याहमात्मजक्षेत्रे वाहितस्सकलं दिनम्॥६७॥
मारितश्चात्मजेनाहं मुखं बद्ध्वा बुभुक्षितः।
वृथा श्राद्धं कृतं तेन जाताऽद्य मम कष्टता॥६८॥

श्रीकृष्ण उवाच

तयोस्संवदतोरेव मातापित्रोश्च भारत।
श्रुत्वा पुत्रस्तदा वाक्यं यदुक्तं च तदोभयोः॥६९॥
ततो रजन्यां तत्कालं ददौ तस्यैव भोजनम्।
पितरौ तौ विदित्वा तु दत्तवान् सुमतिस्तदा॥७०॥
ततोऽसौ दुःखितः पुत्रो ज्ञात्वाऽवस्थां तदा तयोः।
मातापित्रोस्तु राजेन्द्र दुःखात्मा प्रस्थितो वनम्॥७१॥
ज्ञातुमिच्छामि कष्टं वै मातापित्रोश्च भारत।
तत्र गत्वा ज्ञानवृद्धानृषीन् सप्त वनाश्रितान्॥७२॥
प्रणिपत्याब्रवीद्वाक्यं हितं चैव तदा तयोः॥७३॥

सुमतिरुवाच

कथयध्वं विप्रवर्याः प्रश्नमेकं समाहिताः।
केन कर्मविपाकेन पितरौ मे तपोधनाः॥७४॥
इमामवस्थां सम्प्राप्तौ मुच्येते पातकात्कथम्॥७५॥

श्रीकृष्ण उवाच

तदाकर्ण्य वचस्तस्य सुमतेर्दुःखितस्य च।
ऋषिस्सर्वतपा नाम सर्वज्ञः करुणान्वितः॥७६॥
सुमतिं प्रत्युवाचेदं तत्पित्रोर्मुक्तये तदा॥७७॥

ऋषिरुवाच

तव माता पुरा विप्र स्वगृहे बालभावतः॥७८॥
ऋतुं प्राप्तं विदित्वा तु सम्पर्कमकरोद्द्विज।
तेन कर्मविपाकेन शुनीयोनिमुपागता॥७९॥
पिताऽपि स्पर्शदोषेण बलीवर्दो बभूव ह।
एतयोर्मुक्तिकामार्थं कुरु त्वमृषिपञ्चमीम्॥८०॥
भार्यया सह विप्रेन्द्र ऋषीन् सम्पूज्य यत्नतः।
आचरस्व व्रतं तत्र सप्तवर्षं द्विजोत्तम॥८१॥
अन्ते चोद्यापनं कुर्याद्वित्तशाठ्यविवर्जितः।
शाकाहारस्तु कर्तव्यो नीवारैश्श्यामकैस्तदा॥८२॥
कन्दं वाऽथ फलं मूलं हलकृष्टं न भक्षयेत्।
प्राप्य भाद्रपदे मासि शुक्लपक्षस्य पञ्चमीम्॥८३॥
तस्यां मध्याह्नसमये नद्यादौ विमले जले।
कृत्वाऽपामार्गसमिधा दन्तधावनमादितः॥८४॥
आयुर्बलं यशो वर्चः प्रजाः पशुवसूनि च।
ब्रह्म प्रज्ञां च मेधां च त्वन्नो देहि वनस्पते॥८५॥
संप्रार्थ्यानेन मन्त्रेण कुर्याद्वै दन्तधावनम्।
मुखदुर्गन्धनाशाय दन्तानां च विशुद्धये॥८६॥
ष्ठीवनाय च गात्राणां कुर्वेऽहं दन्तधावनम्।
अनेन दन्तान् संशोध्य स्नायान्मृत्स्नानपूर्वकम्॥८७॥
तिलामलककल्केन केशान् संशोध्य यत्नतः।
परिधाय नवं शुद्धं वासोयुग्मं समाहितः॥८८॥
विधाय नित्यकर्माणि गृहं गत्वा तान् ऋषीन्।
स्थापयेद्विधिवद्भक्त्या पञ्चामृतरसैश्शुभैः॥८९॥
चन्दनागरुकर्पूरैर्विलिप्य च सुगन्धिभिः।
पूजयेद्विविधैः पुष्पैर्गन्धधूपादिदीपकैः॥९०॥
समाच्छाद्य शुभैर्वस्त्रैस्सोपवीतैर्यथाविधि।
ततो नैवेद्यसम्पन्नैर्दद्याच्छुभैः फलैः॥९१॥
पूजयस्व ऋषीन् दिव्यान् अरुन्धत्या समन्वितान्॥९२॥
कश्यपोऽत्रिर्भरद्वाजो विश्वामित्रोऽथ गौतमः।
जमदग्निर्वसिष्ठश्च साध्वी चैवाप्यरुन्धती॥९३॥
मन्त्रेणानेन सप्तर्षीन् पूजयेत्सुसमाहितः।
व्रतेन ऋषिपञ्चम्याः कृतेनैव द्विजोत्तम॥९४॥
ऋतुसम्पर्कजो दोषः क्षयं याति न संशयः॥९५॥

श्रीकृष्ण उवाच

तच्छ्रुत्वा सुमतिर्वाक्यं परमं मुनिभाषितम्॥९६॥
गृहमेत्य व्रतं चक्रे सभार्यः श्रद्धयाऽन्वितः।
व्रतं तु ऋषिपञ्चम्यास्सर्वपापप्रणाशनम्॥९७॥
कृत्वा सर्वं यथोक्तं च मातापित्रोः फलं ददौ।
व्रतपुण्यप्रभावेण माता तस्य श्वयोनितः॥९८॥
मुक्ता नृपतिशार्दूल विमानवरमास्थिता।
दिव्याम्बरधरा भूत्वा गता स्वर्गं च भारत॥९९॥
पिताऽपि स मृतोऽगच्छत् सुमतेः पशुयोनितः।
स्वर्गं प्राप्तो महाराज व्रतस्यास्य प्रभावतः॥१००॥
दिव्याम्बरधरो भूत्वा गतस्स्वर्गं स भारत।
कायिकं वाचिकं वापि मानसं यच्च दुष्कृतम्॥१०१॥
तत्सर्वं विलयं याति व्रतस्यास्य प्रभावतः।
तस्य यज्जायते पुण्यं तच्छृणुष्व नृपोत्तम॥१०२॥
सर्वव्रतेषु यत्पुण्यं सर्वतीर्थेषु यत्फलम्।
सर्वदानेषु दत्तेषु तदेतद्व्रतचारणात्॥१०३॥
कुरुते या व्रतं नारी सा भवेत्सुखभागिनी।
रूपलावण्ययुक्ता च पुत्रपौत्राभिसंयुता॥१०४॥
इह लोके सुखं यायात् परत्र च परां गतिम्।
एतत्ते कथितं राजन् व्रतानामुत्तमं व्रतम्॥१०५॥
सर्वसम्पत्प्रदं चैव नारीणां पापनाशनम्।
धनं यशश्च स्वर्गं च पुत्रानपि युधिष्ठिर॥१०६॥
पठतां शृण्वतां चापि दद्यात्पापप्रणाशनम्॥१०७॥

॥ इति श्रीभविष्योत्तरपुराणे ऋषिपञ्चमीव्रतकथा सम्पूर्णा ॥

ಶ್ರೀ-ಋಷಿಪಂಚಮೀ-ವ್ರತಮ್

(ಮೂಲಮ್—ಶ್ರೀವ್ರತರತ್ನಾಕರಃ, ಪ್ರಥಮೋ ಭಾಗಃ; ಉದ್ಯಾಪನವಿಧಿಃ ಬ್ರಹ್ಮಾಂಡಪುರಾಣೋಕ್ತಃ)

ಪೂರ್ವಾಂಗ-ವಿಘ್ನೇಶ್ವರ-ಪೂಜಾ

(ಆಚಮ್ಯ)

ಶುಕ್ಲಾಂಬರಧರಂ ವಿಷ್ಣುಂ ಶಶಿವರ್ಣಂ ಚತುರ್ಭುಜಮ್।
ಪ್ರಸನ್ನವದನಂ ಧ್ಯಾಯೇತ್ ಸರ್ವವಿಘ್ನೋಪಶಾಂತಯೇ॥

ಪ್ರಾಣಾನ್ ಆಯಮ್ಯ।
[ಅಪ ಉಪಸ್ಪೃಶ್ಯ, ಪುಷ್ಪಾಕ್ಷತಾನ್ ಗೃಹೀತ್ವಾ।]

ತದೇವ ಲಗ್ನಂ ಸುದಿನಂ ತದೇವ ತಾರಾಬಲಂ ಚಂದ್ರಬಲಂ ತದೇವ।
ವಿದ್ಯಾಬಲಂ ದೈವಬಲಂ ತದೇವ ಲಕ್ಷ್ಮೀಪತೇರಂಘ್ರಿಯುಗಂ ಸ್ಮರಾಮಿ॥

ಮಮೋಪಾತ್ತ-ಸಮಸ್ತ-ದುರಿತ-ಕ್ಷಯದ್ವಾರಾ
ಶ್ರೀ-ಪರಮೇಶ್ವರ-ಪ್ರೀತ್ಯರ್ಥಂ ಕರಿಷ್ಯಮಾಣಸ್ಯ ಕರ್ಮಣಃ
ಅವಿಘ್ನೇನ ಪರಿಸಮಾಪ್ತ್ಯರ್ಥಮ್ ಆದೌ ವಿಘ್ನೇಶ್ವರಪೂಜಾಂ ಕರಿಷ್ಯೇ।
[ಅಪ ಉಪಸ್ಪೃಶ್ಯ]

ಅಗಜಾನಾನಪದ್ಮಾರ್ಕಂ ಗಜಾನನಮಹರ್ನಿಶಮ್।
ಅನೇಕದಂ ತಂ ಭಕ್ತಾನಾಮ್ ಏಕದಂತಮುಪಾಸ್ಮಹೇ॥

ಅಸ್ಮಿನ್ ಹರಿದ್ರಾಬಿಂಬೇ ಸುಮುಖಂ ಮಹಾಗಣಪತಿಂ ಧ್ಯಾಯಾಮಿ, ಆವಾಹಯಾಮಿ।
ಶ್ರೀ- ಮಹಾಗಣಪತಯೇ ನಮಃ, ಆಸನಂ ಸಮರ್ಪಯಾಮಿ।
ಶ್ರೀ- ಮಹಾಗಣಪತಯೇ ನಮಃ, ಪಾದಯೋಃ ಪಾದ್ಯಂ ಸಮರ್ಪಯಾಮಿ।
ಶ್ರೀ- ಮಹಾಗಣಪತಯೇ ನಮಃ, ಅರ್ಘ್ಯಂ ಸಮರ್ಪಯಾಮಿ।
ಶ್ರೀ- ಮಹಾಗಣಪತಯೇ ನಮಃ, ಆಚಮನೀಯಂ ಸಮರ್ಪಯಾಮಿ।
ಶ್ರೀ- ಮಹಾಗಣಪತಯೇ ನಮಃ, ಮಧುಪರ್ಕಂ ಸಮರ್ಪಯಾಮಿ।
ಶ್ರೀ- ಮಹಾಗಣಪತಯೇ ನಮಃ, ಶುದ್ಧೋದಕಸ್ನಾನಂ ಸಮರ್ಪಯಾಮಿ। ಸ್ನಾನಾನಂತರಮಾಚಮನೀಯಂ ಸಮರ್ಪಯಾಮಿ।
ಶ್ರೀ- ಮಹಾಗಣಪತಯೇ ನಮಃ, ವಸ್ತ್ರಾರ್ಥಮಕ್ಷತಾನ್ ಸಮರ್ಪಯಾಮಿ।
ಶ್ರೀ- ಮಹಾಗಣಪತಯೇ ನಮಃ, ಯಜ್ಞೋಪವೀತಾಭರಣಾರ್ಥೇ ಅಕ್ಷತಾನ್ ಸಮರ್ಪಯಾಮಿ।
ಶ್ರೀ- ಮಹಾಗಣಪತಯೇ ನಮಃ, ದಿವ್ಯಪರಿಮಲಗಂಧಾನ್ ಧಾರಯಾಮಿ। ಗಂಧಸ್ಯೋಪರಿ ಹರಿದ್ರಾಕುಂಕುಮಂ ಸಮರ್ಪಯಾಮಿ।
ಶ್ರೀ- ಮಹಾಗಣಪತಯೇ ನಮಃ, ಅಕ್ಷತಾನ್ ಸಮರ್ಪಯಾಮಿ।
ಶ್ರೀ- ಮಹಾಗಣಪತಯೇ ನಮಃ, ಪುಷ್ಪಮಾಲಿಕಾಂ ಸಮರ್ಪಯಾಮಿ। ಪುಷ್ಪೈಃ ಪೂಜಯಾಮಿ।

ಅರ್ಚನಾ

ಸುಮುಖಾಯ ನಮಃ
ಏಕದಂತಾಯ ನಮಃ
ಕಪಿಲಾಯ ನಮಃ
ಗಜಕರ್ಣಕಾಯ ನಮಃ
ಲಂಬೋದರಾಯ ನಮಃ
ವಿಕಟಾಯ ನಮಃ
ವಿಘ್ನರಾಜಾಯ ನಮಃ
ವಿನಾಯಕಾಯ ನಮಃ
ಧೂಮಕೇತವೇ ನಮಃ
ಗಣಾಧ್ಯಕ್ಷಾಯ ನಮಃ
ಫಾಲಚಂದ್ರಾಯ ನಮಃ
ಗಜಾನನಾಯ ನಮಃ
ವಕ್ರತುಂಡಾಯ ನಮಃ
ಶೂರ್ಪಕರ್ಣಾಯ ನಮಃ
ಹೇರಂಬಾಯ ನಮಃ
ಸ್ಕಂದಪೂರ್ವಜಾಯ ನಮಃ
ಶ್ರೀ- ಮಹಾಗಣಪತಯೇ ನಮಃ, ನಾನಾವಿಧಪರಿಮಲಪತ್ರಪುಷ್ಪಾಣಿ ಸಮರ್ಪಯಾಮಿ।
ಶ್ರೀ- ಮಹಾಗಣಪತಯೇ ನಮಃ, ಧೂಪಮಾಘ್ರಾಪಯಾಮಿ।
ಶ್ರೀ- ಮಹಾಗಣಪತಯೇ ನಮಃ, ಅಲಂಕಾರದೀಪಂ ಸಂದರ್ಶಯಾಮಿ।
ಶ್ರೀ- ಮಹಾಗಣಪತಯೇ ನಮಃ, ( ) (ನೈವೇದ್ಯಂ) ನಿವೇದಯಾಮಿ।
ನಿವೇದನಾಂತರಮ್ ಆಚಮನೀಯಂ ಸಮರ್ಪಯಾಮಿ।
ಶ್ರೀ- ಮಹಾಗಣಪತಯೇ ನಮಃ, ತಾಂಬೂಲಂ ಸಮರ್ಪಯಾಮಿ।
ಶ್ರೀ- ಮಹಾಗಣಪತಯೇ ನಮಃ, ಕರ್ಪೂರನೀರಾಜನಂ ದರ್ಶಯಾಮಿ। ಕರ್ಪೂರನೀರಾಜನಾನಂತರಮಾಚಮನೀಯಂ ಸಮರ್ಪಯಾಮಿ।
ಶ್ರೀ- ಮಹಾಗಣಪತಯೇ ನಮಃ, ಮಂತ್ರಪುಷ್ಪಂ ಸಮರ್ಪಯಾಮಿ। ಸ್ವರ್ಣಪುಷ್ಪಂ ಸಮರ್ಪಯಾಮಿ।

ಅಭೀಪ್ಸಿತಾರ್ಥಸಿದ್ಧ್ಯರ್ಥಂ ಪೂಜಿತೋ ಯಃ ಸುರೈರಪಿ।
ಸರ್ವವಿಘ್ನಚ್ಛಿದೇ ತಸ್ಮೈ ಗಣಾಧಿಪತಯೇ ನಮಃ॥
ಗಜಾನನಂ ಭೂತಗಣಾದಿಸೇವಿತಂ ಕಪಿತ್ಥ-ಜಂಬೂಫಲ-ಸಾರ-ಭಕ್ಷಿತಮ್।
ಉಮಾಸುತಂ ಶೋಕವಿನಾಶಕಾರಣಂ ನಮಾಮಿ ವಿಘ್ನೇಶ್ವರಪಾದಪಂಕಜಮ್॥

ಅನಂತಕೋಟಿಪ್ರದಕ್ಷಿಣನಮಸ್ಕಾರಾನ್ ಸಮರ್ಪಯಾಮಿ।
ಛತ್ತ್ರಚಾಮರಾದಿಸಮಸ್ತೋಪಚಾರಾನ್ ಸಮರ್ಪಯಾಮಿ।

ವಕ್ರತುಂಡಮಹಾಕಾಯ ಕೋಟಿಸೂರ್ಯಸಮಪ್ರಭ।
ಅವಿಘ್ನಂ ಕುರು ಮೇ ದೇವ ಸರ್ವಕಾರ್ಯೇಷು ಸರ್ವದಾ॥
ಸುಮುಖಶ್ಚೈಕದಂತಶ್ಚ ಕಪಿಲೋ ಗಜಕರ್ಣಕಃ।
ಲಂಬೋದರಶ್ಚ ವಿಕಟೋ ವಿಘ್ನರಾಜೋ ಗಣಾಧಿಪಃ॥
ಧೂಮಕೇತುರ್ಗಣಾಧ್ಯಕ್ಷೋ ಫಾಲಚಂದ್ರೋ ಗಜಾನನಃ।
ವಕ್ರತುಂಡಃ ಶೂರ್ಪಕರ್ಣೋ ಹೇರಂಭಃ ಸ್ಕಂದಪೂರ್ವಜಃ॥
ಷೋಡಶೈತಾನಿ ನಾಮಾನಿ ಯಃ ಪಠೇಚ್ಛೃಣುಯಾದಪಿ।
ವಿದ್ಯಾರಂಭೇ ವಿವಾಹೇ ಚ ಪ್ರವೇಶೇ ನಿರ್ಗಮೇ ತಥಾ।
ಸಂಗ್ರಾಮೇ ಸರ್ವಕಾರ್ಯೇಷು ವಿಘ್ನಸ್ತಸ್ಯ ನ ಜಾಯತೇ॥

ಪ್ರಾರ್ಥನಾಃ ಸಮರ್ಪಯಾಮಿ।

ಪ್ರಧಾನ-ಪೂಜಾ — ಸಪ್ತರ್ಷಿ-ಅರುಂಧತೀ-ಪೂಜಾ

ಶುಕ್ಲಾಂಬರಧರಂ ವಿಷ್ಣುಂ ಶಶಿವರ್ಣಂ ಚತುರ್ಭುಜಮ್।
ಪ್ರಸನ್ನವದನಂ ಧ್ಯಾಯೇತ್ ಸರ್ವವಿಘ್ನೋಪಶಾಂತಯೇ॥

ಭಾದ್ರಪದ-ಶುಕ್ಲ-ಪಂಚಮ್ಯಾಂ ಮಧ್ಯಾಹ್ನವ್ಯಾಪಿನ್ಯಾಂ ಕರ್ತವ್ಯಮಿದಂ ವ್ರತಮ್। ಪ್ರಾತಃ ಸ್ನಾನಾನಂತರಂ
ಅಪಾಮಾರ್ಗ-ಸಮಿಧಾ (ಅಥವಾ ಸಪ್ತಸಂಖ್ಯಾಭಿಃ) ದಂತಧಾವನಂ ಕುರ್ಯಾತ್।

ದಂತಧಾವನ-ಪ್ರಾರ್ಥನಾ

ಆಯುರ್ಬಲಂ ಯಶೋ ವರ್ಚಃ ಪ್ರಜಾಃ ಪಶುವಸೂನಿ ಚ।
ಬ್ರಹ್ಮ ಪ್ರಜ್ಞಾಂ ಚ ಮೇಧಾಂ ಚ ತ್ವನ್ನೋ ದೇಹಿ ವನಸ್ಪತೇ॥
ಮುಖದುರ್ಗಂಧನಾಶಾಯ ದಂತಾನಾಂ ಚ ವಿಶುದ್ಧಯೇ।
ಷ್ಠೀವನಾಯ ಚ ಗಾತ್ರಾಣಾಂ ಕುರ್ವೇಽಹಂ ದಂತಧಾವನಮ್॥

ಅನೇನ ದಂತಾನ್ ಸಂಶೋಧ್ಯ ಮೃತ್ಸ್ನಾಪೂರ್ವಕಂ ಸ್ನಾಯಾತ್। ರಜಸ್ವಲಾ-ದೋಷ-ನಿವೃತ್ತ್ಯರ್ಥಂ ರಕ್ತವಸ್ತ್ರದಾನಂ
ಕುರ್ಯಾತ್। ತತಃ ಪಂಚಗವ್ಯ-ಸಮ್ಮೇಲನಂ ಕೃತ್ವಾ ಪ್ರತಿಮಾಂ ಶೋಧಯೇತ್।

ಪಂಚಗವ್ಯ-ಮಂತ್ರಾಃ

ಗಾಯತ್ರ್ಯಾ ಗೋಮೂತ್ರಮ್, "ಗಂಧದ್ವಾರಾ"ಮಿತಿ ಗೋಮಯಮ್, "ಆಪ್ಯಾಯಸ್ವೇ"ತಿ ಕ್ಷೀರಮ್,
"ದಧಿಕ್ರಾವ್ಣೋ" ಇತಿ ದಧಿ, "ಶುಕ್ರಮಸೀ"ತ್ಯಾಜ್ಯಮ್, "ದೇವಸ್ಯ ತ್ವೇ"ತಿ ಕುಶೋದಕಮ್ — ಏಭಿಃ
ದರ್ಭೈಃ ಪ್ರಣವೇನಾಲೋಡ್ಯ, ಪ್ರಣವೇನಾಭಿಮಂತ್ರ್ಯ ಪಂಚಗವ್ಯೇನ ಪ್ರತಿಮಾಶುದ್ಧಿಂ ಕೃತ್ವಾ ಪ್ರಾಶಯೇತ್।

ಯತ್ತ್ವಗಸ್ಥಿಗತಂ ಪಾಪಂ ದೇಹೇ ತಿಷ್ಠತಿ ಮಾಮಕೇ।
ಪ್ರಾಶನಂ ಪಂಚಗವ್ಯಸ್ಯ ದಹತ್ವಗ್ನಿರಿವೇಂಧನಮ್॥

ಗೃಹಂ ಗತ್ವಾ ಗೋಮಯೇನೋಪಲಿಪ್ತಾಂ ರಂಗವಲ್ಲೀಶೋಭಿತಾಂ ವೇದಿಂ ಸರ್ವತೋಭದ್ರಮಂಡಲಯುಕ್ತಾಂ
ಕುರ್ಯಾತ್, ಅವ್ರಣಂ ಸಜಲಂ ತಾಮ್ರಂ ವಾ ಮೃಣ್ಮಯಂ ಕುಂಭಂ ವಸ್ತ್ರಸಂಯುಕ್ತಂ
ಪಂಚರತ್ನಫಲಗಂಧಾಕ್ಷತೈರ್ಯುತಂ ಸಹಿರಣ್ಯಂ ಸಂಸ್ಥಾಪ್ಯ, ಕಂಠೇ ವೇಷ್ಟಿತಂ ವಸ್ತ್ರೇಣಾಚ್ಛಾದ್ಯ,
ಅಷ್ಟದಲಂ ತತ್ರ ಲಿಖಿತ್ವಾ ತಸ್ಮಿನ್ ಸಪ್ತ ಋಷೀನ್ ದಿವ್ಯಾನ್ ಭಕ್ತಿಯುಕ್ತಃ ಪ್ರಪೂಜಯೇತ್।

ಸಂಕಲ್ಪಃ

ಮಮೋಪಾತ್ತ-ಸಮಸ್ತ-ದುರಿತ-ಕ್ಷಯದ್ವಾರಾ ಶ್ರೀ-ಪರಮೇಶ್ವರ-ಪ್ರೀತ್ಯರ್ಥಂ ಶುಭೇ ಶೋಭನೇ ಮುಹೂರ್ತೇ ಅದ್ಯ ಬ್ರಹ್ಮಣಃ
ದ್ವಿತೀಯಪರಾರ್ಧೇ ಶ್ವೇತವರಾಹಕಲ್ಪೇ ವೈವಸ್ವತಮನ್ವಂತರೇ ಅಷ್ಟಾವಿಂಶತಿತಮೇ ಕಲಿಯುಗೇ ಪ್ರಥಮೇ ಪಾದೇ
ಜಂಬೂದ್ವೀಪೇ ಭಾರತವರ್ಷೇ ಭರತಖಂಡೇ ಮೇರೋಃ ದಕ್ಷಿಣೇ ಪಾರ್ಶ್ವೇ ಶಕಾಬ್ದೇ ಅಸ್ಮಿನ್ ವರ್ತಮಾನೇ ವ್ಯಾವಹಾರಿಕಾಣಾಂ
ಪ್ರಭವಾದೀನಾಂ ಷಷ್ಟ್ಯಾಃ ಸಂವತ್ಸರಾಣಾಂ ಮಧ್ಯೇ ( ) ನಾಮ ಸಂವತ್ಸರೇ ದಕ್ಷಿಣಾಯನೇ
ವರ್ಷ-ಋತೌ ಭಾದ್ರಪದ-ಮಾಸೇ ಶುಕ್ಲಪಕ್ಷೇ ಪಂಚಮ್ಯಾಂ ಶುಭತಿಥೌ ( ) ವಾಸರಯುಕ್ತಾಯಾಂ ಮಧ್ಯಾಹ್ನವ್ಯಾಪಿನ್ಯಾಂ
( ) ನಕ್ಷತ್ರ ( )-ಯೋಗ ( )-ಕರಣ-ಯುಕ್ತಾಯಾಂ ಚ ಏವಂ ಗುಣ ವಿಶೇಷಣ ವಿಶಿಷ್ಟಾಯಾಮ್
ಅಸ್ಯಾಮ್ ಪಂಚಮ್ಯಾಂ ಶುಭತಿಥೌ
ಮಮ ಇಹಜನ್ಮನಿ ಜನ್ಮಾಂತರೇ ಚ ಸ್ತ್ರೀ-ಜನ್ಮ-ಪ್ರಾದುರ್ಭಾವ-ಸಂಭೂತ-ರಜೋದರ್ಶನಾದಾರಭ್ಯ ರಜೋನಿವೃತ್ತಿಪರ್ಯಂತಂ
ಮಧ್ಯವರ್ತಿನಿ ಕಾಲೇ ಋತುಮತ್ಯಾಂ ಸತ್ಯಾಂ ಜ್ಞಾನತಃ ಅಜ್ಞಾನತಶ್ಚ ಆಚರಿತ-ಸಕಲ-ಪ್ರತಿಬಂಧಕ-ದೋಷ-ನಿವೃತ್ತ್ಯರ್ಥಂ
ಮಮ ಇಹಜನ್ಮನಿ ಪೂರ್ವಜನ್ಮನಿ ಜನ್ಮಾಂತರೇ ಚ ಸಂಪಾದಿತಾನಾಂ ಜ್ಞಾನಾಜ್ಞಾನಕೃತಮಹಾಪಾತಕಚತುಷ್ಟಯ-ವ್ಯತಿರಿಕ್ತಾನಾಂ
ರಹಸ್ಯಕೃತಾನಾಂ ಪ್ರಕಾಶಕೃತಾನಾಂ ಸರ್ವೇಷಾಂ ಪಾಪಾನಾಂ ಸದ್ಯ ಅಪನೋದನದ್ವಾರಾ ಸಕಲ-ಪಾಪಕ್ಷಯಾರ್ಥಂ
ಸೌಭಾಗ್ಯ-ಸಂತಾನ-ಸೌಖ್ಯ-ಆಯುರಾರೋಗ್ಯ-ಸಿದ್ಧ್ಯರ್ಥಮ್ ಅರುಂಧತೀ-ಸಹಿತ-ಕಶ್ಯಪಾದಿ-ಸಪ್ತರ್ಷಿ-ಪ್ರಸಾದಸಿದ್ಧ್ಯರ್ಥಂ
ಯಥಾಶಕ್ತಿ-ಧ್ಯಾನಾವಾಹನಾದಿಷೋಡಶೋಪಚಾರೈಃ ಅರುಂಧತೀ-ಸಹಿತ-ಕಶ್ಯಪಾದಿ-ಸಪ್ತರ್ಷಿ-ಪೂಜಾಂ ಕರಿಷ್ಯೇ। ತದಂಗಂ ಕಲಶಪೂಜಾಂ ಚ ಕರಿಷ್ಯೇ।
ಶ್ರೀವಿಘ್ನೇಶ್ವರಾಯ ನಮಃ ಯಥಾಸ್ಥಾನಂ ಪ್ರತಿಷ್ಠಾಪಯಾಮಿ। ಶೋಭನಾರ್ಥೇ ಕ್ಷೇಮಾಯ ಪುನರಾಗಮನಾಯ ಚ।
(ಗಣಪತಿ-ಪ್ರಸಾದಂ ಶಿರಸಾ ಗೃಹೀತ್ವಾ)

ಆಸನ-ಪೂಜಾ

ಪೃಥಿವ್ಯಾ ಮೇರುಪೃಷ್ಠ ಋಷಿಃ। ಸುತಲಂ ಛಂದಃ। ಕೂರ್ಮೋ ದೇವತಾ॥

ಪೃಥ್ವಿ ತ್ವಯಾ ಧೃತಾ ಲೋಕಾ ದೇವಿ ತ್ವಂ ವಿಷ್ಣುನಾ ಧೃತಾ।
ತ್ವಂ ಚ ಧಾರಯ ಮಾಂ ದೇವಿ ಪವಿತ್ರಂ ಚಾಸನಂ ಕುರು॥

ಘಂಟಾ-ಪೂಜಾ

ಆಗಮಾರ್ಥಂ ತು ದೇವಾನಾಂ ಗಮನಾರ್ಥಂ ತು ರಕ್ಷಸಾಮ್।
ಘಂಟಾರವಂ ಕರೋಮ್ಯಾದೌ ದೇವತಾಽಽಹ್ವಾನಕಾರಣಮ್॥

ಕಲಶ-ಪೂಜಾ

ಕಲಶಾಯ ನಮಃ ದಿವ್ಯಗಂಧಾನ್ ಧಾರಯಾಮಿ।

ಗಂಗೇ ಚ ಯಮುನೇ ಚೈವ ಗೋದಾವರಿ ಸರಸ್ವತಿ।
ನರ್ಮದೇ ಸಿಂಧುಕಾವೇರಿ ಜಲೇಽಸ್ಮಿನ್ ಸನ್ನಿಧಿಂ ಕುರು॥

ಶ್ರೀ- ಗಂಗಾಯೈ ನಮಃ। ಶ್ರೀ- ಯಮುನಾಯೈ ನಮಃ। ಶ್ರೀ- ಗೋದಾವರ್ಯೈ ನಮಃ। ಶ್ರೀ- ಸರಸ್ವತ್ಯೈ ನಮಃ। ಶ್ರೀ- ನರ್ಮದಾಯೈ ನಮಃ। ಶ್ರೀ- ಸಿಂಧವೇ ನಮಃ। ಶ್ರೀ- ಕಾವೇರ್ಯೈ ನಮಃ।
ಸಪ್ತಕೋಟಿಮಹಾತೀರ್ಥಾನ್ಯಾವಾಹಯಾಮಿ।
(ಅಥ ಕಲಶಂ ಸ್ಪೃಷ್ಟ್ವಾ ಜಪಂ ಕುರ್ಯಾತ್)

ಕಲಶಸ್ಯ ಮುಖೇ ವಿಷ್ಣುಃ ಕಂಠೇ ರುದ್ರಃ ಸಮಾಶ್ರಿತಃ।
ಮೂಲೇ ತತ್ರ ಸ್ಥಿತೋ ಬ್ರಹ್ಮಾ ಮಧ್ಯೇ ಮಾತೃಗಣಾಃ ಸ್ಮೃತಾಃ॥
ಕುಕ್ಷೌ ತು ಸಾಗರಾಃ ಸರ್ವೇ ಸಪ್ತದ್ವೀಪಾ ವಸುಂಧರಾ।
ಋಗ್ವೇದೋಽಥ ಯಜುರ್ವೇದಃ ಸಾಮವೇದೋಽಪ್ಯಥರ್ವಣಃ।
ಅಂಗೈಶ್ಚ ಸಹಿತಾಃ ಸರ್ವೇ ಕಲಶಾಂಬುಸಮಾಶ್ರಿತಾಃ॥
ಸರ್ವೇ ಸಮುದ್ರಾಃ ಸರಿತಃ ತೀರ್ಥಾನಿ ಚ ಹ್ರದಾ ನದಾಃ।
ಆಯಾಂತು ಋಷಿಪೂಜಾರ್ಥಂ ದುರಿತಕ್ಷಯಕಾರಕಾಃ॥

(ಇತಿ ಕಲಶಜಲೇನ ಸರ್ವೋಪಕರಣಾನಿ ಆತ್ಮಾನಂ ಚ ಪ್ರೋಕ್ಷ್ಯ।)

ಆತ್ಮ-ಪೂಜಾ

ಆತ್ಮನೇ ನಮಃ, ದಿವ್ಯಗಂಧಾನ್ ಧಾರಯಾಮಿ।

೧. ಆತ್ಮನೇ ನಮಃ
೨. ಅಂತರಾತ್ಮನೇ ನಮಃ
೩. ಯೋಗಾತ್ಮನೇ ನಮಃ
೪. ಜೀವಾತ್ಮನೇ ನಮಃ
೫. ಪರಮಾತ್ಮನೇ ನಮಃ
೬. ಜ್ಞಾನಾತ್ಮನೇ ನಮಃ

ಸಮಸ್ತೋಪಚಾರಾನ್ ಸಮರ್ಪಯಾಮಿ।

ದೇಹೋ ದೇವಾಲಯಃ ಪ್ರೋಕ್ತೋ ಜೀವೋ ದೇವಃ ಸನಾತನಃ।
ತ್ಯಜೇದಜ್ಞಾನನಿರ್ಮಾಲ್ಯಂ ಸೋಽಹಂ ಭಾವೇನ ಪೂಜಯೇತ್॥

ಪೀಠ-ಪೂಜಾ

ಆಧಾರಶಕ್ತ್ಯೈ ನಮಃ
ಮೂಲಪ್ರಕೃತ್ಯೈ ನಮಃ
ಆದಿಕೂರ್ಮಾಯ ನಮಃ
ಆದಿವರಾಹಾಯ ನಮಃ
ಅನಂತಾಯ ನಮಃ
ಪೃಥಿವ್ಯೈ ನಮಃ
ರತ್ನಮಂಡಪಾಯ ನಮಃ
ರತ್ನವೇದಿಕಾಯೈ ನಮಃ
ಸ್ವರ್ಣಸ್ತಂಭಾಯ ನಮಃ
ಶ್ವೇತಚ್ಛತ್ತ್ರಾಯ ನಮಃ
ಕಲ್ಪಕವೃಕ್ಷಾಯ ನಮಃ
ಕ್ಷೀರಸಮುದ್ರಾಯ ನಮಃ
ಸಿತಚಾಮರಾಭ್ಯಾಂ ನಮಃ
ಯೋಗಪೀಠಾಸನಾಯ ನಮಃ

ಗುರು-ಧ್ಯಾನಮ್

ಗುರುರ್ಬ್ರಹ್ಮಾ ಗುರುರ್ವಿಷ್ಣುರ್ಗುರುರ್ದೇವೋ ಮಹೇಶ್ವರಃ।
ಗುರುಃ ಸಾಕ್ಷಾತ್ ಪರಂ ಬ್ರಹ್ಮ ತಸ್ಮೈ ಶ್ರೀ-ಗುರವೇ ನಮಃ॥

ಪ್ರತ್ಯೇಕ-ಋಷಿ-ಪೂಜಾ

ವ್ರತಾರಂಭೇ ಆಚಾರ್ಯ-ಋತ್ವಿಗ್ವರಣಂ ಕೃತ್ವಾ, ಕುಂಭೇಷು ವರುಣಮಾವಾಹ್ಯ, ತದುಪರಿ ಪ್ರತಿಮಾಸು
ಕಶ್ಯಪಾದೀನ್ ಆವಾಹಯೇತ್। ಆದೌ ಪ್ರತ್ಯೇಕಮ್ ಏಕೈಕಂ ಋಷಿಂ ಸಂಪೂಜ್ಯ, ತತಃ ಸಮಯಾ ಸರ್ವಾನ್ ಋಷೀನ್ ಪೂಜಯೇತ್।

೧. ಕಶ್ಯಪ-ಪೂಜಾ

ಜಟಿಲಂ ಭಸ್ಮದಿಗ್ಧಾಂಗಂ ಸಾಕ್ಷಸೂತ್ರಕಮಂಡಲುಮ್।
ವಲ್ಕಲಾಜಿನಕೌಪೀನಂ ಸಾತಪತ್ರಂ ಸದಂಡಕಮ್॥

ಅದಿತಿ-ಸಹಿತಂ ಕಶ್ಯಪಂ ಧ್ಯಾಯಾಮಿ।
ಋಷೇರ್ಮಂತ್ರಕೃತಾಮಿತ್ಯಸ್ಯ ಮಂತ್ರಸ್ಯ ಕಶ್ಯಪ ಋಷಿಃ। ಕಶ್ಯಪೋ ದೇವತಾ। ಪಂಕ್ತಿಶ್ಛಂದಃ।
ಕಶ್ಯಪಾವಾಹನೇ ವಿನಿಯೋಗಃ।

ಋಷೇರ್ಮಂತ್ರಕೃತಾಂ ಸ್ತೋಮೈಃ ಕಶ್ಯಪೋದ್ವರ್ಧಯನ್ ಗಿರಃ।
ಸೋಮಂ ನಮಸ್ಯ ರಾಜಾನಂ ಯೋ ಜಜ್ಞೇ ವೀರುಧಾಂ ಪತಿಃ॥

ಅದಿತಿ-ಸಹಿತಂ ಕಶ್ಯಪಮ್ ಆವಾಹಯಾಮಿ।
ಕಶ್ಯಪಾಯ ಆಸನಮ್। ಮರೀಚಿಪುತ್ರಾಯ ಪಾದ್ಯಮ್। ಸೂರ್ಯಜನಕಾಯ ಅರ್ಘ್ಯಮ್। ಇಂದ್ರತಾತಾಯ
ಆಚಮನೀಯಮ್। ವಾಮನಗುರವೇ ಮಧುಪರ್ಕಮ್। ಅದಿತಿಭರ್ತ್ರೇ ಪಂಚಾಮೃತಸ್ನಾನಮ್। ಬ್ರಹ್ಮನೇತ್ರಾಯ
ಶುದ್ಧೋದಕಸ್ನಾನಮ್। ದೇವಪ್ರಿಯಾಯ ವಸ್ತ್ರದ್ವಯಮ್। ಸುವರ್ಚಸೇ ಯಜ್ಞೋಪವೀತಮ್। ವಿಶಾಲಾಕ್ಷಾಯ
ಆಭರಣಾನಿ। ಸರ್ವವಿದೇ ಗಂಧಮ್। ಮಹತೇ ಅಕ್ಷತಾನ್ — ಇತಿ ಕ್ರಮೇಣ ಸಮರ್ಪಯಾಮಿ।
ಕಶ್ಯಪಾಯ ನಮಃ; ವಾಮನಗುರವೇ ನಮಃ; ವಿಶಾಲಾಕ್ಷಾಯ ನಮಃ; ಮರೀಚಿಪುತ್ರಾಯ ನಮಃ; ಅದಿತಿಭರ್ತ್ರೇ ನಮಃ; ಸರ್ವವಿದೇ ನಮಃ; ಕವಿಜನಕಾಯ ನಮಃ; ದೇವಪ್ರಿಯಾಯ ನಮಃ; ಮಹತೇ ನಮಃ; ಇಂದ್ರತಾತಾಯ ನಮಃ; ಸುವರ್ಚಸೇ ನಮಃ; ವಿಮಲಾಯ ನಮಃ।
ಇತಿ ಪುಷ್ಪಾಣಿ ಸಮರ್ಪಯಾಮಿ। ಧೀಮತೇ ಧೂಪಮ್। ಅಕಲ್ಮಷಾಯ ದೀಪಮ್। ಸುಮನೋರಥಾಯ
ನೈವೇದ್ಯಮ್। ಜಟಿನೇ ತಾಂಬೂಲಮ್। ದೀಪ್ತತೇಜಸೇ ನೀರಾಜನಮ್। ದಂಡಿನೇ ಮಂತ್ರಪುಷ್ಪಾಣಿ ಸಮರ್ಪಯಾಮಿ।

೨. ಅತ್ರಿ-ಪೂಜಾ

ಮರೀಚಿತನಯಂ ದೇವಂ ಸಾಕ್ಷಸೂತ್ರಕಮಂಡಲುಮ್।
ಅನಸೂಯಾಪತಿಂ ಶಾಂತಮ್ ಅತ್ರಿಂ ನಿಷ್ಕಲ್ಮಷಂ ಮುನಿಮ್॥

ಅನಸೂಯಾ-ಸಮೇತಮ್ ಅತ್ರಿಂ ಧ್ಯಾಯಾಮಿ।
ಸ್ವರ್ಭಾನೋರಿತ್ಯಸ್ಯ ಮಂತ್ರಸ್ಯ ಮರೀಚಿಪುತ್ರೋಽತ್ರಿಃ ಋಷಿಃ। ಅತ್ರಿರ್ದೇವತಾ। ತ್ರಿಷ್ಟುಪ್ ಛಂದಃ।
ಅತ್ರ್ಯಾವಾಹನೇ ವಿನಿಯೋಗಃ।

ಸ್ವರ್ಭಾನೋ ರಥ ಯದಿಂದ್ರಮಾಯಾ ಆವೋದಿವಾ ವರ್ತಮಾನಾ ಆವಾಹನ್।
ಗೂಳ್ಹಂ ಸೂರ್ಯಂ ತಮಸಾಪವೃತೇನ ತುರೀಯೇಣ ಬ್ರಹ್ಮಣಾ ವಿಂದದತ್ರಿಃ॥

ಅನಸೂಯಾ-ಸಮೇತಮ್ ಅತ್ರಿಮ್ ಆವಾಹಯಾಮಿ।
ಅತ್ರಯೇ ಆಸನಮ್। ಧೀಮತೇ ಪಾದ್ಯಮ್। ಯೋಗೀಂದ್ರಾಯ ಅರ್ಘ್ಯಮ್। ದತ್ತಾತ್ರೇಯಪ್ರಿಯಾಯ ಆಚಮನೀಯಮ್।
ಚಂದ್ರತಾತಾಯ ಮಧುಪರ್ಕಮ್। ಅನಸೂಯಾಪತಯೇ ಪಂಚಾಮೃತಮ್। ನಿತ್ಯಶುದ್ಧಾಯ ಶುದ್ಧೋದಕಮ್।
ವಲ್ಕಲಧಾರಿಣೇ ವಸ್ತ್ರಮ್। ಬ್ರಹ್ಮಿಷ್ಠಾಯ ಯಜ್ಞೋಪವೀತಮ್। ದೀಪ್ತಾಯ ಆಭರಣಮ್। ದಂಡಧಾರಿಣೇ
ಗಂಧಮ್। ತ್ರಿಮೂರ್ತಿಜನಕಾಯ ಅಕ್ಷತಾನ್ — ಇತಿ ಕ್ರಮೇಣ ಸಮರ್ಪಯಾಮಿ।
ಅತ್ರಯೇ ನಮಃ; ಧೀಮತೇ ನಮಃ; ಯೋಗೀಂದ್ರಾಯ ನಮಃ; ದತ್ತಾತ್ರೇಯಪ್ರಿಯಾಯ ನಮಃ; ತ್ರಿಮೂರ್ತಿಜನಕಾಯ ನಮಃ; ಚಂದ್ರತಾತಾಯ ನಮಃ; ದ್ಯುತಿಮತೇ ನಮಃ; ಮರೀಚಿಪುತ್ರಾಯ ನಮಃ।
ಇತಿ ಪುಷ್ಪಾಣಿ ಸಮರ್ಪಯಾಮಿ। ಸುಗಂಧದೇಹಾಯ ಧೂಪಮ್। ದ್ಯುತಿಮತೇ ದೀಪಮ್।
ನಿತ್ಯತೃಪ್ತಾಯ ನೈವೇದ್ಯಮ್। ವಿರಾಗಿಣೇ ತಾಂಬೂಲಮ್। ಅರ್ಚಿಷ್ಮತೇ ನೀರಾಜನಮ್। ಭ್ರಾಜಿಷ್ಣವೇ
ಮಂತ್ರಪುಷ್ಪಮ್। ಸಂಯಮಿನೇ ಪ್ರದಕ್ಷಿಣಮ್। ದಮಿನೇ ನಮಸ್ಕಾರಾನ್। ಕಲ್ಮಷಘ್ನಾಯ ಪುನರರ್ಘ್ಯಂ
ಸಮರ್ಪಯಾಮಿ। ಅತ್ರಯೇ ಸರ್ವೋಪಚಾರಾನ್ ಸಮರ್ಪಯಾಮಿ।

೩. ಭರದ್ವಾಜ-ಪೂಜಾ

ಭರದ್ವಾಜಂ ಮಹಾಶಾಂತಂ ಸುಶೀಲಾಪತಿಮ್ ಊರ್ಜಿತಮ್।
ಅಕ್ಷಸ್ರಗ್ಗಂಧಹಸ್ತಂ ಚ ಮುನಿಮ್ ಆಂಗಿರಸಂ ಭಜೇ॥

ಸುಶೀಲಾ-ಸಹಿತಂ ಭರದ್ವಾಜಂ ಧ್ಯಾಯಾಮಿ।
ಅವಿಂದನ್ನಿತ್ಯಸ್ಯ ಮಂತ್ರಸ್ಯ ಸೌಜ್ಜಿಕೋ ಭಾರದ್ವಾಜ ಋಷಿಃ। ಭರದ್ವಾಜೋ ದೇವತಾ। ತ್ರಿಷ್ಟುಪ್ಛಂದಃ।
ಭರದ್ವಾಜಾವಾಹನೇ ವಿನಿಯೋಗಃ।

ಅವಿಂದತೇತಿ ಹಿ ಹಿತಂ ಯದಾಸೀದ್ಯಜ್ಞಸ್ಯ ಧಾಮ ಪರಮಂ ಗುಹಾ ಯತ್।
ಧಾತುರ್ದ್ಯುತಾನಾತ್ಸವಿತುಶ್ಚ ವಿಷ್ಣೋರ್ಭರದ್ವಾಜೋ ಬೃಹದಾಚಕ್ರೇ ಅಗ್ನೇಃ॥

ಸುಶೀಲಾ-ಸಹಿತಂ ಭರದ್ವಾಜಮ್ ಆವಾಹಯಾಮಿ।
ಭರದ್ವಾಜಾಯ ಆಸನಮ್। ಭ್ರಾಜಿಷ್ಣವೇ ಪಾದ್ಯಮ್। ವಿದುಷೇ ಅರ್ಘ್ಯಮ್। ಅಕಲ್ಮಷಾಯ ಆಚಮನೀಯಮ್।
ವಲ್ಕಲಧಾರಿಣೇ ಮಧುಪರ್ಕಮ್। ಪವಿತ್ರದೇಹಾಯ ಪಂಚಾಮೃತಸ್ನಾನಮ್। ಪರಿಶುದ್ಧಾಯ
ಶುದ್ಧೋದಕಸ್ನಾನಮ್। ಜ್ಞಾನಿನೇ ವಸ್ತ್ರಮ್। ಮುನಯೇ ಯಜ್ಞೋಪವೀತಮ್। ಬ್ರಹ್ಮಚಾರಿಣೇ ಆಭರಣಾನಿ।
ತ್ರಿಕಾಲಜ್ಞಾನಿನೇ ಗಂಧಮ್। ಮುನಯೇ ಅಕ್ಷತಾನ್ — ಇತಿ ಕ್ರಮೇಣ ಸಮರ್ಪಯಾಮಿ।
ಭರದ್ವಾಜಾಯ ನಮಃ; ವಲ್ಕಲಧಾರಿಣೇ ನಮಃ; ಮುನಯೇ ನಮಃ; ಭ್ರಾಜಿಷ್ಣವೇ ನಮಃ; ಪವಿತ್ರದೇಹಾಯ ನಮಃ; ಬ್ರಹ್ಮಚಾರಿಣೇ ನಮಃ; ವಿದುಷೇ ನಮಃ; ಪರಿಶುದ್ಧಾಯ ನಮಃ; ತ್ರಿಕಾಲಜ್ಞಾಯ ನಮಃ; ಅಕಲ್ಮಷಾಯ ನಮಃ; ಜ್ಞಾನಿನೇ ನಮಃ; ಸುಪ್ರಸಿದ್ಧಾಯ ನಮಃ।
ಇತಿ ಪುಷ್ಪಾಣಿ ಸಮರ್ಪಯಾಮಿ। ಸುನಾಸಿಕಾಯ ಧೂಪಮ್। ಜ್ಞಾನಿನೇ ದೀಪಮ್।
ಅವಾಪ್ತಸಕಲಕಾಮಾಯ ನೈವೇದ್ಯಮ್। ಸುಮನಸ್ಕಾಯ ತಾಂಬೂಲಮ್। ತೇಜಸೇ ನೀರಾಜನಮ್। ಭ್ರಾಜಿಷ್ಣವೇ
ಮಂತ್ರಪುಷ್ಪಮ್। ಜಿತಕ್ರೋಧಾಯ ಆತ್ಮಪ್ರದಕ್ಷಿಣಮ್। ಅವಂದಿನೇ ನಮಸ್ಕಾರಾನ್। ಮುಮುಕ್ಷವೇ
ಪುನರರ್ಘ್ಯಮ್। ಭರದ್ವಾಜಾಯ ಸರ್ವೋಪಚಾರಾನ್ ಸಮರ್ಪಯಾಮಿ।

೪. ವಿಶ್ವಾಮಿತ್ರ-ಪೂಜಾ

ಹಿರಣ್ಯಗರ್ಭಸಂಭೂತಂ ಜಟಾಮಕುಟಧಾರಿಣಮ್।
ಕುಮುದ್ವತೀಪತಿಂ ಶಾಂತಂ ವಿಶ್ವಾಮಿತ್ರಮಹಂ ಭಜೇ॥

ಕುಮುದ್ವತೀ-ಸಹಿತಂ ವಿಶ್ವಾಮಿತ್ರಂ ಧ್ಯಾಯಾಮಿ।
ಇಮೇ ಭೋಜಾ ಇತ್ಯಸ್ಯ ಮಂತ್ರಸ್ಯ ಪ್ರಗಾಥೋ ವಿಶ್ವಾಮಿತ್ರಃ ಋಷಿಃ। ತ್ರಿಷ್ಟುಪ್ಛಂದಃ। ಗಾಧಿಪುತ್ರೋ
ವಿಶ್ವಾಮಿತ್ರೋ ದೇವತಾ। ವಿಶ್ವಾಮಿತ್ರಾವಾಹನೇ ವಿನಿಯೋಗಃ।

ಇಮೇ ಭೋಜಾ ಅಂಗಿರಸೋ ವಿರೂಪಾ ದಿವಸ್ಪುತ್ರಾಸೋ ಅಸುರಸ್ಯ ವೀರಾಃ।
ವಿಶ್ವಾಮಿತ್ರಾಯ ದದತೋ ಮಘಾನಿ ಸಪ್ತ ಪ್ರತಿರಂತೋ ನ ಆಯುಃ॥

ಕುಮುದ್ವತೀ-ಸಹಿತಂ ವಿಶ್ವಾಮಿತ್ರಮ್ ಆವಾಹಯಾಮಿ।
ವಿಶ್ವಾಮಿತ್ರಾಯ ಆಸನಮ್। ದಗ್ಧಕಲ್ಮಷಾಯ ಪಾದ್ಯಮ್। ಶುದ್ಧಬುದ್ಧಯೇ ಅರ್ಘ್ಯಮ್। ಉಗ್ರತಪಸೇ
ಆಚಮನೀಯಮ್। ಅವ್ಯಗ್ರಾಯ ಮಧುಪರ್ಕಮ್। ದಂಡಪಾಣಯೇ ಪಂಚಾಮೃತಮ್। ಕಮಂಡಲುಧರಾಯ
ಶುದ್ಧೋದಕಮ್। ಅಜಿನಾಂಬರಾಯ ವಸ್ತ್ರಮ್। ತೇಜಸ್ವಿನೇ ಯಜ್ಞೋಪವೀತಮ್। ರಮ್ಯಾಯ ಆಭರಣಾನಿ।
ಕುಶಿಕಪೌತ್ರಾಯ ಗಂಧಮ್। ವರದಾಯ ಅಕ್ಷತಾನ್ — ಇತಿ ಕ್ರಮೇಣ ಸಮರ್ಪಯಾಮಿ।
ಮುಮುಕ್ಷವೇ ನಮಃ; ಗಾಯತ್ರೀಪ್ರಿಯಾಯ ನಮಃ; ವೇದಶಾಸ್ತ್ರಾರ್ಥತತ್ತ್ವಜ್ಞಾಯ ನಮಃ; ವೀರಾಯ ನಮಃ; ಅಮಾಯಿನೇ ನಮಃ; ಬ್ರಹ್ಮರ್ಷಯೇ ನಮಃ; ದಗ್ಧಕಲ್ಮಷಾಯ ನಮಃ; ಅನಘತೇಜಸೇ ನಮಃ; ಬುದ್ಧಿಪ್ರದಾಯ ನಮಃ; ಉಗ್ರತಪಸೇ ನಮಃ; ಅವ್ಯಗ್ರಾಯ ನಮಃ; ದಂಡಪಾಣಯೇ ನಮಃ; ಕಮಂಡಲುಧರಾಯ ನಮಃ; ಅಜಿನಾಂಬರಾಯ ನಮಃ; ತೇಜಸ್ವಿನೇ ನಮಃ; ರಮ್ಯಾಯ ನಮಃ; ಕುಶಿಕಪೌತ್ರಾಯ ನಮಃ; ವರದಾಯ ನಮಃ; ಗಾಧಿತನೂಭವಾಯ ನಮಃ।
ಇತಿ ಪುಷ್ಪಾಣಿ ಸಮರ್ಪಯಾಮಿ। ಕಮಂಡಲುಧರಾಯ ಧೂಪಮ್। ತೇಜಸೇ ದೀಪಮ್। ರಮ್ಯಾಯ
ನೈವೇದ್ಯಮ್। ಕೌಶಿಕಾಯ ತಾಂಬೂಲಮ್। ವರದಾಯ ನೀರಾಜನಮ್। ಗಾಧಿತನಯಾಯ ಮಂತ್ರಪುಷ್ಪಮ್।
ರುದ್ರಪ್ರಿಯಾಯ ಪ್ರದಕ್ಷಿಣಮ್। ಗಾಯತ್ರೀಜಪಾನಂದಾಯ ನಮಸ್ಕಾರಾನ್। ವೇದಶಾಸ್ತ್ರಾರ್ಥತತ್ತ್ವಜ್ಞಾಯ
ಪುನರರ್ಘ್ಯಮ್। ವಿಶ್ವಾಮಿತ್ರಾಯ ಸರ್ವೋಪಚಾರಾನ್ ಸಮರ್ಪಯಾಮಿ।

೫. ಗೌತಮ-ಪೂಜಾ

ರಹೂಗಣಾತ್ಮಜಂ ಶಾಂತಂ ತ್ರಿಪುಂಡ್ರಾಂಕಿತಮಸ್ತಕಮ್।
ಅಕ್ಷಸ್ರಕ್ಕುಂಡಲೇ ದಂಡಾನ್ ದಧಾನಂ ಗೌತಮಂ ಭಜೇ॥

ಅಹಲ್ಯಾ-ಸಹಿತಂ ಗೌತಮಂ ಧ್ಯಾಯಾಮಿ।
ಅಭಿತ್ವಾ ಗೌತಮ ಇತ್ಯಸ್ಯ ಮಂತ್ರಸ್ಯ ಗೌತಮಃ ಋಷಿಃ। ಗಾಯತ್ರೀಛಂದಃ। ಗೌತಮೋ ದೇವತಾ।
ಗೌತಮಾವಾಹನೇ ವಿನಿಯೋಗಃ।

ಅಭಿ ತ್ವಾ ಗೌತಮಾ ಗಿರಾ ಜಾತವೇದೋ ವಿಚರ್ಷಣೇ।
ದ್ಯುಮ್ನೈರಭಿ ಪ್ರ ಣೋನುಮಃ॥

ಅಹಲ್ಯಾ-ಪತಿಂ ಗೌತಮಮ್ ಆವಾಹಯಾಮಿ।
ಗೌತಮಾಯ ಆಸನಮ್। ಭಸ್ಮೋದ್ಧೂಲಿತವಿಗ್ರಹಾಯ ಪಾದ್ಯಮ್। ರುದ್ರಾಕ್ಷಮಾಲಿನೇ ಅರ್ಘ್ಯಮ್।
ರುದ್ರಪ್ರಿಯಾಯ ಆಚಮನೀಯಮ್। ದೇವಪೂಜಾನಿರತಾಯ ಮಧುಪರ್ಕಮ್। ಅಹಲ್ಯಾಪತಯೇ ಪಂಚಾಮೃತಮ್।
ಧ್ವಸ್ತಪಾಪಾಯ ಶುದ್ಧೋದಕಸ್ನಾನಮ್। ಕಮಂಡಲುಧರಾಯ ವಸ್ತ್ರಮ್। ಸುವರ್ಚಸೇ ಯಜ್ಞೋಪವೀತಮ್।
ನಿಷ್ಕಲ್ಮಷಾಯ ಆಭರಣಾನಿ। ನಿರುಪದ್ರವಾಯ ಗಂಧಮ್। ನಿರಹಂಕಾರಾಯ ಅಕ್ಷತಾನ್ — ಇತಿ
ಕ್ರಮೇಣ ಸಮರ್ಪಯಾಮಿ।
ಗೌತಮಾಯ ನಮಃ; ಧ್ವಸ್ತಪಾಪಾಯ ನಮಃ; ಭಸ್ಮೋದ್ಧೂಲಿತವಿಗ್ರಹಾಯ ನಮಃ; ಕಮಂಡಲುಧರಾಯ ನಮಃ; ನಿರಹಂಕಾರಾಯ ನಮಃ; ವಲ್ಕಲಾಂಬರಾಯ ನಮಃ; ನಿತ್ಯತೃಪ್ತಾಯ ನಮಃ; ಶಿವಲಿಂಗಾರ್ಚಕಾಯ ನಮಃ; ನಿಷ್ಕಲ್ಮಷಾಯ ನಮಃ; ನಿರ್ಮೋಹಾಯ ನಮಃ; ನಿರುಪದ್ರವಾಯ ನಮಃ; ರುದ್ರಾಕ್ಷಮಾಲಿನೇ ನಮಃ; ಸುವರ್ಚಸೇ ನಮಃ; ಅಹಲ್ಯಾಪತಯೇ ನಮಃ।
ಇತಿ ಪುಷ್ಪಾಣಿ ಸಮರ್ಪಯಾಮಿ। ವಿಮಲಾಯ ಧೂಪಮ್। ದ್ಯುತಿಮತೇ ದೀಪಮ್। ನಿತ್ಯತೃಪ್ತಾಯ
ನೈವೇದ್ಯಮ್। ಅಕ್ಲೇಶಾಯ ತಾಂಬೂಲಮ್। ವರದಾಯ ನೀರಾಜನಮ್। ಜಟಿನೇ ಮಂತ್ರಪುಷ್ಪಮ್। ಸಂಯಮಿನೇ
ಪ್ರದಕ್ಷಿಣಮ್। ಮುಮುಕ್ಷವೇ ನಮಸ್ಕಾರಾನ್। ಗೌತಮಾಯ ಪುನರರ್ಘ್ಯಂ ಸರ್ವೋಪಚಾರಾನ್ ಚ ಸಮರ್ಪಯಾಮಿ।

೬. ಜಮದಗ್ನಿ-ಪೂಜಾ

ಶಾಂತಂ ಜಿತಾರಿಷಡ್ವರ್ಗಂ ಭೃಗುಪುತ್ರಂ ಮಹಾದ್ಯುತಿಮ್।
ದಂಡಾಕ್ಷಸೂತ್ರಪಾಣಿಂ ಚ ಜಮದಗ್ನಿಂ ನಮಾಮ್ಯಹಮ್॥

ರೇಣುಕಾ-ಸಹಿತಂ ಜಮದಗ್ನಿಂ ಧ್ಯಾಯಾಮಿ।
ಪ್ರಸೂತೋ ಭಕ್ಷಮಿತ್ಯಸ್ಯ ಮಂತ್ರಸ್ಯ ಪ್ರಗಾಥೋ ಜಮದಗ್ನಿಃ ಋಷಿಃ। ಜಗತೀಛಂದಃ। ಜಮದಗ್ನಿರ್ದೇವತಾ।
ಜಮದಗ್ನ್ಯಾವಾಹನೇ ವಿನಿಯೋಗಃ।

ಪ್ರಸೂತೋ ಭಕ್ಷಂ ಕರಾಮಃ ಸ್ತೋಮಂ ಚೇಮಂ ಪ್ರಥಮಃ ಸೂರಿರುನ್ಮೃಜೇ।
ಸುತೇ ಸಾತೇನ ಯದ್ಯಗಾಮಂ ವಾಂ ಪ್ರತಿ ವಿಶ್ವಾಮಿತ್ರ ಜಮದಗ್ನೀದಮೇ॥

ರೇಣುಕಾಪತಿಂ ಜಮದಗ್ನಿಮ್ ಆವಾಹಯಾಮಿ।
ಜಮದಗ್ನಯೇ ಆಸನಮ್। ನಿರ್ಮದಾಯ ಪಾದ್ಯಮ್। ವೀತರಾಗಾಯ ಅರ್ಘ್ಯಮ್। ಕಾಂತಿಮತೇ ಆಚಮನೀಯಮ್।
ಶಾಂತಾಯ ಮಧುಪರ್ಕಮ್। ದಾಂತಾಯ ಪಂಚಾಮೃತಮ್। ಶುಚಯೇ ಶುದ್ಧೋದಕಮ್। ರಾಮಪ್ರಿಯಾಯ ವಸ್ತ್ರಮ್।
ಅಕಾಮಾಯ ಯಜ್ಞೋಪವೀತಮ್। ಭಕ್ತಪ್ರಿಯಾಯ ಆಭರಣಾನಿ। ದಂಡಿನೇ ಗಂಧಮ್। ಚಂಡಾಯ ಅಕ್ಷತಾನ್
— ಇತಿ ಕ್ರಮೇಣ ಸಮರ್ಪಯಾಮಿ।
ಜಮದಗ್ನಯೇ ನಮಃ; ಕಮಂಡಲುಧರಾಯ ನಮಃ; ಇಷ್ಟಾಯ ನಮಃ; ಸಾಕ್ಷಸ್ರಜೇ ನಮಃ; ವಿಮಲಾಯ ನಮಃ; ಪುಷ್ಟಾಯ ನಮಃ; ದಯಾಲವೇ ನಮಃ; ಕಲ್ಮಷಾಪಹರಾಯ ನಮಃ; ತುಷ್ಟಾಯ ನಮಃ; ದೋಷವರ್ಜಿತಾಯ ನಮಃ; ಇಷ್ಟಪ್ರದಾಯ ನಮಃ; ತ್ವಗಂಬರಾಯ ನಮಃ।
ಇತಿ ಪುಷ್ಪಾಣಿ ಸಮರ್ಪಯಾಮಿ। ದೋಷವರ್ಜಿತಾಯ ಧೂಪಮ್। ಜ್ಞಾನಿನೇ ದೀಪಮ್। ವಿಮಲಾಯ
ನೈವೇದ್ಯಮ್। ಕಲ್ಮಷಾಪಹರಾಯ ತಾಂಬೂಲಮ್। ಇಷ್ಟಪ್ರದಾಯ ನೀರಾಜನಮ್। ಶಿಷ್ಟಾಯ ಮಂತ್ರಪುಷ್ಪಮ್।
ಶ್ರೇಷ್ಠಾಯ ಪ್ರದಕ್ಷಿಣಮ್। ಪುಷ್ಟಾಯ ನಮಸ್ಕಾರಾನ್। ವಿಶಿಷ್ಟಾಯ ಪುನರರ್ಘ್ಯಮ್। ಜಮದಗ್ನಯೇ
ಸರ್ವೋಪಚಾರಪೂಜಾಂ ಸಮರ್ಪಯಾಮಿ।

೭. ವಸಿಷ್ಠ-ಪೂಜಾ

ತಪೋನಿಧಿಂ ದಯಾಸಿಂಧುಂ ಬ್ರಹ್ಮಣ್ಯಂ ಬ್ರಹ್ಮಸಂಭವಮ್।
ಸ್ರಗ್ಗಂಧಪಾಣಿಂ ವರದಂ ವಸಿಷ್ಠಂ ಪ್ರಣಮಾಮ್ಯಹಮ್॥

ಅರುಂಧತೀ-ಸಹಿತಂ ವಸಿಷ್ಠಂ ಧ್ಯಾಯಾಮಿ।
ಶ್ವಿತ್ಯಂಚೋಮಾ ಇತ್ಯಸ್ಯ ಮಂತ್ರಸ್ಯ ಮೈತ್ರಾವರುಣೋ ವಸಿಷ್ಠಃ ಋಷಿಃ। ತ್ರಿಷ್ಟುಪ್ಛಂದಃ। ವಸಿಷ್ಠೋ
ದೇವತಾ। ವಸಿಷ್ಠಾವಾಹನೇ ವಿನಿಯೋಗಃ।

ಶ್ವಿತ್ಯಂಚೋ ಮಾ ದಕ್ಷಿಣತಸ್ಕಪರ್ದಾ ಧಿಯಂ ಜಿನ್ವಾಸೋ ಅಭಿ ಹಿ ಪ್ರ ಮಂದುಃ।
ಉತ್ತಿಷ್ಠನ್ವೋ ವೃಷಣೋ ಯುಧ್ಯಮಾನಾ ನಮೇದೂರಾದವಿತವೇ ವಸಿಷ್ಠಾಃ॥

ಅರುಂಧತೀಪತಿಂ ವಸಿಷ್ಠಮ್ ಆವಾಹಯಾಮಿ।
ವಸಿಷ್ಠಾಯ ಆಸನಮ್। ವರಿಷ್ಠಾಯ ಪಾದ್ಯಮ್। ಗರಿಷ್ಠಾಯ ಅರ್ಘ್ಯಮ್। ಧರ್ಮಿಷ್ಠಾಯ ಆಚಮನೀಯಮ್।
ಅರುಂಧತೀಪತಯೇ ಮಧುಪರ್ಕಮ್। ದೀಪ್ತಿಮತೇ ಪಂಚಾಮೃತಸ್ನಾನಮ್। ತ್ರಿಕಾಲಜ್ಞಾಯ
ಶುದ್ಧೋದಕಸ್ನಾನಮ್। ಯೋಗಿನೇ ವಸ್ತ್ರಮ್। ರಾಮಪ್ರಿಯಾಯ ಯಜ್ಞೋಪವೀತಮ್।
ಶರಣಾಗತವತ್ಸಲಾಯ ಆಭರಣಮ್। ಮನೋರಥಫಲಪ್ರದಾಯ ಅಕ್ಷತಾನ್ — ಇತಿ ಕ್ರಮೇಣ ಸಮರ್ಪಯಾಮಿ।
ವಸಿಷ್ಠಾಯ ನಮಃ; ಅರುಂಧತೀಪತಯೇ ನಮಃ; ರಾಮಪ್ರಿಯಾಯ ನಮಃ; ವರಿಷ್ಠಾಯ ನಮಃ; ದೀಪ್ತಿಮತೇ ನಮಃ; ಶರಣಾಗತವತ್ಸಲಾಯ ನಮಃ; ಗರಿಷ್ಠಾಯ ನಮಃ; ತ್ರಿಕಾಲಜ್ಞಾಯ ನಮಃ; ಮನೋರಥಫಲಪ್ರದಾಯ ನಮಃ; ಧರ್ಮಿಷ್ಠಾಯ ನಮಃ; ಯೋಗಿನೇ ನಮಃ; ಭಕ್ತಾಭೀಷ್ಟಪ್ರದಾಯ ನಮಃ।
ಇತಿ ಪುಷ್ಪಾಣಿ ಸಮರ್ಪಯಾಮಿ। ನಿಷ್ಕಲ್ಮಷಾಯ ಧೂಪಮ್। ಮೈತ್ರಾವರುಣಾಯ ದೀಪಮ್।
ಬ್ರಹ್ಮಚಾರಿಣೇ ನೈವೇದ್ಯಮ್। ವಿರಾಗಿಣೇ ತಾಂಬೂಲಮ್। ಜ್ಞಾನಿನೇ ನೀರಾಜನಮ್। ಜಟಿನೇ ಪುನರರ್ಘ್ಯಮ್।
ವೇದವಿದೇ ಮಂತ್ರಪುಷ್ಪಮ್। ದಾಂತಾಯ ಪ್ರದಕ್ಷಿಣಮ್। ಶಾಂತಾಯ ನಮಸ್ಕಾರಾನ್। ಬ್ರಹ್ಮಿಷ್ಠಾಯ
ಪುನರರ್ಘ್ಯಮ್। ವಸಿಷ್ಠಾಯ ಸರ್ವೋಪಚಾರಪೂಜಾಃ ಸಮರ್ಪಯಾಮಿ।

೮. ಅಗಸ್ತ್ಯ-ಪೂಜಾ

ಲೋಪಾಮುದ್ರಾಪತಿಂ ದೇವಮ್ ಅಗಸ್ತ್ಯಮ್ ಋಷಿಸತ್ತಮಮ್।
ದಕ್ಷಿಣಾಶಾಪತಿಂ ರಾಮತಾರಕಪ್ರಿಯಮ್ ಊರ್ಜಿತಮ್॥

ಲೋಪಾಮುದ್ರಾ-ಸಮೇತಮ್ ಅಗಸ್ತ್ಯಂ ಧ್ಯಾಯಾಮಿ।
ಅಗಸ್ತ್ಯಃ ಖನಮಾನ ಇತ್ಯಸ್ಯ ಮಂತ್ರಸ್ಯ ಅಗಸ್ತ್ಯಃ ಋಷಿಃ। ತ್ರಿಷ್ಟುಪ್ಛಂದಃ। ಅಗಸ್ತ್ಯೋ ದೇವತಾ।
ಅಗಸ್ತ್ಯಾವಾಹನೇ ವಿನಿಯೋಗಃ।

ಅಗಸ್ತ್ಯಃ ಖನಮಾನಃ ಖನಿತ್ರೈರುಭೇ ವರ್ಣಾವೃಷಿರುಗ್ರಃ ಪುಪೋಷ।
ಸತ್ಯಾ ದೇವೇಷ್ವಾಶಿಷೋ ಜಗಾಮ ಸ್ವಾದಿತ್ಸಂಗೃಭ್ಣ ಉಭಯಾಁ ಅಮೇನೇ॥

ಲೋಪಾಮುದ್ರಾ-ಸಮೇತಮ್ ಅಗಸ್ತ್ಯಮ್ ಆವಾಹಯಾಮಿ।
ಲೋಪಾಮುದ್ರಾಪತಯೇ ಆಸನಮ್। ಆತ್ಮವತೇ ಅರ್ಘ್ಯಮ್। ಇಚ್ಛಾಪೂರ್ತಯೇ ಪಾದ್ಯಮ್।
ಈಷಣಾತ್ರಯವರ್ಜಿತಾಯ ಆಚಮನೀಯಮ್। ಉತ್ತಮಾಯ ಮಧುಪರ್ಕಮ್। ಊರ್ಜಿತತಪಸೇ
ಪಂಚಾಮೃತಸ್ನಾನಮ್। ಋಗ್ಯಜುಸ್ಸಾಮಪಾರಗಾಯ ಶುದ್ಧೋದಕಸ್ನಾನಮ್। ಋಣಮೋಚನಾಯ ವಸ್ತ್ರಮ್।
ಲುಪ್ತಪಾಪಾಯ ಯಜ್ಞೋಪವೀತಮ್। ಓಂಕಾರಪ್ರಿಯಾಯ ಆಭರಣಾನಿ। ಉದಾರಾಯ ಅಕ್ಷತಾನ್ — ಇತಿ
ಕ್ರಮೇಣ ಸಮರ್ಪಯಾಮಿ।
ಅಗಸ್ತ್ಯಾಯ ನಮಃ; ಸಾಕ್ಷಿಣೇ ನಮಃ; ಲೋಕಪೂಜಿತಾಯ ನಮಃ; ಸನಾತನಾಯ ನಮಃ; ತಾರಾಯ ನಮಃ; ತಾಪಸಪ್ರಿಯಾಯ ನಮಃ; ಲೋಪಾಮುದ್ರಾಪತಯೇ ನಮಃ; ರಾಮಪ್ರಿಯಾಯ ನಮಃ; ವಿಂಧ್ಯಗುರವೇ ನಮಃ; ಕುಂಭಸಂಭವಾಯ ನಮಃ; ರಂಜಿತತಪಸೇ ನಮಃ; ವೀತರಾಗಾಯ ನಮಃ; ಸಮುದ್ರಪಾಯಿನೇ ನಮಃ; ತಾರಕಾಯ ನಮಃ; ವಿಷ್ಣುರತಾಯ ನಮಃ; ವಿಶ್ವಾತ್ಮನೇ ನಮಃ।
ಇತಿ ಪುಷ್ಪಾಣಿ ಸಮರ್ಪಯಾಮಿ। ಗಂಧಜ್ಞಾಯ ಧೂಪಮ್। ಜ್ಯೋತಿಷ್ಮತೇ ದೀಪಂ ದರ್ಶಯಾಮಿ।
ಸಾರಗ್ರಾಹಿಣೇ ನೈವೇದ್ಯಮ್। ಶುಚಯೇ ತಾಂಬೂಲಮ್। ಪ್ರಕಾಶರೂಪಾಯ ನೀರಾಜನಮ್। ಧನದಾಯ ದಕ್ಷಿಣಾಮ್।
ಸುವರ್ಚಸೇ ಮಂತ್ರಪುಷ್ಪಮ್। ಸುರೇಂದ್ರವಂದಿತಾಯ ಪ್ರದಕ್ಷಿಣಮ್। ಋಷಿವರ್ಯಾಯ ನಮಸ್ಕಾರಾನ್।
ಪ್ರಸನ್ನಾಯ ಪುನರರ್ಘ್ಯಮ್। ಶ್ರೀ-ಅಗಸ್ತ್ಯಾಯ ಸರ್ವೋಪಚಾರಪೂಜಾಃ ಸಮರ್ಪಯಾಮಿ।
(ಅಗಸ್ತ್ಯಃ ಋಷಿಪಂಚಮೀವ್ರತಸ್ಯ ಮೂಲ-ಸಪ್ತರ್ಷಿ-ಸಪ್ತಕಯೋಃ ಅಂತರ್ಗತೋ ನ ಭವತಿ; ಅತ್ರ
ಆತಿಥ್ಯೇನ ಪೂಜ್ಯತೇ।)

೯. ಅರುಂಧತೀ-ಪೂಜಾ

ಅರುಂಧತ್ಯೈ ಧ್ಯಾನಮ್। ವಸಿಷ್ಠಪತ್ನ್ಯೈ ಆವಾಹನಮ್। ಸತ್ಯೈ ಆಸನಮ್। ಪತಿವ್ರತಾಯೈ ಪಾದ್ಯಮ್।
ಸೌಮಂಗಲ್ಯಹೇತವೇ ಅರ್ಘ್ಯಮ್। ತಪಸ್ವಿನ್ಯೈ ಆಚಮನೀಯಮ್। ಮುನಿಧರ್ಮಪ್ರವರ್ತಿನ್ಯೈ ಮಧುಪರ್ಕಮ್।
ನಿತ್ಯನಿರ್ಮಲಾಯೈ ಸ್ನಾನಮ್। ಮಾನಿನ್ಯೈ ವಸ್ತ್ರಮ್। ಗೋಪ್ಯೈ ಕಂಚುಕಮ್। ಧರ್ಮರತಾಯೈ ಗಂಧಮ್।
ಅಕ್ಷತವ್ರತಾಯೈ ಅಕ್ಷತಾನ್। ಸುಮಂಗಲ್ಯೈ ಹರಿದ್ರಾಚೂರ್ಣಮ್। ವಸಿಷ್ಠಪ್ರಿಯಾಯೈ ಕುಂಕುಮಮ್।
ಸುಗುಣೋಜ್ಜ್ವಲಾಯೈ ಆಭರಣಾನಿ। ಪಾವನ್ಯೈ ಪುಷ್ಪಾಣಿ — ಇತಿ ಕ್ರಮೇಣ ಸಮರ್ಪಯಾಮಿ।
ಹವಿರ್ಗಂಧಪ್ರಿಯಾಯೈ ಧೂಪಮ್। ಜ್ಯೋತಿರ್ಮಯಾಯೈ ದೀಪಮ್। ಧರ್ಮಬ್ರಹ್ಮಾನಂದವತ್ಯೈ ನೈವೇದ್ಯಮ್।
ಸರ್ವಭೂತಾನುರಾಗಿಣ್ಯೈ ತಾಂಬೂಲಮ್। ಋತುದಕ್ಷಿಣಾಯೈ ದಕ್ಷಿಣಾಮ್। ಋಷಿಪತ್ನೀಸಮಾಶ್ರಿತಾಯೈ
ನೀರಾಜನಮ್। ಮಂತ್ರಜ್ಞಾಯೈ ಮಂತ್ರಪುಷ್ಪಮ್। ಶಿಂಶುಮಾರಗತ್ಯೈ ಪ್ರದಕ್ಷಿಣಮ್।
ಸರ್ವಲೋಕನಮಸ್ಕೃತಾಯೈ ನಮಸ್ಕಾರಾನ್। ವಸಿಷ್ಠಕುಟುಂಬಿನ್ಯೈ ಪುನರರ್ಘ್ಯಂ ಸಮರ್ಪಯಾಮಿ।

ಸ್ಮೃತಿಮಾತ್ರೇಣ ಭಕ್ತಾನಾಂ ಸರ್ವಪಾಪವಿನೋದಿನಿ।
ಸೂಕ್ಷ್ಮಾತ್ಸೂಕ್ಷ್ಮತರೇ ಮಾತರ್ದರ್ಶನಾತ್ಪುಣ್ಯದಾಯಿನಿ॥
ಪತಿವ್ರತಾಗ್ರಗಣ್ಯೇ ತ್ವಂ ಸೌಮಂಗಲ್ಯಸುಖಪ್ರದೇ।
ಅರುಂಧತಿ ಮಹಾದೇವಿ ಬ್ರಹ್ಮಶಕ್ತೇ ಚಿರಂತನಿ॥
ಜಯ ತ್ವಂ ನಿತ್ಯಕಲ್ಯಾಣಿ ವಸಿಷ್ಠೈಕಕುಟುಂಬಿನಿ।
ಪಾವನತ್ವಂ ಚ ಸೌಭಾಗ್ಯಂ ಸುಖಂ ಶಾಶ್ವತಮೇವ ಚ॥
ಮಹಾದೇವಿ ಜಗದ್ವಂದ್ಯೇ ವ್ರತಸಂಪೂರ್ಣತಾಂ ಕುರು।

ಸಾಮೂಹಿಕ ಸಪ್ತರ್ಷಿ-ಅರುಂಧತೀ-ಪೂಜಾ

ಆಗಚ್ಛಂತು ಮಹಾಭಾಗಾಶ್ಚತುರ್ವೇದಪರಾಯಣಾಃ।
ಯಾವದ್ವ್ರತಮಿದಂ ಕುರ್ವೇ ಕೃಪಯಾ ಭವತಾಮಹಮ್॥

ಅರುಂಧತೀ-ಸಹಿತ-ಕಶ್ಯಪಾದಿ-ಸಪ್ತರ್ಷೀನ್ ಆವಾಹಯಾಮಿ। ಪ್ರಾಣಪ್ರತಿಷ್ಠಾಂ ಕುರ್ಯಾತ್।

ಋಗ್ಯಜುಸ್ಸಾಮವೇದಾನಾಂ ಸ್ವರೂಪೇಭ್ಯೋ ನಮೋ ನಮಃ।
ಪುರಾಣಪುರುಷೇಭ್ಯೋ ಹಿ ದೇವರ್ಷಿಭ್ಯೋ ನಮೋ ನಮಃ॥

ಅರುಂಧತೀಸಹಿತ-ಕಶ್ಯಪಾದಿ-ಸಪ್ತರ್ಷಿಭ್ಯೋ ನಮಃ ಆಸನಂ ಸಮರ್ಪಯಾಮಿ।

ಗಂಧಪುಷ್ಪಾಕ್ಷತೈರ್ಯುಕ್ತಂ ಪಾದ್ಯಂ ಗೃಹ್ಣಂತು ವೈ ದ್ವಿಜಾಃ।
ಪ್ರಸಾದಂ ಕುರ್ವತಾಂ ಪ್ರೀತಾಸ್ತುಷ್ಟಾಸ್ಸಂತು ಸದಾ ಮಮ॥

...ಭ್ಯೋ ನಮಃ ಪಾದ್ಯಂ ಸಮರ್ಪಯಾಮಿ।

ನಭಸ್ಯೇ ಶುಕ್ಲಪಂಚಮ್ಯಾಮರ್ಚಿತಾ ಋಷಿಸತ್ತಮಾಃ।
ದಹಂತು ಪಾಪಂ ಮೇ ಸರ್ವೇ ಗೃಹ್ಣಂತ್ವರ್ಘ್ಯಂ ನಮೋ ನಮಃ॥

...ಭ್ಯೋ ನಮಃ ಅರ್ಘ್ಯಂ ಸಮರ್ಪಯಾಮಿ।

ಲೋಕಾನಾಂ ತುಷ್ಟಿಕರ್ತಾರೋ ಯೂಯಂ ಸರ್ವೇ ತಪೋಧನಾಃ।
ನಮೋ ವೋ ಧರ್ಮವಿಜ್ಞೇಭ್ಯೋ ಮಹರ್ಷಿಭ್ಯೋ ನಮೋ ನಮಃ॥

...ಭ್ಯೋ ನಮಃ ಆಚಮನೀಯಂ ಸಮರ್ಪಯಾಮಿ।

ಪಯೋ ದಧಿ ಘೃತಂ ಚೈವ ಶರ್ಕರಾಮಧುಸಂಯುತಮ್।
ಪಂಚಾಮೃತೇನ ಸ್ನಪನಂ ಕರೋಮಿ ಮುನಿಸತ್ತಮಾಃ॥

...ಭ್ಯೋ ನಮಃ ಪಂಚಾಮೃತಸ್ನಾನಂ ಸಮರ್ಪಯಾಮಿ।

ಮಂದಾಕಿನ್ಯಾಸ್ಸಮಾನೀತಂ ಯಮುನಾಗೌತಮೀಜಲಮ್।
ಕೃಷ್ಣಾ-ನರ್ಮದಾ-ಗೋದಾಭ್ಯಃ ಸ್ನಾನಾರ್ಥಮಾಹೃತಮ್॥

...ಭ್ಯೋ ನಮಃ ಶುದ್ಧೋದಕಸ್ನಾನಂ ಸಮರ್ಪಯಾಮಿ। ಸ್ನಾನಾನಂತರಮ್ ಆಚಮನೀಯಂ ಸಮರ್ಪಯಾಮಿ।

ಸರ್ವೇ ನಿತ್ಯಂ ತಪೋನಿಷ್ಠಾ ಬ್ರಹ್ಮಜ್ಞಾಸ್ಸತ್ಯವಾದಿನಃ।
ವಸ್ತ್ರಾಣಿ ಪ್ರತಿಗೃಹ್ಣಂತು ಮುಕ್ತಿದಾಸ್ಸಂತು ಮೇ ಸದಾ॥

...ಭ್ಯೋ ನಮಃ ವಸ್ತ್ರಂ ಸಮರ್ಪಯಾಮಿ।

ನಾನಾಮಂತ್ರೈಸ್ಸಮುದ್ಭೂತಂ ತ್ರಿವೃತಂ ಬ್ರಹ್ಮಸೂತ್ರಕಮ್।
ಪ್ರತ್ಯೇಕಂ ಚ ಪ್ರಯಚ್ಛಾಮಿ ಮುನಯಃ ಪ್ರತಿಗೃಹ್ಯತಾಮ್॥

...ಭ್ಯೋ ನಮಃ ಉಪವೀತಾನಿ ಸಮರ್ಪಯಾಮಿ।

ಕುಂಕುಮಾಗರುಕರ್ಪೂರಸುಗಂಧೈರ್ಮಿಶ್ರಿತಂ ಶುಭಮ್।
ಗಂಧಾಢ್ಯಂ ಚಂದನಂ ದಿವ್ಯಂ ಗೃಹ್ಣಂತು ಮುನಿಸತ್ತಮಾಃ॥

...ಭ್ಯೋ ನಮಃ ಗಂಧಂ ಸಮರ್ಪಯಾಮಿ।

ಶುಭ್ರಾಕ್ಷತಾಶ್ಚ ಸಂಪೂರ್ಣಾಃ ಪ್ರಕ್ಷಾಲ್ಯ ಚ ನಿಯೋಜಿತಾಃ।
ಶೋಭಾಯೈ ವೋ ಮಯಾ ದತ್ತಾ ಗೃಹ್ಯಂತಾಂ ಮುನಿಸತ್ತಮಾಃ॥

...ಭ್ಯೋ ನಮಃ ಅಕ್ಷತಾನ್ ಸಮರ್ಪಯಾಮಿ।

ಮಾಲತೀಚಂಪಕಾಮಲ್ಲೀಕೇತಕ್ಯಾದೀನಿ ವೈ ದ್ವಿಜಾಃ।
ಸಮರ್ಪಯಾಮಿ ಪುಷ್ಪಾಣಿ ಪೂಜಾರ್ಥಂ ವಃ ಪದಾಂಬುಜೇ॥

...ಭ್ಯೋ ನಮಃ ಪುಷ್ಪಮಾಲಾಂ ಸಮರ್ಪಯಾಮಿ।

ಅಂಗ-ಪೂಜಾ

೧.ತೀರ್ಥಪಾದೇಭ್ಯೋಪಾದೌ
೨.ಸರ್ವಭೂತಹಿತೇಭ್ಯೋಗುಲ್ಫೌ
೩.ವಿಮಲಚರಿತ್ರೇಭ್ಯೋಜಂಘೇ
೪.ಸರ್ವಲೋಕಹಿತೇಭ್ಯೋಊರೂ
೫.ಅಜಿನಧಾರಿಭ್ಯೋಕಟಿಂ
೬.ಜಿತೇಂದ್ರಿಯೇಭ್ಯೋಗುಹ್ಯಮ್
೭.ಯೋಗೀಶ್ವರೇಭ್ಯೋನಾಭಿಮ್
೮.ಪರಾರ್ಥೈಕಪ್ರಯೋಜನೇಭ್ಯೋಪಾರ್ಶ್ವೇ
೯.ಸರ್ವಶಾಸ್ತ್ರವಿಶಾರದೇಭ್ಯೋಉದರಮ್
೧೦.ಪರೋಪಕಾರಿಭ್ಯೋಹೃದಯಮ್
೧೧.ರುದ್ರಾಕ್ಷಧಾರಿಭ್ಯೋಕಂಠಮ್
೧೨.ಸರ್ವಾಮರವಂದಿತೇಭ್ಯೋನಾಸಿಕಾಮ್
೧೩.ಶ್ರುತಿಪಾರಗೇಭ್ಯೋಶ್ರೋತ್ರೇ
೧೪.ತತ್ತ್ವವಿದ್ಯಾವಿಶಾರದೇಭ್ಯೋಲಲಾಟಮ್
೧೫.ಜಟಾಮಂಡಲಮಂಡಿತೇಭ್ಯೋಶಿರಃ
೧೬.ಸಪ್ತರ್ಷಿಭ್ಯೋಸರ್ವಾಣ್ಯಂಗಾನಿ

ಋಷಿ-ಅಷ್ಟೋತ್ತರಶತ-ನಾಮಾವಲಿಃ

(ಪ್ರತಿನಾಮ "ನಮಃ" ಇತಿ ಅನುಸಂಧೇಯಮ್)

ಬ್ರಹ್ಮರ್ಷಿಭ್ಯೋ
ಅಧ್ವರ್ಯುಭ್ಯೋ
ವೇದವಿದ್ಭ್ಯೋ
ಯಜ್ವಭ್ಯೋ
ತಪಸ್ವಿಭ್ಯೋ
ಯಜ್ಞದೀಕ್ಷಿತೇಭ್ಯೋ
ಸ್ವರೂಪಸುಖಿಭ್ಯೋ
ಪ್ರವೃತ್ತಿಧರ್ಮಪಾಲಕೇಭ್ಯೋ
ನಿವೃತ್ತಿಧರ್ಮದರ್ಶಕೇಭ್ಯೋ
ಮಹಾತ್ಮಭ್ಯೋ
ಪೂತೇಭ್ಯೋ
ಭಗವತ್ಪ್ರಸಾದಿಭ್ಯೋ
ಮಾನ್ಯೇಭ್ಯೋ
ಪುರಾತನೇಭ್ಯೋ
ದೇವಗುರುಭ್ಯೋ
ಬ್ರಹ್ಮಚರ್ಯರತೇಭ್ಯೋ
ಸೃಷ್ಟಿಕರ್ತೃಭ್ಯೋ
ಲೋಕಗುರುಭ್ಯೋ
ಸಿದ್ಧೇಭ್ಯೋ
ಸ್ಥಿತಿಕರ್ತೃಭ್ಯೋ
ಸರ್ವವಂದ್ಯೇಭ್ಯೋ
ಕರ್ಮಠೇಭ್ಯೋ
ಲಯಕರ್ತೃಭ್ಯೋ
ಸರ್ವಪೂಜ್ಯೇಭ್ಯೋ
ಯೋಗಿಭ್ಯೋ
ಜಪಕರ್ತೃಭ್ಯೋ
ಗೃಹಿಭ್ಯೋ
ಅಗ್ನಿಹೋತ್ರಪರಾಯಣೇಭ್ಯೋ
ಹೋತೃಭ್ಯೋ
ಸೂತ್ರಕೃದ್ಭ್ಯೋ
ಸತ್ಯವ್ರತೇಭ್ಯೋ
ಪ್ರಸ್ತೋತೃಭ್ಯೋ
ಭಾಷ್ಯಕೃದ್ಭ್ಯೋ
ಧರ್ಮಾತ್ಮಭ್ಯೋ
ಪ್ರತಿಹರ್ತೃಭ್ಯೋ
ಮಹಿಮಸಿದ್ಧೇಭ್ಯೋ
ಉದ್ಗಾತೃಭ್ಯೋ
ಜ್ಞಾನಸಿದ್ಧೇಭ್ಯೋ
ಬ್ರಹ್ಮಣ್ಯೇಭ್ಯೋ
ಧರ್ಮಪ್ರವರ್ತಕೇಭ್ಯೋ
ನಿರ್ದುಷ್ಟೇಭ್ಯೋ
ಬ್ರಹ್ಮಾಸ್ತ್ರವಿದ್ಭ್ಯೋ
ಆಚಾರಪ್ರವರ್ತಕೇಭ್ಯೋ
ಶಮಧನೇಭ್ಯೋ
ಬ್ರಹ್ಮದಂಡಧರೇಭ್ಯೋ
ಸಂಪ್ರದಾಯಪ್ರವರ್ತಕೇಭ್ಯೋ
ತಪೋಧನೇಭ್ಯೋ
ಬ್ರಹ್ಮಶೀರ್ಷವಿದ್ಭ್ಯೋ
ಅನುಶಾಸಿತೃಭ್ಯೋ
ಶಾಪಶಕ್ತೇಭ್ಯೋ
ಗಾಯತ್ರೀಸಿದ್ಧೇಭ್ಯೋ
ವೇದವೇದಾಂತಪಾರಗೇಭ್ಯೋ
ಮಂತ್ರಮೂರ್ತಿಭ್ಯೋ
ಸಾವಿತ್ರೀಸಿದ್ಧೇಭ್ಯೋ
ವೇದಾಂಗಪ್ರಚಾರಕೇಭ್ಯೋ
ಅಷ್ಟಾಂಗಯೋಗೇಭ್ಯೋ
ಸರಸ್ವತೀಸಿದ್ಧೇಭ್ಯೋ
ಲೋಕಶಿಕ್ಷಕೇಭ್ಯೋ
ಅಣಿಮಾದಿಸಿದ್ಧೇಭ್ಯೋ
ಯಜಮಾನೇಭ್ಯೋ
ಶಾಪಾನುಗ್ರಹಶಕ್ತೇಭ್ಯೋ
ಜೀವನ್ಮುಕ್ತೇಭ್ಯೋ
ಯಾಜಕೇಭ್ಯೋ
ಸ್ವತಂತ್ರಶಕ್ತಿಭ್ಯೋ
ಶಿವಪೂಜಾರತೇಭ್ಯೋ
ಋತ್ವಿಗ್ಭ್ಯೋ
ಸ್ವಾಧೀನಚಿತ್ತೇಭ್ಯೋ
ಜಿತೇಂದ್ರಿಯೇಭ್ಯೋ
ಶಾಂತೇಭ್ಯೋ
ದಾಂತೇಭ್ಯೋ
ಶುದ್ಧೇಭ್ಯೋ
ಮುನಿಮುಖ್ಯೇಭ್ಯೋ
ರುದ್ರಾಕ್ಷಧಾರಿಭ್ಯೋ
ಸುಮುಖ್ಯೇಭ್ಯೋ
ವಲ್ಕಲಾಜಿನಧಾರಿಭ್ಯೋ
ಜಟಿಲೇಭ್ಯೋ
ತಿತಿಕ್ಷುಭ್ಯೋ
ಆಸ್ತಿಕೇಭ್ಯೋ
ಕಮಂಡಲುಧಾರಿಭ್ಯೋ
ಉಪರತೇಭ್ಯೋ
ವಿಪ್ರೇಭ್ಯೋ
ಸಪತ್ನೀಕೇಭ್ಯೋ
ಶ್ರದ್ಧಾಲುಭ್ಯೋ
ಸಾಂಗೇಭ್ಯೋ
ದ್ವಿಜೇಭ್ಯೋ
ವಿಷ್ಣುಭಕ್ತೇಭ್ಯೋ
ಬ್ರಾಹ್ಮಣೇಭ್ಯೋ
ವೇದವೇದ್ಯೇಭ್ಯೋ
ವಿವೇಕಿಭ್ಯೋ
ಉಪವೀತಿಭ್ಯೋ
ಸ್ಮೃತಿಕರ್ತೃಭ್ಯೋ
ವಿಜ್ಞೇಭ್ಯೋ
ಮೇಧಾವಿಭ್ಯೋ
ಬ್ರಹ್ಮಿಷ್ಠೇಭ್ಯೋ
ಪವಿತ್ರಪಾಣಿಭ್ಯೋ
ಮಂತ್ರಕೃದ್ಭ್ಯೋ
ದೀನಬಂಧುಭ್ಯೋ
ಬ್ರಹ್ಮನಿಷ್ಠೇಭ್ಯೋ
ಸಂಸ್ಕೃತೇಭ್ಯೋ
ಭಗವದ್ಭ್ಯೋ
ಸತ್ಕೃತೇಭ್ಯೋ
ಭಸ್ಮಧಾರಿಭ್ಯೋ
ಸುಕೃತಿಭ್ಯೋ
ಶ್ರೀಕಶ್ಯಪಾದಿಸಪ್ತಮಹರ್ಷಿಭ್ಯೋ
ಅರುಂಧತ್ಯಾದಿಸಪ್ತರ್ಷಿಪತ್ನೀಭ್ಯೋ

...ಭ್ಯೋ ನಮಃ ನಾನಾವಿಧಪರಿಮಲಪತ್ರಪುಷ್ಪಾಣಿ ಸಮರ್ಪಯಾಮಿ।

ವನಸ್ಪತಿರಸೋದ್ಭೂತೋ ಗಂಧಾಢ್ಯಸ್ಸುಮನೋಹರಃ।
ಆತ್ರೇಯಸ್ಸರ್ವದೇವಾನಾಂ ಧೂಪೋಽಯಂ ಪ್ರತಿಗೃಹ್ಯತಾಮ್॥

...ಭ್ಯೋ ನಮಃ ಧೂಪಮಾಘ್ರಾಪಯಾಮಿ।

ಸಾಜ್ಯಂ ತ್ರಿವರ್ತಿಸಂಯುಕ್ತಂ ವಹ್ನಿನಾ ಯೋಜಿತಂ ಮಯಾ।
ಗೃಹಾಣ ಮಂಗಲಂ ದೀಪಂ ತ್ರೈಲೋಕ್ಯತಿಮಿರಾಪಹಮ್॥

...ಭ್ಯೋ ನಮಃ ಅಲಂಕಾರದೀಪಂ ಸಂದರ್ಶಯಾಮಿ।

ನಾನಾಪಕ್ವಾನ್ನಸಂಯುಕ್ತಂ ರಸೈಸ್ಸಪ್ತಭಿಸ್ಸಮನ್ವಿತಮ್।
ಗೃಹ್ಣಂತು ಮುನಯಸ್ಸರ್ವೇ ನೈವೇದ್ಯಂ ವಸುದಾಯಕಾಃ॥

...ಭ್ಯೋ ನಮಃ ನೈವೇದ್ಯಂ ನಿವೇದಯಾಮಿ।
ಅಮೃತಾಪಿಧಾನಮಸಿ। ನಿವೇದನಾನಂತರಮ್ ಆಚಮನೀಯಂ ಸಮರ್ಪಯಾಮಿ।

ರಸಾಲಜಂಬೂದ್ರಾಕ್ಷೇಕ್ಷುಕಪಿತ್ಥಕದಲೀಫಲಮ್।
ಖರ್ಜೂರಪನಸಾದೀನಿ ನಾಲಿಕೇರಫಲಾನಿ ಚ॥

...ಭ್ಯೋ ನಮಃ ನಾನಾವಿಧಫಲಾನಿ ಸಮರ್ಪಯಾಮಿ। ತಾಂಬೂಲಂ ಸಮರ್ಪಯಾಮಿ।

ನೀರಾಜನಂ ಮುನಿಶ್ರೇಷ್ಠಾಃ ಕೋಟಿಸೂರ್ಯಸಮಪ್ರಭಾಃ।
ಅಹಂ ಭಕ್ತ್ಯಾ ಪ್ರದಾಸ್ಯಾಮಿ ಸ್ವೀಕುರುಧ್ವಮ್ ಋಷೀಶ್ವರಾಃ॥

...ಭ್ಯೋ ನಮಃ ಕರ್ಪೂರನೀರಾಜನಂ ದರ್ಶಯಾಮಿ। ನೀರಾಜನಾನಂತರಮ್ ಆಚಮನೀಯಂ ಸಮರ್ಪಯಾಮಿ।

ಯಾನಿ ಕಾನಿ ಚ ಪಾಪಾನಿ ಬ್ರಹ್ಮಹತ್ಯಾಸಮಾನಿ ಚ।
ತಾನಿ ತಾನಿ ವಿನಶ್ಯಂತಿ ಪ್ರದಕ್ಷಿಣಪದೇ ಪದೇ॥

...ಭ್ಯೋ ನಮಃ ಪ್ರದಕ್ಷಿಣಾನಿ ಸಮರ್ಪಯಾಮಿ।

ನಮೋ ಮಹರ್ಷಿವೃಂದೇಭ್ಯೋ ದೇವರ್ಷಿಭ್ಯೋ ನಮೋ ನಮಃ।
ಸರ್ವಪಾಪಹರೇಭ್ಯೋಽಸ್ತು ವೇದವಿದ್ಭ್ಯೋ ನಮೋ ನಮಃ॥

...ಭ್ಯೋ ನಮಃ ನಮಸ್ಕಾರಾನ್ ಸಮರ್ಪಯಾಮಿ।

ಸಾಕ್ಷಸೂತ್ರಾಶ್ಚ ಮುನಯಸ್ಸರ್ವೇ ವಲ್ಕಲಧಾರಿಣಃ।
ಮಂತ್ರಪುಷ್ಪಂ ಪ್ರದಾಸ್ಯಾಮಿ ಸ್ವೀಕುರುಧ್ವಂ ಮುನೀಶ್ವರಾಃ॥

...ಭ್ಯೋ ನಮಃ ಮಂತ್ರಪುಷ್ಪಂ ಸಮರ್ಪಯಾಮಿ। ಸುವರ್ಣಪುಷ್ಪಂ ಸಮರ್ಪಯಾಮಿ।

ಪ್ರಾರ್ಥನಾ

ಏತೇ ಸಪ್ತರ್ಷಯಸ್ಸರ್ವೇ ಭಕ್ತ್ಯಾ ಸಂಪೂಜಿತಾ ಮಯಾ।
ಸರ್ವೇ ಪಾಪಂ ವ್ಯಪೋಹಂತು ಜ್ಞಾನತೋಽಜ್ಞಾನತಃ ಕೃತಮ್॥

ಪ್ರಾರ್ಥನಾಃ ಸಮರ್ಪಯಾಮಿ।

ಅರ್ಘ್ಯಮ್

ಮಮೋಪಾತ್ತ-ಸಮಸ್ತ-ದುರಿತ-ಕ್ಷಯದ್ವಾರಾ ಅರುಂಧತೀ-ಸಹಿತ-ಕಶ್ಯಪಾದಿ-ಸಪ್ತರ್ಷಿ-ಪ್ರೀತ್ಯರ್ಥಂ
ಋಷಿಪೂಜಾಂತೇ ಕ್ಷೀರಾರ್ಘ್ಯಪ್ರದಾನಮ್ ಉಪಾಯನದಾನಂ ಚ ಕರಿಷ್ಯೇ॥

ಪ್ರಸನ್ನಹೃದಯಾಶ್ಶಾಂತಾ ಜಟಾಮಂಡಲಮಂಡಿತಾಃ।
ಭಕ್ತ್ಯಾ ಚಾರ್ಘ್ಯಂ ಮಯಾ ದತ್ತಂ ಸ್ವೀಕುರ್ವಂತು ಮುನೀಶ್ವರಾಃ॥೧॥

ಅರುಂಧತೀ-ಸಹಿತ-ಕಶ್ಯಪಾದಿ-ಸಪ್ತರ್ಷಿಭ್ಯೋ ನಮಃ ಇದಮರ್ಘ್ಯಮ್। (ತ್ರಿಃ)

ಜಿತಕಾಮಾದ್ಯರಿಚಯಾಶ್ಶಮಾದಿಗುಣಭೂಷಿತಾಃ।
ಇದಮರ್ಘ್ಯಂ ಪ್ರದಾಸ್ಯಾಮಿ ಪ್ರಸನ್ನಾಸ್ಸಂತು ಮೇ ಸದಾ॥೨॥

ಇದಮರ್ಘ್ಯಮ್। (ತ್ರಿಃ)

ಋಷಯೋ ಜ್ಞಾನಸಂಸಿದ್ಧಾ ಬ್ರಹ್ಮಿಷ್ಠಾ ಬ್ರಹ್ಮವಾದಿನಃ।
ಇದಮರ್ಘ್ಯಂ ಪ್ರದಾಸ್ಯಾಮಿ ಮತ್ಪಾಪಶಮನಾಯ ಚ॥೩॥

ಇದಮರ್ಘ್ಯಮ್। (ತ್ರಿಃ)

ಬ್ರಹ್ಮದಂಡಧರಾಶ್ಶಾಂತಾಃ ಕರ್ಮಠಾ ವೀತಕಲ್ಮಷಾಃ।
ಮತ್ಪಾಪಪರಿಹಾರಾರ್ಥಮ್ ಇದಮರ್ಘ್ಯಂ ಮುನೀಶ್ವರಾಃ॥೪॥

ಇದಮರ್ಘ್ಯಮ್। (ತ್ರಿಃ)
ಅನೇನ ಅರ್ಘ್ಯಪ್ರದಾನೇನ ಭಗವಂತಸ್ಸರ್ವಾತ್ಮಕಾಃ ಅರುಂಧತೀ-ಸಹಿತ-ಕಶ್ಯಪಾದಿ-ಸಪ್ತರ್ಷಯಃ ಪ್ರೀಯಂತಾಮ್।

ಉಪಾಯನ-ದಾನಮ್

ಸಪಾತ್ರಂ ಫಲಸಂಯುಕ್ತಂ ಸಘೃತಂ ದಕ್ಷಿಣಾನ್ವಿತಮ್।
ಉಪಾಯನಂ ಪ್ರದಾಸ್ಯಾಮಿ ವ್ರತಸಂಪೂರ್ತಿಹೇತವೇ॥
ಭವಂತಃ ಪ್ರತಿಗೃಹ್ಣಂತು ತೇಜೋರೂಪಾಸ್ತಪೋಧನಾಃ।
ಋಷಯಸ್ತಾರಕಾಸ್ಸಂತೂಪಾಯನಸ್ಯ ಪ್ರದಾನತಃ॥

ಇತಿ ಉಪಾಯನದಾನಂ ಕೃತ್ವಾ।

ನ್ಯೂನಾತಿರಿಕ್ತಕರ್ಮಾಣಿ ಮಯಾ ಯಾನಿ ಕೃತಾನಿ ಚ।
ಕ್ಷಮಧ್ವಂ ತಾನಿ ಸರ್ವಾಣಿ ಯೂಯಂ ಸರ್ವೇ ತಪೋಧನಾಃ॥

ಇತಿ ಋಷಿಪೂಜಾವಿಧಿಃ ಸಂಪೂರ್ಣಃ॥

ಉದ್ಯಾಪನ-ವಿಧಿಃ

ಏವಂ ಪ್ರತಿಯಾಮಂ (ಪ್ರತಿವರ್ಷಂ) ಪೂಜಾಂ ಕೃತ್ವಾ ಉಪಾಯನಾನಿ ದತ್ತ್ವಾ ಕಥಾಂ ಚ ಶ್ರುತ್ವಾ, ಸಪ್ತಮೇ
ವರ್ಷೇ ತತಃ ಪರೇದ್ಯುಃ ನಿತ್ಯಕರ್ಮ ಸಮಾಪ್ಯ ಋಷಿಪಂಚಮೀವ್ರತೋದ್ಯಾಪನಹೋಮಂ ಕರಿಷ್ಯ ಇತಿ ಸಂಕಲ್ಪ್ಯ
ಸ್ವಗೃಹ್ಯೋಕ್ತವಿಧಾನೇನ ಅಗ್ನಿಮುಖಾಂತಂ ಕೃತ್ವಾ "ಸಹಸ್ರೋಮಾ" ಇತಿ ಮಂತ್ರೇಣ ಪಾಯಸಾನ್ನಂ
ಸಮಿದಾಜ್ಯೈಃ ಅಷ್ಟೋತ್ತರಶತಸಂಖ್ಯಯಾ ಅಷ್ಟಾವಿಂಶತ್ಯಾ ವಾ ಜುಹುಯಾತ್। ತತಃ ಸ್ವಿಷ್ಟಕೃದಾದಿ-ಹೋಮಶೇಷಂ
ಸಮಾಪಯೇತ್। ಪುನಃ ಪೂಜಾಂ ಕರಿಷ್ಯ ಇತಿ ಸಂಕಲ್ಪ್ಯ ಆಸನಾದಿ-ಷೋಡಶೋಪಚಾರಪೂಜಾಂ ಕೃತ್ವಾ,
"ಯಜ್ಞೇನ ಯಜ್ಞಮ್" ಇತಿ ಮಂತ್ರೇಣ ಋಷೀನ್ ಉದ್ವಾಸ್ಯ, "ತತ್ತ್ವಾಯಾಮಿ" ಇತಿ ವರುಣಮ್ ಉದ್ವಾಸ್ಯ,
ಕುಂಭಜಲೇನ "ದೇವಸ್ಯ ತ್ವಾ" ಇತಿ ಮಂತ್ರೇಣ ತ್ರಿಪದ-ಗಾಯತ್ರ್ಯಾ ವ್ಯಾಹೃತಿಭಿಶ್ಚ ಯಜಮಾನಂ
ಪರಿವಾರಂ ಚ ಪ್ರೋಕ್ಷಯೇತ್, ಕುಂಭಜಲೇನ ಯಜಮಾನಮ್ ಅಭಿಷಿಚ್ಯ, ಧೌತವಸ್ತ್ರ-ಪುಂಡ್ರಧಾರಣಾನಿ ಕೃತ್ವಾ
ತೀರ್ಥಂ ಪ್ರಾಶ್ಯ, ಕಲಶ-ವಸ್ತ್ರ-ಪ್ರತಿಮಾದಾನಾನಿ ಕರಿಷ್ಯ ಇತಿ ಸಂಕಲ್ಪ್ಯ,

ದಾನ-ಮಂತ್ರಃ

ಪ್ರತಿಮಾಂ ವಸ್ತ್ರಸಂಯುಕ್ತಾಂ ಕುಂಭೋಪಕರಣೈರ್ಯುತಾಮ್।
ತುಭ್ಯಂ ದಾಸ್ಯಾಮಿ ವಿಪ್ರೇಂದ್ರ ಯಥೋಕ್ತಫಲದೋ ಭವ॥

ಇಮಾಂ ಕಶ್ಯಪ-ಪ್ರತಿಮಾಂ ಸದಕ್ಷಿಣಾಂ ಸತಾಂಬೂಲಾಂ ಕಶ್ಯಪ-ಪ್ರೀತಿಂ ಕಾಮಯಮಾನಃ ತುಭ್ಯಮ್ ಅಹಂ
ಸಂಪ್ರದದೇ। ಏವಂ ಕ್ರಮಶಃ ಅತ್ರಿ-ಭರದ್ವಾಜ-ವಿಶ್ವಾಮಿತ್ರ-ಗೌತಮ-ಜಮದಗ್ನಿ-ವಸಿಷ್ಠ-ಅರುಂಧತೀ-
ಪ್ರತಿಮಾಃ ಪ್ರೀತಿಂ ಕಾಮಯಮಾನಃ ದತ್ವಾ। ಅನಂತರಂ ದಶದಾನ-ಷಡ್ದಾನ-ಮನೋದ್ದಿಷ್ಟ-ದಾನಾನಿ
ಸ್ವಶಕ್ತ್ಯಾ ವಿಸ್ತರತಃ ಕೃತ್ವಾ, ದಂಪತಿ-ಪೂಜನಂ ಕೃತ್ವಾ, ಬ್ರಾಹ್ಮಣಾನ್ ಭೋಜಯಿತ್ವಾ,
ತಾಂಬೂಲಾನಂತರಮ್ ಆಶಿಷಃ ಪ್ರಾಪ್ಯ, ತೈಃ ಅನುಜ್ಞಾತಃ ಪುತ್ರಮಿತ್ರಕಲತ್ರಾದಿಭಿಃ ಸಹ ಸ್ವಯಂ
ಭುಂಜೀತ।
ಇತಿ ಬ್ರಹ್ಮಾಂಡಪುರಾಣೋಕ್ತ-ಋಷಿಪಂಚಮೀ-ವ್ರತೋದ್ಯಾಪನ-ವಿಧಿಃ ಸಂಪೂರ್ಣಃ॥

ಪ್ರಾರ್ಥನಾ

ಯನ್ಮಯಾಽಽಚರಿತಂ ದೇವ ವ್ರತಮೇತತ್ ಸುದುರ್ಲಭಮ್।
ಗಣೇಶ ತ್ವಂ ಪ್ರಸನ್ನಃ ಸನ್ ಸಫಲಂ ಕುರು ಸರ್ವದಾ॥

ಅಪರಾಧ-ಕ್ಷಮಾಪನಮ್

ಯಸ್ಯ ಸ್ಮೃತ್ಯಾ ಚ ನಾಮೋಕ್ತ್ಯಾ ತಪಃ ಪೂಜಾಕ್ರಿಯಾದಿಷು।
ನ್ಯೂನಂ ಸಂಪೂರ್ಣತಾಂ ಯಾತಿ ಸದ್ಯೋ ವಂದೇ ಗಜಾನನಮ್॥
ಕಾಯೇನ ವಾಚಾ ಮನಸೇಂದ್ರಿಯೈರ್ವಾ
ಬುದ್‌ಧ್ಯಾಽಽತ್ಮನಾ ವಾ ಪ್ರಕೃತೇಃ ಸ್ವಭಾವಾತ್।
ಕರೋಮಿ ಯದ್ಯತ್ ಸಕಲಂ ಪರಸ್ಮೈ
ನಾರಾಯಣಾಯೇತಿ ಸಮರ್ಪಯಾಮಿ॥

ಓಂ ತತ್ಸದ್ಬ್ರಹ್ಮಾರ್ಪಣಮಸ್ತು।

ಋಷಿಪಂಚಮೀ-ವ್ರತ-ಕಥಾ

(ಮೂಲಮ್—ಶ್ರೀಭವಿಷ್ಯೋತ್ತರಪುರಾಣಮ್, ಯಥಾ ಶ್ರೀವ್ರತರತ್ನಾಕರೇ ಸಂಗೃಹೀತಮ್)

ಶ್ರುತಾನಿ ದೇವದೇವೇಶ ವ್ರತಾನಿ ಸುಬಹೂನಿ ಚ।
ಸಾಂಪ್ರತಂ ಮೇ ಸಮಾಚಕ್ಷ್ವ ವ್ರತಂ ಪಾಪಪ್ರಣಾಶನಮ್॥೧॥

ಬ್ರಹ್ಮೋವಾಚ

ಶೃಣು ರಾಜನ್ ಪ್ರವಕ್ಷ್ಯಾಮಿ ವ್ರತಾನಾಮುತ್ತಮಂ ವ್ರತಮ್।
ಋಷಿಪಂಚಮೀತಿ ವಿಖ್ಯಾತಂ ಸರ್ವಪಾಪಹರಂ ಪರಮ್॥೨॥
ಯೇನ ಚೀರ್ಣೇನ ರಾಜೇಂದ್ರ ನರಕಂ ನೈವ ಪಶ್ಯತಿ।
ಅತ್ರೈವೋದಾಹರಂತೀಮಮಿತಿಹಾಸಂ ಪುರಾತನಮ್॥೩॥
ವೈದರ್ಭೇ ಚ ದ್ವಿಜವರ ಉದಕೋ ನಾಮ ನಾಮತಃ।
ತಸ್ಯ ಭಾರ್ಯಾ ಸುಶೀಲೇತಿ ಪತಿವ್ರತಪರಾಯಣಾ॥೪॥
ತಸ್ಯಾ ಅಪತ್ಯಯುಗಲಂ ಪುತ್ರೋ ಹಿ ಸುವಿಭೀಷಣಃ।
ಅಧೀತವಾನ್ ಸುತಸ್ತಸ್ಯ ವೇದಾನ್ ಸಾಂಗಪದಕ್ರಮಾನ್॥೫॥
ಸಮಾನೇನ ಕುಲೀನೇನ ಸುತಾ ಚಾಪಿ ವಿವಾಹಿತಾ।
ನವೋಢಾತ್ವೇಽಪಿ ಸಾ ದೈವಾದ್ವೈಧವ್ಯಂ ಪ್ರಾಪ ಸತ್ತಮಾ॥೬॥
ಸತೀತ್ವಂ ಪಾಲಯಂತೀ ಸಾ ಆಸ್ತೇ ನಿಜಪಿತುರ್ಗೃಹೇ।
ತಸ್ಯಾ ದುಃಖೇನ ಸಂತಪ್ತಸ್ಸುತಂ ಸಂಸ್ಥಾಪ್ಯ ವೇಶ್ಮನಿ॥೭॥
ಗಂಗಾತೀರವನಂ ಪ್ರಾಪ್ತಃ ಕದಾಚಿತ್ತು ತಯಾ ಸಹ।
ಸ ತತ್ರಾಧ್ಯಾಪಯಾಮಾಸ ಶಿಷ್ಯಾನ್ ವೇದಂ ದ್ವಿಜೋತ್ತಮಃ॥೮॥
ಸುತಾ ಚ ಕುರುತೇ ತಸ್ಯ ಪಿತುಶ್ಶುಶ್ರೂಷಣಂ ಪರಮ್।
ಪಿತುಶ್ಶುಶ್ರೂಷಣಂ ಕೃತ್ವಾ ಪರಿಶ್ರಾಂತಾ ಕದಾಚನ॥೯॥
ನಿಶೀಥೇ ಕಿಲ ಸುಪ್ತಾಯಾಂ ಕ್ರಿಮಿರಾಶಿರಜಾಯತ।
ಶಿಷ್ಯಾಸ್ತಥಾವಿಧಾಂ ದೃಷ್ಟ್ವಾ ವಿವಸ್ತ್ರಾಂ ಪ್ರಸ್ತರೇ ಸ್ಥಿತಾಮ್॥೧೦॥
ಗತ್ವಾ ನಿವೇದಯಾಮಾಸುಸ್ತನ್ಮಾತುಃ ಕರುಣಾಂ ಗತಾಃ।
ನ ಜಾನೀಮೋ ವಯಂ ಕಿಂಚಿದ್ದೇವಿ ಸಾಧ್ವೀ ತಥಾವಿಧಾ॥೧೧॥
ಕ್ರಿಮಿರಾಶಿಮಯೀ ಜಾತಾ ಮಾತಸ್ಸಂಪ್ರತಿ ದೃಶ್ಯತೇ।
ವಜ್ರಪಾತಸಮಂ ಶ್ರುತ್ವಾ ತಚ್ಛಿಷ್ಯೈಸ್ಸಮುದಾಹೃತಮ್॥೧೨॥
ಸಾ ಶ್ರಾಂತಮಾನಸಾ ಶೀಘ್ರಂ ತತ್ಸಮೀಪಮುಪಾಗಮತ್।
ಸುತಾಂ ತಥಾವಿಧಾಂ ದೃಷ್ಟ್ವಾ ವಿಲಲಾಪ ಸುದುಃಖಿತಾ॥೧೩॥
ಉರಶ್ಚ ತಾಡಯಾಮಾಸ ಸುತರಾಂ ಮೋಹಮಾಪ ಚ।
ಕ್ಷಣೇನ ಪ್ರಾಪ್ಯ ಚೈತನ್ಯಮುತ್ಥಾಪ್ಯ ಪರಿಮೃಜ್ಯ ಚ॥೧೪॥
ಸಮಾಲಿಂಗ್ಯ ಚ ಬಾಹುಭ್ಯಾಂ ನಿನ್ಯೇ ತತ್ಪಿತುರಂತಿಕಮ್।
ಸ್ವಾಮಿನ್ ಕಥಯ ಮೇ ಸಾಧ್ವೀ ಕೇನ ದುಷ್ಕೃತಕರ್ಮಣಾ॥೧೫॥
ನಿಶೀಥೇ ಚ ಪ್ರಸುಪ್ತೇಯಂ ಜಾಯತೇ ಕ್ರಿಮಿಸಂಕುಲಾ।
ಏವಂ ಶ್ರುತ್ವಾ ತತೋ ವಾಕ್ಯಮ್ ಋಷಿರ್ಧ್ಯಾನಪರಾಯಣಃ॥೧೬॥
ಜ್ಞಾತ್ವಾ ನಿವೇದಯಾಮಾಸ ತಸ್ಯಾಃ ಪ್ರಾಗ್ಜನ್ಮಚೇಷ್ಟಿತಮ್॥೧೭॥

ಋಷಿರುವಾಚ

ಪ್ರಾಣೀಯಂ ಸಪ್ತಮೇಽತೀತೇ ಜನ್ಮನಿ ಬ್ರಾಹ್ಮಣೀ ಹ್ಯಭೂತ್।
ರಜಸ್ವಲಾ ಚ ಸಂಜಾತಾ ಭಾಂಡಾದೀನಸ್ಪೃಶತ್ತದಾ॥೧೮॥
ಅಸ್ಯಾಸ್ತು ಪಾಪ್ಮನಾ ತೇನ ಜಾಯತೇ ಕ್ರಿಮಿವದ್ವಪುಃ।
ರಜಸ್ವಲಾಯಾಃ ಪಾಪೇನ ಯುಕ್ತಾ ಭವತಿ ಸಾಽನಘೇ॥೧೯॥
ಪ್ರಥಮೇಽಹನಿ ಚಂಡಾಲೀ ದ್ವಿತೀಯೇ ಬ್ರಹ್ಮಘಾತಿನೀ।
ತೃತೀಯೇ ರಜಕೀ ಪ್ರೋಕ್ತಾ ಚತುರ್ಥೇಽಹನಿ ಶುದ್ಧ್ಯತಿ॥೨೦॥
ತದಾ ತಯಾ ಸಖೀಸಂಘಾತಂ ದೃಷ್ಟ್ವಾಽವಮಾನಿತಮ್।
ದೃಷ್ಟವ್ರತಪ್ರಭಾವೇಣ ಜಾತಾ ದ್ವಿಜಕುಲೇಽಮಲೇ॥೨೧॥
ಅವಮಾನಾದ್ವ್ರತಸ್ಯಾಸ್ಯ ಕ್ರಿಮಿರಾಶಿರಿವಾಧುನಾ।
ಏತತ್ತೇ ಕಥಿತಂ ಸರ್ವಂ ಕಾರಣಂ ದುಷ್ಕೃತಸ್ಯ ಚ॥೨೨॥

ಸುಶೀಲೋವಾಚ

ದರ್ಶನಾದಪಿ ಜಂತೋರಸ್ಯ ದ್ವಿಜಾನಾಂ ನಿರ್ಮಲೇ ಕುಲೇ।
ಜನ್ಮ ಯುಷ್ಮದ್ವಿಧಾನಾಂ ಹಿ ಜಾಯತೇ ಬ್ರಹ್ಮತೇಜಸಾಮ್॥೨೩॥
ಅವಜ್ಞಯಾ ಪ್ರಜಾಯಂತೇ ನಿಶೀಥೇ ಕ್ರಿಮಿರಾಶಯಃ।
ಮಹಾಶ್ಚರ್ಯಂ ಕಥಂ ನಾಥ ತದ್ವ್ರತಂ ಕಥಯಸ್ವ ಮೇ॥೨೪॥

ಉದಕ ಉವಾಚ

ಸುಶೀಲೇ ಶೃಣು ತತ್ಸಮ್ಯಕ್ ವ್ರತಂ ನಾಮೋತ್ತಮಂ ವ್ರತಮ್।
ಯೇನ ಚೀರ್ಣೇನ ಸಹಸಾ ಪಾಪಾದಸ್ಮಾತ್ ಪ್ರಮುಚ್ಯತೇ॥೨೫॥
ದುಃಖತ್ರಯಾಚ್ಚ ಮುಚ್ಯೇತ ನಾರೀ ಸೌಭಾಗ್ಯಮಾಪ್ನುಯಾತ್।
ಕಲ್ಯಾಣಾನಿ ವಿವರ್ಧಂತೇ ಸಂಪದಶ್ಚ ನಿರಾಪದಃ॥೨೬॥

ಯುಧಿಷ್ಠಿರ ಉವಾಚ

ಶ್ರುತಾನಿ ದೇವದೇವೇಶ ವ್ರತಾನಿ ಸುಬಹೂನಿ ಚ।
ಸಾಂಪ್ರತಂ ತ್ವನ್ಯದಾಚಕ್ಷ್ವ ವ್ರತಂ ಪಾಪಪ್ರಣಾಶನಮ್॥೨೭॥

ಶ್ರೀಕೃಷ್ಣ ಉವಾಚ

ಅಥಾನ್ಯದಪಿ ರಾಜೇಂದ್ರ ಪಂಚಮ್ಯಾಮೃಷಿಪೂಜನಮ್।
ಕಥಯಿಷ್ಯಾಮಿ ಯತ್ಕೃತ್ವಾ ನಾರೀ ಪಾಪಾತ್ ಪ್ರಮುಚ್ಯತೇ॥೨೮॥

ಯುಧಿಷ್ಠಿರ ಉವಾಚ

ಕೀದೃಶೀ ಪಂಚಮೀ ಕೃಷ್ಣ ಕಥಂ ತದೃಷಿಪೂಜನಮ್।
ಪಾತಕಾನ್ಮುಚ್ಯತೇ ಕಸ್ಮಾನ್ನಾರೀ ಯದುಕುಲೋದ್ಭವ॥೨೯॥
ಪಾಪಾನಿ ಚ ಬಹೂನ್ಯತ್ರ ವಿದ್ಯಂತೇ ಕಿಲ ಕೇಶವ।
ಕಥಂ ವಾ ಋಷಿಪಂಚಮ್ಯಾಂ ನಾರೀ ಕಸ್ಮಾತ್ ಪ್ರಮುಚ್ಯತೇ॥೩೦॥

ಶ್ರೀಕೃಷ್ಣ ಉವಾಚ

ಅಜ್ಞಾನಾಜ್ಜ್ಞಾನತೋ ವಾಪಿ ಯಾ ಸ್ತ್ರೀ ಜಾತಾ ರಜಸ್ವಲಾ।
ದುಷ್ಟಾ ಸ್ಪೃಶತಿ ಭಾಂಡಾನಿ ಗೃಹಕರ್ಮಣಿ ಸಂಸ್ಥಿತಾ॥೩೧॥
ಪ್ರಾಪ್ನೋತಿ ಸಾ ಮಹಾಪಾಪಂ ಸರ್ವಾ ನಾ ರಜಸ್ವಲಾಃ।
ಶೃಣು ತತ್ಕಾರಣಂ ಯೇನ ವರ್ಜನೀಯಾ ರಜಸ್ವಲಾ॥೩೨॥
ಪ್ರೋತ್ಸಾರ್ಯಾ ಗೃಹತೋ ದೂರಂ ಚಾತುರ್ವರ್ಣ್ಯೇನ ಭಾರತ।
ಬ್ರಹ್ಮಹತ್ಯಾಂ ಪುರಾ ಶಕ್ರೋ ವೃತ್ರಂ ಹತ್ವಾ ಹ್ಯವಾಪ ಚ॥೩೩॥
ತಯಾ ವೈ ರಾಜಶಾರ್ದೂಲ ಪೀಡಿತೋ ವೃತ್ರಸೂದನಃ।
ಬ್ರಹ್ಮಾಣಂ ಸಮುಪಾಗಚ್ಛದಾತ್ಮಶುದ್ಧಿಕಾರಣಾತ್॥೩೪॥
ಶುದ್ಧ್ಯೈ ಶಕ್ರಸ್ಯ ರಾಜೇಂದ್ರ ಪ್ರಹೃಷ್ಟೇನಾಂತರಾತ್ಮನಾ।
ವಿಭಜ್ಯ ಬ್ರಹ್ಮಹತ್ಯಾಂ ತು ಚತುರ್ಧಾ ಸ ಚತುರ್ಮುಖಃ॥೩೫॥
ಪ್ರಾಕ್ಷಿಪದ್ರಾಜಶಾರ್ದೂಲ ಚತುಃಸ್ಥಾನೇಷು ವೈ ತದಾ।
ವಹ್ನೌ ಪ್ರಥಮಜಿಹ್ವಾಸು ನದೀನಾಂ ಪ್ರಥಮೋದಕೇ॥೩೬॥
ಗಿರಿವೃಕ್ಷಾದಿಭೂಮೌ ಚ ನಾರೀರಜಸಿ ಪಾರ್ಥಿವ।
ತತೋ ರಜಸ್ವಲಾ ನಾರೀ ಪ್ರೋತ್ಸಾರ್ಯಾ ಚ ಪ್ರಯತ್ನತಃ॥೩೭॥
ಬ್ರಾಹ್ಮಣಶಾಸನಾತ್ಪಾರ್ಥ ಚಾತುರ್ವರ್ಣ್ಯೇನ ಸರ್ವದಾ।
ಪ್ರಥಮೇಽಹನಿ ಚಂಡಾಲೀ ದ್ವಿತೀಯೇ ಬ್ರಹ್ಮಘಾತಿನೀ॥೩೮॥
ತೃತೀಯೇ ರಜಕೀ ಪ್ರೋಕ್ತಾ ಚತುರ್ಥೇಽಹನಿ ಶುದ್ಧ್ಯತಿ।
ಅಜ್ಞಾನಾಜ್ಜ್ಞಾನತೋ ವಾಪಿ ಜಾತಂ ಸಂಪರ್ಕಪಾತಕಮ್॥೩೯॥
ತತ್ಪಾಪಸಂಕ್ಷಯಾರ್ಥಂ ವೈ ಕಾರ್ಯೇಯಮೃಷಿಪಂಚಮೀ।
ಸರ್ವಪಾಪಪ್ರಶಮನೀ ಸರ್ವೋಪದ್ರವನಾಶಿನೀ॥೪೦॥
ಬ್ರಹ್ಮಕ್ಷತ್ರಿಯವಿಟ್ಶೂದ್ರಸ್ತ್ರೀಭಿಃ ಕಾರ್ಯಾ ವಿಶೇಷತಃ॥೪೧॥

ಕೃಷ್ಣ ಉವಾಚ

ಅತ್ರಾರ್ಥೇ ಯತ್ಪುರಾ ವೃತ್ತಂ ಪ್ರವಕ್ಷ್ಯಾಮಿ ಕಥಾತ್ಮಕಮ್॥೪೨॥
ಪುರಾ ಕೃತಯುಗೇ ರಾಜಾ ವಿದರ್ಭಾಣಾಂ ಬಭೂವ ಹ।
ಶ್ಯೇನಜಿನ್ನಾಮ ರಾಜರ್ಷಿಶ್ಚಾತುರ್ವರ್ಣ್ಯಾನುಪಾಲಕಃ॥೪೩॥
ತಸ್ಯ ದೇಶೇ ವಸನ್ವಿಪ್ರೋ ವೇದವೇದಾಂಗಪಾರಗಃ।
ಸುಮಿತ್ರೋ ನಾಮ ವಿಪ್ರೇಂದ್ರಃ ಸರ್ವಭೂತಹಿತೇ ರತಃ॥೪೪॥
ಕೃಷಿವೃತ್ತ್ಯಾ ಸದಾ ಯುಕ್ತಃ ಕುಟುಂಬಪರಿಪಾಲಕಃ।
ತಸ್ಯ ಭಾರ್ಯಾ ಸುಸಾಧ್ವೀ ಚ ಪತಿಶುಶ್ರೂಷಣೇ ರತಾ॥೪೫॥
ಜಯಶ್ರೀರ್ನಾಮ ವಿಖ್ಯಾತಾ ಬಹುಭೃತ್ಯಸುಹೃಜ್ಜನಾ।
ಅತಿಚಿಂತಾನ್ವಿತಾ ಸಾ ಚ ಪ್ರಾವೃಟ್ಕಾಲೇ ಸುಮಧ್ಯಮಾ॥೪೬॥
ಕ್ಷೇತ್ರಾದಿಷು ರತಾ ಸಾಧ್ವೀ ಚಾಕುಲೀಕೃತಮಾನಸಾ।
ಏಕದಾ ಸಾಽಽತ್ಮನಃ ಪ್ರಾಪ್ತಮೃತುಕಾಲಂ ವ್ಯಲೋಕಯತ್॥೪೭॥
ರಜಸ್ವಲಾಽಪಿ ಸಾ ರಾಜನ್ ಗೃಹಕರ್ಮ ಚಕಾರ ಹ।
ಭಾಂಡಾದೀನ್ಯಸ್ಪೃಶದ್ರಾಜನ್ ಪ್ರಾಪ್ತರ್ತುರಪಿ ಭಾಮಿನೀ॥೪೮॥
ಕಾಲೇನ ಬಹುನಾ ಸಾಧ್ವೀ ಪಂಚತ್ವಮಗಮತ್ತದಾ।
ತಸ್ಯಾ ಭರ್ತಾಽಪಿ ವಿಪ್ರೋಽಸೌ ಕಾಲಧರ್ಮಮುಪೇಯಿವಾನ್॥೪೯॥
ಏವಂ ತೌ ದಂಪತೀ ರಾಜನ್ ಸ್ವಕರ್ಮವಶಗೌ ತದಾ।
ಭಾರ್ಯಾ ತಸ್ಯ ಜಯಶ್ರೀಸ್ಸಾ ಋತುಸಂಪರ್ಕದೋಷತಃ॥೫೦॥
ಶುನೀಯೋನಿಸಮುತ್ಪನ್ನಾ ಶುನೀ ಚಾಭೂನ್ನರೇಶ್ವರ।
ತಸ್ಯಾಸ್ಸಂಪರ್ಕದೋಷೇಣ ಬಲೀವರ್ದೋ ಬಭೂವ ಸಃ॥೫೧॥
ಋತುಸಂಪರ್ಕದೋಷೇಣ ತಿರ್ಯಗ್ಯೋನಿಮುಪಾಗತೌ।
ಸ್ವಧರ್ಮಾಚರಣಾಜ್ಜಾತಾವುಭೌ ಜಾತಿಸ್ಮರೌ ತದಾ॥೫೨॥
ಸುತಸ್ಯೈವ ಗೃಹೇ ರಾಜನ್ ಸ್ಮರಂತೌ ಪೂರ್ವಪಾತಕಮ್।
ಸುಮಿತ್ರಸ್ಯ ಚ ಪುತ್ರೋಽಭೂದ್ಗುರುಶುಶ್ರೂಷಣೇ ರತಃ॥೫೩॥
ಸುಮತಿರ್ನಾಮ ಧರ್ಮಜ್ಞೋ ದೇವತಾತಿಥಿಪೂಜಕಃ।
ಕಾಲಕ್ಷಯಾಹೇ ಸಂಪ್ರಾಪ್ತೇ ಪಿತುಸ್ತು ಸುಮತಿಸ್ತದಾ॥೫೪॥
ಭಾರ್ಯಾಂ ಚಂದ್ರವತೀಂ ಪ್ರಾಪ್ಯ ಪೈತೃಕಶ್ರದ್ಧಯಾಽನ್ವಿತಃ।
ಅದ್ಯ ಸಾಮ್ವತ್ಸರದಿನಂ ಪಿತುರ್ಮೇ ಚಾರುಹಾಸಿನಿ॥೫೫॥
ಭೋಜನೀಯಾ ದ್ವಿಜಾ ಭೀರು ಪಾಕಶುದ್ಧಿರ್ವಿಧೀಯತಾಮ್।
ತಯಾ ಕೃತಾ ಪಾಕಶುದ್ಧಿಸ್ಸುಮತೇ ಶಾಸನಾದ್ಗೃಹೇ॥೫೬॥
ಮುಕ್ತಂ ಪಾಯಸಭಾಂಡೇ ವೈ ಸರ್ಪೇಣ ಗರಲಂ ತತಃ।
ದೃಷ್ಟ್ವಾ ಬ್ರಹ್ಮವಧಾದ್ಭೀತಾ ಶುನೀ ಭಾಂಡಾನಿ ಸಾಽಸ್ಪೃಶತ್॥೫೭॥
ದ್ವಿಜಭಾರ್ಯಾ ಚ ತಾಂ ದೃಷ್ಟ್ವಾ ಉಲ್ಮುಕೇನ ಜಘಾನ ಹ।
ಭಾಂಡಾದೀನಿ ಚ ಪ್ರಕ್ಷಾಲ್ಯ ತ್ಯಕ್ತ್ವಾ ಪಾಕಂ ಸುಮಧ್ಯಮಾ॥೫೮॥
ಪುನಃ ಪಾಕಂ ಚ ಕೃತ್ವಾ ತು ಶ್ರಾದ್ಧಂ ಕೃತ್ವಾ ವಿಧಾನತಃ।
ತತೋ ಭುಕ್ತೇಷು ವಿಪ್ರೇಷು ನೋಚ್ಛಿಷ್ಟಂ ಚ ದದೌ ಬಹಿಃ॥೫೯॥
ಭೂಮೌ ಕ್ಷಿಪ್ತಂ ತಯಾ ಶುನ್ಯಾ ಉಪವಾಸಸ್ತತೋಽಭವತ್।
ತತೋ ರಾತ್ರ್ಯಾಂ ಪ್ರವೃತ್ತಾಯಾಂ ಸಾ ಶುನೀ ಕ್ಷುಧಿತಾ ಭೃಶಮ್॥೬೦॥
ಬಲೀವರ್ದಮುಪಾಗತ್ಯ ಭರ್ತಾರಮಿದಮಬ್ರವೀತ್॥೬೧॥

ಶುನ್ಯುವಾಚ

ಬುಭುಕ್ಷಿತಾ ಗೃಹೇ ಭರ್ತರ್ನ ದತ್ತಂ ಭೋಜನಾದಿಕಮ್।
ಗ್ರಾಸಾದಿಕಂ ಚ ನ ಪ್ರಾಪ್ತಂ ಕ್ಷುಧಾ ಮಾಂ ಬಾಧತೇ ಭೃಶಮ್॥೬೨॥
ಅನ್ಯಸ್ಮಿನ್ ದಿವಸೇ ಪುತ್ರೋ ಮಮ ಲೇಹ್ಯಂ ದದಾತ್ಯಸೌ।
ಅದ್ಯ ಮಹ್ಯಂ ಕಿಮಪ್ಯೇಷ ಉಚ್ಛಿಷ್ಟಮಪಿ ನೋ ದದೌ॥೬೩॥
ಪಾಯಸಾನ್ನೇ ಪಪಾತಾದ್ಯ ಗರಲಂ ಸರ್ಪಸಂಭವಮ್।
ಮಯಾ ವಿಚಿಂತ್ಯ ಮನಸಾ ಮರಿಷ್ಯಂತಿ ದ್ವಿಜೋತ್ತಮಾಃ॥೬೪॥
ಸಂಸ್ಪೃಷ್ಟಂ ಪಾಯಸಂ ಗತ್ವಾ ತತ್ರಾಹಂ ತಾಡಿತಾ ಭೃಶಮ್।
ದುಃಖಿತಂ ತೇನ ಮೇ ಗಾತ್ರಂ ಕಟಿರ್ಭಗ್ನಾ ಕರೋಮಿ ಕಿಮ್॥೬೫॥

ಬಲೀವರ್ದ ಉವಾಚ

ಭದ್ರೇ ತೇ ಪಾಪಜಂ ಫಲಮ್॥೬೬॥
ಕಿಂ ಕರೋಮಿ ಶಕ್ತೋಽಹಂ ಭಾರವಾಹೋಽದ್ಯ ಸುಸ್ಥಿತಃ।
ಅದ್ಯಾಹಮಾತ್ಮಜಕ್ಷೇತ್ರೇ ವಾಹಿತಸ್ಸಕಲಂ ದಿನಮ್॥೬೭॥
ಮಾರಿತಶ್ಚಾತ್ಮಜೇನಾಹಂ ಮುಖಂ ಬದ್ಧ್ವಾ ಬುಭುಕ್ಷಿತಃ।
ವೃಥಾ ಶ್ರಾದ್ಧಂ ಕೃತಂ ತೇನ ಜಾತಾಽದ್ಯ ಮಮ ಕಷ್ಟತಾ॥೬೮॥

ಶ್ರೀಕೃಷ್ಣ ಉವಾಚ

ತಯೋಸ್ಸಂವದತೋರೇವ ಮಾತಾಪಿತ್ರೋಶ್ಚ ಭಾರತ।
ಶ್ರುತ್ವಾ ಪುತ್ರಸ್ತದಾ ವಾಕ್ಯಂ ಯದುಕ್ತಂ ಚ ತದೋಭಯೋಃ॥೬೯॥
ತತೋ ರಜನ್ಯಾಂ ತತ್ಕಾಲಂ ದದೌ ತಸ್ಯೈವ ಭೋಜನಮ್।
ಪಿತರೌ ತೌ ವಿದಿತ್ವಾ ತು ದತ್ತವಾನ್ ಸುಮತಿಸ್ತದಾ॥೭೦॥
ತತೋಽಸೌ ದುಃಖಿತಃ ಪುತ್ರೋ ಜ್ಞಾತ್ವಾಽವಸ್ಥಾಂ ತದಾ ತಯೋಃ।
ಮಾತಾಪಿತ್ರೋಸ್ತು ರಾಜೇಂದ್ರ ದುಃಖಾತ್ಮಾ ಪ್ರಸ್ಥಿತೋ ವನಮ್॥೭೧॥
ಜ್ಞಾತುಮಿಚ್ಛಾಮಿ ಕಷ್ಟಂ ವೈ ಮಾತಾಪಿತ್ರೋಶ್ಚ ಭಾರತ।
ತತ್ರ ಗತ್ವಾ ಜ್ಞಾನವೃದ್ಧಾನೃಷೀನ್ ಸಪ್ತ ವನಾಶ್ರಿತಾನ್॥೭೨॥
ಪ್ರಣಿಪತ್ಯಾಬ್ರವೀದ್ವಾಕ್ಯಂ ಹಿತಂ ಚೈವ ತದಾ ತಯೋಃ॥೭೩॥

ಸುಮತಿರುವಾಚ

ಕಥಯಧ್ವಂ ವಿಪ್ರವರ್ಯಾಃ ಪ್ರಶ್ನಮೇಕಂ ಸಮಾಹಿತಾಃ।
ಕೇನ ಕರ್ಮವಿಪಾಕೇನ ಪಿತರೌ ಮೇ ತಪೋಧನಾಃ॥೭೪॥
ಇಮಾಮವಸ್ಥಾಂ ಸಂಪ್ರಾಪ್ತೌ ಮುಚ್ಯೇತೇ ಪಾತಕಾತ್ಕಥಮ್॥೭೫॥

ಶ್ರೀಕೃಷ್ಣ ಉವಾಚ

ತದಾಕರ್ಣ್ಯ ವಚಸ್ತಸ್ಯ ಸುಮತೇರ್ದುಃಖಿತಸ್ಯ ಚ।
ಋಷಿಸ್ಸರ್ವತಪಾ ನಾಮ ಸರ್ವಜ್ಞಃ ಕರುಣಾನ್ವಿತಃ॥೭೬॥
ಸುಮತಿಂ ಪ್ರತ್ಯುವಾಚೇದಂ ತತ್ಪಿತ್ರೋರ್ಮುಕ್ತಯೇ ತದಾ॥೭೭॥

ಋಷಿರುವಾಚ

ತವ ಮಾತಾ ಪುರಾ ವಿಪ್ರ ಸ್ವಗೃಹೇ ಬಾಲಭಾವತಃ॥೭೮॥
ಋತುಂ ಪ್ರಾಪ್ತಂ ವಿದಿತ್ವಾ ತು ಸಂಪರ್ಕಮಕರೋದ್ದ್ವಿಜ।
ತೇನ ಕರ್ಮವಿಪಾಕೇನ ಶುನೀಯೋನಿಮುಪಾಗತಾ॥೭೯॥
ಪಿತಾಽಪಿ ಸ್ಪರ್ಶದೋಷೇಣ ಬಲೀವರ್ದೋ ಬಭೂವ ಹ।
ಏತಯೋರ್ಮುಕ್ತಿಕಾಮಾರ್ಥಂ ಕುರು ತ್ವಮೃಷಿಪಂಚಮೀಮ್॥೮೦॥
ಭಾರ್ಯಯಾ ಸಹ ವಿಪ್ರೇಂದ್ರ ಋಷೀನ್ ಸಂಪೂಜ್ಯ ಯತ್ನತಃ।
ಆಚರಸ್ವ ವ್ರತಂ ತತ್ರ ಸಪ್ತವರ್ಷಂ ದ್ವಿಜೋತ್ತಮ॥೮೧॥
ಅಂತೇ ಚೋದ್ಯಾಪನಂ ಕುರ್ಯಾದ್ವಿತ್ತಶಾಠ್ಯವಿವರ್ಜಿತಃ।
ಶಾಕಾಹಾರಸ್ತು ಕರ್ತವ್ಯೋ ನೀವಾರೈಶ್ಶ್ಯಾಮಕೈಸ್ತದಾ॥೮೨॥
ಕಂದಂ ವಾಽಥ ಫಲಂ ಮೂಲಂ ಹಲಕೃಷ್ಟಂ ನ ಭಕ್ಷಯೇತ್।
ಪ್ರಾಪ್ಯ ಭಾದ್ರಪದೇ ಮಾಸಿ ಶುಕ್ಲಪಕ್ಷಸ್ಯ ಪಂಚಮೀಮ್॥೮೩॥
ತಸ್ಯಾಂ ಮಧ್ಯಾಹ್ನಸಮಯೇ ನದ್ಯಾದೌ ವಿಮಲೇ ಜಲೇ।
ಕೃತ್ವಾಽಪಾಮಾರ್ಗಸಮಿಧಾ ದಂತಧಾವನಮಾದಿತಃ॥೮೪॥
ಆಯುರ್ಬಲಂ ಯಶೋ ವರ್ಚಃ ಪ್ರಜಾಃ ಪಶುವಸೂನಿ ಚ।
ಬ್ರಹ್ಮ ಪ್ರಜ್ಞಾಂ ಚ ಮೇಧಾಂ ಚ ತ್ವನ್ನೋ ದೇಹಿ ವನಸ್ಪತೇ॥೮೫॥
ಸಂಪ್ರಾರ್ಥ್ಯಾನೇನ ಮಂತ್ರೇಣ ಕುರ್ಯಾದ್ವೈ ದಂತಧಾವನಮ್।
ಮುಖದುರ್ಗಂಧನಾಶಾಯ ದಂತಾನಾಂ ಚ ವಿಶುದ್ಧಯೇ॥೮೬॥
ಷ್ಠೀವನಾಯ ಚ ಗಾತ್ರಾಣಾಂ ಕುರ್ವೇಽಹಂ ದಂತಧಾವನಮ್।
ಅನೇನ ದಂತಾನ್ ಸಂಶೋಧ್ಯ ಸ್ನಾಯಾನ್ಮೃತ್ಸ್ನಾನಪೂರ್ವಕಮ್॥೮೭॥
ತಿಲಾಮಲಕಕಲ್ಕೇನ ಕೇಶಾನ್ ಸಂಶೋಧ್ಯ ಯತ್ನತಃ।
ಪರಿಧಾಯ ನವಂ ಶುದ್ಧಂ ವಾಸೋಯುಗ್ಮಂ ಸಮಾಹಿತಃ॥೮೮॥
ವಿಧಾಯ ನಿತ್ಯಕರ್ಮಾಣಿ ಗೃಹಂ ಗತ್ವಾ ತಾನ್ ಋಷೀನ್।
ಸ್ಥಾಪಯೇದ್ವಿಧಿವದ್ಭಕ್ತ್ಯಾ ಪಂಚಾಮೃತರಸೈಶ್ಶುಭೈಃ॥೮೯॥
ಚಂದನಾಗರುಕರ್ಪೂರೈರ್ವಿಲಿಪ್ಯ ಚ ಸುಗಂಧಿಭಿಃ।
ಪೂಜಯೇದ್ವಿವಿಧೈಃ ಪುಷ್ಪೈರ್ಗಂಧಧೂಪಾದಿದೀಪಕೈಃ॥೯೦॥
ಸಮಾಚ್ಛಾದ್ಯ ಶುಭೈರ್ವಸ್ತ್ರೈಸ್ಸೋಪವೀತೈರ್ಯಥಾವಿಧಿ।
ತತೋ ನೈವೇದ್ಯಸಂಪನ್ನೈರ್ದದ್ಯಾಚ್ಛುಭೈಃ ಫಲೈಃ॥೯೧॥
ಪೂಜಯಸ್ವ ಋಷೀನ್ ದಿವ್ಯಾನ್ ಅರುಂಧತ್ಯಾ ಸಮನ್ವಿತಾನ್॥೯೨॥
ಕಶ್ಯಪೋಽತ್ರಿರ್ಭರದ್ವಾಜೋ ವಿಶ್ವಾಮಿತ್ರೋಽಥ ಗೌತಮಃ।
ಜಮದಗ್ನಿರ್ವಸಿಷ್ಠಶ್ಚ ಸಾಧ್ವೀ ಚೈವಾಪ್ಯರುಂಧತೀ॥೯೩॥
ಮಂತ್ರೇಣಾನೇನ ಸಪ್ತರ್ಷೀನ್ ಪೂಜಯೇತ್ಸುಸಮಾಹಿತಃ।
ವ್ರತೇನ ಋಷಿಪಂಚಮ್ಯಾಃ ಕೃತೇನೈವ ದ್ವಿಜೋತ್ತಮ॥೯೪॥
ಋತುಸಂಪರ್ಕಜೋ ದೋಷಃ ಕ್ಷಯಂ ಯಾತಿ ನ ಸಂಶಯಃ॥೯೫॥

ಶ್ರೀಕೃಷ್ಣ ಉವಾಚ

ತಚ್ಛ್ರುತ್ವಾ ಸುಮತಿರ್ವಾಕ್ಯಂ ಪರಮಂ ಮುನಿಭಾಷಿತಮ್॥೯೬॥
ಗೃಹಮೇತ್ಯ ವ್ರತಂ ಚಕ್ರೇ ಸಭಾರ್ಯಃ ಶ್ರದ್ಧಯಾಽನ್ವಿತಃ।
ವ್ರತಂ ತು ಋಷಿಪಂಚಮ್ಯಾಸ್ಸರ್ವಪಾಪಪ್ರಣಾಶನಮ್॥೯೭॥
ಕೃತ್ವಾ ಸರ್ವಂ ಯಥೋಕ್ತಂ ಚ ಮಾತಾಪಿತ್ರೋಃ ಫಲಂ ದದೌ।
ವ್ರತಪುಣ್ಯಪ್ರಭಾವೇಣ ಮಾತಾ ತಸ್ಯ ಶ್ವಯೋನಿತಃ॥೯೮॥
ಮುಕ್ತಾ ನೃಪತಿಶಾರ್ದೂಲ ವಿಮಾನವರಮಾಸ್ಥಿತಾ।
ದಿವ್ಯಾಂಬರಧರಾ ಭೂತ್ವಾ ಗತಾ ಸ್ವರ್ಗಂ ಚ ಭಾರತ॥೯೯॥
ಪಿತಾಽಪಿ ಸ ಮೃತೋಽಗಚ್ಛತ್ ಸುಮತೇಃ ಪಶುಯೋನಿತಃ।
ಸ್ವರ್ಗಂ ಪ್ರಾಪ್ತೋ ಮಹಾರಾಜ ವ್ರತಸ್ಯಾಸ್ಯ ಪ್ರಭಾವತಃ॥೧೦೦॥
ದಿವ್ಯಾಂಬರಧರೋ ಭೂತ್ವಾ ಗತಸ್ಸ್ವರ್ಗಂ ಸ ಭಾರತ।
ಕಾಯಿಕಂ ವಾಚಿಕಂ ವಾಪಿ ಮಾನಸಂ ಯಚ್ಚ ದುಷ್ಕೃತಮ್॥೧೦೧॥
ತತ್ಸರ್ವಂ ವಿಲಯಂ ಯಾತಿ ವ್ರತಸ್ಯಾಸ್ಯ ಪ್ರಭಾವತಃ।
ತಸ್ಯ ಯಜ್ಜಾಯತೇ ಪುಣ್ಯಂ ತಚ್ಛೃಣುಷ್ವ ನೃಪೋತ್ತಮ॥೧೦೨॥
ಸರ್ವವ್ರತೇಷು ಯತ್ಪುಣ್ಯಂ ಸರ್ವತೀರ್ಥೇಷು ಯತ್ಫಲಮ್।
ಸರ್ವದಾನೇಷು ದತ್ತೇಷು ತದೇತದ್ವ್ರತಚಾರಣಾತ್॥೧೦೩॥
ಕುರುತೇ ಯಾ ವ್ರತಂ ನಾರೀ ಸಾ ಭವೇತ್ಸುಖಭಾಗಿನೀ।
ರೂಪಲಾವಣ್ಯಯುಕ್ತಾ ಚ ಪುತ್ರಪೌತ್ರಾಭಿಸಂಯುತಾ॥೧೦೪॥
ಇಹ ಲೋಕೇ ಸುಖಂ ಯಾಯಾತ್ ಪರತ್ರ ಚ ಪರಾಂ ಗತಿಮ್।
ಏತತ್ತೇ ಕಥಿತಂ ರಾಜನ್ ವ್ರತಾನಾಮುತ್ತಮಂ ವ್ರತಮ್॥೧೦೫॥
ಸರ್ವಸಂಪತ್ಪ್ರದಂ ಚೈವ ನಾರೀಣಾಂ ಪಾಪನಾಶನಮ್।
ಧನಂ ಯಶಶ್ಚ ಸ್ವರ್ಗಂ ಚ ಪುತ್ರಾನಪಿ ಯುಧಿಷ್ಠಿರ॥೧೦೬॥
ಪಠತಾಂ ಶೃಣ್ವತಾಂ ಚಾಪಿ ದದ್ಯಾತ್ಪಾಪಪ್ರಣಾಶನಮ್॥೧೦೭॥

॥ ಇತಿ ಶ್ರೀಭವಿಷ್ಯೋತ್ತರಪುರಾಣೇ ಋಷಿಪಂಚಮೀವ್ರತಕಥಾ ಸಂಪೂರ್ಣಾ ॥

Śrī-ṛṣipañcamī-vratam

(mūlam—śrīvrataratnākaraḥ, prathamo bhāgaḥ; udyāpanavidhiḥ brahmāṇḍapurāṇoktaḥ)

pūrvāṅga-vighneśvara-pūjā

(ācamya)

śuklāmbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam|
prasannavadanaṃ dhyāyet sarvavighnopaśāntaye||

prāṇān āyamya|
[apa upaspṛśya, puṣpākṣatān gṛhītvā|]

tadeva lagnaṃ sudinaṃ tadeva tārābalaṃ candrabalaṃ tadeva|
vidyābalaṃ daivabalaṃ tadeva lakṣmīpateraṅghriyugaṃ smarāmi||

mamopātta-samasta-durita-kṣayadvārā
śrī-parameśvara-prītyarthaṃ kariṣyamāṇasya karmaṇaḥ
avighnena parisamāptyartham ādau vighneśvarapūjāṃ kariṣye|
[apa upaspṛśya]

agajānānapadmārkaṃ gajānanamaharniśam|
anekadaṃ taṃ bhaktānām ekadantamupāsmahe||

asmin haridrābimbe sumukhaṃ mahāgaṇapatiṃ dhyāyāmi, āvāhayāmi|
śrī- mahāgaṇapataye namaḥ, āsanaṃ samarpayāmi|
śrī- mahāgaṇapataye namaḥ, pādayoḥ pādyaṃ samarpayāmi|
śrī- mahāgaṇapataye namaḥ, arghyaṃ samarpayāmi|
śrī- mahāgaṇapataye namaḥ, ācamanīyaṃ samarpayāmi|
śrī- mahāgaṇapataye namaḥ, madhuparkaṃ samarpayāmi|
śrī- mahāgaṇapataye namaḥ, śuddhodakasnānaṃ samarpayāmi| snānānantaramācamanīyaṃ samarpayāmi|
śrī- mahāgaṇapataye namaḥ, vastrārthamakṣatān samarpayāmi|
śrī- mahāgaṇapataye namaḥ, yajñopavītābharaṇārthe akṣatān samarpayāmi|
śrī- mahāgaṇapataye namaḥ, divyaparimalagandhān dhārayāmi| gandhasyopari haridrākuṅkumaṃ samarpayāmi|
śrī- mahāgaṇapataye namaḥ, akṣatān samarpayāmi|
śrī- mahāgaṇapataye namaḥ, puṣpamālikāṃ samarpayāmi| puṣpaiḥ pūjayāmi|

arcanā

sumukhāya namaḥ
ekadantāya namaḥ
kapilāya namaḥ
gajakarṇakāya namaḥ
lambodarāya namaḥ
vikaṭāya namaḥ
vighnarājāya namaḥ
vināyakāya namaḥ
dhūmaketave namaḥ
gaṇādhyakṣāya namaḥ
phālacandrāya namaḥ
gajānanāya namaḥ
vakratuṇḍāya namaḥ
śūrpakarṇāya namaḥ
herambāya namaḥ
skandapūrvajāya namaḥ
śrī- mahāgaṇapataye namaḥ, nānāvidhaparimalapatrapuṣpāṇi samarpayāmi|
śrī- mahāgaṇapataye namaḥ, dhūpamāghrāpayāmi|
śrī- mahāgaṇapataye namaḥ, alaṅkāradīpaṃ sandarśayāmi|
śrī- mahāgaṇapataye namaḥ, ( ) (naivedyaṃ) nivedayāmi|
nivedanāntaram ācamanīyaṃ samarpayāmi|
śrī- mahāgaṇapataye namaḥ, tāmbūlaṃ samarpayāmi|
śrī- mahāgaṇapataye namaḥ, karpūranīrājanaṃ darśayāmi| karpūranīrājanānantaramācamanīyaṃ samarpayāmi|
śrī- mahāgaṇapataye namaḥ, mantrapuṣpaṃ samarpayāmi| svarṇapuṣpaṃ samarpayāmi|

abhīpsitārthasiddhyarthaṃ pūjito yaḥ surairapi|
sarvavighnacchide tasmai gaṇādhipataye namaḥ||
gajānanaṃ bhūtagaṇādisevitaṃ kapittha-jambūphala-sāra-bhakṣitam|
umāsutaṃ śokavināśakāraṇaṃ namāmi vighneśvarapādapaṅkajam||

anantakoṭipradakṣiṇanamaskārān samarpayāmi|
chattracāmarādisamastopacārān samarpayāmi|

vakratuṇḍamahākāya koṭisūryasamaprabha|
avighnaṃ kuru me deva sarvakāryeṣu sarvadā||
sumukhaścaikadantaśca kapilo gajakarṇakaḥ|
lambodaraśca vikaṭo vighnarājo gaṇādhipaḥ||
dhūmaketurgaṇādhyakṣo phālacandro gajānanaḥ|
vakratuṇḍaḥ śūrpakarṇo herambhaḥ skandapūrvajaḥ||
ṣoḍaśaitāni nāmāni yaḥ paṭhecchṛṇuyādapi|
vidyārambhe vivāhe ca praveśe nirgame tathā|
saṅgrāme sarvakāryeṣu vighnastasya na jāyate||

prārthanāḥ samarpayāmi|

pradhāna-pūjā — saptarṣi-arundhatī-pūjā

śuklāmbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam|
prasannavadanaṃ dhyāyet sarvavighnopaśāntaye||

bhādrapada-śukla-pañcamyāṃ madhyāhnavyāpinyāṃ kartavyamidaṃ vratam| prātaḥ snānānantaraṃ
apāmārga-samidhā (athavā saptasaṃkhyābhiḥ) dantadhāvanaṃ kuryāt|

dantadhāvana-prārthanā

āyurbalaṃ yaśo varcaḥ prajāḥ paśuvasūni ca|
brahma prajñāṃ ca medhāṃ ca tvanno dehi vanaspate||
mukhadurgandhanāśāya dantānāṃ ca viśuddhaye|
ṣṭhīvanāya ca gātrāṇāṃ kurve'haṃ dantadhāvanam||

anena dantān saṃśodhya mṛtsnāpūrvakaṃ snāyāt| rajasvalā-doṣa-nivṛttyarthaṃ raktavastradānaṃ
kuryāt| tataḥ pañcagavya-sammelanaṃ kṛtvā pratimāṃ śodhayet|

pañcagavya-mantrāḥ

gāyatryā gomūtram, "gandhadvārā"miti gomayam, "āpyāyasve"ti kṣīram,
"dadhikrāvṇo" iti dadhi, "śukramasī"tyājyam, "devasya tve"ti kuśodakam — ebhiḥ
darbhaiḥ praṇavenāloḍya, praṇavenābhimantrya pañcagavyena pratimāśuddhiṃ kṛtvā prāśayet|

yattvagasthigataṃ pāpaṃ dehe tiṣṭhati māmake|
prāśanaṃ pañcagavyasya dahatvagnirivendhanam||

gṛhaṃ gatvā gomayenopaliptāṃ raṅgavallīśobhitāṃ vediṃ sarvatobhadramaṇḍalayuktāṃ
kuryāt, avraṇaṃ sajalaṃ tāmraṃ vā mṛṇmayaṃ kumbhaṃ vastrasaṃyuktaṃ
pañcaratnaphalagandhākṣatairyutaṃ sahiraṇyaṃ saṃsthāpya, kaṇṭhe veṣṭitaṃ vastreṇācchādya,
aṣṭadalaṃ tatra likhitvā tasmin sapta ṛṣīn divyān bhaktiyuktaḥ prapūjayet|

saṅkalpaḥ

mamopātta-samasta-durita-kṣayadvārā śrī-parameśvara-prītyarthaṃ śubhe śobhane muhūrte adya brahmaṇaḥ
dvitīyaparārdhe śvetavarāhakalpe vaivasvatamanvantare aṣṭāviṃśatitame kaliyuge prathame pāde
jambūdvīpe bhāratavarṣe bharatakhaṇḍe meroḥ dakṣiṇe pārśve śakābde asmin vartamāne vyāvahārikāṇāṃ
prabhavādīnāṃ ṣaṣṭyāḥ saṃvatsarāṇāṃ madhye ( ) nāma saṃvatsare dakṣiṇāyane
varṣa-ṛtau bhādrapada-māse śuklapakṣe pañcamyāṃ śubhatithau ( ) vāsarayuktāyāṃ madhyāhnavyāpinyāṃ
( ) nakṣatra ( )-yoga ( )-karaṇa-yuktāyāṃ ca evaṃ guṇa viśeṣaṇa viśiṣṭāyām
asyām pañcamyāṃ śubhatithau
mama ihajanmani janmāntare ca strī-janma-prādurbhāva-sambhūta-rajodarśanādārabhya rajonivṛttiparyantaṃ
madhyavartini kāle ṛtumatyāṃ satyāṃ jñānataḥ ajñānataśca ācarita-sakala-pratibandhaka-doṣa-nivṛttyarthaṃ
mama ihajanmani pūrvajanmani janmāntare ca sampāditānāṃ jñānājñānakṛtamahāpātakacatuṣṭaya-vyatiriktānāṃ
rahasyakṛtānāṃ prakāśakṛtānāṃ sarveṣāṃ pāpānāṃ sadya apanodanadvārā sakala-pāpakṣayārthaṃ
saubhāgya-santāna-saukhya-āyurārogya-siddhyartham arundhatī-sahita-kaśyapādi-saptarṣi-prasādasiddhyarthaṃ
yathāśakti-dhyānāvāhanādiṣoḍaśopacāraiḥ arundhatī-sahita-kaśyapādi-saptarṣi-pūjāṃ kariṣye| tadaṅgaṃ kalaśapūjāṃ ca kariṣye|
śrīvighneśvarāya namaḥ yathāsthānaṃ pratiṣṭhāpayāmi| śobhanārthe kṣemāya punarāgamanāya ca|
(gaṇapati-prasādaṃ śirasā gṛhītvā)

āsana-pūjā

pṛthivyā merupṛṣṭha ṛṣiḥ| sutalaṃ chandaḥ| kūrmo devatā||

pṛthvi tvayā dhṛtā lokā devi tvaṃ viṣṇunā dhṛtā|
tvaṃ ca dhāraya māṃ devi pavitraṃ cāsanaṃ kuru||

ghaṇṭā-pūjā

āgamārthaṃ tu devānāṃ gamanārthaṃ tu rakṣasām|
ghaṇṭāravaṃ karomyādau devatā''hvānakāraṇam||

kalaśa-pūjā

kalaśāya namaḥ divyagandhān dhārayāmi|

gaṅge ca yamune caiva godāvari sarasvati|
narmade sindhukāveri jale'smin sannidhiṃ kuru||

śrī- gaṅgāyai namaḥ| śrī- yamunāyai namaḥ| śrī- godāvaryai namaḥ| śrī- sarasvatyai namaḥ| śrī- narmadāyai namaḥ| śrī- sindhave namaḥ| śrī- kāveryai namaḥ|
saptakoṭimahātīrthānyāvāhayāmi|
(atha kalaśaṃ spṛṣṭvā japaṃ kuryāt)

kalaśasya mukhe viṣṇuḥ kaṇṭhe rudraḥ samāśritaḥ|
mūle tatra sthito brahmā madhye mātṛgaṇāḥ smṛtāḥ||
kukṣau tu sāgarāḥ sarve saptadvīpā vasundharā|
ṛgvedo'tha yajurvedaḥ sāmavedo'pyatharvaṇaḥ|
aṅgaiśca sahitāḥ sarve kalaśāmbusamāśritāḥ||
sarve samudrāḥ saritaḥ tīrthāni ca hradā nadāḥ|
āyāntu ṛṣipūjārthaṃ duritakṣayakārakāḥ||

(iti kalaśajalena sarvopakaraṇāni ātmānaṃ ca prokṣya|)

ātma-pūjā

ātmane namaḥ, divyagandhān dhārayāmi|

1. ātmane namaḥ
2. antarātmane namaḥ
3. yogātmane namaḥ
4. jīvātmane namaḥ
5. paramātmane namaḥ
6. jñānātmane namaḥ

samastopacārān samarpayāmi|

deho devālayaḥ prokto jīvo devaḥ sanātanaḥ|
tyajedajñānanirmālyaṃ so'haṃ bhāvena pūjayet||

pīṭha-pūjā

ādhāraśaktyai namaḥ
mūlaprakṛtyai namaḥ
ādikūrmāya namaḥ
ādivarāhāya namaḥ
anantāya namaḥ
pṛthivyai namaḥ
ratnamaṇḍapāya namaḥ
ratnavedikāyai namaḥ
svarṇastambhāya namaḥ
śvetacchattrāya namaḥ
kalpakavṛkṣāya namaḥ
kṣīrasamudrāya namaḥ
sitacāmarābhyāṃ namaḥ
yogapīṭhāsanāya namaḥ

guru-dhyānam

gururbrahmā gururviṣṇurgururdevo maheśvaraḥ|
guruḥ sākṣāt paraṃ brahma tasmai śrī-gurave namaḥ||

pratyeka-ṛṣi-pūjā

vratārambhe ācārya-ṛtvigvaraṇaṃ kṛtvā, kumbheṣu varuṇamāvāhya, tadupari pratimāsu
kaśyapādīn āvāhayet| ādau pratyekam ekaikaṃ ṛṣiṃ sampūjya, tataḥ samayā sarvān ṛṣīn pūjayet|

1. kaśyapa-pūjā

jaṭilaṃ bhasmadigdhāṅgaṃ sākṣasūtrakamaṇḍalum|
valkalājinakaupīnaṃ sātapatraṃ sadaṇḍakam||

aditi-sahitaṃ kaśyapaṃ dhyāyāmi|
ṛṣermantrakṛtāmityasya mantrasya kaśyapa ṛṣiḥ| kaśyapo devatā| paṅktiśchandaḥ|
kaśyapāvāhane viniyogaḥ|

ṛṣermantrakṛtāṃ stomaiḥ kaśyapodvardhayan giraḥ|
somaṃ namasya rājānaṃ yo jajñe vīrudhāṃ patiḥ||

aditi-sahitaṃ kaśyapam āvāhayāmi|
kaśyapāya āsanam| marīciputrāya pādyam| sūryajanakāya arghyam| indratātāya
ācamanīyam| vāmanagurave madhuparkam| aditibhartre pañcāmṛtasnānam| brahmanetrāya
śuddhodakasnānam| devapriyāya vastradvayam| suvarcase yajñopavītam| viśālākṣāya
ābharaṇāni| sarvavide gandham| mahate akṣatān — iti krameṇa samarpayāmi|
kaśyapāya namaḥ; vāmanagurave namaḥ; viśālākṣāya namaḥ; marīciputrāya namaḥ; aditibhartre namaḥ; sarvavide namaḥ; kavijanakāya namaḥ; devapriyāya namaḥ; mahate namaḥ; indratātāya namaḥ; suvarcase namaḥ; vimalāya namaḥ|
iti puṣpāṇi samarpayāmi| dhīmate dhūpam| akalmaṣāya dīpam| sumanorathāya
naivedyam| jaṭine tāmbūlam| dīptatejase nīrājanam| daṇḍine mantrapuṣpāṇi samarpayāmi|

2. atri-pūjā

marīcitanayaṃ devaṃ sākṣasūtrakamaṇḍalum|
anasūyāpatiṃ śāntam atriṃ niṣkalmaṣaṃ munim||

anasūyā-sametam atriṃ dhyāyāmi|
svarbhānorityasya mantrasya marīciputro'triḥ ṛṣiḥ| atrirdevatā| triṣṭup chandaḥ|
atryāvāhane viniyogaḥ|

svarbhāno ratha yadindramāyā āvodivā vartamānā āvāhan|
gūḻhaṃ sūryaṃ tamasāpavṛtena turīyeṇa brahmaṇā vindadatriḥ||

anasūyā-sametam atrim āvāhayāmi|
atraye āsanam| dhīmate pādyam| yogīndrāya arghyam| dattātreyapriyāya ācamanīyam|
candratātāya madhuparkam| anasūyāpataye pañcāmṛtam| nityaśuddhāya śuddhodakam|
valkaladhāriṇe vastram| brahmiṣṭhāya yajñopavītam| dīptāya ābharaṇam| daṇḍadhāriṇe
gandham| trimūrtijanakāya akṣatān — iti krameṇa samarpayāmi|
atraye namaḥ; dhīmate namaḥ; yogīndrāya namaḥ; dattātreyapriyāya namaḥ; trimūrtijanakāya namaḥ; candratātāya namaḥ; dyutimate namaḥ; marīciputrāya namaḥ|
iti puṣpāṇi samarpayāmi| sugandhadehāya dhūpam| dyutimate dīpam|
nityatṛptāya naivedyam| virāgiṇe tāmbūlam| arciṣmate nīrājanam| bhrājiṣṇave
mantrapuṣpam| saṃyamine pradakṣiṇam| damine namaskārān| kalmaṣaghnāya punararghyaṃ
samarpayāmi| atraye sarvopacārān samarpayāmi|

3. bharadvāja-pūjā

bharadvājaṃ mahāśāntaṃ suśīlāpatim ūrjitam|
akṣasraggandhahastaṃ ca munim āṅgirasaṃ bhaje||

suśīlā-sahitaṃ bharadvājaṃ dhyāyāmi|
avindannityasya mantrasya saujjiko bhāradvāja ṛṣiḥ| bharadvājo devatā| triṣṭupchandaḥ|
bharadvājāvāhane viniyogaḥ|

avindateti hi hitaṃ yadāsīdyajñasya dhāma paramaṃ guhā yat|
dhāturdyutānātsavituśca viṣṇorbharadvājo bṛhadācakre agneḥ||

suśīlā-sahitaṃ bharadvājam āvāhayāmi|
bharadvājāya āsanam| bhrājiṣṇave pādyam| viduṣe arghyam| akalmaṣāya ācamanīyam|
valkaladhāriṇe madhuparkam| pavitradehāya pañcāmṛtasnānam| pariśuddhāya
śuddhodakasnānam| jñānine vastram| munaye yajñopavītam| brahmacāriṇe ābharaṇāni|
trikālajñānine gandham| munaye akṣatān — iti krameṇa samarpayāmi|
bharadvājāya namaḥ; valkaladhāriṇe namaḥ; munaye namaḥ; bhrājiṣṇave namaḥ; pavitradehāya namaḥ; brahmacāriṇe namaḥ; viduṣe namaḥ; pariśuddhāya namaḥ; trikālajñāya namaḥ; akalmaṣāya namaḥ; jñānine namaḥ; suprasiddhāya namaḥ|
iti puṣpāṇi samarpayāmi| sunāsikāya dhūpam| jñānine dīpam|
avāptasakalakāmāya naivedyam| sumanaskāya tāmbūlam| tejase nīrājanam| bhrājiṣṇave
mantrapuṣpam| jitakrodhāya ātmapradakṣiṇam| avandine namaskārān| mumukṣave
punararghyam| bharadvājāya sarvopacārān samarpayāmi|

4. viśvāmitra-pūjā

hiraṇyagarbhasambhūtaṃ jaṭāmakuṭadhāriṇam|
kumudvatīpatiṃ śāntaṃ viśvāmitramahaṃ bhaje||

kumudvatī-sahitaṃ viśvāmitraṃ dhyāyāmi|
ime bhojā ityasya mantrasya pragātho viśvāmitraḥ ṛṣiḥ| triṣṭupchandaḥ| gādhiputro
viśvāmitro devatā| viśvāmitrāvāhane viniyogaḥ|

ime bhojā aṅgiraso virūpā divasputrāso asurasya vīrāḥ|
viśvāmitrāya dadato maghāni sapta pratiranto na āyuḥ||

kumudvatī-sahitaṃ viśvāmitram āvāhayāmi|
viśvāmitrāya āsanam| dagdhakalmaṣāya pādyam| śuddhabuddhaye arghyam| ugratapase
ācamanīyam| avyagrāya madhuparkam| daṇḍapāṇaye pañcāmṛtam| kamaṇḍaludharāya
śuddhodakam| ajināmbarāya vastram| tejasvine yajñopavītam| ramyāya ābharaṇāni|
kuśikapautrāya gandham| varadāya akṣatān — iti krameṇa samarpayāmi|
mumukṣave namaḥ; gāyatrīpriyāya namaḥ; vedaśāstrārthatattvajñāya namaḥ; vīrāya namaḥ; amāyine namaḥ; brahmarṣaye namaḥ; dagdhakalmaṣāya namaḥ; anaghatejase namaḥ; buddhipradāya namaḥ; ugratapase namaḥ; avyagrāya namaḥ; daṇḍapāṇaye namaḥ; kamaṇḍaludharāya namaḥ; ajināmbarāya namaḥ; tejasvine namaḥ; ramyāya namaḥ; kuśikapautrāya namaḥ; varadāya namaḥ; gādhitanūbhavāya namaḥ|
iti puṣpāṇi samarpayāmi| kamaṇḍaludharāya dhūpam| tejase dīpam| ramyāya
naivedyam| kauśikāya tāmbūlam| varadāya nīrājanam| gādhitanayāya mantrapuṣpam|
rudrapriyāya pradakṣiṇam| gāyatrījapānandāya namaskārān| vedaśāstrārthatattvajñāya
punararghyam| viśvāmitrāya sarvopacārān samarpayāmi|

5. gautama-pūjā

rahūgaṇātmajaṃ śāntaṃ tripuṇḍrāṅkitamastakam|
akṣasrakkuṇḍale daṇḍān dadhānaṃ gautamaṃ bhaje||

ahalyā-sahitaṃ gautamaṃ dhyāyāmi|
abhitvā gautama ityasya mantrasya gautamaḥ ṛṣiḥ| gāyatrīchandaḥ| gautamo devatā|
gautamāvāhane viniyogaḥ|

abhi tvā gautamā girā jātavedo vicarṣaṇe|
dyumnairabhi pra ṇonumaḥ||

ahalyā-patiṃ gautamam āvāhayāmi|
gautamāya āsanam| bhasmoddhūlitavigrahāya pādyam| rudrākṣamāline arghyam|
rudrapriyāya ācamanīyam| devapūjāniratāya madhuparkam| ahalyāpataye pañcāmṛtam|
dhvastapāpāya śuddhodakasnānam| kamaṇḍaludharāya vastram| suvarcase yajñopavītam|
niṣkalmaṣāya ābharaṇāni| nirupadravāya gandham| nirahaṅkārāya akṣatān — iti
krameṇa samarpayāmi|
gautamāya namaḥ; dhvastapāpāya namaḥ; bhasmoddhūlitavigrahāya namaḥ; kamaṇḍaludharāya namaḥ; nirahaṅkārāya namaḥ; valkalāmbarāya namaḥ; nityatṛptāya namaḥ; śivaliṅgārcakāya namaḥ; niṣkalmaṣāya namaḥ; nirmohāya namaḥ; nirupadravāya namaḥ; rudrākṣamāline namaḥ; suvarcase namaḥ; ahalyāpataye namaḥ|
iti puṣpāṇi samarpayāmi| vimalāya dhūpam| dyutimate dīpam| nityatṛptāya
naivedyam| akleśāya tāmbūlam| varadāya nīrājanam| jaṭine mantrapuṣpam| saṃyamine
pradakṣiṇam| mumukṣave namaskārān| gautamāya punararghyaṃ sarvopacārān ca samarpayāmi|

6. jamadagni-pūjā

śāntaṃ jitāriṣaḍvargaṃ bhṛguputraṃ mahādyutim|
daṇḍākṣasūtrapāṇiṃ ca jamadagniṃ namāmyaham||

reṇukā-sahitaṃ jamadagniṃ dhyāyāmi|
prasūto bhakṣamityasya mantrasya pragātho jamadagniḥ ṛṣiḥ| jagatīchandaḥ| jamadagnirdevatā|
jamadagnyāvāhane viniyogaḥ|

prasūto bhakṣaṃ karāmaḥ stomaṃ cemaṃ prathamaḥ sūrirunmṛje|
sute sātena yadyagāmaṃ vāṃ prati viśvāmitra jamadagnīdame||

reṇukāpatiṃ jamadagnim āvāhayāmi|
jamadagnaye āsanam| nirmadāya pādyam| vītarāgāya arghyam| kāntimate ācamanīyam|
śāntāya madhuparkam| dāntāya pañcāmṛtam| śucaye śuddhodakam| rāmapriyāya vastram|
akāmāya yajñopavītam| bhaktapriyāya ābharaṇāni| daṇḍine gandham| caṇḍāya akṣatān
— iti krameṇa samarpayāmi|
jamadagnaye namaḥ; kamaṇḍaludharāya namaḥ; iṣṭāya namaḥ; sākṣasraje namaḥ; vimalāya namaḥ; puṣṭāya namaḥ; dayālave namaḥ; kalmaṣāpaharāya namaḥ; tuṣṭāya namaḥ; doṣavarjitāya namaḥ; iṣṭapradāya namaḥ; tvagambarāya namaḥ|
iti puṣpāṇi samarpayāmi| doṣavarjitāya dhūpam| jñānine dīpam| vimalāya
naivedyam| kalmaṣāpaharāya tāmbūlam| iṣṭapradāya nīrājanam| śiṣṭāya mantrapuṣpam|
śreṣṭhāya pradakṣiṇam| puṣṭāya namaskārān| viśiṣṭāya punararghyam| jamadagnaye
sarvopacārapūjāṃ samarpayāmi|

7. vasiṣṭha-pūjā

taponidhiṃ dayāsindhuṃ brahmaṇyaṃ brahmasambhavam|
sraggandhapāṇiṃ varadaṃ vasiṣṭhaṃ praṇamāmyaham||

arundhatī-sahitaṃ vasiṣṭhaṃ dhyāyāmi|
śvityañcomā ityasya mantrasya maitrāvaruṇo vasiṣṭhaḥ ṛṣiḥ| triṣṭupchandaḥ| vasiṣṭho
devatā| vasiṣṭhāvāhane viniyogaḥ|

śvityañco mā dakṣiṇataskapardā dhiyaṃ jinvāso abhi hi pra manduḥ|
uttiṣṭhanvo vṛṣaṇo yudhyamānā namedūrādavitave vasiṣṭhāḥ||

arundhatīpatiṃ vasiṣṭham āvāhayāmi|
vasiṣṭhāya āsanam| variṣṭhāya pādyam| gariṣṭhāya arghyam| dharmiṣṭhāya ācamanīyam|
arundhatīpataye madhuparkam| dīptimate pañcāmṛtasnānam| trikālajñāya
śuddhodakasnānam| yogine vastram| rāmapriyāya yajñopavītam|
śaraṇāgatavatsalāya ābharaṇam| manorathaphalapradāya akṣatān — iti krameṇa samarpayāmi|
vasiṣṭhāya namaḥ; arundhatīpataye namaḥ; rāmapriyāya namaḥ; variṣṭhāya namaḥ; dīptimate namaḥ; śaraṇāgatavatsalāya namaḥ; gariṣṭhāya namaḥ; trikālajñāya namaḥ; manorathaphalapradāya namaḥ; dharmiṣṭhāya namaḥ; yogine namaḥ; bhaktābhīṣṭapradāya namaḥ|
iti puṣpāṇi samarpayāmi| niṣkalmaṣāya dhūpam| maitrāvaruṇāya dīpam|
brahmacāriṇe naivedyam| virāgiṇe tāmbūlam| jñānine nīrājanam| jaṭine punararghyam|
vedavide mantrapuṣpam| dāntāya pradakṣiṇam| śāntāya namaskārān| brahmiṣṭhāya
punararghyam| vasiṣṭhāya sarvopacārapūjāḥ samarpayāmi|

8. agastya-pūjā

lopāmudrāpatiṃ devam agastyam ṛṣisattamam|
dakṣiṇāśāpatiṃ rāmatārakapriyam ūrjitam||

lopāmudrā-sametam agastyaṃ dhyāyāmi|
agastyaḥ khanamāna ityasya mantrasya agastyaḥ ṛṣiḥ| triṣṭupchandaḥ| agastyo devatā|
agastyāvāhane viniyogaḥ|

agastyaḥ khanamānaḥ khanitrairubhe varṇāvṛṣirugraḥ pupoṣa|
satyā deveṣvāśiṣo jagāma svāditsaṃgṛbhṇa ubhayā~ amene||

lopāmudrā-sametam agastyam āvāhayāmi|
lopāmudrāpataye āsanam| ātmavate arghyam| icchāpūrtaye pādyam|
īṣaṇātrayavarjitāya ācamanīyam| uttamāya madhuparkam| ūrjitatapase
pañcāmṛtasnānam| ṛgyajussāmapāragāya śuddhodakasnānam| ṛṇamocanāya vastram|
luptapāpāya yajñopavītam| oṅkārapriyāya ābharaṇāni| udārāya akṣatān — iti
krameṇa samarpayāmi|
agastyāya namaḥ; sākṣiṇe namaḥ; lokapūjitāya namaḥ; sanātanāya namaḥ; tārāya namaḥ; tāpasapriyāya namaḥ; lopāmudrāpataye namaḥ; rāmapriyāya namaḥ; vindhyagurave namaḥ; kumbhasambhavāya namaḥ; rañjitatapase namaḥ; vītarāgāya namaḥ; samudrapāyine namaḥ; tārakāya namaḥ; viṣṇuratāya namaḥ; viśvātmane namaḥ|
iti puṣpāṇi samarpayāmi| gandhajñāya dhūpam| jyotiṣmate dīpaṃ darśayāmi|
sāragrāhiṇe naivedyam| śucaye tāmbūlam| prakāśarūpāya nīrājanam| dhanadāya dakṣiṇām|
suvarcase mantrapuṣpam| surendravanditāya pradakṣiṇam| ṛṣivaryāya namaskārān|
prasannāya punararghyam| śrī-agastyāya sarvopacārapūjāḥ samarpayāmi|
(agastyaḥ ṛṣipañcamīvratasya mūla-saptarṣi-saptakayoḥ antargato na bhavati; atra
ātithyena pūjyate|)

9. arundhatī-pūjā

arundhatyai dhyānam| vasiṣṭhapatnyai āvāhanam| satyai āsanam| pativratāyai pādyam|
saumaṅgalyahetave arghyam| tapasvinyai ācamanīyam| munidharmapravartinyai madhuparkam|
nityanirmalāyai snānam| māninyai vastram| gopyai kañcukam| dharmaratāyai gandham|
akṣatavratāyai akṣatān| sumaṅgalyai haridrācūrṇam| vasiṣṭhapriyāyai kuṅkumam|
suguṇojjvalāyai ābharaṇāni| pāvanyai puṣpāṇi — iti krameṇa samarpayāmi|
havirgandhapriyāyai dhūpam| jyotirmayāyai dīpam| dharmabrahmānandavatyai naivedyam|
sarvabhūtānurāgiṇyai tāmbūlam| ṛtudakṣiṇāyai dakṣiṇām| ṛṣipatnīsamāśritāyai
nīrājanam| mantrajñāyai mantrapuṣpam| śiṃśumāragatyai pradakṣiṇam|
sarvalokanamaskṛtāyai namaskārān| vasiṣṭhakuṭumbinyai punararghyaṃ samarpayāmi|

smṛtimātreṇa bhaktānāṃ sarvapāpavinodini|
sūkṣmātsūkṣmatare mātardarśanātpuṇyadāyini||
pativratāgragaṇye tvaṃ saumaṅgalyasukhaprade|
arundhati mahādevi brahmaśakte cirantani||
jaya tvaṃ nityakalyāṇi vasiṣṭhaikakuṭumbini|
pāvanatvaṃ ca saubhāgyaṃ sukhaṃ śāśvatameva ca||
mahādevi jagadvandye vratasampūrṇatāṃ kuru|

sāmūhika saptarṣi-arundhatī-pūjā

āgacchantu mahābhāgāścaturvedaparāyaṇāḥ|
yāvadvratamidaṃ kurve kṛpayā bhavatāmaham||

arundhatī-sahita-kaśyapādi-saptarṣīn āvāhayāmi| prāṇapratiṣṭhāṃ kuryāt|

ṛgyajussāmavedānāṃ svarūpebhyo namo namaḥ|
purāṇapuruṣebhyo hi devarṣibhyo namo namaḥ||

arundhatīsahita-kaśyapādi-saptarṣibhyo namaḥ āsanaṃ samarpayāmi|

gandhapuṣpākṣatairyuktaṃ pādyaṃ gṛhṇantu vai dvijāḥ|
prasādaṃ kurvatāṃ prītāstuṣṭāssantu sadā mama||

...bhyo namaḥ pādyaṃ samarpayāmi|

nabhasye śuklapañcamyāmarcitā ṛṣisattamāḥ|
dahantu pāpaṃ me sarve gṛhṇantvarghyaṃ namo namaḥ||

...bhyo namaḥ arghyaṃ samarpayāmi|

lokānāṃ tuṣṭikartāro yūyaṃ sarve tapodhanāḥ|
namo vo dharmavijñebhyo maharṣibhyo namo namaḥ||

...bhyo namaḥ ācamanīyaṃ samarpayāmi|

payo dadhi ghṛtaṃ caiva śarkarāmadhusaṃyutam|
pañcāmṛtena snapanaṃ karomi munisattamāḥ||

...bhyo namaḥ pañcāmṛtasnānaṃ samarpayāmi|

mandākinyāssamānītaṃ yamunāgautamījalam|
kṛṣṇā-narmadā-godābhyaḥ snānārthamāhṛtam||

...bhyo namaḥ śuddhodakasnānaṃ samarpayāmi| snānānantaram ācamanīyaṃ samarpayāmi|

sarve nityaṃ taponiṣṭhā brahmajñāssatyavādinaḥ|
vastrāṇi pratigṛhṇantu muktidāssantu me sadā||

...bhyo namaḥ vastraṃ samarpayāmi|

nānāmantraissamudbhūtaṃ trivṛtaṃ brahmasūtrakam|
pratyekaṃ ca prayacchāmi munayaḥ pratigṛhyatām||

...bhyo namaḥ upavītāni samarpayāmi|

kuṅkumāgarukarpūrasugandhairmiśritaṃ śubham|
gandhāḍhyaṃ candanaṃ divyaṃ gṛhṇantu munisattamāḥ||

...bhyo namaḥ gandhaṃ samarpayāmi|

śubhrākṣatāśca sampūrṇāḥ prakṣālya ca niyojitāḥ|
śobhāyai vo mayā dattā gṛhyantāṃ munisattamāḥ||

...bhyo namaḥ akṣatān samarpayāmi|

mālatīcampakāmallīketakyādīni vai dvijāḥ|
samarpayāmi puṣpāṇi pūjārthaṃ vaḥ padāmbuje||

...bhyo namaḥ puṣpamālāṃ samarpayāmi|

aṅga-pūjā

1.tīrthapādebhyopādau
2.sarvabhūtahitebhyogulphau
3.vimalacaritrebhyojaṅghe
4.sarvalokahitebhyoūrū
5.ajinadhāribhyokaṭiṃ
6.jitendriyebhyoguhyam
7.yogīśvarebhyonābhim
8.parārthaikaprayojanebhyopārśve
9.sarvaśāstraviśāradebhyoudaram
10.paropakāribhyohṛdayam
11.rudrākṣadhāribhyokaṇṭham
12.sarvāmaravanditebhyonāsikām
13.śrutipāragebhyośrotre
14.tattvavidyāviśāradebhyolalāṭam
15.jaṭāmaṇḍalamaṇḍitebhyośiraḥ
16.saptarṣibhyosarvāṇyaṅgāni

ṛṣi-aṣṭottaraśata-nāmāvaliḥ

(pratināma "namaḥ" iti anusandheyam)

brahmarṣibhyo
adhvaryubhyo
vedavidbhyo
yajvabhyo
tapasvibhyo
yajñadīkṣitebhyo
svarūpasukhibhyo
pravṛttidharmapālakebhyo
nivṛttidharmadarśakebhyo
mahātmabhyo
pūtebhyo
bhagavatprasādibhyo
mānyebhyo
purātanebhyo
devagurubhyo
brahmacaryaratebhyo
sṛṣṭikartṛbhyo
lokagurubhyo
siddhebhyo
sthitikartṛbhyo
sarvavandyebhyo
karmaṭhebhyo
layakartṛbhyo
sarvapūjyebhyo
yogibhyo
japakartṛbhyo
gṛhibhyo
agnihotraparāyaṇebhyo
hotṛbhyo
sūtrakṛdbhyo
satyavratebhyo
prastotṛbhyo
bhāṣyakṛdbhyo
dharmātmabhyo
pratihartṛbhyo
mahimasiddhebhyo
udgātṛbhyo
jñānasiddhebhyo
brahmaṇyebhyo
dharmapravartakebhyo
nirduṣṭebhyo
brahmāstravidbhyo
ācārapravartakebhyo
śamadhanebhyo
brahmadaṇḍadharebhyo
sampradāyapravartakebhyo
tapodhanebhyo
brahmaśīrṣavidbhyo
anuśāsitṛbhyo
śāpaśaktebhyo
gāyatrīsiddhebhyo
vedavedāntapāragebhyo
mantramūrtibhyo
sāvitrīsiddhebhyo
vedāṅgapracārakebhyo
aṣṭāṅgayogebhyo
sarasvatīsiddhebhyo
lokaśikṣakebhyo
aṇimādisiddhebhyo
yajamānebhyo
śāpānugrahaśaktebhyo
jīvanmuktebhyo
yājakebhyo
svatantraśaktibhyo
śivapūjāratebhyo
ṛtvigbhyo
svādhīnacittebhyo
jitendriyebhyo
śāntebhyo
dāntebhyo
śuddhebhyo
munimukhyebhyo
rudrākṣadhāribhyo
sumukhyebhyo
valkalājinadhāribhyo
jaṭilebhyo
titikṣubhyo
āstikebhyo
kamaṇḍaludhāribhyo
uparatebhyo
viprebhyo
sapatnīkebhyo
śraddhālubhyo
sāṅgebhyo
dvijebhyo
viṣṇubhaktebhyo
brāhmaṇebhyo
vedavedyebhyo
vivekibhyo
upavītibhyo
smṛtikartṛbhyo
vijñebhyo
medhāvibhyo
brahmiṣṭhebhyo
pavitrapāṇibhyo
mantrakṛdbhyo
dīnabandhubhyo
brahmaniṣṭhebhyo
saṃskṛtebhyo
bhagavadbhyo
satkṛtebhyo
bhasmadhāribhyo
sukṛtibhyo
śrīkaśyapādisaptamaharṣibhyo
arundhatyādisaptarṣipatnībhyo

...bhyo namaḥ nānāvidhaparimalapatrapuṣpāṇi samarpayāmi|

vanaspatirasodbhūto gandhāḍhyassumanoharaḥ|
ātreyassarvadevānāṃ dhūpo'yaṃ pratigṛhyatām||

...bhyo namaḥ dhūpamāghrāpayāmi|

sājyaṃ trivartisaṃyuktaṃ vahninā yojitaṃ mayā|
gṛhāṇa maṅgalaṃ dīpaṃ trailokyatimirāpaham||

...bhyo namaḥ alaṅkāradīpaṃ sandarśayāmi|

nānāpakvānnasaṃyuktaṃ rasaissaptabhissamanvitam|
gṛhṇantu munayassarve naivedyaṃ vasudāyakāḥ||

...bhyo namaḥ naivedyaṃ nivedayāmi|
amṛtāpidhānamasi| nivedanānantaram ācamanīyaṃ samarpayāmi|

rasālajambūdrākṣekṣukapitthakadalīphalam|
kharjūrapanasādīni nālikeraphalāni ca||

...bhyo namaḥ nānāvidhaphalāni samarpayāmi| tāmbūlaṃ samarpayāmi|

nīrājanaṃ muniśreṣṭhāḥ koṭisūryasamaprabhāḥ|
ahaṃ bhaktyā pradāsyāmi svīkurudhvam ṛṣīśvarāḥ||

...bhyo namaḥ karpūranīrājanaṃ darśayāmi| nīrājanānantaram ācamanīyaṃ samarpayāmi|

yāni kāni ca pāpāni brahmahatyāsamāni ca|
tāni tāni vinaśyanti pradakṣiṇapade pade||

...bhyo namaḥ pradakṣiṇāni samarpayāmi|

namo maharṣivṛndebhyo devarṣibhyo namo namaḥ|
sarvapāpaharebhyo'stu vedavidbhyo namo namaḥ||

...bhyo namaḥ namaskārān samarpayāmi|

sākṣasūtrāśca munayassarve valkaladhāriṇaḥ|
mantrapuṣpaṃ pradāsyāmi svīkurudhvaṃ munīśvarāḥ||

...bhyo namaḥ mantrapuṣpaṃ samarpayāmi| suvarṇapuṣpaṃ samarpayāmi|

prārthanā

ete saptarṣayassarve bhaktyā sampūjitā mayā|
sarve pāpaṃ vyapohantu jñānato'jñānataḥ kṛtam||

prārthanāḥ samarpayāmi|

arghyam

mamopātta-samasta-durita-kṣayadvārā arundhatī-sahita-kaśyapādi-saptarṣi-prītyarthaṃ
ṛṣipūjānte kṣīrārghyapradānam upāyanadānaṃ ca kariṣye||

prasannahṛdayāśśāntā jaṭāmaṇḍalamaṇḍitāḥ|
bhaktyā cārghyaṃ mayā dattaṃ svīkurvantu munīśvarāḥ||1||

arundhatī-sahita-kaśyapādi-saptarṣibhyo namaḥ idamarghyam| (triḥ)

jitakāmādyaricayāśśamādiguṇabhūṣitāḥ|
idamarghyaṃ pradāsyāmi prasannāssantu me sadā||2||

idamarghyam| (triḥ)

ṛṣayo jñānasaṃsiddhā brahmiṣṭhā brahmavādinaḥ|
idamarghyaṃ pradāsyāmi matpāpaśamanāya ca||3||

idamarghyam| (triḥ)

brahmadaṇḍadharāśśāntāḥ karmaṭhā vītakalmaṣāḥ|
matpāpaparihārārtham idamarghyaṃ munīśvarāḥ||4||

idamarghyam| (triḥ)
anena arghyapradānena bhagavantassarvātmakāḥ arundhatī-sahita-kaśyapādi-saptarṣayaḥ prīyantām|

upāyana-dānam

sapātraṃ phalasaṃyuktaṃ saghṛtaṃ dakṣiṇānvitam|
upāyanaṃ pradāsyāmi vratasampūrtihetave||
bhavantaḥ pratigṛhṇantu tejorūpāstapodhanāḥ|
ṛṣayastārakāssantūpāyanasya pradānataḥ||

iti upāyanadānaṃ kṛtvā|

nyūnātiriktakarmāṇi mayā yāni kṛtāni ca|
kṣamadhvaṃ tāni sarvāṇi yūyaṃ sarve tapodhanāḥ||

iti ṛṣipūjāvidhiḥ sampūrṇaḥ||

udyāpana-vidhiḥ

evaṃ pratiyāmaṃ (prativarṣaṃ) pūjāṃ kṛtvā upāyanāni dattvā kathāṃ ca śrutvā, saptame
varṣe tataḥ paredyuḥ nityakarma samāpya ṛṣipañcamīvratodyāpanahomaṃ kariṣya iti saṅkalpya
svagṛhyoktavidhānena agnimukhāntaṃ kṛtvā "sahasromā" iti mantreṇa pāyasānnaṃ
samidājyaiḥ aṣṭottaraśatasaṃkhyayā aṣṭāviṃśatyā vā juhuyāt| tataḥ sviṣṭakṛdādi-homaśeṣaṃ
samāpayet| punaḥ pūjāṃ kariṣya iti saṅkalpya āsanādi-ṣoḍaśopacārapūjāṃ kṛtvā,
"yajñena yajñam" iti mantreṇa ṛṣīn udvāsya, "tattvāyāmi" iti varuṇam udvāsya,
kumbhajalena "devasya tvā" iti mantreṇa tripada-gāyatryā vyāhṛtibhiśca yajamānaṃ
parivāraṃ ca prokṣayet, kumbhajalena yajamānam abhiṣicya, dhautavastra-puṇḍradhāraṇāni kṛtvā
tīrthaṃ prāśya, kalaśa-vastra-pratimādānāni kariṣya iti saṅkalpya,

dāna-mantraḥ

pratimāṃ vastrasaṃyuktāṃ kumbhopakaraṇairyutām|
tubhyaṃ dāsyāmi viprendra yathoktaphalado bhava||

imāṃ kaśyapa-pratimāṃ sadakṣiṇāṃ satāmbūlāṃ kaśyapa-prītiṃ kāmayamānaḥ tubhyam ahaṃ
sampradade| evaṃ kramaśaḥ atri-bharadvāja-viśvāmitra-gautama-jamadagni-vasiṣṭha-arundhatī-
pratimāḥ prītiṃ kāmayamānaḥ datvā| anantaraṃ daśadāna-ṣaḍdāna-manoddiṣṭa-dānāni
svaśaktyā vistarataḥ kṛtvā, dampati-pūjanaṃ kṛtvā, brāhmaṇān bhojayitvā,
tāmbūlānantaram āśiṣaḥ prāpya, taiḥ anujñātaḥ putramitrakalatrādibhiḥ saha svayaṃ
bhuñjīta|
iti brahmāṇḍapurāṇokta-ṛṣipañcamī-vratodyāpana-vidhiḥ sampūrṇaḥ||

prārthanā

yanmayā''caritaṃ deva vratametat sudurlabham|
gaṇeśa tvaṃ prasannaḥ san saphalaṃ kuru sarvadā||

aparādha-kṣamāpanam

yasya smṛtyā ca nāmoktyā tapaḥ pūjākriyādiṣu|
nyūnaṃ sampūrṇatāṃ yāti sadyo vande gajānanam||
kāyena vācā manasendriyairvā
bud‌dhyā''tmanā vā prakṛteḥ svabhāvāt|
karomi yadyat sakalaṃ parasmai
nārāyaṇāyeti samarpayāmi||

oṃ tatsadbrahmārpaṇamastu|

ṛṣipañcamī-vrata-kathā

(mūlam—śrībhaviṣyottarapurāṇam, yathā śrīvrataratnākare saṃgṛhītam)

śrutāni devadeveśa vratāni subahūni ca|
sāmprataṃ me samācakṣva vrataṃ pāpapraṇāśanam||1||

brahmovāca

śṛṇu rājan pravakṣyāmi vratānāmuttamaṃ vratam|
ṛṣipañcamīti vikhyātaṃ sarvapāpaharaṃ param||2||
yena cīrṇena rājendra narakaṃ naiva paśyati|
atraivodāharantīmamitihāsaṃ purātanam||3||
vaidarbhe ca dvijavara udako nāma nāmataḥ|
tasya bhāryā suśīleti pativrataparāyaṇā||4||
tasyā apatyayugalaṃ putro hi suvibhīṣaṇaḥ|
adhītavān sutastasya vedān sāṅgapadakramān||5||
samānena kulīnena sutā cāpi vivāhitā|
navoḍhātve'pi sā daivādvaidhavyaṃ prāpa sattamā||6||
satītvaṃ pālayantī sā āste nijapiturgṛhe|
tasyā duḥkhena santaptassutaṃ saṃsthāpya veśmani||7||
gaṅgātīravanaṃ prāptaḥ kadācittu tayā saha|
sa tatrādhyāpayāmāsa śiṣyān vedaṃ dvijottamaḥ||8||
sutā ca kurute tasya pituśśuśrūṣaṇaṃ param|
pituśśuśrūṣaṇaṃ kṛtvā pariśrāntā kadācana||9||
niśīthe kila suptāyāṃ krimirāśirajāyata|
śiṣyāstathāvidhāṃ dṛṣṭvā vivastrāṃ prastare sthitām||10||
gatvā nivedayāmāsustanmātuḥ karuṇāṃ gatāḥ|
na jānīmo vayaṃ kiñciddevi sādhvī tathāvidhā||11||
krimirāśimayī jātā mātassamprati dṛśyate|
vajrapātasamaṃ śrutvā tacchiṣyaissamudāhṛtam||12||
sā śrāntamānasā śīghraṃ tatsamīpamupāgamat|
sutāṃ tathāvidhāṃ dṛṣṭvā vilalāpa suduḥkhitā||13||
uraśca tāḍayāmāsa sutarāṃ mohamāpa ca|
kṣaṇena prāpya caitanyamutthāpya parimṛjya ca||14||
samāliṅgya ca bāhubhyāṃ ninye tatpiturantikam|
svāmin kathaya me sādhvī kena duṣkṛtakarmaṇā||15||
niśīthe ca prasupteyaṃ jāyate krimisaṅkulā|
evaṃ śrutvā tato vākyam ṛṣirdhyānaparāyaṇaḥ||16||
jñātvā nivedayāmāsa tasyāḥ prāgjanmaceṣṭitam||17||

ṛṣiruvāca

prāṇīyaṃ saptame'tīte janmani brāhmaṇī hyabhūt|
rajasvalā ca sañjātā bhāṇḍādīnaspṛśattadā||18||
asyāstu pāpmanā tena jāyate krimivadvapuḥ|
rajasvalāyāḥ pāpena yuktā bhavati sā'naghe||19||
prathame'hani caṇḍālī dvitīye brahmaghātinī|
tṛtīye rajakī proktā caturthe'hani śuddhyati||20||
tadā tayā sakhīsaṅghātaṃ dṛṣṭvā'vamānitam|
dṛṣṭavrataprabhāveṇa jātā dvijakule'male||21||
avamānādvratasyāsya krimirāśirivādhunā|
etatte kathitaṃ sarvaṃ kāraṇaṃ duṣkṛtasya ca||22||

suśīlovāca

darśanādapi jantorasya dvijānāṃ nirmale kule|
janma yuṣmadvidhānāṃ hi jāyate brahmatejasām||23||
avajñayā prajāyante niśīthe krimirāśayaḥ|
mahāścaryaṃ kathaṃ nātha tadvrataṃ kathayasva me||24||

udaka uvāca

suśīle śṛṇu tatsamyak vrataṃ nāmottamaṃ vratam|
yena cīrṇena sahasā pāpādasmāt pramucyate||25||
duḥkhatrayācca mucyeta nārī saubhāgyamāpnuyāt|
kalyāṇāni vivardhante sampadaśca nirāpadaḥ||26||

yudhiṣṭhira uvāca

śrutāni devadeveśa vratāni subahūni ca|
sāmprataṃ tvanyadācakṣva vrataṃ pāpapraṇāśanam||27||

śrīkṛṣṇa uvāca

athānyadapi rājendra pañcamyāmṛṣipūjanam|
kathayiṣyāmi yatkṛtvā nārī pāpāt pramucyate||28||

yudhiṣṭhira uvāca

kīdṛśī pañcamī kṛṣṇa kathaṃ tadṛṣipūjanam|
pātakānmucyate kasmānnārī yadukulodbhava||29||
pāpāni ca bahūnyatra vidyante kila keśava|
kathaṃ vā ṛṣipañcamyāṃ nārī kasmāt pramucyate||30||

śrīkṛṣṇa uvāca

ajñānājjñānato vāpi yā strī jātā rajasvalā|
duṣṭā spṛśati bhāṇḍāni gṛhakarmaṇi saṃsthitā||31||
prāpnoti sā mahāpāpaṃ sarvā nā rajasvalāḥ|
śṛṇu tatkāraṇaṃ yena varjanīyā rajasvalā||32||
protsāryā gṛhato dūraṃ cāturvarṇyena bhārata|
brahmahatyāṃ purā śakro vṛtraṃ hatvā hyavāpa ca||33||
tayā vai rājaśārdūla pīḍito vṛtrasūdanaḥ|
brahmāṇaṃ samupāgacchadātmaśuddhikāraṇāt||34||
śuddhyai śakrasya rājendra prahṛṣṭenāntarātmanā|
vibhajya brahmahatyāṃ tu caturdhā sa caturmukhaḥ||35||
prākṣipadrājaśārdūla catuḥsthāneṣu vai tadā|
vahnau prathamajihvāsu nadīnāṃ prathamodake||36||
girivṛkṣādibhūmau ca nārīrajasi pārthiva|
tato rajasvalā nārī protsāryā ca prayatnataḥ||37||
brāhmaṇaśāsanātpārtha cāturvarṇyena sarvadā|
prathame'hani caṇḍālī dvitīye brahmaghātinī||38||
tṛtīye rajakī proktā caturthe'hani śuddhyati|
ajñānājjñānato vāpi jātaṃ samparkapātakam||39||
tatpāpasaṃkṣayārthaṃ vai kāryeyamṛṣipañcamī|
sarvapāpapraśamanī sarvopadravanāśinī||40||
brahmakṣatriyaviṭśūdrastrībhiḥ kāryā viśeṣataḥ||41||

kṛṣṇa uvāca

atrārthe yatpurā vṛttaṃ pravakṣyāmi kathātmakam||42||
purā kṛtayuge rājā vidarbhāṇāṃ babhūva ha|
śyenajinnāma rājarṣiścāturvarṇyānupālakaḥ||43||
tasya deśe vasanvipro vedavedāṅgapāragaḥ|
sumitro nāma viprendraḥ sarvabhūtahite rataḥ||44||
kṛṣivṛttyā sadā yuktaḥ kuṭumbaparipālakaḥ|
tasya bhāryā susādhvī ca patiśuśrūṣaṇe ratā||45||
jayaśrīrnāma vikhyātā bahubhṛtyasuhṛjjanā|
aticintānvitā sā ca prāvṛṭkāle sumadhyamā||46||
kṣetrādiṣu ratā sādhvī cākulīkṛtamānasā|
ekadā sā''tmanaḥ prāptamṛtukālaṃ vyalokayat||47||
rajasvalā'pi sā rājan gṛhakarma cakāra ha|
bhāṇḍādīnyaspṛśadrājan prāptarturapi bhāminī||48||
kālena bahunā sādhvī pañcatvamagamattadā|
tasyā bhartā'pi vipro'sau kāladharmamupeyivān||49||
evaṃ tau dampatī rājan svakarmavaśagau tadā|
bhāryā tasya jayaśrīssā ṛtusamparkadoṣataḥ||50||
śunīyonisamutpannā śunī cābhūnnareśvara|
tasyāssamparkadoṣeṇa balīvardo babhūva saḥ||51||
ṛtusamparkadoṣeṇa tiryagyonimupāgatau|
svadharmācaraṇājjātāvubhau jātismarau tadā||52||
sutasyaiva gṛhe rājan smarantau pūrvapātakam|
sumitrasya ca putro'bhūdguruśuśrūṣaṇe rataḥ||53||
sumatirnāma dharmajño devatātithipūjakaḥ|
kālakṣayāhe samprāpte pitustu sumatistadā||54||
bhāryāṃ candravatīṃ prāpya paitṛkaśraddhayā'nvitaḥ|
adya sāmvatsaradinaṃ piturme cāruhāsini||55||
bhojanīyā dvijā bhīru pākaśuddhirvidhīyatām|
tayā kṛtā pākaśuddhissumate śāsanādgṛhe||56||
muktaṃ pāyasabhāṇḍe vai sarpeṇa garalaṃ tataḥ|
dṛṣṭvā brahmavadhādbhītā śunī bhāṇḍāni sā'spṛśat||57||
dvijabhāryā ca tāṃ dṛṣṭvā ulmukena jaghāna ha|
bhāṇḍādīni ca prakṣālya tyaktvā pākaṃ sumadhyamā||58||
punaḥ pākaṃ ca kṛtvā tu śrāddhaṃ kṛtvā vidhānataḥ|
tato bhukteṣu vipreṣu nocchiṣṭaṃ ca dadau bahiḥ||59||
bhūmau kṣiptaṃ tayā śunyā upavāsastato'bhavat|
tato rātryāṃ pravṛttāyāṃ sā śunī kṣudhitā bhṛśam||60||
balīvardamupāgatya bhartāramidamabravīt||61||

śunyuvāca

bubhukṣitā gṛhe bhartarna dattaṃ bhojanādikam|
grāsādikaṃ ca na prāptaṃ kṣudhā māṃ bādhate bhṛśam||62||
anyasmin divase putro mama lehyaṃ dadātyasau|
adya mahyaṃ kimapyeṣa ucchiṣṭamapi no dadau||63||
pāyasānne papātādya garalaṃ sarpasambhavam|
mayā vicintya manasā mariṣyanti dvijottamāḥ||64||
saṃspṛṣṭaṃ pāyasaṃ gatvā tatrāhaṃ tāḍitā bhṛśam|
duḥkhitaṃ tena me gātraṃ kaṭirbhagnā karomi kim||65||

balīvarda uvāca

bhadre te pāpajaṃ phalam||66||
kiṃ karomi śakto'haṃ bhāravāho'dya susthitaḥ|
adyāhamātmajakṣetre vāhitassakalaṃ dinam||67||
māritaścātmajenāhaṃ mukhaṃ baddhvā bubhukṣitaḥ|
vṛthā śrāddhaṃ kṛtaṃ tena jātā'dya mama kaṣṭatā||68||

śrīkṛṣṇa uvāca

tayossaṃvadatoreva mātāpitrośca bhārata|
śrutvā putrastadā vākyaṃ yaduktaṃ ca tadobhayoḥ||69||
tato rajanyāṃ tatkālaṃ dadau tasyaiva bhojanam|
pitarau tau viditvā tu dattavān sumatistadā||70||
tato'sau duḥkhitaḥ putro jñātvā'vasthāṃ tadā tayoḥ|
mātāpitrostu rājendra duḥkhātmā prasthito vanam||71||
jñātumicchāmi kaṣṭaṃ vai mātāpitrośca bhārata|
tatra gatvā jñānavṛddhānṛṣīn sapta vanāśritān||72||
praṇipatyābravīdvākyaṃ hitaṃ caiva tadā tayoḥ||73||

sumatiruvāca

kathayadhvaṃ vipravaryāḥ praśnamekaṃ samāhitāḥ|
kena karmavipākena pitarau me tapodhanāḥ||74||
imāmavasthāṃ samprāptau mucyete pātakātkatham||75||

śrīkṛṣṇa uvāca

tadākarṇya vacastasya sumaterduḥkhitasya ca|
ṛṣissarvatapā nāma sarvajñaḥ karuṇānvitaḥ||76||
sumatiṃ pratyuvācedaṃ tatpitrormuktaye tadā||77||

ṛṣiruvāca

tava mātā purā vipra svagṛhe bālabhāvataḥ||78||
ṛtuṃ prāptaṃ viditvā tu samparkamakaroddvija|
tena karmavipākena śunīyonimupāgatā||79||
pitā'pi sparśadoṣeṇa balīvardo babhūva ha|
etayormuktikāmārthaṃ kuru tvamṛṣipañcamīm||80||
bhāryayā saha viprendra ṛṣīn sampūjya yatnataḥ|
ācarasva vrataṃ tatra saptavarṣaṃ dvijottama||81||
ante codyāpanaṃ kuryādvittaśāṭhyavivarjitaḥ|
śākāhārastu kartavyo nīvāraiśśyāmakaistadā||82||
kandaṃ vā'tha phalaṃ mūlaṃ halakṛṣṭaṃ na bhakṣayet|
prāpya bhādrapade māsi śuklapakṣasya pañcamīm||83||
tasyāṃ madhyāhnasamaye nadyādau vimale jale|
kṛtvā'pāmārgasamidhā dantadhāvanamāditaḥ||84||
āyurbalaṃ yaśo varcaḥ prajāḥ paśuvasūni ca|
brahma prajñāṃ ca medhāṃ ca tvanno dehi vanaspate||85||
saṃprārthyānena mantreṇa kuryādvai dantadhāvanam|
mukhadurgandhanāśāya dantānāṃ ca viśuddhaye||86||
ṣṭhīvanāya ca gātrāṇāṃ kurve'haṃ dantadhāvanam|
anena dantān saṃśodhya snāyānmṛtsnānapūrvakam||87||
tilāmalakakalkena keśān saṃśodhya yatnataḥ|
paridhāya navaṃ śuddhaṃ vāsoyugmaṃ samāhitaḥ||88||
vidhāya nityakarmāṇi gṛhaṃ gatvā tān ṛṣīn|
sthāpayedvidhivadbhaktyā pañcāmṛtarasaiśśubhaiḥ||89||
candanāgarukarpūrairvilipya ca sugandhibhiḥ|
pūjayedvividhaiḥ puṣpairgandhadhūpādidīpakaiḥ||90||
samācchādya śubhairvastraissopavītairyathāvidhi|
tato naivedyasampannairdadyācchubhaiḥ phalaiḥ||91||
pūjayasva ṛṣīn divyān arundhatyā samanvitān||92||
kaśyapo'trirbharadvājo viśvāmitro'tha gautamaḥ|
jamadagnirvasiṣṭhaśca sādhvī caivāpyarundhatī||93||
mantreṇānena saptarṣīn pūjayetsusamāhitaḥ|
vratena ṛṣipañcamyāḥ kṛtenaiva dvijottama||94||
ṛtusamparkajo doṣaḥ kṣayaṃ yāti na saṃśayaḥ||95||

śrīkṛṣṇa uvāca

tacchrutvā sumatirvākyaṃ paramaṃ munibhāṣitam||96||
gṛhametya vrataṃ cakre sabhāryaḥ śraddhayā'nvitaḥ|
vrataṃ tu ṛṣipañcamyāssarvapāpapraṇāśanam||97||
kṛtvā sarvaṃ yathoktaṃ ca mātāpitroḥ phalaṃ dadau|
vratapuṇyaprabhāveṇa mātā tasya śvayonitaḥ||98||
muktā nṛpatiśārdūla vimānavaramāsthitā|
divyāmbaradharā bhūtvā gatā svargaṃ ca bhārata||99||
pitā'pi sa mṛto'gacchat sumateḥ paśuyonitaḥ|
svargaṃ prāpto mahārāja vratasyāsya prabhāvataḥ||100||
divyāmbaradharo bhūtvā gatassvargaṃ sa bhārata|
kāyikaṃ vācikaṃ vāpi mānasaṃ yacca duṣkṛtam||101||
tatsarvaṃ vilayaṃ yāti vratasyāsya prabhāvataḥ|
tasya yajjāyate puṇyaṃ tacchṛṇuṣva nṛpottama||102||
sarvavrateṣu yatpuṇyaṃ sarvatīrtheṣu yatphalam|
sarvadāneṣu datteṣu tadetadvratacāraṇāt||103||
kurute yā vrataṃ nārī sā bhavetsukhabhāginī|
rūpalāvaṇyayuktā ca putrapautrābhisaṃyutā||104||
iha loke sukhaṃ yāyāt paratra ca parāṃ gatim|
etatte kathitaṃ rājan vratānāmuttamaṃ vratam||105||
sarvasampatpradaṃ caiva nārīṇāṃ pāpanāśanam|
dhanaṃ yaśaśca svargaṃ ca putrānapi yudhiṣṭhira||106||
paṭhatāṃ śṛṇvatāṃ cāpi dadyātpāpapraṇāśanam||107||

|| iti śrībhaviṣyottarapurāṇe ṛṣipañcamīvratakathā sampūrṇā ||