Home / Puja Vidhanam / Padmapurāṇāntargata-ekādaśī-māhātmyāni
Śravaṇadvādaśīvratam
Padmapurāṇāntargata-ekādaśī-māhātmyāni
श्रवणद्वादशीव्रतम्
श्री-महागणपति-प्रार्थना
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये॥
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये॥
वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे।
यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम्॥
यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम्॥
श्री-गुरु-प्रार्थना
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः।
गुरुः साक्षात् परं ब्रह्म तस्मै श्री-गुरवे नमः॥
गुरुः साक्षात् परं ब्रह्म तस्मै श्री-गुरवे नमः॥
सदाशिवसमारम्भां शङ्कराचार्यमध्यमाम्।
अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम्॥
अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम्॥
श्री-सरस्वती-प्रार्थना
दोर्भिर्युक्ता चतुर्भिः स्फटिकमणिनिभैरक्षमालां दधाना
हस्तेनैकेन पद्मं सितमपि च शुकं पुस्तकं चापरेण।
भासा कुन्देन्दुशङ्खस्फटिकमणिनिभा भासमानाऽसमाना
सा मे वाग्देवतेयं निवसतु वदने सर्वदा सुप्रसन्ना॥
हस्तेनैकेन पद्मं सितमपि च शुकं पुस्तकं चापरेण।
भासा कुन्देन्दुशङ्खस्फटिकमणिनिभा भासमानाऽसमाना
सा मे वाग्देवतेयं निवसतु वदने सर्वदा सुप्रसन्ना॥
श्री-व्यास-नमस्क्रिया
व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम्।
पराशरात्मजं वन्दे शुकतातं तपोनिधिम्॥१॥
पराशरात्मजं वन्दे शुकतातं तपोनिधिम्॥१॥
अभ्रश्यामः पिङ्गजटाबद्धकलापः
प्रांशुर्दण्डी कृष्णमृगत्वक्परिधानः।
साक्षाल्लोकान् पावयमानः कविमुख्यः
पाराशर्यः पर्वसु रूपं विवृणोतु॥२॥
प्रांशुर्दण्डी कृष्णमृगत्वक्परिधानः।
साक्षाल्लोकान् पावयमानः कविमुख्यः
पाराशर्यः पर्वसु रूपं विवृणोतु॥२॥
जयति पराशरसूनुः सत्यवतीहृदयनन्दनो व्यासः।
यस्यास्यकमलगलितं वाङ्मयममृतं जगत् पिबति॥३॥
यस्यास्यकमलगलितं वाङ्मयममृतं जगत् पिबति॥३॥
पाद्ममहापुराणम् — मङ्गलश्लोकः
स्वच्छं चन्द्रावदातं करिकर-मकर-क्षोभ-सञ्जात-फेनं
ब्रह्मोद्भूतिप्रसक्तैर्व्रतनियमपरैः सेवितं विप्रमुख्यैः।
ओङ्कारालङ्कृतेन त्रिभुवनगुरुणा ब्रह्मणा दृष्टिपूतं
सम्भोगाभोगरम्यं जलमशुभहरं पौष्करं नः पुनातु॥
ब्रह्मोद्भूतिप्रसक्तैर्व्रतनियमपरैः सेवितं विप्रमुख्यैः।
ओङ्कारालङ्कृतेन त्रिभुवनगुरुणा ब्रह्मणा दृष्टिपूतं
सम्भोगाभोगरम्यं जलमशुभहरं पौष्करं नः पुनातु॥
नारायणं नमस्कृत्य नरं चैव नरोत्तमम्।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्॥
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्॥
अथ सप्ततितमोऽध्यायः॥७०
नारद उवाच
उपवासासमर्थानां सदैवामरसत्तम।
एका या द्वादशी पुण्या तां वदस्व ममानघ॥१॥
एका या द्वादशी पुण्या तां वदस्व ममानघ॥१॥
शिव उवाच
मासि भाद्रपदे शुक्ले द्वादशी श्रवणान्विता।
सा वै सर्वप्रदा पुण्या ह्युपवासे महाफला॥२॥
सा वै सर्वप्रदा पुण्या ह्युपवासे महाफला॥२॥
सङ्गमे सरितः स्नात्वा द्वादशीं तामुपोषितः।
अयत्नात् समवाप्नोति द्वादशद्वादशीफलम्॥३॥
अयत्नात् समवाप्नोति द्वादशद्वादशीफलम्॥३॥
बुधश्रवणसंयुक्ता या च वै द्वादशी भवेत्।
अतीव महती तस्यां कृतं सर्वमथाक्षयम्॥४॥
अतीव महती तस्यां कृतं सर्वमथाक्षयम्॥४॥
द्वादशी श्रवणोपेता यदा भवति नारद।
सङ्गमे सरितां स्नात्वा लभेद् गोदानजं फलम्॥५॥
सङ्गमे सरितां स्नात्वा लभेद् गोदानजं फलम्॥५॥
जलपूर्णं तदा कुम्भं स्थापयित्वा विचक्षणः।
तस्योपरि न्यसेत् पात्रं स्थापयित्वा जनार्दनम्॥६॥
तस्योपरि न्यसेत् पात्रं स्थापयित्वा जनार्दनम्॥६॥
ततस्तस्याग्रतो देयं नैवेद्यं घृतपाचितम्।
सोदकांश्च नवान् कुम्भान् दद्याच्छक्त्या विचक्षणः॥७॥
सोदकांश्च नवान् कुम्भान् दद्याच्छक्त्या विचक्षणः॥७॥
एवं सम्पूज्य गोविन्दं जागरं तत्र कारयेत्।
प्रभाते विमले स्नात्वा सम्पूज्य गरुडध्वजम्॥८॥
प्रभाते विमले स्नात्वा सम्पूज्य गरुडध्वजम्॥८॥
पुष्पधूपादिनैवेद्यैः फलैर्वस्त्रैः सुशोभनैः।
पुष्पाञ्जलिं ततो दद्यात् मन्त्रमेनमुदीरयेत्॥९॥
पुष्पाञ्जलिं ततो दद्यात् मन्त्रमेनमुदीरयेत्॥९॥
नमो नमस्ते गोविन्द बुधश्रवणसंयुत।
अघौघसङ्क्षयं कृत्वा सर्वसौख्यप्रदो भव॥१०॥
अघौघसङ्क्षयं कृत्वा सर्वसौख्यप्रदो भव॥१०॥
अन्नं तु ब्राह्मणे पूतं वेदवेदाङ्गपारगे।
पुराणज्ञे विशेषेण विधिवत् सम्प्रदापयेत्॥११॥
पुराणज्ञे विशेषेण विधिवत् सम्प्रदापयेत्॥११॥
अनेन विधिना चैव नद्यास्तीरे नरोत्तमः।
सर्वं निर्वर्तयेत् सम्यगेकचित्तरतोऽपि सन्॥१२॥
सर्वं निर्वर्तयेत् सम्यगेकचित्तरतोऽपि सन्॥१२॥
अत्राप्युदाहरन्तीमम् इतिहासं पुरातनम्।
महत्यरण्ये यद् वृत्तं भूमिदेव शृणुष्व तत्॥१३॥
महत्यरण्ये यद् वृत्तं भूमिदेव शृणुष्व तत्॥१३॥
यं श्रुत्वा मानवो लोके महादुःखात् प्रमुच्यते।
देशो दासरको नाम तस्य भागे च पश्चिमे॥१४॥
देशो दासरको नाम तस्य भागे च पश्चिमे॥१४॥
तत्र विद्वन् मरुर्देशः सर्वसत्त्वभयङ्करः।
सुतप्तसिकता भूमिर्यत्र दुष्टा महोरगाः॥१५॥
सुतप्तसिकता भूमिर्यत्र दुष्टा महोरगाः॥१५॥
अल्पच्छायाद्रुमाकीर्णा मृतप्राणिसमाकुला।
शमीखदिरपालाशकरीरैः पीलुभिः सह॥१६॥
शमीखदिरपालाशकरीरैः पीलुभिः सह॥१६॥
तत्र भीमा द्रुमगणाः कण्टकैरचिता दृढैः।
दग्धप्राणिजनाकीर्णा यत्र भूर्दृश्यते क्वचित्॥१७॥
दग्धप्राणिजनाकीर्णा यत्र भूर्दृश्यते क्वचित्॥१७॥
तथाऽपि जीवा जीवन्ति सर्वे कर्मनिबन्धनात्।
नोदकं नोदकाधारा विद्वंस्तत्र बलाहकाः॥१८॥
नोदकं नोदकाधारा विद्वंस्तत्र बलाहकाः॥१८॥
पक्षान्तरगतैः कैश्चिच्छिशुभिस्तृषितैः समम्।
उत्क्रान्तजीविनो विप्र दृश्यन्ते नु खगोत्तमाः॥१९॥
उत्क्रान्तजीविनो विप्र दृश्यन्ते नु खगोत्तमाः॥१९॥
तस्मिंस्तथाविधे देशे कश्चिद् दैववशाद् वणिक्।
निजसार्थपरिभ्रष्टः प्रविष्टो मरुजाङ्गले॥२०॥
निजसार्थपरिभ्रष्टः प्रविष्टो मरुजाङ्गले॥२०॥
बभ्रामोद्भ्रान्तहृदयः क्षुत्तृड्भ्यां श्रमपीडितः।
क्व ग्रामः क्व जलं क्वाहं यास्यामि न बुबोध ह॥२१॥
क्व ग्रामः क्व जलं क्वाहं यास्यामि न बुबोध ह॥२१॥
अथ प्रेतान् ददर्शासौ क्षुत्तृषाव्याकुलेन्द्रियान्।
उत्कटान् खलिनो भीमान् निर्मांसान् रौद्रदर्शनान्॥२२॥
उत्कटान् खलिनो भीमान् निर्मांसान् रौद्रदर्शनान्॥२२॥
प्रेतस्कन्धसमारूढम् एकं विकृतदर्शनम्।
ददर्श बहुभिः प्रेतैः समन्तात् परिवारितम्॥२३॥
ददर्श बहुभिः प्रेतैः समन्तात् परिवारितम्॥२३॥
अगच्छमानमत्युग्रं प्रेतशब्दपुरःसरम्।
प्रेतोऽपि दृष्ट्वा तां घोरामटवीमागतं नरम्॥२४॥
प्रेतोऽपि दृष्ट्वा तां घोरामटवीमागतं नरम्॥२४॥
प्रेतस्कन्धान्महीं गत्वा तस्यान्तिकमुपागमत्।
प्रणिपत्य वणिक्श्रेष्ठम् इदं वचनमब्रवीत्॥२५॥
प्रणिपत्य वणिक्श्रेष्ठम् इदं वचनमब्रवीत्॥२५॥
अस्मिन् घोरतरे देशे प्रवेशो भवतः कथम्।
तमुवाच वणिग्धीमान् सार्थभ्रष्टस्य मे वने॥२६॥
तमुवाच वणिग्धीमान् सार्थभ्रष्टस्य मे वने॥२६॥
प्रवेशो दैवयोगेन पूर्वकर्मकृतेन च।
तृषा मे बाधतेऽत्यर्थं क्षुधा चैव भृशं तथा॥२७॥
तृषा मे बाधतेऽत्यर्थं क्षुधा चैव भृशं तथा॥२७॥
प्राणान्तिकमनुप्राप्तं वचनं भ्रमतीव मे।
अत्रोपायं न पश्यामि जीवेयं येन केनचित्॥२८॥
अत्रोपायं न पश्यामि जीवेयं येन केनचित्॥२८॥
इत्येवमुक्ते प्रेतस्तं वणिजं वाक्यमब्रवीत्।
फुल्लां शमीं समाश्रित्य प्रतीक्ष त्वं मुहूर्तकम्॥२९॥
फुल्लां शमीं समाश्रित्य प्रतीक्ष त्वं मुहूर्तकम्॥२९॥
कृतातिथ्यो मया पश्चाद् गमिष्यसि यथासुखम्।
एवमुक्तस्तथा चक्रे स वणिक् तृष्णयार्दितः॥३०॥
एवमुक्तस्तथा चक्रे स वणिक् तृष्णयार्दितः॥३०॥
मध्याह्नसमये प्राप्ते प्रेतस्तं देशमागतः।
फुल्लां सवृक्षां शीतोदां वारिधानीं मनोरमाम्॥३१॥
फुल्लां सवृक्षां शीतोदां वारिधानीं मनोरमाम्॥३१॥
दध्योदनसमायुक्तां वर्धमानेन संयुताम्।
अवतीर्य ततः स्वन्नं प्रादादतिथये तदा॥३२॥
अवतीर्य ततः स्वन्नं प्रादादतिथये तदा॥३२॥
स तत्राशनमात्रेण परं तृप्तित्वमागतः।
वितृष्णो विज्वरश्चैव क्षणेन समपद्यत॥३३॥
वितृष्णो विज्वरश्चैव क्षणेन समपद्यत॥३३॥
ततश्च प्रेताः सम्प्राप्ताः सोऽस्माद् भागं क्रमाद् ददौ।
दध्योदनात् सपानीयात् प्रेतास्तृप्तिं परां गताः॥३४॥
दध्योदनात् सपानीयात् प्रेतास्तृप्तिं परां गताः॥३४॥
अतिथिं तर्पयित्वा तु प्रेतलोकं च सर्वतः।
ततः स्वयं स बुभुजे भुक्तशेषं यथासुखम्॥३५॥
ततः स्वयं स बुभुजे भुक्तशेषं यथासुखम्॥३५॥
तस्य भुक्तवतः स्वन्नं पानीयं च क्षयं ययौ।
प्रेताधिपं ततस्तं वै वणिग्वचनमब्रवीत्॥३६॥
प्रेताधिपं ततस्तं वै वणिग्वचनमब्रवीत्॥३६॥
आश्चर्यमेतत् परमं वनेऽस्मिन् प्रतिभाति मे।
अन्नं पानं च परमं सम्प्राप्तं च कुतस्तव॥३७॥
अन्नं पानं च परमं सम्प्राप्तं च कुतस्तव॥३७॥
स्वल्पेनैव तथाऽन्नेन त्वमेतांस्तु बहूनपि।
अतर्पयः कथं त्वेते निर्मांसा भिन्नकुक्षयः॥३८॥
अतर्पयः कथं त्वेते निर्मांसा भिन्नकुक्षयः॥३८॥
कथमस्यां सुघोरायामटव्यां च कृतालयाः।
तदेतत् संशयं छिन्धि परं कौतूहलं मम॥३९॥
तदेतत् संशयं छिन्धि परं कौतूहलं मम॥३९॥
एवमुक्तः स वणिजा प्रेतो वचनमब्रवीत्।
वाणिज्यसक्तस्य पुरा जन्मातीते ममानघ॥४०॥
वाणिज्यसक्तस्य पुरा जन्मातीते ममानघ॥४०॥
सकले नगरे नास्ति ममान्यो हि दुरात्मकः।
धनलोभान्न कस्यापि दत्ता भिक्षा मया तदा॥४१॥
धनलोभान्न कस्यापि दत्ता भिक्षा मया तदा॥४१॥
सखा चैव ततश्चासीद् ब्राह्मणो गुणवान् मम।
श्रावणद्वादशीयोगे मासि भाद्रपदे ततः॥४२॥
श्रावणद्वादशीयोगे मासि भाद्रपदे ततः॥४२॥
स कदाचिन्मया सार्धं तापीं नाम नदीं ययौ।
तस्याश्च सङ्गमः पुण्यो यत्राऽऽसीच्चन्द्रभागया॥४३॥
तस्याश्च सङ्गमः पुण्यो यत्राऽऽसीच्चन्द्रभागया॥४३॥
चन्द्रभागा चन्द्रसुता तापी चैवार्कनन्दिनी।
तयोः शीतोष्णसलिले प्रविवेश स ह द्विजः॥४४॥
तयोः शीतोष्णसलिले प्रविवेश स ह द्विजः॥४४॥
श्रवणद्वादशीयोगे नराश्च समुपोषिताः।
चन्द्रभागासुतो येन वारिधानीं ददुर्द्विजे॥४५॥
चन्द्रभागासुतो येन वारिधानीं ददुर्द्विजे॥४५॥
दध्योदनयुतां सार्धं सम्पूर्णैर्वर्धमानकैः।
छत्रोपानद्युगं वस्त्रं प्रतिमां च तथा हरेः॥४६॥
छत्रोपानद्युगं वस्त्रं प्रतिमां च तथा हरेः॥४६॥
प्रददौ विप्रमुख्येभ्यो हरस्याग्रे महामते।
वित्तसंरक्षणार्थाय तस्यास्तीरे व्रते मया॥४७॥
वित्तसंरक्षणार्थाय तस्यास्तीरे व्रते मया॥४७॥
सोपवासेन दत्तैका वारिधानी मनोरमा।
तत्कृत्वाऽहं गृहं प्राप्तस्ततः कालेन केनचित्॥४८॥
तत्कृत्वाऽहं गृहं प्राप्तस्ततः कालेन केनचित्॥४८॥
पञ्चत्वमहमासाद्य नास्तिक्यात् प्रेततां गतः।
अस्यामटव्यां घोरायां यथा ह्यहिकुलं तथा॥४९॥
अस्यामटव्यां घोरायां यथा ह्यहिकुलं तथा॥४९॥
श्रवणद्वादशीयोगे वारिधान्यर्पिता मया।
सेयं मध्याह्नसमये लभ्यते च दिने दिने॥५०॥
सेयं मध्याह्नसमये लभ्यते च दिने दिने॥५०॥
ब्रह्मस्वरूपिणः सर्वे पापाः प्रेतत्वमागताः।
परदारगताः केचित् स्वामिद्रोहरताश्च ये॥५१॥
परदारगताः केचित् स्वामिद्रोहरताश्च ये॥५१॥
भूतप्रेतजरूपेण ते जाता ह्यत्र मानवाः।
देशे मरुस्थले त्वस्मिन् ममैते मित्रतां गताः॥५२॥
देशे मरुस्थले त्वस्मिन् ममैते मित्रतां गताः॥५२॥
अक्षयो भगवान् विष्णुः परमात्मा सनातनः।
दीयते यत् समुद्दिश्य ह्यक्षयं तत् प्रकीर्तितम्॥५३॥
दीयते यत् समुद्दिश्य ह्यक्षयं तत् प्रकीर्तितम्॥५३॥
अक्षयेनापि चान्नेन तृप्ता एते पुनः पुनः।
प्रेतत्वभावं दौर्बल्यं न विमुञ्चति कर्हिचित्॥५४॥
प्रेतत्वभावं दौर्बल्यं न विमुञ्चति कर्हिचित्॥५४॥
पूजयित्वाऽहमन्नैस्त्वामतिथिं समुपस्थितम्।
प्रेतभावाद् विनिर्मुक्तो यास्यामि परमां गतिम्॥५५॥
प्रेतभावाद् विनिर्मुक्तो यास्यामि परमां गतिम्॥५५॥
मया विहीनाः किं त्वेते वनेऽस्मिन् भृशदारुणे।
पीडामनुभविष्यन्ति दारुणां कर्मयोनिजाम्॥५६॥
पीडामनुभविष्यन्ति दारुणां कर्मयोनिजाम्॥५६॥
एतेषां तु महाभाग ममानुग्रहकाम्यया।
प्रत्येकं नामगोत्राणि गृह्णीष्व लिखितानि च॥५७॥
प्रत्येकं नामगोत्राणि गृह्णीष्व लिखितानि च॥५७॥
अस्ति कक्षागता चैव तव सम्पुटिका शुभा।
हिमवन्तमथासाद्य तत्र त्वं लप्स्यसे निधिम्॥५८॥
हिमवन्तमथासाद्य तत्र त्वं लप्स्यसे निधिम्॥५८॥
गयाशीर्षं ततो गत्वा श्राद्धं कुरु महामते।
इत्याज्ञाप्य स वै प्रेतो वणिजं च यथासुखम्॥५९॥
इत्याज्ञाप्य स वै प्रेतो वणिजं च यथासुखम्॥५९॥
विसर्जयामास तदा स वै प्रायात् समुत्सुकः।
समासाद्य गृहं तत्र पश्चात् प्रायाद् हिमालयम्॥६०॥
समासाद्य गृहं तत्र पश्चात् प्रायाद् हिमालयम्॥६०॥
ततो दृष्टं निधिं तत्र गृहीत्वा स समागतः।
षष्ठांशं प्रतिगृह्याथ गयाशीर्षं ततोऽभ्यगात्॥६१॥
षष्ठांशं प्रतिगृह्याथ गयाशीर्षं ततोऽभ्यगात्॥६१॥
तत्र गत्वा गयायां स श्राद्धं कृत्वा महामतिः।
प्रेतानां तु यथोद्दिष्टं श्राद्धं सम्यग् विधानतः॥६२॥
प्रेतानां तु यथोद्दिष्टं श्राद्धं सम्यग् विधानतः॥६२॥
प्रत्येकं नामगोत्राणि गृहीत्वा पिण्डमुत्सृजत्।
यस्य यस्य भवेत् श्राद्धं स करोति दिने वणिक्॥६३॥
यस्य यस्य भवेत् श्राद्धं स करोति दिने वणिक्॥६३॥
स स तस्य तदा स्वप्ने दर्शयत्यात्मनस्तनुम्।
ब्रवीति च महाभाग प्रसादाद् भवतोऽनघ॥६४॥
ब्रवीति च महाभाग प्रसादाद् भवतोऽनघ॥६४॥
प्रेतभावं मया त्यक्तं प्राप्तोऽस्मि परमां गतिम्।
एवं कृत्वा विधानेन गयाशीर्षं महामनाः॥६५॥
एवं कृत्वा विधानेन गयाशीर्षं महामनाः॥६५॥
पश्चाज्जगाम स्वगृहं विष्णुं ध्यायन् पुनः पुनः।
मासि भाद्रपदे प्राप्ते शुक्लपक्षे तथा सुधीः॥६६॥
मासि भाद्रपदे प्राप्ते शुक्लपक्षे तथा सुधीः॥६६॥
श्रवणद्वादशीयोगे सङ्गमे सरितां पुनः।
जगाम स महाबुद्धिः सर्वोपस्करसंयुतः॥६७॥
जगाम स महाबुद्धिः सर्वोपस्करसंयुतः॥६७॥
सङ्गमे सरितां स्नात्वा द्वादशीं तामुपोषितः।
तत्र स्नात्वाऽपि दत्त्वा तु पूजयित्वा जनार्दनम्॥६८॥
तत्र स्नात्वाऽपि दत्त्वा तु पूजयित्वा जनार्दनम्॥६८॥
अनन्तरं ब्राह्मणस्य ह्युपहारांस्तदा ददौ।
शास्त्रोक्तेनापि विधिना ह्येकचित्तरतोऽपि सः॥६९॥
शास्त्रोक्तेनापि विधिना ह्येकचित्तरतोऽपि सः॥६९॥
निवर्तयामास तदा वणिजो बुद्धिमान् स वै।
वर्षे वर्षे तु सम्प्राप्ते मासि भाद्रपदे तथा॥७०॥
वर्षे वर्षे तु सम्प्राप्ते मासि भाद्रपदे तथा॥७०॥
श्रवणद्वादशीयोगे सङ्गमे सरितां पुनः।
एवं वै कृतवान् सर्वं विष्णुमुद्दिश्य सत्वरम्॥७१॥
एवं वै कृतवान् सर्वं विष्णुमुद्दिश्य सत्वरम्॥७१॥
कालेन चातिमहता पञ्चत्वं समुपागतः।
अवाप परमं स्थानं दुर्लभं सर्वमानवैः॥७२॥
अवाप परमं स्थानं दुर्लभं सर्वमानवैः॥७२॥
क्रीडतेऽद्यापि वैकुण्ठे विष्णुदूतैः स सेवितः।
एवं कुरु त्वं भो ब्रह्मन् श्रवणद्वादशीव्रतम्॥७३॥
एवं कुरु त्वं भो ब्रह्मन् श्रवणद्वादशीव्रतम्॥७३॥
सर्वसौभाग्यदं चैव इह लोके परत्र च।
सुबुद्धिजननं चैव सर्वपापहरं परम्॥७४॥
सुबुद्धिजननं चैव सर्वपापहरं परम्॥७४॥
श्रवणद्वादशीयोगे यः कुर्याद् व्रतमीदृशम्।
व्रतस्यास्य प्रभावेण विष्णुलोकं च गच्छति॥७५॥
व्रतस्यास्य प्रभावेण विष्णुलोकं च गच्छति॥७५॥
॥इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमापतिनारदसंवादे श्रवणद्वादशीव्रतं नाम सप्ततितमोऽध्यायः॥७०॥
मङ्गलश्लोकाः
स्वस्ति प्रजाभ्यः परिपालयन्तां
न्यायेन मार्गेण महीं महीशाः।
गोब्राह्मणेभ्यः शुभमस्तु नित्यं
लोकाः समस्ताः सुखिनो भवन्तु॥
न्यायेन मार्गेण महीं महीशाः।
गोब्राह्मणेभ्यः शुभमस्तु नित्यं
लोकाः समस्ताः सुखिनो भवन्तु॥
काले वर्षतु पर्जन्यः पृथिवी सस्यशालिनी।
देशोऽयं क्षोभरहितो ब्राह्मणाः सन्तु निर्भयाः॥
देशोऽयं क्षोभरहितो ब्राह्मणाः सन्तु निर्भयाः॥
अपुत्राः पुत्रिणः सन्तु पुत्रिणः सन्तु पौत्रिणः।
अधनाः सधनाः सन्तु जीवन्तु शरदां शतम्॥
अधनाः सधनाः सन्तु जीवन्तु शरदां शतम्॥
यदक्षरपदभ्रष्टं मात्राहीनं तु यद् भवेत्।
तत् सर्वं क्षम्यतां देव नारायण नमोऽस्तुते॥
तत् सर्वं क्षम्यतां देव नारायण नमोऽस्तुते॥
विसर्गबिन्दुमात्राश्च पदपादाक्षराणि च।
न्यूनानि चातिरिक्तानि क्षमस्व पुरुषोत्तम॥
न्यूनानि चातिरिक्तानि क्षमस्व पुरुषोत्तम॥
यज्ञेशाच्युत गोविन्द माधवानन्त केशव।
कृष्ण विष्णो हृषीकेश वासुदेव नमोऽस्तुते॥
कृष्ण विष्णो हृषीकेश वासुदेव नमोऽस्तुते॥
कायेन वाचा मनसेन्द्रियैर्वा
बुद्ध्याऽऽत्मना वा प्रकृतेः स्वभावात्।
करोमि यद्यत् सकलं परस्मै
नारायणायेति समर्पयामि॥
बुद्ध्याऽऽत्मना वा प्रकृतेः स्वभावात्।
करोमि यद्यत् सकलं परस्मै
नारायणायेति समर्पयामि॥
ಶ್ರವಣದ್ವಾದಶೀವ್ರತಮ್
ಶ್ರೀ-ಮಹಾಗಣಪತಿ-ಪ್ರಾರ್ಥನಾ
ಶುಕ್ಲಾಂಬರಧರಂ ವಿಷ್ಣುಂ ಶಶಿವರ್ಣಂ ಚತುರ್ಭುಜಮ್।
ಪ್ರಸನ್ನವದನಂ ಧ್ಯಾಯೇತ್ ಸರ್ವವಿಘ್ನೋಪಶಾಂತಯೇ॥
ಪ್ರಸನ್ನವದನಂ ಧ್ಯಾಯೇತ್ ಸರ್ವವಿಘ್ನೋಪಶಾಂತಯೇ॥
ವಾಗೀಶಾದ್ಯಾಃ ಸುಮನಸಃ ಸರ್ವಾರ್ಥಾನಾಮುಪಕ್ರಮೇ।
ಯಂ ನತ್ವಾ ಕೃತಕೃತ್ಯಾಃ ಸ್ಯುಸ್ತಂ ನಮಾಮಿ ಗಜಾನನಮ್॥
ಯಂ ನತ್ವಾ ಕೃತಕೃತ್ಯಾಃ ಸ್ಯುಸ್ತಂ ನಮಾಮಿ ಗಜಾನನಮ್॥
ಶ್ರೀ-ಗುರು-ಪ್ರಾರ್ಥನಾ
ಗುರುರ್ಬ್ರಹ್ಮಾ ಗುರುರ್ವಿಷ್ಣುರ್ಗುರುರ್ದೇವೋ ಮಹೇಶ್ವರಃ।
ಗುರುಃ ಸಾಕ್ಷಾತ್ ಪರಂ ಬ್ರಹ್ಮ ತಸ್ಮೈ ಶ್ರೀ-ಗುರವೇ ನಮಃ॥
ಗುರುಃ ಸಾಕ್ಷಾತ್ ಪರಂ ಬ್ರಹ್ಮ ತಸ್ಮೈ ಶ್ರೀ-ಗುರವೇ ನಮಃ॥
ಸದಾಶಿವಸಮಾರಂಭಾಂ ಶಂಕರಾಚಾರ್ಯಮಧ್ಯಮಾಮ್।
ಅಸ್ಮದಾಚಾರ್ಯಪರ್ಯಂತಾಂ ವಂದೇ ಗುರುಪರಂಪರಾಮ್॥
ಅಸ್ಮದಾಚಾರ್ಯಪರ್ಯಂತಾಂ ವಂದೇ ಗುರುಪರಂಪರಾಮ್॥
ಶ್ರೀ-ಸರಸ್ವತೀ-ಪ್ರಾರ್ಥನಾ
ದೋರ್ಭಿರ್ಯುಕ್ತಾ ಚತುರ್ಭಿಃ ಸ್ಫಟಿಕಮಣಿನಿಭೈರಕ್ಷಮಾಲಾಂ ದಧಾನಾ
ಹಸ್ತೇನೈಕೇನ ಪದ್ಮಂ ಸಿತಮಪಿ ಚ ಶುಕಂ ಪುಸ್ತಕಂ ಚಾಪರೇಣ।
ಭಾಸಾ ಕುಂದೇಂದುಶಂಖಸ್ಫಟಿಕಮಣಿನಿಭಾ ಭಾಸಮಾನಾಽಸಮಾನಾ
ಸಾ ಮೇ ವಾಗ್ದೇವತೇಯಂ ನಿವಸತು ವದನೇ ಸರ್ವದಾ ಸುಪ್ರಸನ್ನಾ॥
ಹಸ್ತೇನೈಕೇನ ಪದ್ಮಂ ಸಿತಮಪಿ ಚ ಶುಕಂ ಪುಸ್ತಕಂ ಚಾಪರೇಣ।
ಭಾಸಾ ಕುಂದೇಂದುಶಂಖಸ್ಫಟಿಕಮಣಿನಿಭಾ ಭಾಸಮಾನಾಽಸಮಾನಾ
ಸಾ ಮೇ ವಾಗ್ದೇವತೇಯಂ ನಿವಸತು ವದನೇ ಸರ್ವದಾ ಸುಪ್ರಸನ್ನಾ॥
ಶ್ರೀ-ವ್ಯಾಸ-ನಮಸ್ಕ್ರಿಯಾ
ವ್ಯಾಸಂ ವಸಿಷ್ಠನಪ್ತಾರಂ ಶಕ್ತೇಃ ಪೌತ್ರಮಕಲ್ಮಷಮ್।
ಪರಾಶರಾತ್ಮಜಂ ವಂದೇ ಶುಕತಾತಂ ತಪೋನಿಧಿಮ್॥೧॥
ಪರಾಶರಾತ್ಮಜಂ ವಂದೇ ಶುಕತಾತಂ ತಪೋನಿಧಿಮ್॥೧॥
ಅಭ್ರಶ್ಯಾಮಃ ಪಿಂಗಜಟಾಬದ್ಧಕಲಾಪಃ
ಪ್ರಾಂಶುರ್ದಂಡೀ ಕೃಷ್ಣಮೃಗತ್ವಕ್ಪರಿಧಾನಃ।
ಸಾಕ್ಷಾಲ್ಲೋಕಾನ್ ಪಾವಯಮಾನಃ ಕವಿಮುಖ್ಯಃ
ಪಾರಾಶರ್ಯಃ ಪರ್ವಸು ರೂಪಂ ವಿವೃಣೋತು॥೨॥
ಪ್ರಾಂಶುರ್ದಂಡೀ ಕೃಷ್ಣಮೃಗತ್ವಕ್ಪರಿಧಾನಃ।
ಸಾಕ್ಷಾಲ್ಲೋಕಾನ್ ಪಾವಯಮಾನಃ ಕವಿಮುಖ್ಯಃ
ಪಾರಾಶರ್ಯಃ ಪರ್ವಸು ರೂಪಂ ವಿವೃಣೋತು॥೨॥
ಜಯತಿ ಪರಾಶರಸೂನುಃ ಸತ್ಯವತೀಹೃದಯನಂದನೋ ವ್ಯಾಸಃ।
ಯಸ್ಯಾಸ್ಯಕಮಲಗಲಿತಂ ವಾಙ್ಮಯಮಮೃತಂ ಜಗತ್ ಪಿಬತಿ॥೩॥
ಯಸ್ಯಾಸ್ಯಕಮಲಗಲಿತಂ ವಾಙ್ಮಯಮಮೃತಂ ಜಗತ್ ಪಿಬತಿ॥೩॥
ಪಾದ್ಮಮಹಾಪುರಾಣಮ್ — ಮಂಗಲಶ್ಲೋಕಃ
ಸ್ವಚ್ಛಂ ಚಂದ್ರಾವದಾತಂ ಕರಿಕರ-ಮಕರ-ಕ್ಷೋಭ-ಸಂಜಾತ-ಫೇನಂ
ಬ್ರಹ್ಮೋದ್ಭೂತಿಪ್ರಸಕ್ತೈರ್ವ್ರತನಿಯಮಪರೈಃ ಸೇವಿತಂ ವಿಪ್ರಮುಖ್ಯೈಃ।
ಓಂಕಾರಾಲಂಕೃತೇನ ತ್ರಿಭುವನಗುರುಣಾ ಬ್ರಹ್ಮಣಾ ದೃಷ್ಟಿಪೂತಂ
ಸಂಭೋಗಾಭೋಗರಮ್ಯಂ ಜಲಮಶುಭಹರಂ ಪೌಷ್ಕರಂ ನಃ ಪುನಾತು॥
ಬ್ರಹ್ಮೋದ್ಭೂತಿಪ್ರಸಕ್ತೈರ್ವ್ರತನಿಯಮಪರೈಃ ಸೇವಿತಂ ವಿಪ್ರಮುಖ್ಯೈಃ।
ಓಂಕಾರಾಲಂಕೃತೇನ ತ್ರಿಭುವನಗುರುಣಾ ಬ್ರಹ್ಮಣಾ ದೃಷ್ಟಿಪೂತಂ
ಸಂಭೋಗಾಭೋಗರಮ್ಯಂ ಜಲಮಶುಭಹರಂ ಪೌಷ್ಕರಂ ನಃ ಪುನಾತು॥
ನಾರಾಯಣಂ ನಮಸ್ಕೃತ್ಯ ನರಂ ಚೈವ ನರೋತ್ತಮಮ್।
ದೇವೀಂ ಸರಸ್ವತೀಂ ವ್ಯಾಸಂ ತತೋ ಜಯಮುದೀರಯೇತ್॥
ದೇವೀಂ ಸರಸ್ವತೀಂ ವ್ಯಾಸಂ ತತೋ ಜಯಮುದೀರಯೇತ್॥
ಅಥ ಸಪ್ತತಿತಮೋಽಧ್ಯಾಯಃ॥೭೦
ನಾರದ ಉವಾಚ
ಉಪವಾಸಾಸಮರ್ಥಾನಾಂ ಸದೈವಾಮರಸತ್ತಮ।
ಏಕಾ ಯಾ ದ್ವಾದಶೀ ಪುಣ್ಯಾ ತಾಂ ವದಸ್ವ ಮಮಾನಘ॥೧॥
ಏಕಾ ಯಾ ದ್ವಾದಶೀ ಪುಣ್ಯಾ ತಾಂ ವದಸ್ವ ಮಮಾನಘ॥೧॥
ಶಿವ ಉವಾಚ
ಮಾಸಿ ಭಾದ್ರಪದೇ ಶುಕ್ಲೇ ದ್ವಾದಶೀ ಶ್ರವಣಾನ್ವಿತಾ।
ಸಾ ವೈ ಸರ್ವಪ್ರದಾ ಪುಣ್ಯಾ ಹ್ಯುಪವಾಸೇ ಮಹಾಫಲಾ॥೨॥
ಸಾ ವೈ ಸರ್ವಪ್ರದಾ ಪುಣ್ಯಾ ಹ್ಯುಪವಾಸೇ ಮಹಾಫಲಾ॥೨॥
ಸಂಗಮೇ ಸರಿತಃ ಸ್ನಾತ್ವಾ ದ್ವಾದಶೀಂ ತಾಮುಪೋಷಿತಃ।
ಅಯತ್ನಾತ್ ಸಮವಾಪ್ನೋತಿ ದ್ವಾದಶದ್ವಾದಶೀಫಲಮ್॥೩॥
ಅಯತ್ನಾತ್ ಸಮವಾಪ್ನೋತಿ ದ್ವಾದಶದ್ವಾದಶೀಫಲಮ್॥೩॥
ಬುಧಶ್ರವಣಸಂಯುಕ್ತಾ ಯಾ ಚ ವೈ ದ್ವಾದಶೀ ಭವೇತ್।
ಅತೀವ ಮಹತೀ ತಸ್ಯಾಂ ಕೃತಂ ಸರ್ವಮಥಾಕ್ಷಯಮ್॥೪॥
ಅತೀವ ಮಹತೀ ತಸ್ಯಾಂ ಕೃತಂ ಸರ್ವಮಥಾಕ್ಷಯಮ್॥೪॥
ದ್ವಾದಶೀ ಶ್ರವಣೋಪೇತಾ ಯದಾ ಭವತಿ ನಾರದ।
ಸಂಗಮೇ ಸರಿತಾಂ ಸ್ನಾತ್ವಾ ಲಭೇದ್ ಗೋದಾನಜಂ ಫಲಮ್॥೫॥
ಸಂಗಮೇ ಸರಿತಾಂ ಸ್ನಾತ್ವಾ ಲಭೇದ್ ಗೋದಾನಜಂ ಫಲಮ್॥೫॥
ಜಲಪೂರ್ಣಂ ತದಾ ಕುಂಭಂ ಸ್ಥಾಪಯಿತ್ವಾ ವಿಚಕ್ಷಣಃ।
ತಸ್ಯೋಪರಿ ನ್ಯಸೇತ್ ಪಾತ್ರಂ ಸ್ಥಾಪಯಿತ್ವಾ ಜನಾರ್ದನಮ್॥೬॥
ತಸ್ಯೋಪರಿ ನ್ಯಸೇತ್ ಪಾತ್ರಂ ಸ್ಥಾಪಯಿತ್ವಾ ಜನಾರ್ದನಮ್॥೬॥
ತತಸ್ತಸ್ಯಾಗ್ರತೋ ದೇಯಂ ನೈವೇದ್ಯಂ ಘೃತಪಾಚಿತಮ್।
ಸೋದಕಾಂಶ್ಚ ನವಾನ್ ಕುಂಭಾನ್ ದದ್ಯಾಚ್ಛಕ್ತ್ಯಾ ವಿಚಕ್ಷಣಃ॥೭॥
ಸೋದಕಾಂಶ್ಚ ನವಾನ್ ಕುಂಭಾನ್ ದದ್ಯಾಚ್ಛಕ್ತ್ಯಾ ವಿಚಕ್ಷಣಃ॥೭॥
ಏವಂ ಸಂಪೂಜ್ಯ ಗೋವಿಂದಂ ಜಾಗರಂ ತತ್ರ ಕಾರಯೇತ್।
ಪ್ರಭಾತೇ ವಿಮಲೇ ಸ್ನಾತ್ವಾ ಸಂಪೂಜ್ಯ ಗರುಡಧ್ವಜಮ್॥೮॥
ಪ್ರಭಾತೇ ವಿಮಲೇ ಸ್ನಾತ್ವಾ ಸಂಪೂಜ್ಯ ಗರುಡಧ್ವಜಮ್॥೮॥
ಪುಷ್ಪಧೂಪಾದಿನೈವೇದ್ಯೈಃ ಫಲೈರ್ವಸ್ತ್ರೈಃ ಸುಶೋಭನೈಃ।
ಪುಷ್ಪಾಂಜಲಿಂ ತತೋ ದದ್ಯಾತ್ ಮಂತ್ರಮೇನಮುದೀರಯೇತ್॥೯॥
ಪುಷ್ಪಾಂಜಲಿಂ ತತೋ ದದ್ಯಾತ್ ಮಂತ್ರಮೇನಮುದೀರಯೇತ್॥೯॥
ನಮೋ ನಮಸ್ತೇ ಗೋವಿಂದ ಬುಧಶ್ರವಣಸಂಯುತ।
ಅಘೌಘಸಂಕ್ಷಯಂ ಕೃತ್ವಾ ಸರ್ವಸೌಖ್ಯಪ್ರದೋ ಭವ॥೧೦॥
ಅಘೌಘಸಂಕ್ಷಯಂ ಕೃತ್ವಾ ಸರ್ವಸೌಖ್ಯಪ್ರದೋ ಭವ॥೧೦॥
ಅನ್ನಂ ತು ಬ್ರಾಹ್ಮಣೇ ಪೂತಂ ವೇದವೇದಾಂಗಪಾರಗೇ।
ಪುರಾಣಜ್ಞೇ ವಿಶೇಷೇಣ ವಿಧಿವತ್ ಸಂಪ್ರದಾಪಯೇತ್॥೧೧॥
ಪುರಾಣಜ್ಞೇ ವಿಶೇಷೇಣ ವಿಧಿವತ್ ಸಂಪ್ರದಾಪಯೇತ್॥೧೧॥
ಅನೇನ ವಿಧಿನಾ ಚೈವ ನದ್ಯಾಸ್ತೀರೇ ನರೋತ್ತಮಃ।
ಸರ್ವಂ ನಿರ್ವರ್ತಯೇತ್ ಸಮ್ಯಗೇಕಚಿತ್ತರತೋಽಪಿ ಸನ್॥೧೨॥
ಸರ್ವಂ ನಿರ್ವರ್ತಯೇತ್ ಸಮ್ಯಗೇಕಚಿತ್ತರತೋಽಪಿ ಸನ್॥೧೨॥
ಅತ್ರಾಪ್ಯುದಾಹರಂತೀಮಮ್ ಇತಿಹಾಸಂ ಪುರಾತನಮ್।
ಮಹತ್ಯರಣ್ಯೇ ಯದ್ ವೃತ್ತಂ ಭೂಮಿದೇವ ಶೃಣುಷ್ವ ತತ್॥೧೩॥
ಮಹತ್ಯರಣ್ಯೇ ಯದ್ ವೃತ್ತಂ ಭೂಮಿದೇವ ಶೃಣುಷ್ವ ತತ್॥೧೩॥
ಯಂ ಶ್ರುತ್ವಾ ಮಾನವೋ ಲೋಕೇ ಮಹಾದುಃಖಾತ್ ಪ್ರಮುಚ್ಯತೇ।
ದೇಶೋ ದಾಸರಕೋ ನಾಮ ತಸ್ಯ ಭಾಗೇ ಚ ಪಶ್ಚಿಮೇ॥೧೪॥
ದೇಶೋ ದಾಸರಕೋ ನಾಮ ತಸ್ಯ ಭಾಗೇ ಚ ಪಶ್ಚಿಮೇ॥೧೪॥
ತತ್ರ ವಿದ್ವನ್ ಮರುರ್ದೇಶಃ ಸರ್ವಸತ್ತ್ವಭಯಂಕರಃ।
ಸುತಪ್ತಸಿಕತಾ ಭೂಮಿರ್ಯತ್ರ ದುಷ್ಟಾ ಮಹೋರಗಾಃ॥೧೫॥
ಸುತಪ್ತಸಿಕತಾ ಭೂಮಿರ್ಯತ್ರ ದುಷ್ಟಾ ಮಹೋರಗಾಃ॥೧೫॥
ಅಲ್ಪಚ್ಛಾಯಾದ್ರುಮಾಕೀರ್ಣಾ ಮೃತಪ್ರಾಣಿಸಮಾಕುಲಾ।
ಶಮೀಖದಿರಪಾಲಾಶಕರೀರೈಃ ಪೀಲುಭಿಃ ಸಹ॥೧೬॥
ಶಮೀಖದಿರಪಾಲಾಶಕರೀರೈಃ ಪೀಲುಭಿಃ ಸಹ॥೧೬॥
ತತ್ರ ಭೀಮಾ ದ್ರುಮಗಣಾಃ ಕಂಟಕೈರಚಿತಾ ದೃಢೈಃ।
ದಗ್ಧಪ್ರಾಣಿಜನಾಕೀರ್ಣಾ ಯತ್ರ ಭೂರ್ದೃಶ್ಯತೇ ಕ್ವಚಿತ್॥೧೭॥
ದಗ್ಧಪ್ರಾಣಿಜನಾಕೀರ್ಣಾ ಯತ್ರ ಭೂರ್ದೃಶ್ಯತೇ ಕ್ವಚಿತ್॥೧೭॥
ತಥಾಽಪಿ ಜೀವಾ ಜೀವಂತಿ ಸರ್ವೇ ಕರ್ಮನಿಬಂಧನಾತ್।
ನೋದಕಂ ನೋದಕಾಧಾರಾ ವಿದ್ವಂಸ್ತತ್ರ ಬಲಾಹಕಾಃ॥೧೮॥
ನೋದಕಂ ನೋದಕಾಧಾರಾ ವಿದ್ವಂಸ್ತತ್ರ ಬಲಾಹಕಾಃ॥೧೮॥
ಪಕ್ಷಾಂತರಗತೈಃ ಕೈಶ್ಚಿಚ್ಛಿಶುಭಿಸ್ತೃಷಿತೈಃ ಸಮಮ್।
ಉತ್ಕ್ರಾಂತಜೀವಿನೋ ವಿಪ್ರ ದೃಶ್ಯಂತೇ ನು ಖಗೋತ್ತಮಾಃ॥೧೯॥
ಉತ್ಕ್ರಾಂತಜೀವಿನೋ ವಿಪ್ರ ದೃಶ್ಯಂತೇ ನು ಖಗೋತ್ತಮಾಃ॥೧೯॥
ತಸ್ಮಿಂಸ್ತಥಾವಿಧೇ ದೇಶೇ ಕಶ್ಚಿದ್ ದೈವವಶಾದ್ ವಣಿಕ್।
ನಿಜಸಾರ್ಥಪರಿಭ್ರಷ್ಟಃ ಪ್ರವಿಷ್ಟೋ ಮರುಜಾಂಗಲೇ॥೨೦॥
ನಿಜಸಾರ್ಥಪರಿಭ್ರಷ್ಟಃ ಪ್ರವಿಷ್ಟೋ ಮರುಜಾಂಗಲೇ॥೨೦॥
ಬಭ್ರಾಮೋದ್ಭ್ರಾಂತಹೃದಯಃ ಕ್ಷುತ್ತೃಡ್ಭ್ಯಾಂ ಶ್ರಮಪೀಡಿತಃ।
ಕ್ವ ಗ್ರಾಮಃ ಕ್ವ ಜಲಂ ಕ್ವಾಹಂ ಯಾಸ್ಯಾಮಿ ನ ಬುಬೋಧ ಹ॥೨೧॥
ಕ್ವ ಗ್ರಾಮಃ ಕ್ವ ಜಲಂ ಕ್ವಾಹಂ ಯಾಸ್ಯಾಮಿ ನ ಬುಬೋಧ ಹ॥೨೧॥
ಅಥ ಪ್ರೇತಾನ್ ದದರ್ಶಾಸೌ ಕ್ಷುತ್ತೃಷಾವ್ಯಾಕುಲೇಂದ್ರಿಯಾನ್।
ಉತ್ಕಟಾನ್ ಖಲಿನೋ ಭೀಮಾನ್ ನಿರ್ಮಾಂಸಾನ್ ರೌದ್ರದರ್ಶನಾನ್॥೨೨॥
ಉತ್ಕಟಾನ್ ಖಲಿನೋ ಭೀಮಾನ್ ನಿರ್ಮಾಂಸಾನ್ ರೌದ್ರದರ್ಶನಾನ್॥೨೨॥
ಪ್ರೇತಸ್ಕಂಧಸಮಾರೂಢಮ್ ಏಕಂ ವಿಕೃತದರ್ಶನಮ್।
ದದರ್ಶ ಬಹುಭಿಃ ಪ್ರೇತೈಃ ಸಮಂತಾತ್ ಪರಿವಾರಿತಮ್॥೨೩॥
ದದರ್ಶ ಬಹುಭಿಃ ಪ್ರೇತೈಃ ಸಮಂತಾತ್ ಪರಿವಾರಿತಮ್॥೨೩॥
ಅಗಚ್ಛಮಾನಮತ್ಯುಗ್ರಂ ಪ್ರೇತಶಬ್ದಪುರಃಸರಮ್।
ಪ್ರೇತೋಽಪಿ ದೃಷ್ಟ್ವಾ ತಾಂ ಘೋರಾಮಟವೀಮಾಗತಂ ನರಮ್॥೨೪॥
ಪ್ರೇತೋಽಪಿ ದೃಷ್ಟ್ವಾ ತಾಂ ಘೋರಾಮಟವೀಮಾಗತಂ ನರಮ್॥೨೪॥
ಪ್ರೇತಸ್ಕಂಧಾನ್ಮಹೀಂ ಗತ್ವಾ ತಸ್ಯಾಂತಿಕಮುಪಾಗಮತ್।
ಪ್ರಣಿಪತ್ಯ ವಣಿಕ್ಶ್ರೇಷ್ಠಮ್ ಇದಂ ವಚನಮಬ್ರವೀತ್॥೨೫॥
ಪ್ರಣಿಪತ್ಯ ವಣಿಕ್ಶ್ರೇಷ್ಠಮ್ ಇದಂ ವಚನಮಬ್ರವೀತ್॥೨೫॥
ಅಸ್ಮಿನ್ ಘೋರತರೇ ದೇಶೇ ಪ್ರವೇಶೋ ಭವತಃ ಕಥಮ್।
ತಮುವಾಚ ವಣಿಗ್ಧೀಮಾನ್ ಸಾರ್ಥಭ್ರಷ್ಟಸ್ಯ ಮೇ ವನೇ॥೨೬॥
ತಮುವಾಚ ವಣಿಗ್ಧೀಮಾನ್ ಸಾರ್ಥಭ್ರಷ್ಟಸ್ಯ ಮೇ ವನೇ॥೨೬॥
ಪ್ರವೇಶೋ ದೈವಯೋಗೇನ ಪೂರ್ವಕರ್ಮಕೃತೇನ ಚ।
ತೃಷಾ ಮೇ ಬಾಧತೇಽತ್ಯರ್ಥಂ ಕ್ಷುಧಾ ಚೈವ ಭೃಶಂ ತಥಾ॥೨೭॥
ತೃಷಾ ಮೇ ಬಾಧತೇಽತ್ಯರ್ಥಂ ಕ್ಷುಧಾ ಚೈವ ಭೃಶಂ ತಥಾ॥೨೭॥
ಪ್ರಾಣಾಂತಿಕಮನುಪ್ರಾಪ್ತಂ ವಚನಂ ಭ್ರಮತೀವ ಮೇ।
ಅತ್ರೋಪಾಯಂ ನ ಪಶ್ಯಾಮಿ ಜೀವೇಯಂ ಯೇನ ಕೇನಚಿತ್॥೨೮॥
ಅತ್ರೋಪಾಯಂ ನ ಪಶ್ಯಾಮಿ ಜೀವೇಯಂ ಯೇನ ಕೇನಚಿತ್॥೨೮॥
ಇತ್ಯೇವಮುಕ್ತೇ ಪ್ರೇತಸ್ತಂ ವಣಿಜಂ ವಾಕ್ಯಮಬ್ರವೀತ್।
ಫುಲ್ಲಾಂ ಶಮೀಂ ಸಮಾಶ್ರಿತ್ಯ ಪ್ರತೀಕ್ಷ ತ್ವಂ ಮುಹೂರ್ತಕಮ್॥೨೯॥
ಫುಲ್ಲಾಂ ಶಮೀಂ ಸಮಾಶ್ರಿತ್ಯ ಪ್ರತೀಕ್ಷ ತ್ವಂ ಮುಹೂರ್ತಕಮ್॥೨೯॥
ಕೃತಾತಿಥ್ಯೋ ಮಯಾ ಪಶ್ಚಾದ್ ಗಮಿಷ್ಯಸಿ ಯಥಾಸುಖಮ್।
ಏವಮುಕ್ತಸ್ತಥಾ ಚಕ್ರೇ ಸ ವಣಿಕ್ ತೃಷ್ಣಯಾರ್ದಿತಃ॥೩೦॥
ಏವಮುಕ್ತಸ್ತಥಾ ಚಕ್ರೇ ಸ ವಣಿಕ್ ತೃಷ್ಣಯಾರ್ದಿತಃ॥೩೦॥
ಮಧ್ಯಾಹ್ನಸಮಯೇ ಪ್ರಾಪ್ತೇ ಪ್ರೇತಸ್ತಂ ದೇಶಮಾಗತಃ।
ಫುಲ್ಲಾಂ ಸವೃಕ್ಷಾಂ ಶೀತೋದಾಂ ವಾರಿಧಾನೀಂ ಮನೋರಮಾಮ್॥೩೧॥
ಫುಲ್ಲಾಂ ಸವೃಕ್ಷಾಂ ಶೀತೋದಾಂ ವಾರಿಧಾನೀಂ ಮನೋರಮಾಮ್॥೩೧॥
ದಧ್ಯೋದನಸಮಾಯುಕ್ತಾಂ ವರ್ಧಮಾನೇನ ಸಂಯುತಾಮ್।
ಅವತೀರ್ಯ ತತಃ ಸ್ವನ್ನಂ ಪ್ರಾದಾದತಿಥಯೇ ತದಾ॥೩೨॥
ಅವತೀರ್ಯ ತತಃ ಸ್ವನ್ನಂ ಪ್ರಾದಾದತಿಥಯೇ ತದಾ॥೩೨॥
ಸ ತತ್ರಾಶನಮಾತ್ರೇಣ ಪರಂ ತೃಪ್ತಿತ್ವಮಾಗತಃ।
ವಿತೃಷ್ಣೋ ವಿಜ್ವರಶ್ಚೈವ ಕ್ಷಣೇನ ಸಮಪದ್ಯತ॥೩೩॥
ವಿತೃಷ್ಣೋ ವಿಜ್ವರಶ್ಚೈವ ಕ್ಷಣೇನ ಸಮಪದ್ಯತ॥೩೩॥
ತತಶ್ಚ ಪ್ರೇತಾಃ ಸಂಪ್ರಾಪ್ತಾಃ ಸೋಽಸ್ಮಾದ್ ಭಾಗಂ ಕ್ರಮಾದ್ ದದೌ।
ದಧ್ಯೋದನಾತ್ ಸಪಾನೀಯಾತ್ ಪ್ರೇತಾಸ್ತೃಪ್ತಿಂ ಪರಾಂ ಗತಾಃ॥೩೪॥
ದಧ್ಯೋದನಾತ್ ಸಪಾನೀಯಾತ್ ಪ್ರೇತಾಸ್ತೃಪ್ತಿಂ ಪರಾಂ ಗತಾಃ॥೩೪॥
ಅತಿಥಿಂ ತರ್ಪಯಿತ್ವಾ ತು ಪ್ರೇತಲೋಕಂ ಚ ಸರ್ವತಃ।
ತತಃ ಸ್ವಯಂ ಸ ಬುಭುಜೇ ಭುಕ್ತಶೇಷಂ ಯಥಾಸುಖಮ್॥೩೫॥
ತತಃ ಸ್ವಯಂ ಸ ಬುಭುಜೇ ಭುಕ್ತಶೇಷಂ ಯಥಾಸುಖಮ್॥೩೫॥
ತಸ್ಯ ಭುಕ್ತವತಃ ಸ್ವನ್ನಂ ಪಾನೀಯಂ ಚ ಕ್ಷಯಂ ಯಯೌ।
ಪ್ರೇತಾಧಿಪಂ ತತಸ್ತಂ ವೈ ವಣಿಗ್ವಚನಮಬ್ರವೀತ್॥೩೬॥
ಪ್ರೇತಾಧಿಪಂ ತತಸ್ತಂ ವೈ ವಣಿಗ್ವಚನಮಬ್ರವೀತ್॥೩೬॥
ಆಶ್ಚರ್ಯಮೇತತ್ ಪರಮಂ ವನೇಽಸ್ಮಿನ್ ಪ್ರತಿಭಾತಿ ಮೇ।
ಅನ್ನಂ ಪಾನಂ ಚ ಪರಮಂ ಸಂಪ್ರಾಪ್ತಂ ಚ ಕುತಸ್ತವ॥೩೭॥
ಅನ್ನಂ ಪಾನಂ ಚ ಪರಮಂ ಸಂಪ್ರಾಪ್ತಂ ಚ ಕುತಸ್ತವ॥೩೭॥
ಸ್ವಲ್ಪೇನೈವ ತಥಾಽನ್ನೇನ ತ್ವಮೇತಾಂಸ್ತು ಬಹೂನಪಿ।
ಅತರ್ಪಯಃ ಕಥಂ ತ್ವೇತೇ ನಿರ್ಮಾಂಸಾ ಭಿನ್ನಕುಕ್ಷಯಃ॥೩೮॥
ಅತರ್ಪಯಃ ಕಥಂ ತ್ವೇತೇ ನಿರ್ಮಾಂಸಾ ಭಿನ್ನಕುಕ್ಷಯಃ॥೩೮॥
ಕಥಮಸ್ಯಾಂ ಸುಘೋರಾಯಾಮಟವ್ಯಾಂ ಚ ಕೃತಾಲಯಾಃ।
ತದೇತತ್ ಸಂಶಯಂ ಛಿಂಧಿ ಪರಂ ಕೌತೂಹಲಂ ಮಮ॥೩೯॥
ತದೇತತ್ ಸಂಶಯಂ ಛಿಂಧಿ ಪರಂ ಕೌತೂಹಲಂ ಮಮ॥೩೯॥
ಏವಮುಕ್ತಃ ಸ ವಣಿಜಾ ಪ್ರೇತೋ ವಚನಮಬ್ರವೀತ್।
ವಾಣಿಜ್ಯಸಕ್ತಸ್ಯ ಪುರಾ ಜನ್ಮಾತೀತೇ ಮಮಾನಘ॥೪೦॥
ವಾಣಿಜ್ಯಸಕ್ತಸ್ಯ ಪುರಾ ಜನ್ಮಾತೀತೇ ಮಮಾನಘ॥೪೦॥
ಸಕಲೇ ನಗರೇ ನಾಸ್ತಿ ಮಮಾನ್ಯೋ ಹಿ ದುರಾತ್ಮಕಃ।
ಧನಲೋಭಾನ್ನ ಕಸ್ಯಾಪಿ ದತ್ತಾ ಭಿಕ್ಷಾ ಮಯಾ ತದಾ॥೪೧॥
ಧನಲೋಭಾನ್ನ ಕಸ್ಯಾಪಿ ದತ್ತಾ ಭಿಕ್ಷಾ ಮಯಾ ತದಾ॥೪೧॥
ಸಖಾ ಚೈವ ತತಶ್ಚಾಸೀದ್ ಬ್ರಾಹ್ಮಣೋ ಗುಣವಾನ್ ಮಮ।
ಶ್ರಾವಣದ್ವಾದಶೀಯೋಗೇ ಮಾಸಿ ಭಾದ್ರಪದೇ ತತಃ॥೪೨॥
ಶ್ರಾವಣದ್ವಾದಶೀಯೋಗೇ ಮಾಸಿ ಭಾದ್ರಪದೇ ತತಃ॥೪೨॥
ಸ ಕದಾಚಿನ್ಮಯಾ ಸಾರ್ಧಂ ತಾಪೀಂ ನಾಮ ನದೀಂ ಯಯೌ।
ತಸ್ಯಾಶ್ಚ ಸಂಗಮಃ ಪುಣ್ಯೋ ಯತ್ರಾಽಽಸೀಚ್ಚಂದ್ರಭಾಗಯಾ॥೪೩॥
ತಸ್ಯಾಶ್ಚ ಸಂಗಮಃ ಪುಣ್ಯೋ ಯತ್ರಾಽಽಸೀಚ್ಚಂದ್ರಭಾಗಯಾ॥೪೩॥
ಚಂದ್ರಭಾಗಾ ಚಂದ್ರಸುತಾ ತಾಪೀ ಚೈವಾರ್ಕನಂದಿನೀ।
ತಯೋಃ ಶೀತೋಷ್ಣಸಲಿಲೇ ಪ್ರವಿವೇಶ ಸ ಹ ದ್ವಿಜಃ॥೪೪॥
ತಯೋಃ ಶೀತೋಷ್ಣಸಲಿಲೇ ಪ್ರವಿವೇಶ ಸ ಹ ದ್ವಿಜಃ॥೪೪॥
ಶ್ರವಣದ್ವಾದಶೀಯೋಗೇ ನರಾಶ್ಚ ಸಮುಪೋಷಿತಾಃ।
ಚಂದ್ರಭಾಗಾಸುತೋ ಯೇನ ವಾರಿಧಾನೀಂ ದದುರ್ದ್ವಿಜೇ॥೪೫॥
ಚಂದ್ರಭಾಗಾಸುತೋ ಯೇನ ವಾರಿಧಾನೀಂ ದದುರ್ದ್ವಿಜೇ॥೪೫॥
ದಧ್ಯೋದನಯುತಾಂ ಸಾರ್ಧಂ ಸಂಪೂರ್ಣೈರ್ವರ್ಧಮಾನಕೈಃ।
ಛತ್ರೋಪಾನದ್ಯುಗಂ ವಸ್ತ್ರಂ ಪ್ರತಿಮಾಂ ಚ ತಥಾ ಹರೇಃ॥೪೬॥
ಛತ್ರೋಪಾನದ್ಯುಗಂ ವಸ್ತ್ರಂ ಪ್ರತಿಮಾಂ ಚ ತಥಾ ಹರೇಃ॥೪೬॥
ಪ್ರದದೌ ವಿಪ್ರಮುಖ್ಯೇಭ್ಯೋ ಹರಸ್ಯಾಗ್ರೇ ಮಹಾಮತೇ।
ವಿತ್ತಸಂರಕ್ಷಣಾರ್ಥಾಯ ತಸ್ಯಾಸ್ತೀರೇ ವ್ರತೇ ಮಯಾ॥೪೭॥
ವಿತ್ತಸಂರಕ್ಷಣಾರ್ಥಾಯ ತಸ್ಯಾಸ್ತೀರೇ ವ್ರತೇ ಮಯಾ॥೪೭॥
ಸೋಪವಾಸೇನ ದತ್ತೈಕಾ ವಾರಿಧಾನೀ ಮನೋರಮಾ।
ತತ್ಕೃತ್ವಾಽಹಂ ಗೃಹಂ ಪ್ರಾಪ್ತಸ್ತತಃ ಕಾಲೇನ ಕೇನಚಿತ್॥೪೮॥
ತತ್ಕೃತ್ವಾಽಹಂ ಗೃಹಂ ಪ್ರಾಪ್ತಸ್ತತಃ ಕಾಲೇನ ಕೇನಚಿತ್॥೪೮॥
ಪಂಚತ್ವಮಹಮಾಸಾದ್ಯ ನಾಸ್ತಿಕ್ಯಾತ್ ಪ್ರೇತತಾಂ ಗತಃ।
ಅಸ್ಯಾಮಟವ್ಯಾಂ ಘೋರಾಯಾಂ ಯಥಾ ಹ್ಯಹಿಕುಲಂ ತಥಾ॥೪೯॥
ಅಸ್ಯಾಮಟವ್ಯಾಂ ಘೋರಾಯಾಂ ಯಥಾ ಹ್ಯಹಿಕುಲಂ ತಥಾ॥೪೯॥
ಶ್ರವಣದ್ವಾದಶೀಯೋಗೇ ವಾರಿಧಾನ್ಯರ್ಪಿತಾ ಮಯಾ।
ಸೇಯಂ ಮಧ್ಯಾಹ್ನಸಮಯೇ ಲಭ್ಯತೇ ಚ ದಿನೇ ದಿನೇ॥೫೦॥
ಸೇಯಂ ಮಧ್ಯಾಹ್ನಸಮಯೇ ಲಭ್ಯತೇ ಚ ದಿನೇ ದಿನೇ॥೫೦॥
ಬ್ರಹ್ಮಸ್ವರೂಪಿಣಃ ಸರ್ವೇ ಪಾಪಾಃ ಪ್ರೇತತ್ವಮಾಗತಾಃ।
ಪರದಾರಗತಾಃ ಕೇಚಿತ್ ಸ್ವಾಮಿದ್ರೋಹರತಾಶ್ಚ ಯೇ॥೫೧॥
ಪರದಾರಗತಾಃ ಕೇಚಿತ್ ಸ್ವಾಮಿದ್ರೋಹರತಾಶ್ಚ ಯೇ॥೫೧॥
ಭೂತಪ್ರೇತಜರೂಪೇಣ ತೇ ಜಾತಾ ಹ್ಯತ್ರ ಮಾನವಾಃ।
ದೇಶೇ ಮರುಸ್ಥಲೇ ತ್ವಸ್ಮಿನ್ ಮಮೈತೇ ಮಿತ್ರತಾಂ ಗತಾಃ॥೫೨॥
ದೇಶೇ ಮರುಸ್ಥಲೇ ತ್ವಸ್ಮಿನ್ ಮಮೈತೇ ಮಿತ್ರತಾಂ ಗತಾಃ॥೫೨॥
ಅಕ್ಷಯೋ ಭಗವಾನ್ ವಿಷ್ಣುಃ ಪರಮಾತ್ಮಾ ಸನಾತನಃ।
ದೀಯತೇ ಯತ್ ಸಮುದ್ದಿಶ್ಯ ಹ್ಯಕ್ಷಯಂ ತತ್ ಪ್ರಕೀರ್ತಿತಮ್॥೫೩॥
ದೀಯತೇ ಯತ್ ಸಮುದ್ದಿಶ್ಯ ಹ್ಯಕ್ಷಯಂ ತತ್ ಪ್ರಕೀರ್ತಿತಮ್॥೫೩॥
ಅಕ್ಷಯೇನಾಪಿ ಚಾನ್ನೇನ ತೃಪ್ತಾ ಏತೇ ಪುನಃ ಪುನಃ।
ಪ್ರೇತತ್ವಭಾವಂ ದೌರ್ಬಲ್ಯಂ ನ ವಿಮುಂಚತಿ ಕರ್ಹಿಚಿತ್॥೫೪॥
ಪ್ರೇತತ್ವಭಾವಂ ದೌರ್ಬಲ್ಯಂ ನ ವಿಮುಂಚತಿ ಕರ್ಹಿಚಿತ್॥೫೪॥
ಪೂಜಯಿತ್ವಾಽಹಮನ್ನೈಸ್ತ್ವಾಮತಿಥಿಂ ಸಮುಪಸ್ಥಿತಮ್।
ಪ್ರೇತಭಾವಾದ್ ವಿನಿರ್ಮುಕ್ತೋ ಯಾಸ್ಯಾಮಿ ಪರಮಾಂ ಗತಿಮ್॥೫೫॥
ಪ್ರೇತಭಾವಾದ್ ವಿನಿರ್ಮುಕ್ತೋ ಯಾಸ್ಯಾಮಿ ಪರಮಾಂ ಗತಿಮ್॥೫೫॥
ಮಯಾ ವಿಹೀನಾಃ ಕಿಂ ತ್ವೇತೇ ವನೇಽಸ್ಮಿನ್ ಭೃಶದಾರುಣೇ।
ಪೀಡಾಮನುಭವಿಷ್ಯಂತಿ ದಾರುಣಾಂ ಕರ್ಮಯೋನಿಜಾಮ್॥೫೬॥
ಪೀಡಾಮನುಭವಿಷ್ಯಂತಿ ದಾರುಣಾಂ ಕರ್ಮಯೋನಿಜಾಮ್॥೫೬॥
ಏತೇಷಾಂ ತು ಮಹಾಭಾಗ ಮಮಾನುಗ್ರಹಕಾಮ್ಯಯಾ।
ಪ್ರತ್ಯೇಕಂ ನಾಮಗೋತ್ರಾಣಿ ಗೃಹ್ಣೀಷ್ವ ಲಿಖಿತಾನಿ ಚ॥೫೭॥
ಪ್ರತ್ಯೇಕಂ ನಾಮಗೋತ್ರಾಣಿ ಗೃಹ್ಣೀಷ್ವ ಲಿಖಿತಾನಿ ಚ॥೫೭॥
ಅಸ್ತಿ ಕಕ್ಷಾಗತಾ ಚೈವ ತವ ಸಂಪುಟಿಕಾ ಶುಭಾ।
ಹಿಮವಂತಮಥಾಸಾದ್ಯ ತತ್ರ ತ್ವಂ ಲಪ್ಸ್ಯಸೇ ನಿಧಿಮ್॥೫೮॥
ಹಿಮವಂತಮಥಾಸಾದ್ಯ ತತ್ರ ತ್ವಂ ಲಪ್ಸ್ಯಸೇ ನಿಧಿಮ್॥೫೮॥
ಗಯಾಶೀರ್ಷಂ ತತೋ ಗತ್ವಾ ಶ್ರಾದ್ಧಂ ಕುರು ಮಹಾಮತೇ।
ಇತ್ಯಾಜ್ಞಾಪ್ಯ ಸ ವೈ ಪ್ರೇತೋ ವಣಿಜಂ ಚ ಯಥಾಸುಖಮ್॥೫೯॥
ಇತ್ಯಾಜ್ಞಾಪ್ಯ ಸ ವೈ ಪ್ರೇತೋ ವಣಿಜಂ ಚ ಯಥಾಸುಖಮ್॥೫೯॥
ವಿಸರ್ಜಯಾಮಾಸ ತದಾ ಸ ವೈ ಪ್ರಾಯಾತ್ ಸಮುತ್ಸುಕಃ।
ಸಮಾಸಾದ್ಯ ಗೃಹಂ ತತ್ರ ಪಶ್ಚಾತ್ ಪ್ರಾಯಾದ್ ಹಿಮಾಲಯಮ್॥೬೦॥
ಸಮಾಸಾದ್ಯ ಗೃಹಂ ತತ್ರ ಪಶ್ಚಾತ್ ಪ್ರಾಯಾದ್ ಹಿಮಾಲಯಮ್॥೬೦॥
ತತೋ ದೃಷ್ಟಂ ನಿಧಿಂ ತತ್ರ ಗೃಹೀತ್ವಾ ಸ ಸಮಾಗತಃ।
ಷಷ್ಠಾಂಶಂ ಪ್ರತಿಗೃಹ್ಯಾಥ ಗಯಾಶೀರ್ಷಂ ತತೋಽಭ್ಯಗಾತ್॥೬೧॥
ಷಷ್ಠಾಂಶಂ ಪ್ರತಿಗೃಹ್ಯಾಥ ಗಯಾಶೀರ್ಷಂ ತತೋಽಭ್ಯಗಾತ್॥೬೧॥
ತತ್ರ ಗತ್ವಾ ಗಯಾಯಾಂ ಸ ಶ್ರಾದ್ಧಂ ಕೃತ್ವಾ ಮಹಾಮತಿಃ।
ಪ್ರೇತಾನಾಂ ತು ಯಥೋದ್ದಿಷ್ಟಂ ಶ್ರಾದ್ಧಂ ಸಮ್ಯಗ್ ವಿಧಾನತಃ॥೬೨॥
ಪ್ರೇತಾನಾಂ ತು ಯಥೋದ್ದಿಷ್ಟಂ ಶ್ರಾದ್ಧಂ ಸಮ್ಯಗ್ ವಿಧಾನತಃ॥೬೨॥
ಪ್ರತ್ಯೇಕಂ ನಾಮಗೋತ್ರಾಣಿ ಗೃಹೀತ್ವಾ ಪಿಂಡಮುತ್ಸೃಜತ್।
ಯಸ್ಯ ಯಸ್ಯ ಭವೇತ್ ಶ್ರಾದ್ಧಂ ಸ ಕರೋತಿ ದಿನೇ ವಣಿಕ್॥೬೩॥
ಯಸ್ಯ ಯಸ್ಯ ಭವೇತ್ ಶ್ರಾದ್ಧಂ ಸ ಕರೋತಿ ದಿನೇ ವಣಿಕ್॥೬೩॥
ಸ ಸ ತಸ್ಯ ತದಾ ಸ್ವಪ್ನೇ ದರ್ಶಯತ್ಯಾತ್ಮನಸ್ತನುಮ್।
ಬ್ರವೀತಿ ಚ ಮಹಾಭಾಗ ಪ್ರಸಾದಾದ್ ಭವತೋಽನಘ॥೬೪॥
ಬ್ರವೀತಿ ಚ ಮಹಾಭಾಗ ಪ್ರಸಾದಾದ್ ಭವತೋಽನಘ॥೬೪॥
ಪ್ರೇತಭಾವಂ ಮಯಾ ತ್ಯಕ್ತಂ ಪ್ರಾಪ್ತೋಽಸ್ಮಿ ಪರಮಾಂ ಗತಿಮ್।
ಏವಂ ಕೃತ್ವಾ ವಿಧಾನೇನ ಗಯಾಶೀರ್ಷಂ ಮಹಾಮನಾಃ॥೬೫॥
ಏವಂ ಕೃತ್ವಾ ವಿಧಾನೇನ ಗಯಾಶೀರ್ಷಂ ಮಹಾಮನಾಃ॥೬೫॥
ಪಶ್ಚಾಜ್ಜಗಾಮ ಸ್ವಗೃಹಂ ವಿಷ್ಣುಂ ಧ್ಯಾಯನ್ ಪುನಃ ಪುನಃ।
ಮಾಸಿ ಭಾದ್ರಪದೇ ಪ್ರಾಪ್ತೇ ಶುಕ್ಲಪಕ್ಷೇ ತಥಾ ಸುಧೀಃ॥೬೬॥
ಮಾಸಿ ಭಾದ್ರಪದೇ ಪ್ರಾಪ್ತೇ ಶುಕ್ಲಪಕ್ಷೇ ತಥಾ ಸುಧೀಃ॥೬೬॥
ಶ್ರವಣದ್ವಾದಶೀಯೋಗೇ ಸಂಗಮೇ ಸರಿತಾಂ ಪುನಃ।
ಜಗಾಮ ಸ ಮಹಾಬುದ್ಧಿಃ ಸರ್ವೋಪಸ್ಕರಸಂಯುತಃ॥೬೭॥
ಜಗಾಮ ಸ ಮಹಾಬುದ್ಧಿಃ ಸರ್ವೋಪಸ್ಕರಸಂಯುತಃ॥೬೭॥
ಸಂಗಮೇ ಸರಿತಾಂ ಸ್ನಾತ್ವಾ ದ್ವಾದಶೀಂ ತಾಮುಪೋಷಿತಃ।
ತತ್ರ ಸ್ನಾತ್ವಾಽಪಿ ದತ್ತ್ವಾ ತು ಪೂಜಯಿತ್ವಾ ಜನಾರ್ದನಮ್॥೬೮॥
ತತ್ರ ಸ್ನಾತ್ವಾಽಪಿ ದತ್ತ್ವಾ ತು ಪೂಜಯಿತ್ವಾ ಜನಾರ್ದನಮ್॥೬೮॥
ಅನಂತರಂ ಬ್ರಾಹ್ಮಣಸ್ಯ ಹ್ಯುಪಹಾರಾಂಸ್ತದಾ ದದೌ।
ಶಾಸ್ತ್ರೋಕ್ತೇನಾಪಿ ವಿಧಿನಾ ಹ್ಯೇಕಚಿತ್ತರತೋಽಪಿ ಸಃ॥೬೯॥
ಶಾಸ್ತ್ರೋಕ್ತೇನಾಪಿ ವಿಧಿನಾ ಹ್ಯೇಕಚಿತ್ತರತೋಽಪಿ ಸಃ॥೬೯॥
ನಿವರ್ತಯಾಮಾಸ ತದಾ ವಣಿಜೋ ಬುದ್ಧಿಮಾನ್ ಸ ವೈ।
ವರ್ಷೇ ವರ್ಷೇ ತು ಸಂಪ್ರಾಪ್ತೇ ಮಾಸಿ ಭಾದ್ರಪದೇ ತಥಾ॥೭೦॥
ವರ್ಷೇ ವರ್ಷೇ ತು ಸಂಪ್ರಾಪ್ತೇ ಮಾಸಿ ಭಾದ್ರಪದೇ ತಥಾ॥೭೦॥
ಶ್ರವಣದ್ವಾದಶೀಯೋಗೇ ಸಂಗಮೇ ಸರಿತಾಂ ಪುನಃ।
ಏವಂ ವೈ ಕೃತವಾನ್ ಸರ್ವಂ ವಿಷ್ಣುಮುದ್ದಿಶ್ಯ ಸತ್ವರಮ್॥೭೧॥
ಏವಂ ವೈ ಕೃತವಾನ್ ಸರ್ವಂ ವಿಷ್ಣುಮುದ್ದಿಶ್ಯ ಸತ್ವರಮ್॥೭೧॥
ಕಾಲೇನ ಚಾತಿಮಹತಾ ಪಂಚತ್ವಂ ಸಮುಪಾಗತಃ।
ಅವಾಪ ಪರಮಂ ಸ್ಥಾನಂ ದುರ್ಲಭಂ ಸರ್ವಮಾನವೈಃ॥೭೨॥
ಅವಾಪ ಪರಮಂ ಸ್ಥಾನಂ ದುರ್ಲಭಂ ಸರ್ವಮಾನವೈಃ॥೭೨॥
ಕ್ರೀಡತೇಽದ್ಯಾಪಿ ವೈಕುಂಠೇ ವಿಷ್ಣುದೂತೈಃ ಸ ಸೇವಿತಃ।
ಏವಂ ಕುರು ತ್ವಂ ಭೋ ಬ್ರಹ್ಮನ್ ಶ್ರವಣದ್ವಾದಶೀವ್ರತಮ್॥೭೩॥
ಏವಂ ಕುರು ತ್ವಂ ಭೋ ಬ್ರಹ್ಮನ್ ಶ್ರವಣದ್ವಾದಶೀವ್ರತಮ್॥೭೩॥
ಸರ್ವಸೌಭಾಗ್ಯದಂ ಚೈವ ಇಹ ಲೋಕೇ ಪರತ್ರ ಚ।
ಸುಬುದ್ಧಿಜನನಂ ಚೈವ ಸರ್ವಪಾಪಹರಂ ಪರಮ್॥೭೪॥
ಸುಬುದ್ಧಿಜನನಂ ಚೈವ ಸರ್ವಪಾಪಹರಂ ಪರಮ್॥೭೪॥
ಶ್ರವಣದ್ವಾದಶೀಯೋಗೇ ಯಃ ಕುರ್ಯಾದ್ ವ್ರತಮೀದೃಶಮ್।
ವ್ರತಸ್ಯಾಸ್ಯ ಪ್ರಭಾವೇಣ ವಿಷ್ಣುಲೋಕಂ ಚ ಗಚ್ಛತಿ॥೭೫॥
ವ್ರತಸ್ಯಾಸ್ಯ ಪ್ರಭಾವೇಣ ವಿಷ್ಣುಲೋಕಂ ಚ ಗಚ್ಛತಿ॥೭೫॥
॥ಇತಿ ಶ್ರೀಪಾದ್ಮೇ ಮಹಾಪುರಾಣೇ ಪಂಚಪಂಚಾಶತ್ಸಾಹಸ್ರ್ಯಾಂ ಸಂಹಿತಾಯಾಮುತ್ತರಖಂಡೇ ಉಮಾಪತಿನಾರದಸಂವಾದೇ ಶ್ರವಣದ್ವಾದಶೀವ್ರತಂ ನಾಮ ಸಪ್ತತಿತಮೋಽಧ್ಯಾಯಃ॥೭೦॥
ಮಂಗಲಶ್ಲೋಕಾಃ
ಸ್ವಸ್ತಿ ಪ್ರಜಾಭ್ಯಃ ಪರಿಪಾಲಯಂತಾಂ
ನ್ಯಾಯೇನ ಮಾರ್ಗೇಣ ಮಹೀಂ ಮಹೀಶಾಃ।
ಗೋಬ್ರಾಹ್ಮಣೇಭ್ಯಃ ಶುಭಮಸ್ತು ನಿತ್ಯಂ
ಲೋಕಾಃ ಸಮಸ್ತಾಃ ಸುಖಿನೋ ಭವಂತು॥
ನ್ಯಾಯೇನ ಮಾರ್ಗೇಣ ಮಹೀಂ ಮಹೀಶಾಃ।
ಗೋಬ್ರಾಹ್ಮಣೇಭ್ಯಃ ಶುಭಮಸ್ತು ನಿತ್ಯಂ
ಲೋಕಾಃ ಸಮಸ್ತಾಃ ಸುಖಿನೋ ಭವಂತು॥
ಕಾಲೇ ವರ್ಷತು ಪರ್ಜನ್ಯಃ ಪೃಥಿವೀ ಸಸ್ಯಶಾಲಿನೀ।
ದೇಶೋಽಯಂ ಕ್ಷೋಭರಹಿತೋ ಬ್ರಾಹ್ಮಣಾಃ ಸಂತು ನಿರ್ಭಯಾಃ॥
ದೇಶೋಽಯಂ ಕ್ಷೋಭರಹಿತೋ ಬ್ರಾಹ್ಮಣಾಃ ಸಂತು ನಿರ್ಭಯಾಃ॥
ಅಪುತ್ರಾಃ ಪುತ್ರಿಣಃ ಸಂತು ಪುತ್ರಿಣಃ ಸಂತು ಪೌತ್ರಿಣಃ।
ಅಧನಾಃ ಸಧನಾಃ ಸಂತು ಜೀವಂತು ಶರದಾಂ ಶತಮ್॥
ಅಧನಾಃ ಸಧನಾಃ ಸಂತು ಜೀವಂತು ಶರದಾಂ ಶತಮ್॥
ಯದಕ್ಷರಪದಭ್ರಷ್ಟಂ ಮಾತ್ರಾಹೀನಂ ತು ಯದ್ ಭವೇತ್।
ತತ್ ಸರ್ವಂ ಕ್ಷಮ್ಯತಾಂ ದೇವ ನಾರಾಯಣ ನಮೋಽಸ್ತುತೇ॥
ತತ್ ಸರ್ವಂ ಕ್ಷಮ್ಯತಾಂ ದೇವ ನಾರಾಯಣ ನಮೋಽಸ್ತುತೇ॥
ವಿಸರ್ಗಬಿಂದುಮಾತ್ರಾಶ್ಚ ಪದಪಾದಾಕ್ಷರಾಣಿ ಚ।
ನ್ಯೂನಾನಿ ಚಾತಿರಿಕ್ತಾನಿ ಕ್ಷಮಸ್ವ ಪುರುಷೋತ್ತಮ॥
ನ್ಯೂನಾನಿ ಚಾತಿರಿಕ್ತಾನಿ ಕ್ಷಮಸ್ವ ಪುರುಷೋತ್ತಮ॥
ಯಜ್ಞೇಶಾಚ್ಯುತ ಗೋವಿಂದ ಮಾಧವಾನಂತ ಕೇಶವ।
ಕೃಷ್ಣ ವಿಷ್ಣೋ ಹೃಷೀಕೇಶ ವಾಸುದೇವ ನಮೋಽಸ್ತುತೇ॥
ಕೃಷ್ಣ ವಿಷ್ಣೋ ಹೃಷೀಕೇಶ ವಾಸುದೇವ ನಮೋಽಸ್ತುತೇ॥
ಕಾಯೇನ ವಾಚಾ ಮನಸೇಂದ್ರಿಯೈರ್ವಾ
ಬುದ್ಧ್ಯಾಽಽತ್ಮನಾ ವಾ ಪ್ರಕೃತೇಃ ಸ್ವಭಾವಾತ್।
ಕರೋಮಿ ಯದ್ಯತ್ ಸಕಲಂ ಪರಸ್ಮೈ
ನಾರಾಯಣಾಯೇತಿ ಸಮರ್ಪಯಾಮಿ॥
ಬುದ್ಧ್ಯಾಽಽತ್ಮನಾ ವಾ ಪ್ರಕೃತೇಃ ಸ್ವಭಾವಾತ್।
ಕರೋಮಿ ಯದ್ಯತ್ ಸಕಲಂ ಪರಸ್ಮೈ
ನಾರಾಯಣಾಯೇತಿ ಸಮರ್ಪಯಾಮಿ॥
Śravaṇadvādaśīvratam
śrī-mahāgaṇapati-prārthanā
śuklāmbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam|
prasannavadanaṃ dhyāyet sarvavighnopaśāntaye||
prasannavadanaṃ dhyāyet sarvavighnopaśāntaye||
vāgīśādyāḥ sumanasaḥ sarvārthānāmupakrame|
yaṃ natvā kṛtakṛtyāḥ syustaṃ namāmi gajānanam||
yaṃ natvā kṛtakṛtyāḥ syustaṃ namāmi gajānanam||
śrī-guru-prārthanā
gururbrahmā gururviṣṇurgururdevo maheśvaraḥ|
guruḥ sākṣāt paraṃ brahma tasmai śrī-gurave namaḥ||
guruḥ sākṣāt paraṃ brahma tasmai śrī-gurave namaḥ||
sadāśivasamārambhāṃ śaṅkarācāryamadhyamām|
asmadācāryaparyantāṃ vande guruparamparām||
asmadācāryaparyantāṃ vande guruparamparām||
śrī-sarasvatī-prārthanā
dorbhiryuktā caturbhiḥ sphaṭikamaṇinibhairakṣamālāṃ dadhānā
hastenaikena padmaṃ sitamapi ca śukaṃ pustakaṃ cāpareṇa|
bhāsā kundenduśaṅkhasphaṭikamaṇinibhā bhāsamānā'samānā
sā me vāgdevateyaṃ nivasatu vadane sarvadā suprasannā||
hastenaikena padmaṃ sitamapi ca śukaṃ pustakaṃ cāpareṇa|
bhāsā kundenduśaṅkhasphaṭikamaṇinibhā bhāsamānā'samānā
sā me vāgdevateyaṃ nivasatu vadane sarvadā suprasannā||
śrī-vyāsa-namaskriyā
vyāsaṃ vasiṣṭhanaptāraṃ śakteḥ pautramakalmaṣam|
parāśarātmajaṃ vande śukatātaṃ taponidhim||1||
parāśarātmajaṃ vande śukatātaṃ taponidhim||1||
abhraśyāmaḥ piṅgajaṭābaddhakalāpaḥ
prāṃśurdaṇḍī kṛṣṇamṛgatvakparidhānaḥ|
sākṣāllokān pāvayamānaḥ kavimukhyaḥ
pārāśaryaḥ parvasu rūpaṃ vivṛṇotu||2||
prāṃśurdaṇḍī kṛṣṇamṛgatvakparidhānaḥ|
sākṣāllokān pāvayamānaḥ kavimukhyaḥ
pārāśaryaḥ parvasu rūpaṃ vivṛṇotu||2||
jayati parāśarasūnuḥ satyavatīhṛdayanandano vyāsaḥ|
yasyāsyakamalagalitaṃ vāṅmayamamṛtaṃ jagat pibati||3||
yasyāsyakamalagalitaṃ vāṅmayamamṛtaṃ jagat pibati||3||
pādmamahāpurāṇam — maṅgalaślokaḥ
svacchaṃ candrāvadātaṃ karikara-makara-kṣobha-sañjāta-phenaṃ
brahmodbhūtiprasaktairvrataniyamaparaiḥ sevitaṃ vipramukhyaiḥ|
oṅkārālaṅkṛtena tribhuvanaguruṇā brahmaṇā dṛṣṭipūtaṃ
sambhogābhogaramyaṃ jalamaśubhaharaṃ pauṣkaraṃ naḥ punātu||
brahmodbhūtiprasaktairvrataniyamaparaiḥ sevitaṃ vipramukhyaiḥ|
oṅkārālaṅkṛtena tribhuvanaguruṇā brahmaṇā dṛṣṭipūtaṃ
sambhogābhogaramyaṃ jalamaśubhaharaṃ pauṣkaraṃ naḥ punātu||
nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam|
devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet||
devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet||
atha saptatitamo'dhyāyaḥ||70
nārada uvāca
upavāsāsamarthānāṃ sadaivāmarasattama|
ekā yā dvādaśī puṇyā tāṃ vadasva mamānagha||1||
ekā yā dvādaśī puṇyā tāṃ vadasva mamānagha||1||
śiva uvāca
māsi bhādrapade śukle dvādaśī śravaṇānvitā|
sā vai sarvapradā puṇyā hyupavāse mahāphalā||2||
sā vai sarvapradā puṇyā hyupavāse mahāphalā||2||
saṅgame saritaḥ snātvā dvādaśīṃ tāmupoṣitaḥ|
ayatnāt samavāpnoti dvādaśadvādaśīphalam||3||
ayatnāt samavāpnoti dvādaśadvādaśīphalam||3||
budhaśravaṇasaṃyuktā yā ca vai dvādaśī bhavet|
atīva mahatī tasyāṃ kṛtaṃ sarvamathākṣayam||4||
atīva mahatī tasyāṃ kṛtaṃ sarvamathākṣayam||4||
dvādaśī śravaṇopetā yadā bhavati nārada|
saṅgame saritāṃ snātvā labhed godānajaṃ phalam||5||
saṅgame saritāṃ snātvā labhed godānajaṃ phalam||5||
jalapūrṇaṃ tadā kumbhaṃ sthāpayitvā vicakṣaṇaḥ|
tasyopari nyaset pātraṃ sthāpayitvā janārdanam||6||
tasyopari nyaset pātraṃ sthāpayitvā janārdanam||6||
tatastasyāgrato deyaṃ naivedyaṃ ghṛtapācitam|
sodakāṃśca navān kumbhān dadyācchaktyā vicakṣaṇaḥ||7||
sodakāṃśca navān kumbhān dadyācchaktyā vicakṣaṇaḥ||7||
evaṃ sampūjya govindaṃ jāgaraṃ tatra kārayet|
prabhāte vimale snātvā sampūjya garuḍadhvajam||8||
prabhāte vimale snātvā sampūjya garuḍadhvajam||8||
puṣpadhūpādinaivedyaiḥ phalairvastraiḥ suśobhanaiḥ|
puṣpāñjaliṃ tato dadyāt mantramenamudīrayet||9||
puṣpāñjaliṃ tato dadyāt mantramenamudīrayet||9||
namo namaste govinda budhaśravaṇasaṃyuta|
aghaughasaṅkṣayaṃ kṛtvā sarvasaukhyaprado bhava||10||
aghaughasaṅkṣayaṃ kṛtvā sarvasaukhyaprado bhava||10||
annaṃ tu brāhmaṇe pūtaṃ vedavedāṅgapārage|
purāṇajñe viśeṣeṇa vidhivat sampradāpayet||11||
purāṇajñe viśeṣeṇa vidhivat sampradāpayet||11||
anena vidhinā caiva nadyāstīre narottamaḥ|
sarvaṃ nirvartayet samyagekacittarato'pi san||12||
sarvaṃ nirvartayet samyagekacittarato'pi san||12||
atrāpyudāharantīmam itihāsaṃ purātanam|
mahatyaraṇye yad vṛttaṃ bhūmideva śṛṇuṣva tat||13||
mahatyaraṇye yad vṛttaṃ bhūmideva śṛṇuṣva tat||13||
yaṃ śrutvā mānavo loke mahāduḥkhāt pramucyate|
deśo dāsarako nāma tasya bhāge ca paścime||14||
deśo dāsarako nāma tasya bhāge ca paścime||14||
tatra vidvan marurdeśaḥ sarvasattvabhayaṅkaraḥ|
sutaptasikatā bhūmiryatra duṣṭā mahoragāḥ||15||
sutaptasikatā bhūmiryatra duṣṭā mahoragāḥ||15||
alpacchāyādrumākīrṇā mṛtaprāṇisamākulā|
śamīkhadirapālāśakarīraiḥ pīlubhiḥ saha||16||
śamīkhadirapālāśakarīraiḥ pīlubhiḥ saha||16||
tatra bhīmā drumagaṇāḥ kaṇṭakairacitā dṛḍhaiḥ|
dagdhaprāṇijanākīrṇā yatra bhūrdṛśyate kvacit||17||
dagdhaprāṇijanākīrṇā yatra bhūrdṛśyate kvacit||17||
tathā'pi jīvā jīvanti sarve karmanibandhanāt|
nodakaṃ nodakādhārā vidvaṃstatra balāhakāḥ||18||
nodakaṃ nodakādhārā vidvaṃstatra balāhakāḥ||18||
pakṣāntaragataiḥ kaiścicchiśubhistṛṣitaiḥ samam|
utkrāntajīvino vipra dṛśyante nu khagottamāḥ||19||
utkrāntajīvino vipra dṛśyante nu khagottamāḥ||19||
tasmiṃstathāvidhe deśe kaścid daivavaśād vaṇik|
nijasārthaparibhraṣṭaḥ praviṣṭo marujāṅgale||20||
nijasārthaparibhraṣṭaḥ praviṣṭo marujāṅgale||20||
babhrāmodbhrāntahṛdayaḥ kṣuttṛḍbhyāṃ śramapīḍitaḥ|
kva grāmaḥ kva jalaṃ kvāhaṃ yāsyāmi na bubodha ha||21||
kva grāmaḥ kva jalaṃ kvāhaṃ yāsyāmi na bubodha ha||21||
atha pretān dadarśāsau kṣuttṛṣāvyākulendriyān|
utkaṭān khalino bhīmān nirmāṃsān raudradarśanān||22||
utkaṭān khalino bhīmān nirmāṃsān raudradarśanān||22||
pretaskandhasamārūḍham ekaṃ vikṛtadarśanam|
dadarśa bahubhiḥ pretaiḥ samantāt parivāritam||23||
dadarśa bahubhiḥ pretaiḥ samantāt parivāritam||23||
agacchamānamatyugraṃ pretaśabdapuraḥsaram|
preto'pi dṛṣṭvā tāṃ ghorāmaṭavīmāgataṃ naram||24||
preto'pi dṛṣṭvā tāṃ ghorāmaṭavīmāgataṃ naram||24||
pretaskandhānmahīṃ gatvā tasyāntikamupāgamat|
praṇipatya vaṇikśreṣṭham idaṃ vacanamabravīt||25||
praṇipatya vaṇikśreṣṭham idaṃ vacanamabravīt||25||
asmin ghoratare deśe praveśo bhavataḥ katham|
tamuvāca vaṇigdhīmān sārthabhraṣṭasya me vane||26||
tamuvāca vaṇigdhīmān sārthabhraṣṭasya me vane||26||
praveśo daivayogena pūrvakarmakṛtena ca|
tṛṣā me bādhate'tyarthaṃ kṣudhā caiva bhṛśaṃ tathā||27||
tṛṣā me bādhate'tyarthaṃ kṣudhā caiva bhṛśaṃ tathā||27||
prāṇāntikamanuprāptaṃ vacanaṃ bhramatīva me|
atropāyaṃ na paśyāmi jīveyaṃ yena kenacit||28||
atropāyaṃ na paśyāmi jīveyaṃ yena kenacit||28||
ityevamukte pretastaṃ vaṇijaṃ vākyamabravīt|
phullāṃ śamīṃ samāśritya pratīkṣa tvaṃ muhūrtakam||29||
phullāṃ śamīṃ samāśritya pratīkṣa tvaṃ muhūrtakam||29||
kṛtātithyo mayā paścād gamiṣyasi yathāsukham|
evamuktastathā cakre sa vaṇik tṛṣṇayārditaḥ||30||
evamuktastathā cakre sa vaṇik tṛṣṇayārditaḥ||30||
madhyāhnasamaye prāpte pretastaṃ deśamāgataḥ|
phullāṃ savṛkṣāṃ śītodāṃ vāridhānīṃ manoramām||31||
phullāṃ savṛkṣāṃ śītodāṃ vāridhānīṃ manoramām||31||
dadhyodanasamāyuktāṃ vardhamānena saṃyutām|
avatīrya tataḥ svannaṃ prādādatithaye tadā||32||
avatīrya tataḥ svannaṃ prādādatithaye tadā||32||
sa tatrāśanamātreṇa paraṃ tṛptitvamāgataḥ|
vitṛṣṇo vijvaraścaiva kṣaṇena samapadyata||33||
vitṛṣṇo vijvaraścaiva kṣaṇena samapadyata||33||
tataśca pretāḥ samprāptāḥ so'smād bhāgaṃ kramād dadau|
dadhyodanāt sapānīyāt pretāstṛptiṃ parāṃ gatāḥ||34||
dadhyodanāt sapānīyāt pretāstṛptiṃ parāṃ gatāḥ||34||
atithiṃ tarpayitvā tu pretalokaṃ ca sarvataḥ|
tataḥ svayaṃ sa bubhuje bhuktaśeṣaṃ yathāsukham||35||
tataḥ svayaṃ sa bubhuje bhuktaśeṣaṃ yathāsukham||35||
tasya bhuktavataḥ svannaṃ pānīyaṃ ca kṣayaṃ yayau|
pretādhipaṃ tatastaṃ vai vaṇigvacanamabravīt||36||
pretādhipaṃ tatastaṃ vai vaṇigvacanamabravīt||36||
āścaryametat paramaṃ vane'smin pratibhāti me|
annaṃ pānaṃ ca paramaṃ samprāptaṃ ca kutastava||37||
annaṃ pānaṃ ca paramaṃ samprāptaṃ ca kutastava||37||
svalpenaiva tathā'nnena tvametāṃstu bahūnapi|
atarpayaḥ kathaṃ tvete nirmāṃsā bhinnakukṣayaḥ||38||
atarpayaḥ kathaṃ tvete nirmāṃsā bhinnakukṣayaḥ||38||
kathamasyāṃ sughorāyāmaṭavyāṃ ca kṛtālayāḥ|
tadetat saṃśayaṃ chindhi paraṃ kautūhalaṃ mama||39||
tadetat saṃśayaṃ chindhi paraṃ kautūhalaṃ mama||39||
evamuktaḥ sa vaṇijā preto vacanamabravīt|
vāṇijyasaktasya purā janmātīte mamānagha||40||
vāṇijyasaktasya purā janmātīte mamānagha||40||
sakale nagare nāsti mamānyo hi durātmakaḥ|
dhanalobhānna kasyāpi dattā bhikṣā mayā tadā||41||
dhanalobhānna kasyāpi dattā bhikṣā mayā tadā||41||
sakhā caiva tataścāsīd brāhmaṇo guṇavān mama|
śrāvaṇadvādaśīyoge māsi bhādrapade tataḥ||42||
śrāvaṇadvādaśīyoge māsi bhādrapade tataḥ||42||
sa kadācinmayā sārdhaṃ tāpīṃ nāma nadīṃ yayau|
tasyāśca saṅgamaḥ puṇyo yatrā''sīccandrabhāgayā||43||
tasyāśca saṅgamaḥ puṇyo yatrā''sīccandrabhāgayā||43||
candrabhāgā candrasutā tāpī caivārkanandinī|
tayoḥ śītoṣṇasalile praviveśa sa ha dvijaḥ||44||
tayoḥ śītoṣṇasalile praviveśa sa ha dvijaḥ||44||
śravaṇadvādaśīyoge narāśca samupoṣitāḥ|
candrabhāgāsuto yena vāridhānīṃ dadurdvije||45||
candrabhāgāsuto yena vāridhānīṃ dadurdvije||45||
dadhyodanayutāṃ sārdhaṃ sampūrṇairvardhamānakaiḥ|
chatropānadyugaṃ vastraṃ pratimāṃ ca tathā hareḥ||46||
chatropānadyugaṃ vastraṃ pratimāṃ ca tathā hareḥ||46||
pradadau vipramukhyebhyo harasyāgre mahāmate|
vittasaṃrakṣaṇārthāya tasyāstīre vrate mayā||47||
vittasaṃrakṣaṇārthāya tasyāstīre vrate mayā||47||
sopavāsena dattaikā vāridhānī manoramā|
tatkṛtvā'haṃ gṛhaṃ prāptastataḥ kālena kenacit||48||
tatkṛtvā'haṃ gṛhaṃ prāptastataḥ kālena kenacit||48||
pañcatvamahamāsādya nāstikyāt pretatāṃ gataḥ|
asyāmaṭavyāṃ ghorāyāṃ yathā hyahikulaṃ tathā||49||
asyāmaṭavyāṃ ghorāyāṃ yathā hyahikulaṃ tathā||49||
śravaṇadvādaśīyoge vāridhānyarpitā mayā|
seyaṃ madhyāhnasamaye labhyate ca dine dine||50||
seyaṃ madhyāhnasamaye labhyate ca dine dine||50||
brahmasvarūpiṇaḥ sarve pāpāḥ pretatvamāgatāḥ|
paradāragatāḥ kecit svāmidroharatāśca ye||51||
paradāragatāḥ kecit svāmidroharatāśca ye||51||
bhūtapretajarūpeṇa te jātā hyatra mānavāḥ|
deśe marusthale tvasmin mamaite mitratāṃ gatāḥ||52||
deśe marusthale tvasmin mamaite mitratāṃ gatāḥ||52||
akṣayo bhagavān viṣṇuḥ paramātmā sanātanaḥ|
dīyate yat samuddiśya hyakṣayaṃ tat prakīrtitam||53||
dīyate yat samuddiśya hyakṣayaṃ tat prakīrtitam||53||
akṣayenāpi cānnena tṛptā ete punaḥ punaḥ|
pretatvabhāvaṃ daurbalyaṃ na vimuñcati karhicit||54||
pretatvabhāvaṃ daurbalyaṃ na vimuñcati karhicit||54||
pūjayitvā'hamannaistvāmatithiṃ samupasthitam|
pretabhāvād vinirmukto yāsyāmi paramāṃ gatim||55||
pretabhāvād vinirmukto yāsyāmi paramāṃ gatim||55||
mayā vihīnāḥ kiṃ tvete vane'smin bhṛśadāruṇe|
pīḍāmanubhaviṣyanti dāruṇāṃ karmayonijām||56||
pīḍāmanubhaviṣyanti dāruṇāṃ karmayonijām||56||
eteṣāṃ tu mahābhāga mamānugrahakāmyayā|
pratyekaṃ nāmagotrāṇi gṛhṇīṣva likhitāni ca||57||
pratyekaṃ nāmagotrāṇi gṛhṇīṣva likhitāni ca||57||
asti kakṣāgatā caiva tava sampuṭikā śubhā|
himavantamathāsādya tatra tvaṃ lapsyase nidhim||58||
himavantamathāsādya tatra tvaṃ lapsyase nidhim||58||
gayāśīrṣaṃ tato gatvā śrāddhaṃ kuru mahāmate|
ityājñāpya sa vai preto vaṇijaṃ ca yathāsukham||59||
ityājñāpya sa vai preto vaṇijaṃ ca yathāsukham||59||
visarjayāmāsa tadā sa vai prāyāt samutsukaḥ|
samāsādya gṛhaṃ tatra paścāt prāyād himālayam||60||
samāsādya gṛhaṃ tatra paścāt prāyād himālayam||60||
tato dṛṣṭaṃ nidhiṃ tatra gṛhītvā sa samāgataḥ|
ṣaṣṭhāṃśaṃ pratigṛhyātha gayāśīrṣaṃ tato'bhyagāt||61||
ṣaṣṭhāṃśaṃ pratigṛhyātha gayāśīrṣaṃ tato'bhyagāt||61||
tatra gatvā gayāyāṃ sa śrāddhaṃ kṛtvā mahāmatiḥ|
pretānāṃ tu yathoddiṣṭaṃ śrāddhaṃ samyag vidhānataḥ||62||
pretānāṃ tu yathoddiṣṭaṃ śrāddhaṃ samyag vidhānataḥ||62||
pratyekaṃ nāmagotrāṇi gṛhītvā piṇḍamutsṛjat|
yasya yasya bhavet śrāddhaṃ sa karoti dine vaṇik||63||
yasya yasya bhavet śrāddhaṃ sa karoti dine vaṇik||63||
sa sa tasya tadā svapne darśayatyātmanastanum|
bravīti ca mahābhāga prasādād bhavato'nagha||64||
bravīti ca mahābhāga prasādād bhavato'nagha||64||
pretabhāvaṃ mayā tyaktaṃ prāpto'smi paramāṃ gatim|
evaṃ kṛtvā vidhānena gayāśīrṣaṃ mahāmanāḥ||65||
evaṃ kṛtvā vidhānena gayāśīrṣaṃ mahāmanāḥ||65||
paścājjagāma svagṛhaṃ viṣṇuṃ dhyāyan punaḥ punaḥ|
māsi bhādrapade prāpte śuklapakṣe tathā sudhīḥ||66||
māsi bhādrapade prāpte śuklapakṣe tathā sudhīḥ||66||
śravaṇadvādaśīyoge saṅgame saritāṃ punaḥ|
jagāma sa mahābuddhiḥ sarvopaskarasaṃyutaḥ||67||
jagāma sa mahābuddhiḥ sarvopaskarasaṃyutaḥ||67||
saṅgame saritāṃ snātvā dvādaśīṃ tāmupoṣitaḥ|
tatra snātvā'pi dattvā tu pūjayitvā janārdanam||68||
tatra snātvā'pi dattvā tu pūjayitvā janārdanam||68||
anantaraṃ brāhmaṇasya hyupahārāṃstadā dadau|
śāstroktenāpi vidhinā hyekacittarato'pi saḥ||69||
śāstroktenāpi vidhinā hyekacittarato'pi saḥ||69||
nivartayāmāsa tadā vaṇijo buddhimān sa vai|
varṣe varṣe tu samprāpte māsi bhādrapade tathā||70||
varṣe varṣe tu samprāpte māsi bhādrapade tathā||70||
śravaṇadvādaśīyoge saṅgame saritāṃ punaḥ|
evaṃ vai kṛtavān sarvaṃ viṣṇumuddiśya satvaram||71||
evaṃ vai kṛtavān sarvaṃ viṣṇumuddiśya satvaram||71||
kālena cātimahatā pañcatvaṃ samupāgataḥ|
avāpa paramaṃ sthānaṃ durlabhaṃ sarvamānavaiḥ||72||
avāpa paramaṃ sthānaṃ durlabhaṃ sarvamānavaiḥ||72||
krīḍate'dyāpi vaikuṇṭhe viṣṇudūtaiḥ sa sevitaḥ|
evaṃ kuru tvaṃ bho brahman śravaṇadvādaśīvratam||73||
evaṃ kuru tvaṃ bho brahman śravaṇadvādaśīvratam||73||
sarvasaubhāgyadaṃ caiva iha loke paratra ca|
subuddhijananaṃ caiva sarvapāpaharaṃ param||74||
subuddhijananaṃ caiva sarvapāpaharaṃ param||74||
śravaṇadvādaśīyoge yaḥ kuryād vratamīdṛśam|
vratasyāsya prabhāveṇa viṣṇulokaṃ ca gacchati||75||
vratasyāsya prabhāveṇa viṣṇulokaṃ ca gacchati||75||
||iti śrīpādme mahāpurāṇe pañcapañcāśatsāhasryāṃ saṃhitāyāmuttarakhaṇḍe umāpatināradasaṃvāde śravaṇadvādaśīvrataṃ nāma saptatitamo'dhyāyaḥ||70||
maṅgalaślokāḥ
svasti prajābhyaḥ paripālayantāṃ
nyāyena mārgeṇa mahīṃ mahīśāḥ|
gobrāhmaṇebhyaḥ śubhamastu nityaṃ
lokāḥ samastāḥ sukhino bhavantu||
nyāyena mārgeṇa mahīṃ mahīśāḥ|
gobrāhmaṇebhyaḥ śubhamastu nityaṃ
lokāḥ samastāḥ sukhino bhavantu||
kāle varṣatu parjanyaḥ pṛthivī sasyaśālinī|
deśo'yaṃ kṣobharahito brāhmaṇāḥ santu nirbhayāḥ||
deśo'yaṃ kṣobharahito brāhmaṇāḥ santu nirbhayāḥ||
aputrāḥ putriṇaḥ santu putriṇaḥ santu pautriṇaḥ|
adhanāḥ sadhanāḥ santu jīvantu śaradāṃ śatam||
adhanāḥ sadhanāḥ santu jīvantu śaradāṃ śatam||
yadakṣarapadabhraṣṭaṃ mātrāhīnaṃ tu yad bhavet|
tat sarvaṃ kṣamyatāṃ deva nārāyaṇa namo'stute||
tat sarvaṃ kṣamyatāṃ deva nārāyaṇa namo'stute||
visargabindumātrāśca padapādākṣarāṇi ca|
nyūnāni cātiriktāni kṣamasva puruṣottama||
nyūnāni cātiriktāni kṣamasva puruṣottama||
yajñeśācyuta govinda mādhavānanta keśava|
kṛṣṇa viṣṇo hṛṣīkeśa vāsudeva namo'stute||
kṛṣṇa viṣṇo hṛṣīkeśa vāsudeva namo'stute||
kāyena vācā manasendriyairvā
buddhyā''tmanā vā prakṛteḥ svabhāvāt|
karomi yadyat sakalaṃ parasmai
nārāyaṇāyeti samarpayāmi||
buddhyā''tmanā vā prakṛteḥ svabhāvāt|
karomi yadyat sakalaṃ parasmai
nārāyaṇāyeti samarpayāmi||