Home / Puja Vidhanam / Padmapurāṇāntargata-ekādaśī-māhātmyāni

Trispṛśākhyānam

Padmapurāṇāntargata-ekādaśī-māhātmyāni

त्रिस्पृशाख्यानम्

श्री-महागणपति-प्रार्थना

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये॥
वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे।
यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम्॥

श्री-गुरु-प्रार्थना

गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः।
गुरुः साक्षात् परं ब्रह्म तस्मै श्री-गुरवे नमः॥
सदाशिवसमारम्भां शङ्कराचार्यमध्यमाम्।
अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम्॥

श्री-सरस्वती-प्रार्थना

दोर्भिर्युक्ता चतुर्भिः स्फटिकमणिनिभैरक्षमालां दधाना
हस्तेनैकेन पद्मं सितमपि च शुकं पुस्तकं चापरेण।
भासा कुन्देन्दुशङ्खस्फटिकमणिनिभा भासमानाऽसमाना
सा मे वाग्देवतेयं निवसतु वदने सर्वदा सुप्रसन्ना॥

श्री-व्यास-नमस्क्रिया

व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम्।
पराशरात्मजं वन्दे शुकतातं तपोनिधिम्॥१॥
अभ्रश्यामः पिङ्गजटाबद्धकलापः
प्रांशुर्दण्डी कृष्णमृगत्वक्परिधानः।
साक्षाल्लोकान् पावयमानः कविमुख्यः
पाराशर्यः पर्वसु रूपं विवृणोतु॥२॥
जयति पराशरसूनुः सत्यवतीहृदयनन्दनो व्यासः।
यस्यास्यकमलगलितं वाङ्मयममृतं जगत् पिबति॥३॥

पाद्ममहापुराणम् — मङ्गलश्लोकः

स्वच्छं चन्द्रावदातं करिकर-मकर-क्षोभ-सञ्जात-फेनं
ब्रह्मोद्भूतिप्रसक्तैर्व्रतनियमपरैः सेवितं विप्रमुख्यैः।
ओङ्कारालङ्कृतेन त्रिभुवनगुरुणा ब्रह्मणा दृष्टिपूतं
सम्भोगाभोगरम्यं जलमशुभहरं पौष्करं नः पुनातु॥
नारायणं नमस्कृत्य नरं चैव नरोत्तमम्।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्॥

अथ षट्त्रिंशोऽध्यायः॥३६

नारद उवाच

त्रिस्पृशाख्यं व्रतं ब्रूहि सर्वेश्वर विशेषतः।
यच्छ्रुत्वा मुच्यते लोकः कर्मबन्धनतः क्षणात्॥१॥

महादेव उवाच

सर्वपापौघशमनं महादुःखविनाशनम्।
शृणु कृष्णावतारं त्वं त्रिस्पृशाख्यं महाव्रतम्॥२॥
कामदं सस्पृहाणां तु निस्पृहाणां तु मोक्षदम्।
त्रिस्पृशाख्यं व्रतं विप्र शृणुष्व गदतो मम॥३॥
प्रत्यक्षमर्चितस्तेन कलिकाले च केशवः।
त्रिस्पृशा कीर्तनं नित्यं यः करोति महामुने॥४॥
न पुरश्चरणे चीर्णे सर्वपापक्षयो भवेत्।
त्रिस्पृशा नाममात्रेण क्षीयते नात्र संशयः॥५॥
नागमैर्न पुराणाद्यैर्न मखैस्तीर्थकोटिभिः।
बहुभिर्व्रतसङ्घैश्च पूजितैस्त्रिदशैरपि॥६॥
मोक्षो भवति विप्रेन्द्र त्रिस्पृशा न कृता यदि।
मोक्षार्थे देवदेवेन दृष्टा वै वैष्णवी तिथिः॥७॥
द्विजानां दुर्विदं साङ्ख्यं कलिकाले विशेषतः।
अनिग्रहश्चेन्द्रियाणां स्थिरत्वं मनसो नहि॥८॥
विषयैर्विप्रयुक्तानां ध्यानधारणवर्जिनाम्।
कामभोगप्रसक्तानां त्रिस्पृशा मोक्षदायिनी॥९॥
मह्यं चैव पुरा प्रोक्ता चतुर्वक्त्रस्य सागरे।
क्षीरोदे प्रणतानां तु मत्स्यरूपेण चक्रिणा॥१०॥
त्रिस्पृशां ये करिष्यन्ति विषयैरपि संयुताः।
तेषामपि मया दत्तो मोक्षः साङ्ख्यविवर्जिनाम्॥११॥
कामभोगप्रसक्तानां त्रिस्पृशा मोक्षदायिनी।
बहुभिर्मुनिसङ्घैश्च कृतेयं च महामुने॥१२॥
कार्तिके शुक्लपक्षे तु त्रिस्पृशा जायते यदि।
सोमेन सोमजेनापि पापकोटिविनाशिनी॥१३॥
यस्या उपोषणकृतो हत्यायुक्त महेशितुः।
हस्ताद् ब्रह्मकपालं तु तत्क्षणात् पतितं भुवि॥१४॥
कलिकल्मषकोट्यौघैर्मुक्ता देवी त्रिमार्गगा।
उपदेशान्माधवस्य त्रिस्पृशासमुपोषणात्॥१५॥
हत्याष्टौ बाहुवीर्यस्य पूर्वजाता महामुने।
गता भृगूपदेशेन त्रिस्पृशासमुपोषणात्॥१६॥
शतायुधेन विप्रेन्द्र निहतो ब्राह्मणो वने।
ब्रह्महत्याविनिर्मुक्तः त्रिस्पृशासमुपोषणात्॥१७॥
जीवोपदेशाच्छक्रस्य हत्या नमुचिसम्भवा।
विनष्टा मुनिमुख्येन्द्र त्रिस्पृशासमुपोषणात्॥१८॥
ब्रह्महत्यादिपापानि त्रिस्पृशासमुपोषणात्।
विलयं यान्ति विप्रेन्द्र पापेष्वन्येषु का कथा॥१९॥
न प्रयागे न काश्यां तु गोमत्यां कृष्णसन्निधौ।
मोक्षो भवति विप्रेन्द्र त्रिस्पृशा यदि नो कृता॥२०॥
मरणाच्च प्रयागे तु गोमत्यां कृष्णसन्निधौ।
स्नानमात्रेण गोमत्यां मुक्तिर्भवति शाश्वती॥२१॥
गृहेऽपि जायते मुक्तिस्त्रिस्पृशा समुपोषणात्।
विषये वर्तमानस्य कामभोगान्वितस्य च॥२२॥
निवृत्तविषयस्यापि मुक्तिः साङ्ख्येन दुर्लभा।
तस्मात् कुरुष्व विप्रेन्द्र त्रिस्पृशां मोक्षदायिनीम्॥२३॥

नारद उवाच

कीदृशं तत् सुरश्रेष्ठ त्रिस्पृशाख्यं महाव्रतम्।
मुक्तिदं यद् द्विजातीनां त्वया प्रोक्तं ममाधुना॥२४॥

महादेव उवाच

जाह्नव्यै सा पुरा विप्र त्रिस्पृशा माधवेन तु।
प्राची सरस्वतीतीरे कथिता त्वनुकम्पया॥२५॥

जाह्नव्युवाच

कलिकल्मष कोट्यौघैर्ब्रह्महत्यादिकैर्युताः।
कलिकाले हृषीकेश स्नानं कुर्वन्ति मज्जले॥२६॥
तेषां पापशतैर्दोषैर्देहो मे कलुषीकृतः।
कथं यास्यति मे देव पातकं गरुडध्वज॥२७॥

प्राचीमाधव उवाच

कथयामि न सन्देहो मा पुत्रि रोदनं कुरु।
श्यामो वटस्तु मे स्थानं प्राचीदेवी ममाग्रतः॥२८॥
वहते ब्रह्मतनया दृष्ट्वाऽग्रे च सुरेश्वरीम्।
स्नानं कुरुष्व नित्यं त्वं त्वत्र पूता भविष्यसि॥२९॥
यत्र ब्रह्मसुता प्राची तत्राहं नात्र संशयः।
तीर्थकोटिशतैर्युक्तः सुरैः सह वसाम्यहम्॥३०॥
पवित्रं मत्प्रियं स्थानं हत्याकोटिविनाशनम्।
सन्तुष्टेन मया दत्तं यस्मात् प्राणाधिकासि मे॥३१॥
तीर्थकोटिसहस्राणि नित्यं तिष्ठन्ति जाह्नवि।
प्राची सरस्वतीतोये सर्वदैव ममाऽऽज्ञया॥३२॥
ब्रह्मवधात् सुरापानाद् गोवधाद् वृषलीवधात्।
ब्रह्मस्वहरणादेव मातापित्रोस्त्वपूजनात्॥३३॥
चक्रियानाद् गुरुद्रोहादभक्ष्यस्य च भक्षणात्।
सर्वपापस्य करणात् प्राची ब्रह्मसुता सुते॥३४॥
व्यपोहयति पापानि सकृत् स्नानेन मेऽग्रतः।
कुरु स्नानं सरिच्छ्रेष्ठे विपापा त्वं भविष्यसि॥३५॥

जाह्नव्युवाच

नाहं शक्नोमि देवेश आगन्तुं नित्यमेव हि।
कथं नश्यन्ति पापानि कथयस्वेह माधव॥३६॥

प्राचीमाधव उवाच

न शक्नोषि यदागन्तुं नित्यमेव हि जाह्नवि।
तदान्यत्सम्प्रवक्ष्यामि यस्मान्मत्पादसम्भवा॥३७॥
सरस्वत्यधिका या च तीर्थकोटिशताधिका।
मखकोट्यधिका वाऽपि व्रतदानाधिका च या॥३८॥
जपहोमाधिका या च चतुर्वर्गफलप्रदा।
साङ्ख्ययोगाधिका या च त्रिस्पृशा क्रियतां शुभा॥३९॥
यस्मिन् मासे समायाति सिता च यदि वासिता।
कर्तव्या सा सरिच्छ्रेष्ठे कृते पापात् प्रमुच्यते॥४०॥

जाह्नव्युवाच

कीदृशी त्रिस्पृशा देव ममाऽऽख्याहि सुमाधव।
ईदृशो महिमा यस्यास्त्वया प्रोक्तो ममाधुना॥४१॥
दशम्येकादशीभद्रा दिनैकस्मिन्यदा भवेत्।
त्रिस्पृशा सा भवेद् देव वान्यथा वद मे प्रभो॥४२॥

कृष्ण उवाच

आसुरी त्रिस्पृशा देवी या त्वया परिकीर्तिता।
वर्जनीया प्रयत्नेन वृत्तिहीनो यथा पतिः॥४३॥
असुराणां तु सा प्रोक्ता आयुर्बलविनाशिनी।
वर्जनीया प्रयत्नेन यथा नारी रजस्वला॥४४॥
स्वजातिं च परित्यज्य या गताधमजातिषु।
सैव त्याज्यं विशेषेण दशमीयुक्तं हि मद्दिनम्॥४५॥
यथा रजस्वलासङ्गाद्दूष्यन्ते ज्ञानवर्जिताः।
तथैव दशमीयुक्तं मद्दिनं दूषितं नृणाम्॥४६॥
हत्यायुतशतं हन्ति त्रिस्पृशा समुपोषिता।
एकादशी द्वादशी च रात्रिशेषे त्रयोदशी॥४७॥
त्रिस्पृशा सा तु विज्ञेया दशमीसहिता न हि।
कृत्वाऽपराधं मुच्येत प्रायश्चित्ते कृते नरः॥४८॥
दशमीवेधजं दोषं न क्षमामि सुरापगे।
भुक्तं हालाहलं तेन विषस्य भक्षणं कृतम्॥४९॥
दशमीमिश्रितं येन कृतमेकादशीव्रतम्।
इति मत्वा न कर्तव्यं मद्दिनं दशमीयुतम्॥५०॥
जन्मकोटिकृतं पुण्यं सन्तानं याति सङ्क्षयम्।
पातयेत्स्वकुलं स्वर्गान्नयते रौरवादिकम्॥५१॥
स्वदेहं शोधयित्वा तु कर्तव्यो मम वासरः।
वृद्धौ त्याज्या विना वेधाच्छ्रवणादिषु संयुता॥५२॥
जन्मपुण्यं क्षयं याति एकादश्युपवासिनाम्।
संवृद्धौ तु विशेषेण सन्देहे समुपस्थिते॥५३॥
ममाऽऽज्ञया च कर्तव्या द्वादशीवल्लभा मम॥५४॥

जाह्नव्युवाच

करिष्येऽहं जगन्नाथ त्रिस्पृशां वचनात् तव।
सर्वपापविनिर्मुक्ता भविष्यामि तवाज्ञया॥५५॥

श्रीकृष्ण उवाच

स्वस्थानं गच्छ भद्रं ते न भीः कार्या कदाचन।
तव देवि सरिच्छ्रेष्ठे न पापं सङ्क्रमिष्यति॥५६॥
स्नात्वा सरस्वतीतोये येऽर्चयित्वा च माधवम्।
प्रणमन्ति जगन्नाथं ते यान्ति परमां गतिम्॥५७॥

जाह्नव्युवाच

विधानं ब्रूहि मे ब्रह्मन् सर्वस्वेन करोम्यहम्।
प्रसादयामि देवेशं दामोदरमनामयम्॥५८॥

प्राचीमाधव उवाच

शृणु देवि प्रवक्ष्यामि त्रिस्पृशाया विधानकम्।
यं श्रुत्वाऽपि सरिच्छ्रेष्ठे मुच्यते पातकैर्नरः॥५९॥
पलेन च पलार्धेन तदर्धेनापि वापगे।
प्रतिमा मम सौवर्णा कार्या विभवसारतः॥६०॥
पात्रं ताम्रमयं कार्यं तिलैस्तु परिपूरितम्।
सजलं तु घटं शुभ्रं पञ्चरत्नसमन्वितम्॥६१॥
वेष्टितं पुष्पमालाभिः कर्पूरागुरुवासितम्।
न्यसेद् दामोदरं पश्चात् स्नापयित्वा विलिप्य च॥६२॥
परिधानं ततः कार्यं वस्त्रयुग्मेन चान्वितम्।
मन्त्रैस्तु पूजनं कार्यं पुराणैः समुदीरितैः।
पुष्पैः कालोद्भवैः शुभ्रैस्तुलसीपत्रैश्च कोमलैः॥६३॥
छत्रं तु विष्णवे दद्यात् पादुकाभ्यां सुसंयुतम्।
निवेद्यानि मनोज्ञानि फलानि सुबहून्यपि॥६४॥
उपवीतं तु दातव्यं सोत्तरीयं नवं दृढम्।
वैणवं दापयेद् दण्डं सुरूपं सोन्नतं दृढम्॥६५॥
दामोदराय वै पादौ जानुनी माधवाय च।
गुह्यं कामप्रदायेति कटिं वामनमूर्तये॥६६॥
पद्मनाभाय नाभिं तु जठरं विश्वयोनये।
हृदयं ज्ञानगम्याय कण्ठं वैकुण्ठगामिने॥६७॥
सहस्रबाहवे बाहू चक्षुषी योगरूपिणे।
सम्पूज्य विधिवद् भक्त्या दद्यादर्घं विधानतः॥६८॥
शुभ्रेण नालिकेरेण शङ्खोपरि स्थितेन हि।
सूत्रैरावेष्टितेनैव हस्तयोरुभयोरपि॥६९॥
स्मृतो हरसि पापानि यदि नित्यं जनार्दन।
दुःस्वप्नं दुर्निमित्तानि मनसा दुर्विचिन्विता॥७०॥
नारकं तु भयं देव भयदुर्गतिसम्भवम्।
यन्मम स्यान्महादेव ऐहिकं पारलौकिकम्॥७१॥
तेन देवेश मां रक्ष गृहाणार्घं नमोऽस्तु ते।
कृपादृष्टिः सदैवास्तु दामोदर ममोपरि॥७२॥
धूपं दीपं च नैवेद्यं कुर्यान्नीराजनं ततः।
शीर्षोपरि सरिच्छ्रेष्ठे भ्रामयेद्वारिजं हरेः॥७३॥
कृत्वा विधानमेतद्धि पूजयेत् स्वगुरुं ततः।
दद्यात् सुवर्णं वस्त्राणि सोष्णीषं चैव कञ्चुकम्॥७४॥
उपानहोऽपि छत्रं च मुद्रिकां च कमण्डलुम्।
भोजनं चैव ताम्बूलं सप्तधान्यं च दक्षिणाम्॥७५॥
गुरुं सम्पूज्य देवेशं कुर्याज्जागरणं हरेः।
गीतनृत्यसमायुक्तं तथा शास्त्रसमन्वितम्॥७६॥
निशान्ते चैव देवाय दत्वा चार्घं विधानतः।
स्नानादिकां क्रियां कृत्वा भुञ्जीयाद्वाडवैः सह॥७७॥

शिव उवाच

द्विजैतत्त्रिस्पृशाख्यानमद्भुतं रोमहर्षणम्।
श्रुत्वा तु लभते पुण्यं गङ्गां स्नानसमुद्भवम्॥७८॥
अश्वमेधसहस्राणि वाजपेयशतानि च।
तत्फलं समवाप्नोति त्रिस्पृशासमुपोषणात्॥७९॥
पितृपक्षो मातृपक्षस्तथा चैवाऽऽत्मपक्षकः।
तैः सर्वैः सह सम्मुक्तो विष्णुलोके महीयते॥८०॥
तीर्थकोटिषु यत् पुण्यं क्षेत्रकोटिषु यत्फलम्।
तत्फलं समवाप्नोति त्रिस्पृशासमुपोषणात्॥८१॥
ब्राह्मणा येऽपि कुर्वन्ति क्षत्रियाः कृष्णमानसाः।
वैश्या वा शूद्रजन्मानो ये तथा चान्यजातयः॥८२॥
ते सर्वे मुक्तिमायान्ति भुवं त्यक्त्वा द्विजोत्तम।
मन्त्राणां मन्त्रराजोऽथ यथा स्याद् द्वादशाक्षरः॥८३॥
व्रतानां च यथा चैषा येन वै त्रिस्पृशा कृता।
ब्रह्मणा च कृता पूर्वं पश्चाद् राजर्षिभिः कृता॥८४॥
अन्येषां का कथा वत्स त्रिस्पृशा मुक्तिदायिनी।
अनेन विधिना ब्रह्मंस्त्रिस्पृशासम्भवं व्रतम्॥८५॥
यः करोति नरो भक्त्या शृणु वक्ष्यामि तत्फलम्।
गङ्गावगाहने ब्रह्मन् वाराणस्यां तु यत्फलम्॥८६॥
मन्वन्तरसहस्रैस्तु त्रिस्पृशाकारको हि तत्।
प्राची च यमुना स्नाने वर्षैर्यत्कोटिभिः फलम्॥८७॥
तत्फलं समवाप्नोति त्रिस्पृशाव्रतकृन्नरः।
तत्फलं तु कुरुक्षेत्रे सूर्यग्रहणकोटिभिः॥८८॥
हेमभारशतैर्दानैस्त्रिस्पृशाकरणेन तत्।
पापकोटिसहस्राणि हत्याकोटिशतानि च॥८९॥
एकेनैवोपवासेन क्रियते भस्मसाद् द्रुतम्।
त्रिस्पृशाया व्रतं यत् तु अगतीनां गतिप्रदम्॥९०॥
गतिमिच्छन्ति विप्रर्षे महत् पापशतानि च।
स्वयं कृष्णेन कथितं पाराशर्यस्य चाग्रतः॥९१॥
प्रकाशयति यश्चेदं लिखित्वा वैष्णवं द्विजे।
पापौघैर्ग्रथितस्यापि तस्य मुक्तिर्भविष्यति॥९२॥
पुण्यैरवाप्यते विद्वन्मन्वन्तरशतैरपि।
त्रिस्पृशा दुर्लभा लोके प्राप्यते नैव मानवैः॥९३॥
कलौ ये त्रिस्पृशां लब्ध्वा न कुर्वन्ति नराधमाः।
तेषां जन्मफलं चैव जीवितं विफलं भवेत्॥९४॥
प्रेतत्वं तैः समुत्तीर्णं विना श्राद्धैर्विना सुतैः।
कृता यैस्त्रिस्पृशा विद्वन् सकृत् प्राप्य कलौ युगे॥९५॥

॥इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमापतिनारदसंवादे त्रिस्पृशाख्यानं नाम षट्त्रिंशोऽध्यायः॥३६॥

मङ्गलश्लोकाः

स्वस्ति प्रजाभ्यः परिपालयन्तां
न्यायेन मार्गेण महीं महीशाः।
गोब्राह्मणेभ्यः शुभमस्तु नित्यं
लोकाः समस्ताः सुखिनो भवन्तु॥
काले वर्षतु पर्जन्यः पृथिवी सस्यशालिनी।
देशोऽयं क्षोभरहितो ब्राह्मणाः सन्तु निर्भयाः॥
अपुत्राः पुत्रिणः सन्तु पुत्रिणः सन्तु पौत्रिणः।
अधनाः सधनाः सन्तु जीवन्तु शरदां शतम्॥
यदक्षरपदभ्रष्टं मात्राहीनं तु यद् भवेत्।
तत् सर्वं क्षम्यतां देव नारायण नमोऽस्तुते॥
विसर्गबिन्दुमात्राश्च पदपादाक्षराणि च।
न्यूनानि चातिरिक्तानि क्षमस्व पुरुषोत्तम॥
यज्ञेशाच्युत गोविन्द माधवानन्त केशव।
कृष्ण विष्णो हृषीकेश वासुदेव नमोऽस्तुते॥
कायेन वाचा मनसेन्द्रियैर्वा
बुद्‌ध्याऽऽत्मना वा प्रकृतेः स्वभावात्।
करोमि यद्यत् सकलं परस्मै
नारायणायेति समर्पयामि॥

ತ್ರಿಸ್ಪೃಶಾಖ್ಯಾನಮ್

ಶ್ರೀ-ಮಹಾಗಣಪತಿ-ಪ್ರಾರ್ಥನಾ

ಶುಕ್ಲಾಂಬರಧರಂ ವಿಷ್ಣುಂ ಶಶಿವರ್ಣಂ ಚತುರ್ಭುಜಮ್।
ಪ್ರಸನ್ನವದನಂ ಧ್ಯಾಯೇತ್ ಸರ್ವವಿಘ್ನೋಪಶಾಂತಯೇ॥
ವಾಗೀಶಾದ್ಯಾಃ ಸುಮನಸಃ ಸರ್ವಾರ್ಥಾನಾಮುಪಕ್ರಮೇ।
ಯಂ ನತ್ವಾ ಕೃತಕೃತ್ಯಾಃ ಸ್ಯುಸ್ತಂ ನಮಾಮಿ ಗಜಾನನಮ್॥

ಶ್ರೀ-ಗುರು-ಪ್ರಾರ್ಥನಾ

ಗುರುರ್ಬ್ರಹ್ಮಾ ಗುರುರ್ವಿಷ್ಣುರ್ಗುರುರ್ದೇವೋ ಮಹೇಶ್ವರಃ।
ಗುರುಃ ಸಾಕ್ಷಾತ್ ಪರಂ ಬ್ರಹ್ಮ ತಸ್ಮೈ ಶ್ರೀ-ಗುರವೇ ನಮಃ॥
ಸದಾಶಿವಸಮಾರಂಭಾಂ ಶಂಕರಾಚಾರ್ಯಮಧ್ಯಮಾಮ್।
ಅಸ್ಮದಾಚಾರ್ಯಪರ್ಯಂತಾಂ ವಂದೇ ಗುರುಪರಂಪರಾಮ್॥

ಶ್ರೀ-ಸರಸ್ವತೀ-ಪ್ರಾರ್ಥನಾ

ದೋರ್ಭಿರ್ಯುಕ್ತಾ ಚತುರ್ಭಿಃ ಸ್ಫಟಿಕಮಣಿನಿಭೈರಕ್ಷಮಾಲಾಂ ದಧಾನಾ
ಹಸ್ತೇನೈಕೇನ ಪದ್ಮಂ ಸಿತಮಪಿ ಚ ಶುಕಂ ಪುಸ್ತಕಂ ಚಾಪರೇಣ।
ಭಾಸಾ ಕುಂದೇಂದುಶಂಖಸ್ಫಟಿಕಮಣಿನಿಭಾ ಭಾಸಮಾನಾಽಸಮಾನಾ
ಸಾ ಮೇ ವಾಗ್ದೇವತೇಯಂ ನಿವಸತು ವದನೇ ಸರ್ವದಾ ಸುಪ್ರಸನ್ನಾ॥

ಶ್ರೀ-ವ್ಯಾಸ-ನಮಸ್ಕ್ರಿಯಾ

ವ್ಯಾಸಂ ವಸಿಷ್ಠನಪ್ತಾರಂ ಶಕ್ತೇಃ ಪೌತ್ರಮಕಲ್ಮಷಮ್।
ಪರಾಶರಾತ್ಮಜಂ ವಂದೇ ಶುಕತಾತಂ ತಪೋನಿಧಿಮ್॥೧॥
ಅಭ್ರಶ್ಯಾಮಃ ಪಿಂಗಜಟಾಬದ್ಧಕಲಾಪಃ
ಪ್ರಾಂಶುರ್ದಂಡೀ ಕೃಷ್ಣಮೃಗತ್ವಕ್ಪರಿಧಾನಃ।
ಸಾಕ್ಷಾಲ್ಲೋಕಾನ್ ಪಾವಯಮಾನಃ ಕವಿಮುಖ್ಯಃ
ಪಾರಾಶರ್ಯಃ ಪರ್ವಸು ರೂಪಂ ವಿವೃಣೋತು॥೨॥
ಜಯತಿ ಪರಾಶರಸೂನುಃ ಸತ್ಯವತೀಹೃದಯನಂದನೋ ವ್ಯಾಸಃ।
ಯಸ್ಯಾಸ್ಯಕಮಲಗಲಿತಂ ವಾಙ್ಮಯಮಮೃತಂ ಜಗತ್ ಪಿಬತಿ॥೩॥

ಪಾದ್ಮಮಹಾಪುರಾಣಮ್ — ಮಂಗಲಶ್ಲೋಕಃ

ಸ್ವಚ್ಛಂ ಚಂದ್ರಾವದಾತಂ ಕರಿಕರ-ಮಕರ-ಕ್ಷೋಭ-ಸಂಜಾತ-ಫೇನಂ
ಬ್ರಹ್ಮೋದ್ಭೂತಿಪ್ರಸಕ್ತೈರ್ವ್ರತನಿಯಮಪರೈಃ ಸೇವಿತಂ ವಿಪ್ರಮುಖ್ಯೈಃ।
ಓಂಕಾರಾಲಂಕೃತೇನ ತ್ರಿಭುವನಗುರುಣಾ ಬ್ರಹ್ಮಣಾ ದೃಷ್ಟಿಪೂತಂ
ಸಂಭೋಗಾಭೋಗರಮ್ಯಂ ಜಲಮಶುಭಹರಂ ಪೌಷ್ಕರಂ ನಃ ಪುನಾತು॥
ನಾರಾಯಣಂ ನಮಸ್ಕೃತ್ಯ ನರಂ ಚೈವ ನರೋತ್ತಮಮ್।
ದೇವೀಂ ಸರಸ್ವತೀಂ ವ್ಯಾಸಂ ತತೋ ಜಯಮುದೀರಯೇತ್॥

ಅಥ ಷಟ್ತ್ರಿಂಶೋಽಧ್ಯಾಯಃ॥೩೬

ನಾರದ ಉವಾಚ

ತ್ರಿಸ್ಪೃಶಾಖ್ಯಂ ವ್ರತಂ ಬ್ರೂಹಿ ಸರ್ವೇಶ್ವರ ವಿಶೇಷತಃ।
ಯಚ್ಛ್ರುತ್ವಾ ಮುಚ್ಯತೇ ಲೋಕಃ ಕರ್ಮಬಂಧನತಃ ಕ್ಷಣಾತ್॥೧॥

ಮಹಾದೇವ ಉವಾಚ

ಸರ್ವಪಾಪೌಘಶಮನಂ ಮಹಾದುಃಖವಿನಾಶನಮ್।
ಶೃಣು ಕೃಷ್ಣಾವತಾರಂ ತ್ವಂ ತ್ರಿಸ್ಪೃಶಾಖ್ಯಂ ಮಹಾವ್ರತಮ್॥೨॥
ಕಾಮದಂ ಸಸ್ಪೃಹಾಣಾಂ ತು ನಿಸ್ಪೃಹಾಣಾಂ ತು ಮೋಕ್ಷದಮ್।
ತ್ರಿಸ್ಪೃಶಾಖ್ಯಂ ವ್ರತಂ ವಿಪ್ರ ಶೃಣುಷ್ವ ಗದತೋ ಮಮ॥೩॥
ಪ್ರತ್ಯಕ್ಷಮರ್ಚಿತಸ್ತೇನ ಕಲಿಕಾಲೇ ಚ ಕೇಶವಃ।
ತ್ರಿಸ್ಪೃಶಾ ಕೀರ್ತನಂ ನಿತ್ಯಂ ಯಃ ಕರೋತಿ ಮಹಾಮುನೇ॥೪॥
ನ ಪುರಶ್ಚರಣೇ ಚೀರ್ಣೇ ಸರ್ವಪಾಪಕ್ಷಯೋ ಭವೇತ್।
ತ್ರಿಸ್ಪೃಶಾ ನಾಮಮಾತ್ರೇಣ ಕ್ಷೀಯತೇ ನಾತ್ರ ಸಂಶಯಃ॥೫॥
ನಾಗಮೈರ್ನ ಪುರಾಣಾದ್ಯೈರ್ನ ಮಖೈಸ್ತೀರ್ಥಕೋಟಿಭಿಃ।
ಬಹುಭಿರ್ವ್ರತಸಂಘೈಶ್ಚ ಪೂಜಿತೈಸ್ತ್ರಿದಶೈರಪಿ॥೬॥
ಮೋಕ್ಷೋ ಭವತಿ ವಿಪ್ರೇಂದ್ರ ತ್ರಿಸ್ಪೃಶಾ ನ ಕೃತಾ ಯದಿ।
ಮೋಕ್ಷಾರ್ಥೇ ದೇವದೇವೇನ ದೃಷ್ಟಾ ವೈ ವೈಷ್ಣವೀ ತಿಥಿಃ॥೭॥
ದ್ವಿಜಾನಾಂ ದುರ್ವಿದಂ ಸಾಂಖ್ಯಂ ಕಲಿಕಾಲೇ ವಿಶೇಷತಃ।
ಅನಿಗ್ರಹಶ್ಚೇಂದ್ರಿಯಾಣಾಂ ಸ್ಥಿರತ್ವಂ ಮನಸೋ ನಹಿ॥೮॥
ವಿಷಯೈರ್ವಿಪ್ರಯುಕ್ತಾನಾಂ ಧ್ಯಾನಧಾರಣವರ್ಜಿನಾಮ್।
ಕಾಮಭೋಗಪ್ರಸಕ್ತಾನಾಂ ತ್ರಿಸ್ಪೃಶಾ ಮೋಕ್ಷದಾಯಿನೀ॥೯॥
ಮಹ್ಯಂ ಚೈವ ಪುರಾ ಪ್ರೋಕ್ತಾ ಚತುರ್ವಕ್ತ್ರಸ್ಯ ಸಾಗರೇ।
ಕ್ಷೀರೋದೇ ಪ್ರಣತಾನಾಂ ತು ಮತ್ಸ್ಯರೂಪೇಣ ಚಕ್ರಿಣಾ॥೧೦॥
ತ್ರಿಸ್ಪೃಶಾಂ ಯೇ ಕರಿಷ್ಯಂತಿ ವಿಷಯೈರಪಿ ಸಂಯುತಾಃ।
ತೇಷಾಮಪಿ ಮಯಾ ದತ್ತೋ ಮೋಕ್ಷಃ ಸಾಂಖ್ಯವಿವರ್ಜಿನಾಮ್॥೧೧॥
ಕಾಮಭೋಗಪ್ರಸಕ್ತಾನಾಂ ತ್ರಿಸ್ಪೃಶಾ ಮೋಕ್ಷದಾಯಿನೀ।
ಬಹುಭಿರ್ಮುನಿಸಂಘೈಶ್ಚ ಕೃತೇಯಂ ಚ ಮಹಾಮುನೇ॥೧೨॥
ಕಾರ್ತಿಕೇ ಶುಕ್ಲಪಕ್ಷೇ ತು ತ್ರಿಸ್ಪೃಶಾ ಜಾಯತೇ ಯದಿ।
ಸೋಮೇನ ಸೋಮಜೇನಾಪಿ ಪಾಪಕೋಟಿವಿನಾಶಿನೀ॥೧೩॥
ಯಸ್ಯಾ ಉಪೋಷಣಕೃತೋ ಹತ್ಯಾಯುಕ್ತ ಮಹೇಶಿತುಃ।
ಹಸ್ತಾದ್ ಬ್ರಹ್ಮಕಪಾಲಂ ತು ತತ್ಕ್ಷಣಾತ್ ಪತಿತಂ ಭುವಿ॥೧೪॥
ಕಲಿಕಲ್ಮಷಕೋಟ್ಯೌಘೈರ್ಮುಕ್ತಾ ದೇವೀ ತ್ರಿಮಾರ್ಗಗಾ।
ಉಪದೇಶಾನ್ಮಾಧವಸ್ಯ ತ್ರಿಸ್ಪೃಶಾಸಮುಪೋಷಣಾತ್॥೧೫॥
ಹತ್ಯಾಷ್ಟೌ ಬಾಹುವೀರ್ಯಸ್ಯ ಪೂರ್ವಜಾತಾ ಮಹಾಮುನೇ।
ಗತಾ ಭೃಗೂಪದೇಶೇನ ತ್ರಿಸ್ಪೃಶಾಸಮುಪೋಷಣಾತ್॥೧೬॥
ಶತಾಯುಧೇನ ವಿಪ್ರೇಂದ್ರ ನಿಹತೋ ಬ್ರಾಹ್ಮಣೋ ವನೇ।
ಬ್ರಹ್ಮಹತ್ಯಾವಿನಿರ್ಮುಕ್ತಃ ತ್ರಿಸ್ಪೃಶಾಸಮುಪೋಷಣಾತ್॥೧೭॥
ಜೀವೋಪದೇಶಾಚ್ಛಕ್ರಸ್ಯ ಹತ್ಯಾ ನಮುಚಿಸಂಭವಾ।
ವಿನಷ್ಟಾ ಮುನಿಮುಖ್ಯೇಂದ್ರ ತ್ರಿಸ್ಪೃಶಾಸಮುಪೋಷಣಾತ್॥೧೮॥
ಬ್ರಹ್ಮಹತ್ಯಾದಿಪಾಪಾನಿ ತ್ರಿಸ್ಪೃಶಾಸಮುಪೋಷಣಾತ್।
ವಿಲಯಂ ಯಾಂತಿ ವಿಪ್ರೇಂದ್ರ ಪಾಪೇಷ್ವನ್ಯೇಷು ಕಾ ಕಥಾ॥೧೯॥
ನ ಪ್ರಯಾಗೇ ನ ಕಾಶ್ಯಾಂ ತು ಗೋಮತ್ಯಾಂ ಕೃಷ್ಣಸನ್ನಿಧೌ।
ಮೋಕ್ಷೋ ಭವತಿ ವಿಪ್ರೇಂದ್ರ ತ್ರಿಸ್ಪೃಶಾ ಯದಿ ನೋ ಕೃತಾ॥೨೦॥
ಮರಣಾಚ್ಚ ಪ್ರಯಾಗೇ ತು ಗೋಮತ್ಯಾಂ ಕೃಷ್ಣಸನ್ನಿಧೌ।
ಸ್ನಾನಮಾತ್ರೇಣ ಗೋಮತ್ಯಾಂ ಮುಕ್ತಿರ್ಭವತಿ ಶಾಶ್ವತೀ॥೨೧॥
ಗೃಹೇಽಪಿ ಜಾಯತೇ ಮುಕ್ತಿಸ್ತ್ರಿಸ್ಪೃಶಾ ಸಮುಪೋಷಣಾತ್।
ವಿಷಯೇ ವರ್ತಮಾನಸ್ಯ ಕಾಮಭೋಗಾನ್ವಿತಸ್ಯ ಚ॥೨೨॥
ನಿವೃತ್ತವಿಷಯಸ್ಯಾಪಿ ಮುಕ್ತಿಃ ಸಾಂಖ್ಯೇನ ದುರ್ಲಭಾ।
ತಸ್ಮಾತ್ ಕುರುಷ್ವ ವಿಪ್ರೇಂದ್ರ ತ್ರಿಸ್ಪೃಶಾಂ ಮೋಕ್ಷದಾಯಿನೀಮ್॥೨೩॥

ನಾರದ ಉವಾಚ

ಕೀದೃಶಂ ತತ್ ಸುರಶ್ರೇಷ್ಠ ತ್ರಿಸ್ಪೃಶಾಖ್ಯಂ ಮಹಾವ್ರತಮ್।
ಮುಕ್ತಿದಂ ಯದ್ ದ್ವಿಜಾತೀನಾಂ ತ್ವಯಾ ಪ್ರೋಕ್ತಂ ಮಮಾಧುನಾ॥೨೪॥

ಮಹಾದೇವ ಉವಾಚ

ಜಾಹ್ನವ್ಯೈ ಸಾ ಪುರಾ ವಿಪ್ರ ತ್ರಿಸ್ಪೃಶಾ ಮಾಧವೇನ ತು।
ಪ್ರಾಚೀ ಸರಸ್ವತೀತೀರೇ ಕಥಿತಾ ತ್ವನುಕಂಪಯಾ॥೨೫॥

ಜಾಹ್ನವ್ಯುವಾಚ

ಕಲಿಕಲ್ಮಷ ಕೋಟ್ಯೌಘೈರ್ಬ್ರಹ್ಮಹತ್ಯಾದಿಕೈರ್ಯುತಾಃ।
ಕಲಿಕಾಲೇ ಹೃಷೀಕೇಶ ಸ್ನಾನಂ ಕುರ್ವಂತಿ ಮಜ್ಜಲೇ॥೨೬॥
ತೇಷಾಂ ಪಾಪಶತೈರ್ದೋಷೈರ್ದೇಹೋ ಮೇ ಕಲುಷೀಕೃತಃ।
ಕಥಂ ಯಾಸ್ಯತಿ ಮೇ ದೇವ ಪಾತಕಂ ಗರುಡಧ್ವಜ॥೨೭॥

ಪ್ರಾಚೀಮಾಧವ ಉವಾಚ

ಕಥಯಾಮಿ ನ ಸಂದೇಹೋ ಮಾ ಪುತ್ರಿ ರೋದನಂ ಕುರು।
ಶ್ಯಾಮೋ ವಟಸ್ತು ಮೇ ಸ್ಥಾನಂ ಪ್ರಾಚೀದೇವೀ ಮಮಾಗ್ರತಃ॥೨೮॥
ವಹತೇ ಬ್ರಹ್ಮತನಯಾ ದೃಷ್ಟ್ವಾಽಗ್ರೇ ಚ ಸುರೇಶ್ವರೀಮ್।
ಸ್ನಾನಂ ಕುರುಷ್ವ ನಿತ್ಯಂ ತ್ವಂ ತ್ವತ್ರ ಪೂತಾ ಭವಿಷ್ಯಸಿ॥೨೯॥
ಯತ್ರ ಬ್ರಹ್ಮಸುತಾ ಪ್ರಾಚೀ ತತ್ರಾಹಂ ನಾತ್ರ ಸಂಶಯಃ।
ತೀರ್ಥಕೋಟಿಶತೈರ್ಯುಕ್ತಃ ಸುರೈಃ ಸಹ ವಸಾಮ್ಯಹಮ್॥೩೦॥
ಪವಿತ್ರಂ ಮತ್ಪ್ರಿಯಂ ಸ್ಥಾನಂ ಹತ್ಯಾಕೋಟಿವಿನಾಶನಮ್।
ಸಂತುಷ್ಟೇನ ಮಯಾ ದತ್ತಂ ಯಸ್ಮಾತ್ ಪ್ರಾಣಾಧಿಕಾಸಿ ಮೇ॥೩೧॥
ತೀರ್ಥಕೋಟಿಸಹಸ್ರಾಣಿ ನಿತ್ಯಂ ತಿಷ್ಠಂತಿ ಜಾಹ್ನವಿ।
ಪ್ರಾಚೀ ಸರಸ್ವತೀತೋಯೇ ಸರ್ವದೈವ ಮಮಾಽಽಜ್ಞಯಾ॥೩೨॥
ಬ್ರಹ್ಮವಧಾತ್ ಸುರಾಪಾನಾದ್ ಗೋವಧಾದ್ ವೃಷಲೀವಧಾತ್।
ಬ್ರಹ್ಮಸ್ವಹರಣಾದೇವ ಮಾತಾಪಿತ್ರೋಸ್ತ್ವಪೂಜನಾತ್॥೩೩॥
ಚಕ್ರಿಯಾನಾದ್ ಗುರುದ್ರೋಹಾದಭಕ್ಷ್ಯಸ್ಯ ಚ ಭಕ್ಷಣಾತ್।
ಸರ್ವಪಾಪಸ್ಯ ಕರಣಾತ್ ಪ್ರಾಚೀ ಬ್ರಹ್ಮಸುತಾ ಸುತೇ॥೩೪॥
ವ್ಯಪೋಹಯತಿ ಪಾಪಾನಿ ಸಕೃತ್ ಸ್ನಾನೇನ ಮೇಽಗ್ರತಃ।
ಕುರು ಸ್ನಾನಂ ಸರಿಚ್ಛ್ರೇಷ್ಠೇ ವಿಪಾಪಾ ತ್ವಂ ಭವಿಷ್ಯಸಿ॥೩೫॥

ಜಾಹ್ನವ್ಯುವಾಚ

ನಾಹಂ ಶಕ್ನೋಮಿ ದೇವೇಶ ಆಗಂತುಂ ನಿತ್ಯಮೇವ ಹಿ।
ಕಥಂ ನಶ್ಯಂತಿ ಪಾಪಾನಿ ಕಥಯಸ್ವೇಹ ಮಾಧವ॥೩೬॥

ಪ್ರಾಚೀಮಾಧವ ಉವಾಚ

ನ ಶಕ್ನೋಷಿ ಯದಾಗಂತುಂ ನಿತ್ಯಮೇವ ಹಿ ಜಾಹ್ನವಿ।
ತದಾನ್ಯತ್ಸಂಪ್ರವಕ್ಷ್ಯಾಮಿ ಯಸ್ಮಾನ್ಮತ್ಪಾದಸಂಭವಾ॥೩೭॥
ಸರಸ್ವತ್ಯಧಿಕಾ ಯಾ ಚ ತೀರ್ಥಕೋಟಿಶತಾಧಿಕಾ।
ಮಖಕೋಟ್ಯಧಿಕಾ ವಾಽಪಿ ವ್ರತದಾನಾಧಿಕಾ ಚ ಯಾ॥೩೮॥
ಜಪಹೋಮಾಧಿಕಾ ಯಾ ಚ ಚತುರ್ವರ್ಗಫಲಪ್ರದಾ।
ಸಾಂಖ್ಯಯೋಗಾಧಿಕಾ ಯಾ ಚ ತ್ರಿಸ್ಪೃಶಾ ಕ್ರಿಯತಾಂ ಶುಭಾ॥೩೯॥
ಯಸ್ಮಿನ್ ಮಾಸೇ ಸಮಾಯಾತಿ ಸಿತಾ ಚ ಯದಿ ವಾಸಿತಾ।
ಕರ್ತವ್ಯಾ ಸಾ ಸರಿಚ್ಛ್ರೇಷ್ಠೇ ಕೃತೇ ಪಾಪಾತ್ ಪ್ರಮುಚ್ಯತೇ॥೪೦॥

ಜಾಹ್ನವ್ಯುವಾಚ

ಕೀದೃಶೀ ತ್ರಿಸ್ಪೃಶಾ ದೇವ ಮಮಾಽಽಖ್ಯಾಹಿ ಸುಮಾಧವ।
ಈದೃಶೋ ಮಹಿಮಾ ಯಸ್ಯಾಸ್ತ್ವಯಾ ಪ್ರೋಕ್ತೋ ಮಮಾಧುನಾ॥೪೧॥
ದಶಮ್ಯೇಕಾದಶೀಭದ್ರಾ ದಿನೈಕಸ್ಮಿನ್ಯದಾ ಭವೇತ್।
ತ್ರಿಸ್ಪೃಶಾ ಸಾ ಭವೇದ್ ದೇವ ವಾನ್ಯಥಾ ವದ ಮೇ ಪ್ರಭೋ॥೪೨॥

ಕೃಷ್ಣ ಉವಾಚ

ಆಸುರೀ ತ್ರಿಸ್ಪೃಶಾ ದೇವೀ ಯಾ ತ್ವಯಾ ಪರಿಕೀರ್ತಿತಾ।
ವರ್ಜನೀಯಾ ಪ್ರಯತ್ನೇನ ವೃತ್ತಿಹೀನೋ ಯಥಾ ಪತಿಃ॥೪೩॥
ಅಸುರಾಣಾಂ ತು ಸಾ ಪ್ರೋಕ್ತಾ ಆಯುರ್ಬಲವಿನಾಶಿನೀ।
ವರ್ಜನೀಯಾ ಪ್ರಯತ್ನೇನ ಯಥಾ ನಾರೀ ರಜಸ್ವಲಾ॥೪೪॥
ಸ್ವಜಾತಿಂ ಚ ಪರಿತ್ಯಜ್ಯ ಯಾ ಗತಾಧಮಜಾತಿಷು।
ಸೈವ ತ್ಯಾಜ್ಯಂ ವಿಶೇಷೇಣ ದಶಮೀಯುಕ್ತಂ ಹಿ ಮದ್ದಿನಮ್॥೪೫॥
ಯಥಾ ರಜಸ್ವಲಾಸಂಗಾದ್ದೂಷ್ಯಂತೇ ಜ್ಞಾನವರ್ಜಿತಾಃ।
ತಥೈವ ದಶಮೀಯುಕ್ತಂ ಮದ್ದಿನಂ ದೂಷಿತಂ ನೃಣಾಮ್॥೪೬॥
ಹತ್ಯಾಯುತಶತಂ ಹಂತಿ ತ್ರಿಸ್ಪೃಶಾ ಸಮುಪೋಷಿತಾ।
ಏಕಾದಶೀ ದ್ವಾದಶೀ ಚ ರಾತ್ರಿಶೇಷೇ ತ್ರಯೋದಶೀ॥೪೭॥
ತ್ರಿಸ್ಪೃಶಾ ಸಾ ತು ವಿಜ್ಞೇಯಾ ದಶಮೀಸಹಿತಾ ನ ಹಿ।
ಕೃತ್ವಾಽಪರಾಧಂ ಮುಚ್ಯೇತ ಪ್ರಾಯಶ್ಚಿತ್ತೇ ಕೃತೇ ನರಃ॥೪೮॥
ದಶಮೀವೇಧಜಂ ದೋಷಂ ನ ಕ್ಷಮಾಮಿ ಸುರಾಪಗೇ।
ಭುಕ್ತಂ ಹಾಲಾಹಲಂ ತೇನ ವಿಷಸ್ಯ ಭಕ್ಷಣಂ ಕೃತಮ್॥೪೯॥
ದಶಮೀಮಿಶ್ರಿತಂ ಯೇನ ಕೃತಮೇಕಾದಶೀವ್ರತಮ್।
ಇತಿ ಮತ್ವಾ ನ ಕರ್ತವ್ಯಂ ಮದ್ದಿನಂ ದಶಮೀಯುತಮ್॥೫೦॥
ಜನ್ಮಕೋಟಿಕೃತಂ ಪುಣ್ಯಂ ಸಂತಾನಂ ಯಾತಿ ಸಂಕ್ಷಯಮ್।
ಪಾತಯೇತ್ಸ್ವಕುಲಂ ಸ್ವರ್ಗಾನ್ನಯತೇ ರೌರವಾದಿಕಮ್॥೫೧॥
ಸ್ವದೇಹಂ ಶೋಧಯಿತ್ವಾ ತು ಕರ್ತವ್ಯೋ ಮಮ ವಾಸರಃ।
ವೃದ್ಧೌ ತ್ಯಾಜ್ಯಾ ವಿನಾ ವೇಧಾಚ್ಛ್ರವಣಾದಿಷು ಸಂಯುತಾ॥೫೨॥
ಜನ್ಮಪುಣ್ಯಂ ಕ್ಷಯಂ ಯಾತಿ ಏಕಾದಶ್ಯುಪವಾಸಿನಾಮ್।
ಸಂವೃದ್ಧೌ ತು ವಿಶೇಷೇಣ ಸಂದೇಹೇ ಸಮುಪಸ್ಥಿತೇ॥೫೩॥
ಮಮಾಽಽಜ್ಞಯಾ ಚ ಕರ್ತವ್ಯಾ ದ್ವಾದಶೀವಲ್ಲಭಾ ಮಮ॥೫೪॥

ಜಾಹ್ನವ್ಯುವಾಚ

ಕರಿಷ್ಯೇಽಹಂ ಜಗನ್ನಾಥ ತ್ರಿಸ್ಪೃಶಾಂ ವಚನಾತ್ ತವ।
ಸರ್ವಪಾಪವಿನಿರ್ಮುಕ್ತಾ ಭವಿಷ್ಯಾಮಿ ತವಾಜ್ಞಯಾ॥೫೫॥

ಶ್ರೀಕೃಷ್ಣ ಉವಾಚ

ಸ್ವಸ್ಥಾನಂ ಗಚ್ಛ ಭದ್ರಂ ತೇ ನ ಭೀಃ ಕಾರ್ಯಾ ಕದಾಚನ।
ತವ ದೇವಿ ಸರಿಚ್ಛ್ರೇಷ್ಠೇ ನ ಪಾಪಂ ಸಂಕ್ರಮಿಷ್ಯತಿ॥೫೬॥
ಸ್ನಾತ್ವಾ ಸರಸ್ವತೀತೋಯೇ ಯೇಽರ್ಚಯಿತ್ವಾ ಚ ಮಾಧವಮ್।
ಪ್ರಣಮಂತಿ ಜಗನ್ನಾಥಂ ತೇ ಯಾಂತಿ ಪರಮಾಂ ಗತಿಮ್॥೫೭॥

ಜಾಹ್ನವ್ಯುವಾಚ

ವಿಧಾನಂ ಬ್ರೂಹಿ ಮೇ ಬ್ರಹ್ಮನ್ ಸರ್ವಸ್ವೇನ ಕರೋಮ್ಯಹಮ್।
ಪ್ರಸಾದಯಾಮಿ ದೇವೇಶಂ ದಾಮೋದರಮನಾಮಯಮ್॥೫೮॥

ಪ್ರಾಚೀಮಾಧವ ಉವಾಚ

ಶೃಣು ದೇವಿ ಪ್ರವಕ್ಷ್ಯಾಮಿ ತ್ರಿಸ್ಪೃಶಾಯಾ ವಿಧಾನಕಮ್।
ಯಂ ಶ್ರುತ್ವಾಽಪಿ ಸರಿಚ್ಛ್ರೇಷ್ಠೇ ಮುಚ್ಯತೇ ಪಾತಕೈರ್ನರಃ॥೫೯॥
ಪಲೇನ ಚ ಪಲಾರ್ಧೇನ ತದರ್ಧೇನಾಪಿ ವಾಪಗೇ।
ಪ್ರತಿಮಾ ಮಮ ಸೌವರ್ಣಾ ಕಾರ್ಯಾ ವಿಭವಸಾರತಃ॥೬೦॥
ಪಾತ್ರಂ ತಾಮ್ರಮಯಂ ಕಾರ್ಯಂ ತಿಲೈಸ್ತು ಪರಿಪೂರಿತಮ್।
ಸಜಲಂ ತು ಘಟಂ ಶುಭ್ರಂ ಪಂಚರತ್ನಸಮನ್ವಿತಮ್॥೬೧॥
ವೇಷ್ಟಿತಂ ಪುಷ್ಪಮಾಲಾಭಿಃ ಕರ್ಪೂರಾಗುರುವಾಸಿತಮ್।
ನ್ಯಸೇದ್ ದಾಮೋದರಂ ಪಶ್ಚಾತ್ ಸ್ನಾಪಯಿತ್ವಾ ವಿಲಿಪ್ಯ ಚ॥೬೨॥
ಪರಿಧಾನಂ ತತಃ ಕಾರ್ಯಂ ವಸ್ತ್ರಯುಗ್ಮೇನ ಚಾನ್ವಿತಮ್।
ಮಂತ್ರೈಸ್ತು ಪೂಜನಂ ಕಾರ್ಯಂ ಪುರಾಣೈಃ ಸಮುದೀರಿತೈಃ।
ಪುಷ್ಪೈಃ ಕಾಲೋದ್ಭವೈಃ ಶುಭ್ರೈಸ್ತುಲಸೀಪತ್ರೈಶ್ಚ ಕೋಮಲೈಃ॥೬೩॥
ಛತ್ರಂ ತು ವಿಷ್ಣವೇ ದದ್ಯಾತ್ ಪಾದುಕಾಭ್ಯಾಂ ಸುಸಂಯುತಮ್।
ನಿವೇದ್ಯಾನಿ ಮನೋಜ್ಞಾನಿ ಫಲಾನಿ ಸುಬಹೂನ್ಯಪಿ॥೬೪॥
ಉಪವೀತಂ ತು ದಾತವ್ಯಂ ಸೋತ್ತರೀಯಂ ನವಂ ದೃಢಮ್।
ವೈಣವಂ ದಾಪಯೇದ್ ದಂಡಂ ಸುರೂಪಂ ಸೋನ್ನತಂ ದೃಢಮ್॥೬೫॥
ದಾಮೋದರಾಯ ವೈ ಪಾದೌ ಜಾನುನೀ ಮಾಧವಾಯ ಚ।
ಗುಹ್ಯಂ ಕಾಮಪ್ರದಾಯೇತಿ ಕಟಿಂ ವಾಮನಮೂರ್ತಯೇ॥೬೬॥
ಪದ್ಮನಾಭಾಯ ನಾಭಿಂ ತು ಜಠರಂ ವಿಶ್ವಯೋನಯೇ।
ಹೃದಯಂ ಜ್ಞಾನಗಮ್ಯಾಯ ಕಂಠಂ ವೈಕುಂಠಗಾಮಿನೇ॥೬೭॥
ಸಹಸ್ರಬಾಹವೇ ಬಾಹೂ ಚಕ್ಷುಷೀ ಯೋಗರೂಪಿಣೇ।
ಸಂಪೂಜ್ಯ ವಿಧಿವದ್ ಭಕ್ತ್ಯಾ ದದ್ಯಾದರ್ಘಂ ವಿಧಾನತಃ॥೬೮॥
ಶುಭ್ರೇಣ ನಾಲಿಕೇರೇಣ ಶಂಖೋಪರಿ ಸ್ಥಿತೇನ ಹಿ।
ಸೂತ್ರೈರಾವೇಷ್ಟಿತೇನೈವ ಹಸ್ತಯೋರುಭಯೋರಪಿ॥೬೯॥
ಸ್ಮೃತೋ ಹರಸಿ ಪಾಪಾನಿ ಯದಿ ನಿತ್ಯಂ ಜನಾರ್ದನ।
ದುಃಸ್ವಪ್ನಂ ದುರ್ನಿಮಿತ್ತಾನಿ ಮನಸಾ ದುರ್ವಿಚಿನ್ವಿತಾ॥೭೦॥
ನಾರಕಂ ತು ಭಯಂ ದೇವ ಭಯದುರ್ಗತಿಸಂಭವಮ್।
ಯನ್ಮಮ ಸ್ಯಾನ್ಮಹಾದೇವ ಐಹಿಕಂ ಪಾರಲೌಕಿಕಮ್॥೭೧॥
ತೇನ ದೇವೇಶ ಮಾಂ ರಕ್ಷ ಗೃಹಾಣಾರ್ಘಂ ನಮೋಽಸ್ತು ತೇ।
ಕೃಪಾದೃಷ್ಟಿಃ ಸದೈವಾಸ್ತು ದಾಮೋದರ ಮಮೋಪರಿ॥೭೨॥
ಧೂಪಂ ದೀಪಂ ಚ ನೈವೇದ್ಯಂ ಕುರ್ಯಾನ್ನೀರಾಜನಂ ತತಃ।
ಶೀರ್ಷೋಪರಿ ಸರಿಚ್ಛ್ರೇಷ್ಠೇ ಭ್ರಾಮಯೇದ್ವಾರಿಜಂ ಹರೇಃ॥೭೩॥
ಕೃತ್ವಾ ವಿಧಾನಮೇತದ್ಧಿ ಪೂಜಯೇತ್ ಸ್ವಗುರುಂ ತತಃ।
ದದ್ಯಾತ್ ಸುವರ್ಣಂ ವಸ್ತ್ರಾಣಿ ಸೋಷ್ಣೀಷಂ ಚೈವ ಕಂಚುಕಮ್॥೭೪॥
ಉಪಾನಹೋಽಪಿ ಛತ್ರಂ ಚ ಮುದ್ರಿಕಾಂ ಚ ಕಮಂಡಲುಮ್।
ಭೋಜನಂ ಚೈವ ತಾಂಬೂಲಂ ಸಪ್ತಧಾನ್ಯಂ ಚ ದಕ್ಷಿಣಾಮ್॥೭೫॥
ಗುರುಂ ಸಂಪೂಜ್ಯ ದೇವೇಶಂ ಕುರ್ಯಾಜ್ಜಾಗರಣಂ ಹರೇಃ।
ಗೀತನೃತ್ಯಸಮಾಯುಕ್ತಂ ತಥಾ ಶಾಸ್ತ್ರಸಮನ್ವಿತಮ್॥೭೬॥
ನಿಶಾಂತೇ ಚೈವ ದೇವಾಯ ದತ್ವಾ ಚಾರ್ಘಂ ವಿಧಾನತಃ।
ಸ್ನಾನಾದಿಕಾಂ ಕ್ರಿಯಾಂ ಕೃತ್ವಾ ಭುಂಜೀಯಾದ್ವಾಡವೈಃ ಸಹ॥೭೭॥

ಶಿವ ಉವಾಚ

ದ್ವಿಜೈತತ್ತ್ರಿಸ್ಪೃಶಾಖ್ಯಾನಮದ್ಭುತಂ ರೋಮಹರ್ಷಣಮ್।
ಶ್ರುತ್ವಾ ತು ಲಭತೇ ಪುಣ್ಯಂ ಗಂಗಾಂ ಸ್ನಾನಸಮುದ್ಭವಮ್॥೭೮॥
ಅಶ್ವಮೇಧಸಹಸ್ರಾಣಿ ವಾಜಪೇಯಶತಾನಿ ಚ।
ತತ್ಫಲಂ ಸಮವಾಪ್ನೋತಿ ತ್ರಿಸ್ಪೃಶಾಸಮುಪೋಷಣಾತ್॥೭೯॥
ಪಿತೃಪಕ್ಷೋ ಮಾತೃಪಕ್ಷಸ್ತಥಾ ಚೈವಾಽಽತ್ಮಪಕ್ಷಕಃ।
ತೈಃ ಸರ್ವೈಃ ಸಹ ಸಮ್ಮುಕ್ತೋ ವಿಷ್ಣುಲೋಕೇ ಮಹೀಯತೇ॥೮೦॥
ತೀರ್ಥಕೋಟಿಷು ಯತ್ ಪುಣ್ಯಂ ಕ್ಷೇತ್ರಕೋಟಿಷು ಯತ್ಫಲಮ್।
ತತ್ಫಲಂ ಸಮವಾಪ್ನೋತಿ ತ್ರಿಸ್ಪೃಶಾಸಮುಪೋಷಣಾತ್॥೮೧॥
ಬ್ರಾಹ್ಮಣಾ ಯೇಽಪಿ ಕುರ್ವಂತಿ ಕ್ಷತ್ರಿಯಾಃ ಕೃಷ್ಣಮಾನಸಾಃ।
ವೈಶ್ಯಾ ವಾ ಶೂದ್ರಜನ್ಮಾನೋ ಯೇ ತಥಾ ಚಾನ್ಯಜಾತಯಃ॥೮೨॥
ತೇ ಸರ್ವೇ ಮುಕ್ತಿಮಾಯಾಂತಿ ಭುವಂ ತ್ಯಕ್ತ್ವಾ ದ್ವಿಜೋತ್ತಮ।
ಮಂತ್ರಾಣಾಂ ಮಂತ್ರರಾಜೋಽಥ ಯಥಾ ಸ್ಯಾದ್ ದ್ವಾದಶಾಕ್ಷರಃ॥೮೩॥
ವ್ರತಾನಾಂ ಚ ಯಥಾ ಚೈಷಾ ಯೇನ ವೈ ತ್ರಿಸ್ಪೃಶಾ ಕೃತಾ।
ಬ್ರಹ್ಮಣಾ ಚ ಕೃತಾ ಪೂರ್ವಂ ಪಶ್ಚಾದ್ ರಾಜರ್ಷಿಭಿಃ ಕೃತಾ॥೮೪॥
ಅನ್ಯೇಷಾಂ ಕಾ ಕಥಾ ವತ್ಸ ತ್ರಿಸ್ಪೃಶಾ ಮುಕ್ತಿದಾಯಿನೀ।
ಅನೇನ ವಿಧಿನಾ ಬ್ರಹ್ಮಂಸ್ತ್ರಿಸ್ಪೃಶಾಸಂಭವಂ ವ್ರತಮ್॥೮೫॥
ಯಃ ಕರೋತಿ ನರೋ ಭಕ್ತ್ಯಾ ಶೃಣು ವಕ್ಷ್ಯಾಮಿ ತತ್ಫಲಮ್।
ಗಂಗಾವಗಾಹನೇ ಬ್ರಹ್ಮನ್ ವಾರಾಣಸ್ಯಾಂ ತು ಯತ್ಫಲಮ್॥೮೬॥
ಮನ್ವಂತರಸಹಸ್ರೈಸ್ತು ತ್ರಿಸ್ಪೃಶಾಕಾರಕೋ ಹಿ ತತ್।
ಪ್ರಾಚೀ ಚ ಯಮುನಾ ಸ್ನಾನೇ ವರ್ಷೈರ್ಯತ್ಕೋಟಿಭಿಃ ಫಲಮ್॥೮೭॥
ತತ್ಫಲಂ ಸಮವಾಪ್ನೋತಿ ತ್ರಿಸ್ಪೃಶಾವ್ರತಕೃನ್ನರಃ।
ತತ್ಫಲಂ ತು ಕುರುಕ್ಷೇತ್ರೇ ಸೂರ್ಯಗ್ರಹಣಕೋಟಿಭಿಃ॥೮೮॥
ಹೇಮಭಾರಶತೈರ್ದಾನೈಸ್ತ್ರಿಸ್ಪೃಶಾಕರಣೇನ ತತ್।
ಪಾಪಕೋಟಿಸಹಸ್ರಾಣಿ ಹತ್ಯಾಕೋಟಿಶತಾನಿ ಚ॥೮೯॥
ಏಕೇನೈವೋಪವಾಸೇನ ಕ್ರಿಯತೇ ಭಸ್ಮಸಾದ್ ದ್ರುತಮ್।
ತ್ರಿಸ್ಪೃಶಾಯಾ ವ್ರತಂ ಯತ್ ತು ಅಗತೀನಾಂ ಗತಿಪ್ರದಮ್॥೯೦॥
ಗತಿಮಿಚ್ಛಂತಿ ವಿಪ್ರರ್ಷೇ ಮಹತ್ ಪಾಪಶತಾನಿ ಚ।
ಸ್ವಯಂ ಕೃಷ್ಣೇನ ಕಥಿತಂ ಪಾರಾಶರ್ಯಸ್ಯ ಚಾಗ್ರತಃ॥೯೧॥
ಪ್ರಕಾಶಯತಿ ಯಶ್ಚೇದಂ ಲಿಖಿತ್ವಾ ವೈಷ್ಣವಂ ದ್ವಿಜೇ।
ಪಾಪೌಘೈರ್ಗ್ರಥಿತಸ್ಯಾಪಿ ತಸ್ಯ ಮುಕ್ತಿರ್ಭವಿಷ್ಯತಿ॥೯೨॥
ಪುಣ್ಯೈರವಾಪ್ಯತೇ ವಿದ್ವನ್ಮನ್ವಂತರಶತೈರಪಿ।
ತ್ರಿಸ್ಪೃಶಾ ದುರ್ಲಭಾ ಲೋಕೇ ಪ್ರಾಪ್ಯತೇ ನೈವ ಮಾನವೈಃ॥೯೩॥
ಕಲೌ ಯೇ ತ್ರಿಸ್ಪೃಶಾಂ ಲಬ್ಧ್ವಾ ನ ಕುರ್ವಂತಿ ನರಾಧಮಾಃ।
ತೇಷಾಂ ಜನ್ಮಫಲಂ ಚೈವ ಜೀವಿತಂ ವಿಫಲಂ ಭವೇತ್॥೯೪॥
ಪ್ರೇತತ್ವಂ ತೈಃ ಸಮುತ್ತೀರ್ಣಂ ವಿನಾ ಶ್ರಾದ್ಧೈರ್ವಿನಾ ಸುತೈಃ।
ಕೃತಾ ಯೈಸ್ತ್ರಿಸ್ಪೃಶಾ ವಿದ್ವನ್ ಸಕೃತ್ ಪ್ರಾಪ್ಯ ಕಲೌ ಯುಗೇ॥೯೫॥

॥ಇತಿ ಶ್ರೀಪಾದ್ಮೇ ಮಹಾಪುರಾಣೇ ಪಂಚಪಂಚಾಶತ್ಸಾಹಸ್ರ್ಯಾಂ ಸಂಹಿತಾಯಾಮುತ್ತರಖಂಡೇ ಉಮಾಪತಿನಾರದಸಂವಾದೇ ತ್ರಿಸ್ಪೃಶಾಖ್ಯಾನಂ ನಾಮ ಷಟ್ತ್ರಿಂಶೋಽಧ್ಯಾಯಃ॥೩೬॥

ಮಂಗಲಶ್ಲೋಕಾಃ

ಸ್ವಸ್ತಿ ಪ್ರಜಾಭ್ಯಃ ಪರಿಪಾಲಯಂತಾಂ
ನ್ಯಾಯೇನ ಮಾರ್ಗೇಣ ಮಹೀಂ ಮಹೀಶಾಃ।
ಗೋಬ್ರಾಹ್ಮಣೇಭ್ಯಃ ಶುಭಮಸ್ತು ನಿತ್ಯಂ
ಲೋಕಾಃ ಸಮಸ್ತಾಃ ಸುಖಿನೋ ಭವಂತು॥
ಕಾಲೇ ವರ್ಷತು ಪರ್ಜನ್ಯಃ ಪೃಥಿವೀ ಸಸ್ಯಶಾಲಿನೀ।
ದೇಶೋಽಯಂ ಕ್ಷೋಭರಹಿತೋ ಬ್ರಾಹ್ಮಣಾಃ ಸಂತು ನಿರ್ಭಯಾಃ॥
ಅಪುತ್ರಾಃ ಪುತ್ರಿಣಃ ಸಂತು ಪುತ್ರಿಣಃ ಸಂತು ಪೌತ್ರಿಣಃ।
ಅಧನಾಃ ಸಧನಾಃ ಸಂತು ಜೀವಂತು ಶರದಾಂ ಶತಮ್॥
ಯದಕ್ಷರಪದಭ್ರಷ್ಟಂ ಮಾತ್ರಾಹೀನಂ ತು ಯದ್ ಭವೇತ್।
ತತ್ ಸರ್ವಂ ಕ್ಷಮ್ಯತಾಂ ದೇವ ನಾರಾಯಣ ನಮೋಽಸ್ತುತೇ॥
ವಿಸರ್ಗಬಿಂದುಮಾತ್ರಾಶ್ಚ ಪದಪಾದಾಕ್ಷರಾಣಿ ಚ।
ನ್ಯೂನಾನಿ ಚಾತಿರಿಕ್ತಾನಿ ಕ್ಷಮಸ್ವ ಪುರುಷೋತ್ತಮ॥
ಯಜ್ಞೇಶಾಚ್ಯುತ ಗೋವಿಂದ ಮಾಧವಾನಂತ ಕೇಶವ।
ಕೃಷ್ಣ ವಿಷ್ಣೋ ಹೃಷೀಕೇಶ ವಾಸುದೇವ ನಮೋಽಸ್ತುತೇ॥
ಕಾಯೇನ ವಾಚಾ ಮನಸೇಂದ್ರಿಯೈರ್ವಾ
ಬುದ್‌ಧ್ಯಾಽಽತ್ಮನಾ ವಾ ಪ್ರಕೃತೇಃ ಸ್ವಭಾವಾತ್।
ಕರೋಮಿ ಯದ್ಯತ್ ಸಕಲಂ ಪರಸ್ಮೈ
ನಾರಾಯಣಾಯೇತಿ ಸಮರ್ಪಯಾಮಿ॥

Trispṛśākhyānam

śrī-mahāgaṇapati-prārthanā

śuklāmbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam|
prasannavadanaṃ dhyāyet sarvavighnopaśāntaye||
vāgīśādyāḥ sumanasaḥ sarvārthānāmupakrame|
yaṃ natvā kṛtakṛtyāḥ syustaṃ namāmi gajānanam||

śrī-guru-prārthanā

gururbrahmā gururviṣṇurgururdevo maheśvaraḥ|
guruḥ sākṣāt paraṃ brahma tasmai śrī-gurave namaḥ||
sadāśivasamārambhāṃ śaṅkarācāryamadhyamām|
asmadācāryaparyantāṃ vande guruparamparām||

śrī-sarasvatī-prārthanā

dorbhiryuktā caturbhiḥ sphaṭikamaṇinibhairakṣamālāṃ dadhānā
hastenaikena padmaṃ sitamapi ca śukaṃ pustakaṃ cāpareṇa|
bhāsā kundenduśaṅkhasphaṭikamaṇinibhā bhāsamānā'samānā
sā me vāgdevateyaṃ nivasatu vadane sarvadā suprasannā||

śrī-vyāsa-namaskriyā

vyāsaṃ vasiṣṭhanaptāraṃ śakteḥ pautramakalmaṣam|
parāśarātmajaṃ vande śukatātaṃ taponidhim||1||
abhraśyāmaḥ piṅgajaṭābaddhakalāpaḥ
prāṃśurdaṇḍī kṛṣṇamṛgatvakparidhānaḥ|
sākṣāllokān pāvayamānaḥ kavimukhyaḥ
pārāśaryaḥ parvasu rūpaṃ vivṛṇotu||2||
jayati parāśarasūnuḥ satyavatīhṛdayanandano vyāsaḥ|
yasyāsyakamalagalitaṃ vāṅmayamamṛtaṃ jagat pibati||3||

pādmamahāpurāṇam — maṅgalaślokaḥ

svacchaṃ candrāvadātaṃ karikara-makara-kṣobha-sañjāta-phenaṃ
brahmodbhūtiprasaktairvrataniyamaparaiḥ sevitaṃ vipramukhyaiḥ|
oṅkārālaṅkṛtena tribhuvanaguruṇā brahmaṇā dṛṣṭipūtaṃ
sambhogābhogaramyaṃ jalamaśubhaharaṃ pauṣkaraṃ naḥ punātu||
nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam|
devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet||

atha ṣaṭtriṃśo'dhyāyaḥ||36

nārada uvāca

trispṛśākhyaṃ vrataṃ brūhi sarveśvara viśeṣataḥ|
yacchrutvā mucyate lokaḥ karmabandhanataḥ kṣaṇāt||1||

mahādeva uvāca

sarvapāpaughaśamanaṃ mahāduḥkhavināśanam|
śṛṇu kṛṣṇāvatāraṃ tvaṃ trispṛśākhyaṃ mahāvratam||2||
kāmadaṃ saspṛhāṇāṃ tu nispṛhāṇāṃ tu mokṣadam|
trispṛśākhyaṃ vrataṃ vipra śṛṇuṣva gadato mama||3||
pratyakṣamarcitastena kalikāle ca keśavaḥ|
trispṛśā kīrtanaṃ nityaṃ yaḥ karoti mahāmune||4||
na puraścaraṇe cīrṇe sarvapāpakṣayo bhavet|
trispṛśā nāmamātreṇa kṣīyate nātra saṃśayaḥ||5||
nāgamairna purāṇādyairna makhaistīrthakoṭibhiḥ|
bahubhirvratasaṅghaiśca pūjitaistridaśairapi||6||
mokṣo bhavati viprendra trispṛśā na kṛtā yadi|
mokṣārthe devadevena dṛṣṭā vai vaiṣṇavī tithiḥ||7||
dvijānāṃ durvidaṃ sāṅkhyaṃ kalikāle viśeṣataḥ|
anigrahaścendriyāṇāṃ sthiratvaṃ manaso nahi||8||
viṣayairviprayuktānāṃ dhyānadhāraṇavarjinām|
kāmabhogaprasaktānāṃ trispṛśā mokṣadāyinī||9||
mahyaṃ caiva purā proktā caturvaktrasya sāgare|
kṣīrode praṇatānāṃ tu matsyarūpeṇa cakriṇā||10||
trispṛśāṃ ye kariṣyanti viṣayairapi saṃyutāḥ|
teṣāmapi mayā datto mokṣaḥ sāṅkhyavivarjinām||11||
kāmabhogaprasaktānāṃ trispṛśā mokṣadāyinī|
bahubhirmunisaṅghaiśca kṛteyaṃ ca mahāmune||12||
kārtike śuklapakṣe tu trispṛśā jāyate yadi|
somena somajenāpi pāpakoṭivināśinī||13||
yasyā upoṣaṇakṛto hatyāyukta maheśituḥ|
hastād brahmakapālaṃ tu tatkṣaṇāt patitaṃ bhuvi||14||
kalikalmaṣakoṭyaughairmuktā devī trimārgagā|
upadeśānmādhavasya trispṛśāsamupoṣaṇāt||15||
hatyāṣṭau bāhuvīryasya pūrvajātā mahāmune|
gatā bhṛgūpadeśena trispṛśāsamupoṣaṇāt||16||
śatāyudhena viprendra nihato brāhmaṇo vane|
brahmahatyāvinirmuktaḥ trispṛśāsamupoṣaṇāt||17||
jīvopadeśācchakrasya hatyā namucisambhavā|
vinaṣṭā munimukhyendra trispṛśāsamupoṣaṇāt||18||
brahmahatyādipāpāni trispṛśāsamupoṣaṇāt|
vilayaṃ yānti viprendra pāpeṣvanyeṣu kā kathā||19||
na prayāge na kāśyāṃ tu gomatyāṃ kṛṣṇasannidhau|
mokṣo bhavati viprendra trispṛśā yadi no kṛtā||20||
maraṇācca prayāge tu gomatyāṃ kṛṣṇasannidhau|
snānamātreṇa gomatyāṃ muktirbhavati śāśvatī||21||
gṛhe'pi jāyate muktistrispṛśā samupoṣaṇāt|
viṣaye vartamānasya kāmabhogānvitasya ca||22||
nivṛttaviṣayasyāpi muktiḥ sāṅkhyena durlabhā|
tasmāt kuruṣva viprendra trispṛśāṃ mokṣadāyinīm||23||

nārada uvāca

kīdṛśaṃ tat suraśreṣṭha trispṛśākhyaṃ mahāvratam|
muktidaṃ yad dvijātīnāṃ tvayā proktaṃ mamādhunā||24||

mahādeva uvāca

jāhnavyai sā purā vipra trispṛśā mādhavena tu|
prācī sarasvatītīre kathitā tvanukampayā||25||

jāhnavyuvāca

kalikalmaṣa koṭyaughairbrahmahatyādikairyutāḥ|
kalikāle hṛṣīkeśa snānaṃ kurvanti majjale||26||
teṣāṃ pāpaśatairdoṣairdeho me kaluṣīkṛtaḥ|
kathaṃ yāsyati me deva pātakaṃ garuḍadhvaja||27||

prācīmādhava uvāca

kathayāmi na sandeho mā putri rodanaṃ kuru|
śyāmo vaṭastu me sthānaṃ prācīdevī mamāgrataḥ||28||
vahate brahmatanayā dṛṣṭvā'gre ca sureśvarīm|
snānaṃ kuruṣva nityaṃ tvaṃ tvatra pūtā bhaviṣyasi||29||
yatra brahmasutā prācī tatrāhaṃ nātra saṃśayaḥ|
tīrthakoṭiśatairyuktaḥ suraiḥ saha vasāmyaham||30||
pavitraṃ matpriyaṃ sthānaṃ hatyākoṭivināśanam|
santuṣṭena mayā dattaṃ yasmāt prāṇādhikāsi me||31||
tīrthakoṭisahasrāṇi nityaṃ tiṣṭhanti jāhnavi|
prācī sarasvatītoye sarvadaiva mamā''jñayā||32||
brahmavadhāt surāpānād govadhād vṛṣalīvadhāt|
brahmasvaharaṇādeva mātāpitrostvapūjanāt||33||
cakriyānād gurudrohādabhakṣyasya ca bhakṣaṇāt|
sarvapāpasya karaṇāt prācī brahmasutā sute||34||
vyapohayati pāpāni sakṛt snānena me'grataḥ|
kuru snānaṃ saricchreṣṭhe vipāpā tvaṃ bhaviṣyasi||35||

jāhnavyuvāca

nāhaṃ śaknomi deveśa āgantuṃ nityameva hi|
kathaṃ naśyanti pāpāni kathayasveha mādhava||36||

prācīmādhava uvāca

na śaknoṣi yadāgantuṃ nityameva hi jāhnavi|
tadānyatsampravakṣyāmi yasmānmatpādasambhavā||37||
sarasvatyadhikā yā ca tīrthakoṭiśatādhikā|
makhakoṭyadhikā vā'pi vratadānādhikā ca yā||38||
japahomādhikā yā ca caturvargaphalapradā|
sāṅkhyayogādhikā yā ca trispṛśā kriyatāṃ śubhā||39||
yasmin māse samāyāti sitā ca yadi vāsitā|
kartavyā sā saricchreṣṭhe kṛte pāpāt pramucyate||40||

jāhnavyuvāca

kīdṛśī trispṛśā deva mamā''khyāhi sumādhava|
īdṛśo mahimā yasyāstvayā prokto mamādhunā||41||
daśamyekādaśībhadrā dinaikasminyadā bhavet|
trispṛśā sā bhaved deva vānyathā vada me prabho||42||

kṛṣṇa uvāca

āsurī trispṛśā devī yā tvayā parikīrtitā|
varjanīyā prayatnena vṛttihīno yathā patiḥ||43||
asurāṇāṃ tu sā proktā āyurbalavināśinī|
varjanīyā prayatnena yathā nārī rajasvalā||44||
svajātiṃ ca parityajya yā gatādhamajātiṣu|
saiva tyājyaṃ viśeṣeṇa daśamīyuktaṃ hi maddinam||45||
yathā rajasvalāsaṅgāddūṣyante jñānavarjitāḥ|
tathaiva daśamīyuktaṃ maddinaṃ dūṣitaṃ nṛṇām||46||
hatyāyutaśataṃ hanti trispṛśā samupoṣitā|
ekādaśī dvādaśī ca rātriśeṣe trayodaśī||47||
trispṛśā sā tu vijñeyā daśamīsahitā na hi|
kṛtvā'parādhaṃ mucyeta prāyaścitte kṛte naraḥ||48||
daśamīvedhajaṃ doṣaṃ na kṣamāmi surāpage|
bhuktaṃ hālāhalaṃ tena viṣasya bhakṣaṇaṃ kṛtam||49||
daśamīmiśritaṃ yena kṛtamekādaśīvratam|
iti matvā na kartavyaṃ maddinaṃ daśamīyutam||50||
janmakoṭikṛtaṃ puṇyaṃ santānaṃ yāti saṅkṣayam|
pātayetsvakulaṃ svargānnayate rauravādikam||51||
svadehaṃ śodhayitvā tu kartavyo mama vāsaraḥ|
vṛddhau tyājyā vinā vedhācchravaṇādiṣu saṃyutā||52||
janmapuṇyaṃ kṣayaṃ yāti ekādaśyupavāsinām|
saṃvṛddhau tu viśeṣeṇa sandehe samupasthite||53||
mamā''jñayā ca kartavyā dvādaśīvallabhā mama||54||

jāhnavyuvāca

kariṣye'haṃ jagannātha trispṛśāṃ vacanāt tava|
sarvapāpavinirmuktā bhaviṣyāmi tavājñayā||55||

śrīkṛṣṇa uvāca

svasthānaṃ gaccha bhadraṃ te na bhīḥ kāryā kadācana|
tava devi saricchreṣṭhe na pāpaṃ saṅkramiṣyati||56||
snātvā sarasvatītoye ye'rcayitvā ca mādhavam|
praṇamanti jagannāthaṃ te yānti paramāṃ gatim||57||

jāhnavyuvāca

vidhānaṃ brūhi me brahman sarvasvena karomyaham|
prasādayāmi deveśaṃ dāmodaramanāmayam||58||

prācīmādhava uvāca

śṛṇu devi pravakṣyāmi trispṛśāyā vidhānakam|
yaṃ śrutvā'pi saricchreṣṭhe mucyate pātakairnaraḥ||59||
palena ca palārdhena tadardhenāpi vāpage|
pratimā mama sauvarṇā kāryā vibhavasārataḥ||60||
pātraṃ tāmramayaṃ kāryaṃ tilaistu paripūritam|
sajalaṃ tu ghaṭaṃ śubhraṃ pañcaratnasamanvitam||61||
veṣṭitaṃ puṣpamālābhiḥ karpūrāguruvāsitam|
nyased dāmodaraṃ paścāt snāpayitvā vilipya ca||62||
paridhānaṃ tataḥ kāryaṃ vastrayugmena cānvitam|
mantraistu pūjanaṃ kāryaṃ purāṇaiḥ samudīritaiḥ|
puṣpaiḥ kālodbhavaiḥ śubhraistulasīpatraiśca komalaiḥ||63||
chatraṃ tu viṣṇave dadyāt pādukābhyāṃ susaṃyutam|
nivedyāni manojñāni phalāni subahūnyapi||64||
upavītaṃ tu dātavyaṃ sottarīyaṃ navaṃ dṛḍham|
vaiṇavaṃ dāpayed daṇḍaṃ surūpaṃ sonnataṃ dṛḍham||65||
dāmodarāya vai pādau jānunī mādhavāya ca|
guhyaṃ kāmapradāyeti kaṭiṃ vāmanamūrtaye||66||
padmanābhāya nābhiṃ tu jaṭharaṃ viśvayonaye|
hṛdayaṃ jñānagamyāya kaṇṭhaṃ vaikuṇṭhagāmine||67||
sahasrabāhave bāhū cakṣuṣī yogarūpiṇe|
sampūjya vidhivad bhaktyā dadyādarghaṃ vidhānataḥ||68||
śubhreṇa nālikereṇa śaṅkhopari sthitena hi|
sūtrairāveṣṭitenaiva hastayorubhayorapi||69||
smṛto harasi pāpāni yadi nityaṃ janārdana|
duḥsvapnaṃ durnimittāni manasā durvicinvitā||70||
nārakaṃ tu bhayaṃ deva bhayadurgatisambhavam|
yanmama syānmahādeva aihikaṃ pāralaukikam||71||
tena deveśa māṃ rakṣa gṛhāṇārghaṃ namo'stu te|
kṛpādṛṣṭiḥ sadaivāstu dāmodara mamopari||72||
dhūpaṃ dīpaṃ ca naivedyaṃ kuryānnīrājanaṃ tataḥ|
śīrṣopari saricchreṣṭhe bhrāmayedvārijaṃ hareḥ||73||
kṛtvā vidhānametaddhi pūjayet svaguruṃ tataḥ|
dadyāt suvarṇaṃ vastrāṇi soṣṇīṣaṃ caiva kañcukam||74||
upānaho'pi chatraṃ ca mudrikāṃ ca kamaṇḍalum|
bhojanaṃ caiva tāmbūlaṃ saptadhānyaṃ ca dakṣiṇām||75||
guruṃ sampūjya deveśaṃ kuryājjāgaraṇaṃ hareḥ|
gītanṛtyasamāyuktaṃ tathā śāstrasamanvitam||76||
niśānte caiva devāya datvā cārghaṃ vidhānataḥ|
snānādikāṃ kriyāṃ kṛtvā bhuñjīyādvāḍavaiḥ saha||77||

śiva uvāca

dvijaitattrispṛśākhyānamadbhutaṃ romaharṣaṇam|
śrutvā tu labhate puṇyaṃ gaṅgāṃ snānasamudbhavam||78||
aśvamedhasahasrāṇi vājapeyaśatāni ca|
tatphalaṃ samavāpnoti trispṛśāsamupoṣaṇāt||79||
pitṛpakṣo mātṛpakṣastathā caivā''tmapakṣakaḥ|
taiḥ sarvaiḥ saha sammukto viṣṇuloke mahīyate||80||
tīrthakoṭiṣu yat puṇyaṃ kṣetrakoṭiṣu yatphalam|
tatphalaṃ samavāpnoti trispṛśāsamupoṣaṇāt||81||
brāhmaṇā ye'pi kurvanti kṣatriyāḥ kṛṣṇamānasāḥ|
vaiśyā vā śūdrajanmāno ye tathā cānyajātayaḥ||82||
te sarve muktimāyānti bhuvaṃ tyaktvā dvijottama|
mantrāṇāṃ mantrarājo'tha yathā syād dvādaśākṣaraḥ||83||
vratānāṃ ca yathā caiṣā yena vai trispṛśā kṛtā|
brahmaṇā ca kṛtā pūrvaṃ paścād rājarṣibhiḥ kṛtā||84||
anyeṣāṃ kā kathā vatsa trispṛśā muktidāyinī|
anena vidhinā brahmaṃstrispṛśāsambhavaṃ vratam||85||
yaḥ karoti naro bhaktyā śṛṇu vakṣyāmi tatphalam|
gaṅgāvagāhane brahman vārāṇasyāṃ tu yatphalam||86||
manvantarasahasraistu trispṛśākārako hi tat|
prācī ca yamunā snāne varṣairyatkoṭibhiḥ phalam||87||
tatphalaṃ samavāpnoti trispṛśāvratakṛnnaraḥ|
tatphalaṃ tu kurukṣetre sūryagrahaṇakoṭibhiḥ||88||
hemabhāraśatairdānaistrispṛśākaraṇena tat|
pāpakoṭisahasrāṇi hatyākoṭiśatāni ca||89||
ekenaivopavāsena kriyate bhasmasād drutam|
trispṛśāyā vrataṃ yat tu agatīnāṃ gatipradam||90||
gatimicchanti viprarṣe mahat pāpaśatāni ca|
svayaṃ kṛṣṇena kathitaṃ pārāśaryasya cāgrataḥ||91||
prakāśayati yaścedaṃ likhitvā vaiṣṇavaṃ dvije|
pāpaughairgrathitasyāpi tasya muktirbhaviṣyati||92||
puṇyairavāpyate vidvanmanvantaraśatairapi|
trispṛśā durlabhā loke prāpyate naiva mānavaiḥ||93||
kalau ye trispṛśāṃ labdhvā na kurvanti narādhamāḥ|
teṣāṃ janmaphalaṃ caiva jīvitaṃ viphalaṃ bhavet||94||
pretatvaṃ taiḥ samuttīrṇaṃ vinā śrāddhairvinā sutaiḥ|
kṛtā yaistrispṛśā vidvan sakṛt prāpya kalau yuge||95||

||iti śrīpādme mahāpurāṇe pañcapañcāśatsāhasryāṃ saṃhitāyāmuttarakhaṇḍe umāpatināradasaṃvāde trispṛśākhyānaṃ nāma ṣaṭtriṃśo'dhyāyaḥ||36||

maṅgalaślokāḥ

svasti prajābhyaḥ paripālayantāṃ
nyāyena mārgeṇa mahīṃ mahīśāḥ|
gobrāhmaṇebhyaḥ śubhamastu nityaṃ
lokāḥ samastāḥ sukhino bhavantu||
kāle varṣatu parjanyaḥ pṛthivī sasyaśālinī|
deśo'yaṃ kṣobharahito brāhmaṇāḥ santu nirbhayāḥ||
aputrāḥ putriṇaḥ santu putriṇaḥ santu pautriṇaḥ|
adhanāḥ sadhanāḥ santu jīvantu śaradāṃ śatam||
yadakṣarapadabhraṣṭaṃ mātrāhīnaṃ tu yad bhavet|
tat sarvaṃ kṣamyatāṃ deva nārāyaṇa namo'stute||
visargabindumātrāśca padapādākṣarāṇi ca|
nyūnāni cātiriktāni kṣamasva puruṣottama||
yajñeśācyuta govinda mādhavānanta keśava|
kṛṣṇa viṣṇo hṛṣīkeśa vāsudeva namo'stute||
kāyena vācā manasendriyairvā
bud‌dhyā''tmanā vā prakṛteḥ svabhāvāt|
karomi yadyat sakalaṃ parasmai
nārāyaṇāyeti samarpayāmi||