Home / Puja Vidhanam

Śrī-akhaṇḍadīpa-pūjā-kalpaḥ

Puja Vidhanam

श्री-अखण्डदीप-पूजा-कल्पः

(मूलम्—श्रीव्रतरत्नाकरः, प्रथमो भागः)

अखण्डदीपारोपण-विधिः

सूत उवाच

अखण्डदीपारोपस्य विधिं वक्ष्ये मुनीश्वराः।
शृण्वन्तु श्रद्धया यूयम् आश्वयुग्दर्शतः परम्॥
प्रतिपत्तिथिमारभ्य मासमेकं निरन्तरम्।
अखण्डदीपस्संस्थाप्यः श्रीविष्णोः परितुष्टये॥
सौवर्णं वा राजतं वा कांस्यं वाऽपि स्वशक्तितः।
कृत्वा पात्रं गोघृतेन पूरयेदब्जतन्तुभिः॥
ततः कुर्यान्मासमध्ये विच्छेदो न भवेद्यथा।
कल्पोक्तेन प्रकारेण पूजयेत् प्रत्यहं द्विजाः॥
पूजान्ते च प्रतिदिनं दीपं दद्याद्द्विजन्मने।
हैमं वा राजतं वाऽपि कांस्यं वाऽपि सदक्षिणम्॥
भोजयेच्च द्विजं भक्त्या मासमेवं समाचरेत्।
अशक्तावपि मासान्ते सह वा भोजयेद्द्विजान्॥
विप्रानुज्ञां पुरा लब्ध्वा सम्पूज्य च गणाधिपम्।
कुर्यात् सङ्कल्पमथ च वृद्धिश्राद्धं समाचरेत्॥
पुण्याहं वाचयेत्तत्र दीपमारोपयेत्ततः।
कलशं शङ्खमभ्यर्च्य पीठपूजां विधाय च॥
भक्त्या समर्चयेद्विप्रो ज्योतिष्येव जनार्दनम्।

पूर्वाङ्ग-विघ्नेश्वर-पूजा

(आचम्य)

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये॥

प्राणान् आयम्य।
[अप उपस्पृश्य, पुष्पाक्षतान् गृहीत्वा।]

तदेव लग्नं सुदिनं तदेव ताराबलं चन्द्रबलं तदेव।
विद्याबलं दैवबलं तदेव लक्ष्मीपतेरङ्घ्रियुगं स्मरामि॥

ममोपात्त-समस्त-दुरित-क्षयद्वारा
श्री-परमेश्वर-प्रीत्यर्थं करिष्यमाणस्य कर्मणः
अविघ्नेन परिसमाप्त्यर्थम् आदौ विघ्नेश्वरपूजां करिष्ये।
[अप उपस्पृश्य]

अगजानानपद्मार्कं गजाननमहर्निशम्।
अनेकदं तं भक्तानाम् एकदन्तमुपास्महे॥

अस्मिन् हरिद्राबिम्बे सुमुखं महागणपतिं ध्यायामि, आवाहयामि।
श्री- महागणपतये नमः, आसनं समर्पयामि।
श्री- महागणपतये नमः, पादयोः पाद्यं समर्पयामि।
श्री- महागणपतये नमः, अर्घ्यं समर्पयामि।
श्री- महागणपतये नमः, आचमनीयं समर्पयामि।
श्री- महागणपतये नमः, मधुपर्कं समर्पयामि।
श्री- महागणपतये नमः, शुद्धोदकस्नानं समर्पयामि। स्नानानन्तरमाचमनीयं समर्पयामि।
श्री- महागणपतये नमः, वस्त्रार्थमक्षतान् समर्पयामि।
श्री- महागणपतये नमः, यज्ञोपवीताभरणार्थे अक्षतान् समर्पयामि।
श्री- महागणपतये नमः, दिव्यपरिमलगन्धान् धारयामि। गन्धस्योपरि हरिद्राकुङ्कुमं समर्पयामि।
श्री- महागणपतये नमः, अक्षतान् समर्पयामि।
श्री- महागणपतये नमः, पुष्पमालिकां समर्पयामि। पुष्पैः पूजयामि।

अर्चना

सुमुखाय नमः
एकदन्ताय नमः
कपिलाय नमः
गजकर्णकाय नमः
लम्बोदराय नमः
विकटाय नमः
विघ्नराजाय नमः
विनायकाय नमः
धूमकेतवे नमः
गणाध्यक्षाय नमः
फालचन्द्राय नमः
गजाननाय नमः
वक्रतुण्डाय नमः
शूर्पकर्णाय नमः
हेरम्बाय नमः
स्कन्दपूर्वजाय नमः
श्री- महागणपतये नमः, नानाविधपरिमलपत्रपुष्पाणि समर्पयामि।
श्री- महागणपतये नमः, धूपमाघ्रापयामि।
श्री- महागणपतये नमः, अलङ्कारदीपं सन्दर्शयामि।
श्री- महागणपतये नमः, ( ) (नैवेद्यं) निवेदयामि।
निवेदनान्तरम् आचमनीयं समर्पयामि।
श्री- महागणपतये नमः, ताम्बूलं समर्पयामि।
श्री- महागणपतये नमः, कर्पूरनीराजनं दर्शयामि। कर्पूरनीराजनानन्तरमाचमनीयं समर्पयामि।
श्री- महागणपतये नमः, मन्त्रपुष्पं समर्पयामि। स्वर्णपुष्पं समर्पयामि।

अभीप्सितार्थसिद्ध्यर्थं पूजितो यः सुरैरपि।
सर्वविघ्नच्छिदे तस्मै गणाधिपतये नमः॥
गजाननं भूतगणादिसेवितं कपित्थ-जम्बूफल-सार-भक्षितम्।
उमासुतं शोकविनाशकारणं नमामि विघ्नेश्वरपादपङ्कजम्॥

अनन्तकोटिप्रदक्षिणनमस्कारान् समर्पयामि।
छत्त्रचामरादिसमस्तोपचारान् समर्पयामि।

वक्रतुण्डमहाकाय कोटिसूर्यसमप्रभ।
अविघ्नं कुरु मे देव सर्वकार्येषु सर्वदा॥
सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः।
लम्बोदरश्च विकटो विघ्नराजो गणाधिपः॥
धूमकेतुर्गणाध्यक्षो फालचन्द्रो गजाननः।
वक्रतुण्डः शूर्पकर्णो हेरम्भः स्कन्दपूर्वजः॥
षोडशैतानि नामानि यः पठेच्छृणुयादपि।
विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा।
सङ्ग्रामे सर्वकार्येषु विघ्नस्तस्य न जायते॥

प्रार्थनाः समर्पयामि।

प्रधान-पूजा — श्रीभूमिनीलासमेत-श्रीमहाविष्णु-पूजा

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये॥

सङ्कल्पः

ममोपात्त-समस्त-दुरित-क्षयद्वारा श्री-परमेश्वर-प्रीत्यर्थं शुभे शोभने मुहूर्ते अद्य ब्रह्मणः
द्वितीयपरार्धे श्वेतवराहकल्पे वैवस्वतमन्वन्तरे अष्टाविंशतितमे कलियुगे प्रथमे पादे
जम्बूद्वीपे भारतवर्षे भरतखण्डे मेरोः दक्षिणे पार्श्वे शकाब्दे अस्मिन् वर्तमाने व्यावहारिकाणां
प्रभवादीनां षष्ट्याः संवत्सराणां मध्ये ( ) नाम संवत्सरे ( ) अयने
( )-ऋतौ आश्विन-मासे कृष्णपक्षे प्रतिपदि शुभतिथौ ( ) वासरयुक्तायाम्
( ) नक्षत्र ( ) नाम योगे
( )-करण-युक्तायां च एवं गुण विशेषण विशिष्टायाम्
अस्याम् प्रतिपदि शुभतिथौ मम अज्ञाननिवृत्तिद्वारा सुज्ञानसिद्ध्यर्थं परलोके अन्धत्वनिवृत्त्यर्थं
श्रीभूमिनीलासमेत-श्रीमहाविष्णु-प्रीत्यर्थं अद्यप्रभृति आगामि-दर्शपर्यन्तं मासमेकं निरन्तरं
पुराणोक्तप्रकारेण अखण्डदीपे यथाशक्ति-ध्यानावाहनादिषोडशोपचारैः
श्रीभूमिनीलासमेत-श्रीमहाविष्णु-पूजां करिष्ये। तदङ्गं कलशपूजां च करिष्ये।
श्रीविघ्नेश्वराय नमः यथास्थानं प्रतिष्ठापयामि। शोभनार्थे क्षेमाय पुनरागमनाय च।
(गणपति-प्रसादं शिरसा गृहीत्वा)

आसन-पूजा

पृथिव्या मेरुपृष्ठ ऋषिः। सुतलं छन्दः। कूर्मो देवता॥

पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता।
त्वं च धारय मां देवि पवित्रं चासनं कुरु॥

घण्टा-पूजा

आगमार्थं तु देवानां गमनार्थं तु रक्षसाम्।
घण्टारवं करोम्यादौ देवताऽऽह्वानकारणम्॥

कलश-पूजा

कलशाय नमः दिव्यगन्धान् धारयामि।

गङ्गे च यमुने चैव गोदावरि सरस्वति।
नर्मदे सिन्धुकावेरि जलेऽस्मिन् सन्निधिं कुरु॥

श्री- गङ्गायै नमः। श्री- यमुनायै नमः। श्री- गोदावर्यै नमः। श्री- सरस्वत्यै नमः। श्री- नर्मदायै नमः। श्री- सिन्धवे नमः। श्री- कावेर्यै नमः।
सप्तकोटिमहातीर्थान्यावाहयामि।
(अथ कलशं स्पृष्ट्वा जपं कुर्यात्)

कलशस्य मुखे विष्णुः कण्ठे रुद्रः समाश्रितः।
मूले तत्र स्थितो ब्रह्मा मध्ये मातृगणाः स्मृताः॥
कुक्षौ तु सागराः सर्वे सप्तद्वीपा वसुन्धरा।
ऋग्वेदोऽथ यजुर्वेदः सामवेदोऽप्यथर्वणः।
अङ्गैश्च सहिताः सर्वे कलशाम्बुसमाश्रिताः॥
सर्वे समुद्राः सरितः तीर्थानि च ह्रदा नदाः।
आयान्तु देवपूजार्थं दुरितक्षयकारकाः॥

(इति कलशजलेन सर्वोपकरणानि आत्मानं च प्रोक्ष्य।)

आत्म-पूजा

आत्मने नमः, दिव्यगन्धान् धारयामि।

१. आत्मने नमः
२. अन्तरात्मने नमः
३. योगात्मने नमः
४. जीवात्मने नमः
५. परमात्मने नमः
६. ज्ञानात्मने नमः

समस्तोपचारान् समर्पयामि।

देहो देवालयः प्रोक्तो जीवो देवः सनातनः।
त्यजेदज्ञाननिर्माल्यं सोऽहं भावेन पूजयेत्॥

पीठ-पूजा

आधारशक्त्यै नमः
मूलप्रकृत्यै नमः
आदिकूर्माय नमः
आदिवराहाय नमः
अनन्ताय नमः
पृथिव्यै नमः
रत्नमण्डपाय नमः
रत्नवेदिकायै नमः
स्वर्णस्तम्भाय नमः
श्वेतच्छत्त्राय नमः
कल्पकवृक्षाय नमः
क्षीरसमुद्राय नमः
सितचामराभ्यां नमः
योगपीठासनाय नमः

गुरु-ध्यानम्

गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः।
गुरुः साक्षात् परं ब्रह्म तस्मै श्री-गुरवे नमः॥

प्राण-प्रतिष्ठा

असुनीते पुनरिति ऋचं पठित्वा तच्चक्षुर्देवहितम् इति मन्त्रेण देवस्य आज्येन नेत्रोन्मीलनं कृत्वा प्राणान् प्रतिष्ठापयामि इति प्राणप्रतिष्ठां कृत्वा दीपं प्रज्वाल्य वक्ष्यमाणप्रकारेण पूजयेत्॥

षोडशोपचार-पूजा

ध्यायेच्चतुर्भुजं देवं शङ्खचक्रगदाधरम्।
श्रीभूमिनीलासहितं प्रसन्नमुखपङ्कजम्॥

अस्मिन् दीपे श्रीभूमिनीलासमेतं श्रीमहाविष्णुं ध्यायामि।

आवाहयामि लक्ष्मीशम् आदिमध्यान्तवर्जितम्।
श्यामलं शान्तहृदयं ज्योतिष्यस्मिन् जनार्दनम्॥

श्रीभूमिनीलासमेतं श्रीमहाविष्णुम् आवाहयामि।

मुक्तावैडूर्यखचितं मुकुन्द मुनिसेवित।
रत्नसिंहासनं चारु रमानाथ ददामि ते॥

श्रीभूमिनीलासमेत-श्रीमहाविष्णवे नमः, आसनं समर्पयामि।

पाद्यं गृहाण भगवन् पङ्कजाक्ष परात्पर।
हेमपात्रस्थितं शुद्धं हेतुत्रयविवर्जितम्॥

श्रीभूमिनीलासमेत-श्रीमहाविष्णवे नमः, पाद्यं समर्पयामि।

अर्घ्यं गृहाण भगवन्न् अच्युतानन्त केशव।
अक्षतादिसमायुक्तम् अर्घ्यं देहि मे पदम्॥

श्रीभूमिनीलासमेत-श्रीमहाविष्णवे नमः, अर्घ्यं समर्पयामि।

अविशुद्धमिदं तोयं सुवर्णकलशस्थितम्।
गृहाणाचमनार्थाय गोविन्द गरुडध्वज॥

श्रीभूमिनीलासमेत-श्रीमहाविष्णवे नमः, आचमनीयं समर्पयामि।

मधुवैरिन् महादेव महनीयपदाम्बुज।
मधुपर्कं गृहाणाद्य महापापविनाशन॥

श्रीभूमिनीलासमेत-श्रीमहाविष्णवे नमः, मधुपर्कं समर्पयामि।

पञ्चामृतं गृहाणेदं पञ्चपातकनाशन।
पञ्चाननसमाराध्य पञ्चबाणातिसुन्दर॥

श्रीभूमिनीलासमेत-श्रीमहाविष्णवे नमः, पञ्चामृतस्नानं समर्पयामि।

तुङ्गा-गोदावरी-कृष्णा-गङ्गादिभ्यस्समाहृतम्।
सलिलं विमलं देव कमलाधव गृह्यताम्॥

श्रीभूमिनीलासमेत-श्रीमहाविष्णवे नमः, स्नानं समर्पयामि। स्नानानन्तरम् आचमनीयं समर्पयामि।

पीताम्बरयुगं देव दामोदर गुणार्णव।
गृह्यतां करुणासिन्धो भक्त्या तुभ्यं समर्पितम्॥

श्रीभूमिनीलासमेत-श्रीमहाविष्णवे नमः, वस्त्रयुग्मं समर्पयामि।

यज्ञोपवीतं परमं पवित्रं पापनाशनम्।
दत्तं मया गृहाणेदं धारणार्थं दयानिधे॥

श्रीभूमिनीलासमेत-श्रीमहाविष्णवे नमः, यज्ञोपवीतम् आभरणानि च समर्पयामि।

श्रीगन्धं कुङ्कुमोपेतं श्रीनिवास जगत्पते।
विष्णो विलेपनार्थाय गृहाण गरुडध्वज॥

श्रीभूमिनीलासमेत-श्रीमहाविष्णवे नमः, गन्धान् धारयामि।

अक्षतान् धवलान् देव शालिजान् शासितासुर।
गृहाण कमलाकान्त देहि मे पदमक्षतम्॥

श्रीभूमिनीलासमेत-श्रीमहाविष्णवे नमः, अक्षतान् समर्पयामि।

पङ्कजैः पारिजातैश्च मन्दारैर्मल्लिकासुमैः।
तुलसीदलसंयुक्तैः पूजयामि पुरातनम्॥

श्रीभूमिनीलासमेत-श्रीमहाविष्णवे नमः, पुष्पाणि समर्पयामि। पुष्पैः पूजयामि।

अङ्ग-पूजा

१.पावनाय नमःपादौ पूजयामि
२.गोविन्दाय नमःगुल्फौ पूजयामि
३.ज्योतिस्स्वरूपाय नमःजङ्घे पूजयामि
४.जगत्कुक्षये नमःजानुनी पूजयामि
५.उपेन्द्राय नमःऊरू पूजयामि
६.कमलाक्षाय नमःकटिं पूजयामि
७.गुणनिधये नमःगुह्यं पूजयामि
८.नारायणाय नमःनाभिं पूजयामि
९.दामोदराय नमःउदरं पूजयामि
१०.माधवाय नमःमध्यं पूजयामि
११.वनमालिने नमःवक्षः पूजयामि
१२.चतुर्भुजाय नमःबाहून् पूजयामि
१३.कमलाधवाय नमःकण्ठं पूजयामि
१४.केशवाय नमःकपोलौ पूजयामि
१५.चन्द्रवदनाय नमःचुबुकं पूजयामि
१६.मन्दस्मिताय नमःमुखं पूजयामि
१७.पद्मनेत्राय नमःनेत्रे पूजयामि
१८.नासाहीनाय नमःनासिकां पूजयामि
१९.श्रुतिमध्याय नमःश्रोत्रे पूजयामि
२०.लक्ष्मीप्रियाय नमःललाटं पूजयामि
२१.श्यामाङ्गाय नमःशिरः पूजयामि
२२.सर्वेश्वराय नमःसर्वाण्यङ्गानि पूजयामि

उत्तराङ्ग-पूजा

धूपं गृहाण देवेश दशाङ्गेन सुवासितम्।
धूतपाप दयाराशे दुरितोन्मुक्तविग्रह॥

श्रीभूमिनीलासमेत-श्रीमहाविष्णवे नमः, धूपमाघ्रापयामि।

साज्यवर्तिसमायुक्तं पूज्यपाद पुरातन।
दीपं गृहाण दयया ज्योतीरूप जगत्प्रभो॥

श्रीभूमिनीलासमेत-श्रीमहाविष्णवे नमः, दीपं दर्शयामि।

नानाभक्ष्यसमायुक्तं नानाफलसमन्वितम्।
नैवेद्यं गृह्यतां देव नीरजाक्ष नमोऽस्तु ते॥

श्रीभूमिनीलासमेत-श्रीमहाविष्णवे नमः, नैवेद्यं निवेदयामि।

पूगीफलं सकर्पूरं नागवल्लीदलानि च।
मुखवासाय गोविन्द गृह्यतां गरुडध्वज॥

श्रीभूमिनीलासमेत-श्रीमहाविष्णवे नमः, ताम्बूलं समर्पयामि।

कर्पूरैः कल्पितं देव करुणारससागर।
नीराजनं नीरजाक्ष गृह्यतां गुणसागर॥

श्रीभूमिनीलासमेत-श्रीमहाविष्णवे नमः, कर्पूरनीराजनं समर्पयामि। कर्पूरनीराजनानन्तरम् आचमनीयं समर्पयामि।

प्रकृष्टपापनाशाय प्रकृष्टपदलब्धये।
प्रदक्षिणं करोमि त्वां ज्योतीरूप जनार्दन॥

श्रीभूमिनीलासमेत-श्रीमहाविष्णवे नमः, प्रदक्षिणान् समर्पयामि।

नमस्तेऽस्तु हृषीकेश नारायण नतावन।
ज्योतीरूप जगन्नाथ जनार्दन नमो नमः॥

श्रीभूमिनीलासमेत-श्रीमहाविष्णवे नमः, नमस्कारान् समर्पयामि।

मन्त्रपुष्पं गृहाणेदं महादेवादिवन्दित।
मधुसूदन देवेश महापापविनाशन॥

श्रीभूमिनीलासमेत-श्रीमहाविष्णवे नमः, मन्त्रपुष्पं समर्पयामि।

नानारत्नसमायुक्तं वज्रनालसमन्वितम्।
मुक्ताकेसरसंयुक्तं स्वर्णपुष्पं ददाम्यहम्॥

श्रीभूमिनीलासमेत-श्रीमहाविष्णवे नमः, स्वर्णपुष्पं समर्पयामि।

अखण्डदीपे देवेश तव पूजा कृता मया।
सफला भवतु क्षिप्रं त्वत्प्रसादाज्जनार्दन॥
ऋणपातकदौर्भाग्यव्याधीन् मे विनिवारय।
पदं देहि परं देव प्रसीद पुरुषोत्तम॥

श्रीभूमिनीलासमेत-श्रीमहाविष्णवे नमः, प्रार्थनाः समर्पयामि।

मासान्ते अर्घ्य-दीप-दान-विधिः

अद्य पूर्वोक्त-एवङ्गुण-विशेषण-विशिष्टायाम् अस्याम् शुभतिथौ श्रीभूमिनीलासमेत-श्रीमहाविष्णु-प्रीत्यर्थं
श्रीभूमिनीलासमेत-श्रीमहाविष्णु-पूजान्ते क्षीरार्घ्यप्रदानं दीपदानं च करिष्ये॥

श्रीभूमिनीलासहित महाविष्णो दयानिधे।
गृहाणेदं मया दत्तं ज्योतीरूप नमोऽस्तु ते॥

श्रीभूमिनीलासमेताय नमः इदमर्घ्यम् इदमर्घ्यम् इदमर्घ्यम्।
अनेन दीपपूजनेन अर्घ्यप्रदानेन च श्रीमहाविष्णुः प्रीयताम्॥
इत्युक्त्वा ब्राह्मणं सम्पूज्य,

दीपं प्रज्वलितं साज्यम् अज्ञानविनिवारकम्।
लक्ष्मीकरं ब्राह्मणाय विष्णुप्रीत्यै ददाम्यहम्॥

इति दीपं दत्त्वा ब्राह्मणं भोजयित्वा स्वयं भुञ्जीत॥ विच्छेदे सति दीपस्य कृच्छ्रमेकं समाचरेत्।
सायं प्रातः प्रतिदिनं यथाशक्ति प्रपूजयेत्॥ मासे पूर्णे महादीपं यथाविभवविस्तरं सम्पूज्य च ततो
दद्यादाचार्याय सदक्षिणम्। दशदानं ततो दद्यात् भूरिदानं यथाबलम्। ब्राह्मणान् पूजयेत्पश्चात्
षड्रसैः ओदनैस्तथा॥

एवं यः कुरुते भक्त्या सर्वपापैः प्रमुच्यते।
भुक्त्वा भोगान् स देहान्ते विष्णोस्सायुज्यमाप्नुयात्॥

॥ इति श्रीव्रतरत्नाकरे अखण्डदीपपूजाकल्पः सम्पूर्णः ॥

ಶ್ರೀ-ಅಖಂಡದೀಪ-ಪೂಜಾ-ಕಲ್ಪಃ

(ಮೂಲಮ್—ಶ್ರೀವ್ರತರತ್ನಾಕರಃ, ಪ್ರಥಮೋ ಭಾಗಃ)

ಅಖಂಡದೀಪಾರೋಪಣ-ವಿಧಿಃ

ಸೂತ ಉವಾಚ

ಅಖಂಡದೀಪಾರೋಪಸ್ಯ ವಿಧಿಂ ವಕ್ಷ್ಯೇ ಮುನೀಶ್ವರಾಃ।
ಶೃಣ್ವಂತು ಶ್ರದ್ಧಯಾ ಯೂಯಮ್ ಆಶ್ವಯುಗ್ದರ್ಶತಃ ಪರಮ್॥
ಪ್ರತಿಪತ್ತಿಥಿಮಾರಭ್ಯ ಮಾಸಮೇಕಂ ನಿರಂತರಮ್।
ಅಖಂಡದೀಪಸ್ಸಂಸ್ಥಾಪ್ಯಃ ಶ್ರೀವಿಷ್ಣೋಃ ಪರಿತುಷ್ಟಯೇ॥
ಸೌವರ್ಣಂ ವಾ ರಾಜತಂ ವಾ ಕಾಂಸ್ಯಂ ವಾಽಪಿ ಸ್ವಶಕ್ತಿತಃ।
ಕೃತ್ವಾ ಪಾತ್ರಂ ಗೋಘೃತೇನ ಪೂರಯೇದಬ್ಜತಂತುಭಿಃ॥
ತತಃ ಕುರ್ಯಾನ್ಮಾಸಮಧ್ಯೇ ವಿಚ್ಛೇದೋ ನ ಭವೇದ್ಯಥಾ।
ಕಲ್ಪೋಕ್ತೇನ ಪ್ರಕಾರೇಣ ಪೂಜಯೇತ್ ಪ್ರತ್ಯಹಂ ದ್ವಿಜಾಃ॥
ಪೂಜಾಂತೇ ಚ ಪ್ರತಿದಿನಂ ದೀಪಂ ದದ್ಯಾದ್ದ್ವಿಜನ್ಮನೇ।
ಹೈಮಂ ವಾ ರಾಜತಂ ವಾಽಪಿ ಕಾಂಸ್ಯಂ ವಾಽಪಿ ಸದಕ್ಷಿಣಮ್॥
ಭೋಜಯೇಚ್ಚ ದ್ವಿಜಂ ಭಕ್ತ್ಯಾ ಮಾಸಮೇವಂ ಸಮಾಚರೇತ್।
ಅಶಕ್ತಾವಪಿ ಮಾಸಾಂತೇ ಸಹ ವಾ ಭೋಜಯೇದ್ದ್ವಿಜಾನ್॥
ವಿಪ್ರಾನುಜ್ಞಾಂ ಪುರಾ ಲಬ್ಧ್ವಾ ಸಂಪೂಜ್ಯ ಚ ಗಣಾಧಿಪಮ್।
ಕುರ್ಯಾತ್ ಸಂಕಲ್ಪಮಥ ಚ ವೃದ್ಧಿಶ್ರಾದ್ಧಂ ಸಮಾಚರೇತ್॥
ಪುಣ್ಯಾಹಂ ವಾಚಯೇತ್ತತ್ರ ದೀಪಮಾರೋಪಯೇತ್ತತಃ।
ಕಲಶಂ ಶಂಖಮಭ್ಯರ್ಚ್ಯ ಪೀಠಪೂಜಾಂ ವಿಧಾಯ ಚ॥
ಭಕ್ತ್ಯಾ ಸಮರ್ಚಯೇದ್ವಿಪ್ರೋ ಜ್ಯೋತಿಷ್ಯೇವ ಜನಾರ್ದನಮ್।

ಪೂರ್ವಾಂಗ-ವಿಘ್ನೇಶ್ವರ-ಪೂಜಾ

(ಆಚಮ್ಯ)

ಶುಕ್ಲಾಂಬರಧರಂ ವಿಷ್ಣುಂ ಶಶಿವರ್ಣಂ ಚತುರ್ಭುಜಮ್।
ಪ್ರಸನ್ನವದನಂ ಧ್ಯಾಯೇತ್ ಸರ್ವವಿಘ್ನೋಪಶಾಂತಯೇ॥

ಪ್ರಾಣಾನ್ ಆಯಮ್ಯ।
[ಅಪ ಉಪಸ್ಪೃಶ್ಯ, ಪುಷ್ಪಾಕ್ಷತಾನ್ ಗೃಹೀತ್ವಾ।]

ತದೇವ ಲಗ್ನಂ ಸುದಿನಂ ತದೇವ ತಾರಾಬಲಂ ಚಂದ್ರಬಲಂ ತದೇವ।
ವಿದ್ಯಾಬಲಂ ದೈವಬಲಂ ತದೇವ ಲಕ್ಷ್ಮೀಪತೇರಂಘ್ರಿಯುಗಂ ಸ್ಮರಾಮಿ॥

ಮಮೋಪಾತ್ತ-ಸಮಸ್ತ-ದುರಿತ-ಕ್ಷಯದ್ವಾರಾ
ಶ್ರೀ-ಪರಮೇಶ್ವರ-ಪ್ರೀತ್ಯರ್ಥಂ ಕರಿಷ್ಯಮಾಣಸ್ಯ ಕರ್ಮಣಃ
ಅವಿಘ್ನೇನ ಪರಿಸಮಾಪ್ತ್ಯರ್ಥಮ್ ಆದೌ ವಿಘ್ನೇಶ್ವರಪೂಜಾಂ ಕರಿಷ್ಯೇ।
[ಅಪ ಉಪಸ್ಪೃಶ್ಯ]

ಅಗಜಾನಾನಪದ್ಮಾರ್ಕಂ ಗಜಾನನಮಹರ್ನಿಶಮ್।
ಅನೇಕದಂ ತಂ ಭಕ್ತಾನಾಮ್ ಏಕದಂತಮುಪಾಸ್ಮಹೇ॥

ಅಸ್ಮಿನ್ ಹರಿದ್ರಾಬಿಂಬೇ ಸುಮುಖಂ ಮಹಾಗಣಪತಿಂ ಧ್ಯಾಯಾಮಿ, ಆವಾಹಯಾಮಿ।
ಶ್ರೀ- ಮಹಾಗಣಪತಯೇ ನಮಃ, ಆಸನಂ ಸಮರ್ಪಯಾಮಿ।
ಶ್ರೀ- ಮಹಾಗಣಪತಯೇ ನಮಃ, ಪಾದಯೋಃ ಪಾದ್ಯಂ ಸಮರ್ಪಯಾಮಿ।
ಶ್ರೀ- ಮಹಾಗಣಪತಯೇ ನಮಃ, ಅರ್ಘ್ಯಂ ಸಮರ್ಪಯಾಮಿ।
ಶ್ರೀ- ಮಹಾಗಣಪತಯೇ ನಮಃ, ಆಚಮನೀಯಂ ಸಮರ್ಪಯಾಮಿ।
ಶ್ರೀ- ಮಹಾಗಣಪತಯೇ ನಮಃ, ಮಧುಪರ್ಕಂ ಸಮರ್ಪಯಾಮಿ।
ಶ್ರೀ- ಮಹಾಗಣಪತಯೇ ನಮಃ, ಶುದ್ಧೋದಕಸ್ನಾನಂ ಸಮರ್ಪಯಾಮಿ। ಸ್ನಾನಾನಂತರಮಾಚಮನೀಯಂ ಸಮರ್ಪಯಾಮಿ।
ಶ್ರೀ- ಮಹಾಗಣಪತಯೇ ನಮಃ, ವಸ್ತ್ರಾರ್ಥಮಕ್ಷತಾನ್ ಸಮರ್ಪಯಾಮಿ।
ಶ್ರೀ- ಮಹಾಗಣಪತಯೇ ನಮಃ, ಯಜ್ಞೋಪವೀತಾಭರಣಾರ್ಥೇ ಅಕ್ಷತಾನ್ ಸಮರ್ಪಯಾಮಿ।
ಶ್ರೀ- ಮಹಾಗಣಪತಯೇ ನಮಃ, ದಿವ್ಯಪರಿಮಲಗಂಧಾನ್ ಧಾರಯಾಮಿ। ಗಂಧಸ್ಯೋಪರಿ ಹರಿದ್ರಾಕುಂಕುಮಂ ಸಮರ್ಪಯಾಮಿ।
ಶ್ರೀ- ಮಹಾಗಣಪತಯೇ ನಮಃ, ಅಕ್ಷತಾನ್ ಸಮರ್ಪಯಾಮಿ।
ಶ್ರೀ- ಮಹಾಗಣಪತಯೇ ನಮಃ, ಪುಷ್ಪಮಾಲಿಕಾಂ ಸಮರ್ಪಯಾಮಿ। ಪುಷ್ಪೈಃ ಪೂಜಯಾಮಿ।

ಅರ್ಚನಾ

ಸುಮುಖಾಯ ನಮಃ
ಏಕದಂತಾಯ ನಮಃ
ಕಪಿಲಾಯ ನಮಃ
ಗಜಕರ್ಣಕಾಯ ನಮಃ
ಲಂಬೋದರಾಯ ನಮಃ
ವಿಕಟಾಯ ನಮಃ
ವಿಘ್ನರಾಜಾಯ ನಮಃ
ವಿನಾಯಕಾಯ ನಮಃ
ಧೂಮಕೇತವೇ ನಮಃ
ಗಣಾಧ್ಯಕ್ಷಾಯ ನಮಃ
ಫಾಲಚಂದ್ರಾಯ ನಮಃ
ಗಜಾನನಾಯ ನಮಃ
ವಕ್ರತುಂಡಾಯ ನಮಃ
ಶೂರ್ಪಕರ್ಣಾಯ ನಮಃ
ಹೇರಂಬಾಯ ನಮಃ
ಸ್ಕಂದಪೂರ್ವಜಾಯ ನಮಃ
ಶ್ರೀ- ಮಹಾಗಣಪತಯೇ ನಮಃ, ನಾನಾವಿಧಪರಿಮಲಪತ್ರಪುಷ್ಪಾಣಿ ಸಮರ್ಪಯಾಮಿ।
ಶ್ರೀ- ಮಹಾಗಣಪತಯೇ ನಮಃ, ಧೂಪಮಾಘ್ರಾಪಯಾಮಿ।
ಶ್ರೀ- ಮಹಾಗಣಪತಯೇ ನಮಃ, ಅಲಂಕಾರದೀಪಂ ಸಂದರ್ಶಯಾಮಿ।
ಶ್ರೀ- ಮಹಾಗಣಪತಯೇ ನಮಃ, ( ) (ನೈವೇದ್ಯಂ) ನಿವೇದಯಾಮಿ।
ನಿವೇದನಾಂತರಮ್ ಆಚಮನೀಯಂ ಸಮರ್ಪಯಾಮಿ।
ಶ್ರೀ- ಮಹಾಗಣಪತಯೇ ನಮಃ, ತಾಂಬೂಲಂ ಸಮರ್ಪಯಾಮಿ।
ಶ್ರೀ- ಮಹಾಗಣಪತಯೇ ನಮಃ, ಕರ್ಪೂರನೀರಾಜನಂ ದರ್ಶಯಾಮಿ। ಕರ್ಪೂರನೀರಾಜನಾನಂತರಮಾಚಮನೀಯಂ ಸಮರ್ಪಯಾಮಿ।
ಶ್ರೀ- ಮಹಾಗಣಪತಯೇ ನಮಃ, ಮಂತ್ರಪುಷ್ಪಂ ಸಮರ್ಪಯಾಮಿ। ಸ್ವರ್ಣಪುಷ್ಪಂ ಸಮರ್ಪಯಾಮಿ।

ಅಭೀಪ್ಸಿತಾರ್ಥಸಿದ್ಧ್ಯರ್ಥಂ ಪೂಜಿತೋ ಯಃ ಸುರೈರಪಿ।
ಸರ್ವವಿಘ್ನಚ್ಛಿದೇ ತಸ್ಮೈ ಗಣಾಧಿಪತಯೇ ನಮಃ॥
ಗಜಾನನಂ ಭೂತಗಣಾದಿಸೇವಿತಂ ಕಪಿತ್ಥ-ಜಂಬೂಫಲ-ಸಾರ-ಭಕ್ಷಿತಮ್।
ಉಮಾಸುತಂ ಶೋಕವಿನಾಶಕಾರಣಂ ನಮಾಮಿ ವಿಘ್ನೇಶ್ವರಪಾದಪಂಕಜಮ್॥

ಅನಂತಕೋಟಿಪ್ರದಕ್ಷಿಣನಮಸ್ಕಾರಾನ್ ಸಮರ್ಪಯಾಮಿ।
ಛತ್ತ್ರಚಾಮರಾದಿಸಮಸ್ತೋಪಚಾರಾನ್ ಸಮರ್ಪಯಾಮಿ।

ವಕ್ರತುಂಡಮಹಾಕಾಯ ಕೋಟಿಸೂರ್ಯಸಮಪ್ರಭ।
ಅವಿಘ್ನಂ ಕುರು ಮೇ ದೇವ ಸರ್ವಕಾರ್ಯೇಷು ಸರ್ವದಾ॥
ಸುಮುಖಶ್ಚೈಕದಂತಶ್ಚ ಕಪಿಲೋ ಗಜಕರ್ಣಕಃ।
ಲಂಬೋದರಶ್ಚ ವಿಕಟೋ ವಿಘ್ನರಾಜೋ ಗಣಾಧಿಪಃ॥
ಧೂಮಕೇತುರ್ಗಣಾಧ್ಯಕ್ಷೋ ಫಾಲಚಂದ್ರೋ ಗಜಾನನಃ।
ವಕ್ರತುಂಡಃ ಶೂರ್ಪಕರ್ಣೋ ಹೇರಂಭಃ ಸ್ಕಂದಪೂರ್ವಜಃ॥
ಷೋಡಶೈತಾನಿ ನಾಮಾನಿ ಯಃ ಪಠೇಚ್ಛೃಣುಯಾದಪಿ।
ವಿದ್ಯಾರಂಭೇ ವಿವಾಹೇ ಚ ಪ್ರವೇಶೇ ನಿರ್ಗಮೇ ತಥಾ।
ಸಂಗ್ರಾಮೇ ಸರ್ವಕಾರ್ಯೇಷು ವಿಘ್ನಸ್ತಸ್ಯ ನ ಜಾಯತೇ॥

ಪ್ರಾರ್ಥನಾಃ ಸಮರ್ಪಯಾಮಿ।

ಪ್ರಧಾನ-ಪೂಜಾ — ಶ್ರೀಭೂಮಿನೀಲಾಸಮೇತ-ಶ್ರೀಮಹಾವಿಷ್ಣು-ಪೂಜಾ

ಶುಕ್ಲಾಂಬರಧರಂ ವಿಷ್ಣುಂ ಶಶಿವರ್ಣಂ ಚತುರ್ಭುಜಮ್।
ಪ್ರಸನ್ನವದನಂ ಧ್ಯಾಯೇತ್ ಸರ್ವವಿಘ್ನೋಪಶಾಂತಯೇ॥

ಸಂಕಲ್ಪಃ

ಮಮೋಪಾತ್ತ-ಸಮಸ್ತ-ದುರಿತ-ಕ್ಷಯದ್ವಾರಾ ಶ್ರೀ-ಪರಮೇಶ್ವರ-ಪ್ರೀತ್ಯರ್ಥಂ ಶುಭೇ ಶೋಭನೇ ಮುಹೂರ್ತೇ ಅದ್ಯ ಬ್ರಹ್ಮಣಃ
ದ್ವಿತೀಯಪರಾರ್ಧೇ ಶ್ವೇತವರಾಹಕಲ್ಪೇ ವೈವಸ್ವತಮನ್ವಂತರೇ ಅಷ್ಟಾವಿಂಶತಿತಮೇ ಕಲಿಯುಗೇ ಪ್ರಥಮೇ ಪಾದೇ
ಜಂಬೂದ್ವೀಪೇ ಭಾರತವರ್ಷೇ ಭರತಖಂಡೇ ಮೇರೋಃ ದಕ್ಷಿಣೇ ಪಾರ್ಶ್ವೇ ಶಕಾಬ್ದೇ ಅಸ್ಮಿನ್ ವರ್ತಮಾನೇ ವ್ಯಾವಹಾರಿಕಾಣಾಂ
ಪ್ರಭವಾದೀನಾಂ ಷಷ್ಟ್ಯಾಃ ಸಂವತ್ಸರಾಣಾಂ ಮಧ್ಯೇ ( ) ನಾಮ ಸಂವತ್ಸರೇ ( ) ಅಯನೇ
( )-ಋತೌ ಆಶ್ವಿನ-ಮಾಸೇ ಕೃಷ್ಣಪಕ್ಷೇ ಪ್ರತಿಪದಿ ಶುಭತಿಥೌ ( ) ವಾಸರಯುಕ್ತಾಯಾಮ್
( ) ನಕ್ಷತ್ರ ( ) ನಾಮ ಯೋಗೇ
( )-ಕರಣ-ಯುಕ್ತಾಯಾಂ ಚ ಏವಂ ಗುಣ ವಿಶೇಷಣ ವಿಶಿಷ್ಟಾಯಾಮ್
ಅಸ್ಯಾಮ್ ಪ್ರತಿಪದಿ ಶುಭತಿಥೌ ಮಮ ಅಜ್ಞಾನನಿವೃತ್ತಿದ್ವಾರಾ ಸುಜ್ಞಾನಸಿದ್ಧ್ಯರ್ಥಂ ಪರಲೋಕೇ ಅಂಧತ್ವನಿವೃತ್ತ್ಯರ್ಥಂ
ಶ್ರೀಭೂಮಿನೀಲಾಸಮೇತ-ಶ್ರೀಮಹಾವಿಷ್ಣು-ಪ್ರೀತ್ಯರ್ಥಂ ಅದ್ಯಪ್ರಭೃತಿ ಆಗಾಮಿ-ದರ್ಶಪರ್ಯಂತಂ ಮಾಸಮೇಕಂ ನಿರಂತರಂ
ಪುರಾಣೋಕ್ತಪ್ರಕಾರೇಣ ಅಖಂಡದೀಪೇ ಯಥಾಶಕ್ತಿ-ಧ್ಯಾನಾವಾಹನಾದಿಷೋಡಶೋಪಚಾರೈಃ
ಶ್ರೀಭೂಮಿನೀಲಾಸಮೇತ-ಶ್ರೀಮಹಾವಿಷ್ಣು-ಪೂಜಾಂ ಕರಿಷ್ಯೇ। ತದಂಗಂ ಕಲಶಪೂಜಾಂ ಚ ಕರಿಷ್ಯೇ।
ಶ್ರೀವಿಘ್ನೇಶ್ವರಾಯ ನಮಃ ಯಥಾಸ್ಥಾನಂ ಪ್ರತಿಷ್ಠಾಪಯಾಮಿ। ಶೋಭನಾರ್ಥೇ ಕ್ಷೇಮಾಯ ಪುನರಾಗಮನಾಯ ಚ।
(ಗಣಪತಿ-ಪ್ರಸಾದಂ ಶಿರಸಾ ಗೃಹೀತ್ವಾ)

ಆಸನ-ಪೂಜಾ

ಪೃಥಿವ್ಯಾ ಮೇರುಪೃಷ್ಠ ಋಷಿಃ। ಸುತಲಂ ಛಂದಃ। ಕೂರ್ಮೋ ದೇವತಾ॥

ಪೃಥ್ವಿ ತ್ವಯಾ ಧೃತಾ ಲೋಕಾ ದೇವಿ ತ್ವಂ ವಿಷ್ಣುನಾ ಧೃತಾ।
ತ್ವಂ ಚ ಧಾರಯ ಮಾಂ ದೇವಿ ಪವಿತ್ರಂ ಚಾಸನಂ ಕುರು॥

ಘಂಟಾ-ಪೂಜಾ

ಆಗಮಾರ್ಥಂ ತು ದೇವಾನಾಂ ಗಮನಾರ್ಥಂ ತು ರಕ್ಷಸಾಮ್।
ಘಂಟಾರವಂ ಕರೋಮ್ಯಾದೌ ದೇವತಾಽಽಹ್ವಾನಕಾರಣಮ್॥

ಕಲಶ-ಪೂಜಾ

ಕಲಶಾಯ ನಮಃ ದಿವ್ಯಗಂಧಾನ್ ಧಾರಯಾಮಿ।

ಗಂಗೇ ಚ ಯಮುನೇ ಚೈವ ಗೋದಾವರಿ ಸರಸ್ವತಿ।
ನರ್ಮದೇ ಸಿಂಧುಕಾವೇರಿ ಜಲೇಽಸ್ಮಿನ್ ಸನ್ನಿಧಿಂ ಕುರು॥

ಶ್ರೀ- ಗಂಗಾಯೈ ನಮಃ। ಶ್ರೀ- ಯಮುನಾಯೈ ನಮಃ। ಶ್ರೀ- ಗೋದಾವರ್ಯೈ ನಮಃ। ಶ್ರೀ- ಸರಸ್ವತ್ಯೈ ನಮಃ। ಶ್ರೀ- ನರ್ಮದಾಯೈ ನಮಃ। ಶ್ರೀ- ಸಿಂಧವೇ ನಮಃ। ಶ್ರೀ- ಕಾವೇರ್ಯೈ ನಮಃ।
ಸಪ್ತಕೋಟಿಮಹಾತೀರ್ಥಾನ್ಯಾವಾಹಯಾಮಿ।
(ಅಥ ಕಲಶಂ ಸ್ಪೃಷ್ಟ್ವಾ ಜಪಂ ಕುರ್ಯಾತ್)

ಕಲಶಸ್ಯ ಮುಖೇ ವಿಷ್ಣುಃ ಕಂಠೇ ರುದ್ರಃ ಸಮಾಶ್ರಿತಃ।
ಮೂಲೇ ತತ್ರ ಸ್ಥಿತೋ ಬ್ರಹ್ಮಾ ಮಧ್ಯೇ ಮಾತೃಗಣಾಃ ಸ್ಮೃತಾಃ॥
ಕುಕ್ಷೌ ತು ಸಾಗರಾಃ ಸರ್ವೇ ಸಪ್ತದ್ವೀಪಾ ವಸುಂಧರಾ।
ಋಗ್ವೇದೋಽಥ ಯಜುರ್ವೇದಃ ಸಾಮವೇದೋಽಪ್ಯಥರ್ವಣಃ।
ಅಂಗೈಶ್ಚ ಸಹಿತಾಃ ಸರ್ವೇ ಕಲಶಾಂಬುಸಮಾಶ್ರಿತಾಃ॥
ಸರ್ವೇ ಸಮುದ್ರಾಃ ಸರಿತಃ ತೀರ್ಥಾನಿ ಚ ಹ್ರದಾ ನದಾಃ।
ಆಯಾಂತು ದೇವಪೂಜಾರ್ಥಂ ದುರಿತಕ್ಷಯಕಾರಕಾಃ॥

(ಇತಿ ಕಲಶಜಲೇನ ಸರ್ವೋಪಕರಣಾನಿ ಆತ್ಮಾನಂ ಚ ಪ್ರೋಕ್ಷ್ಯ।)

ಆತ್ಮ-ಪೂಜಾ

ಆತ್ಮನೇ ನಮಃ, ದಿವ್ಯಗಂಧಾನ್ ಧಾರಯಾಮಿ।

೧. ಆತ್ಮನೇ ನಮಃ
೨. ಅಂತರಾತ್ಮನೇ ನಮಃ
೩. ಯೋಗಾತ್ಮನೇ ನಮಃ
೪. ಜೀವಾತ್ಮನೇ ನಮಃ
೫. ಪರಮಾತ್ಮನೇ ನಮಃ
೬. ಜ್ಞಾನಾತ್ಮನೇ ನಮಃ

ಸಮಸ್ತೋಪಚಾರಾನ್ ಸಮರ್ಪಯಾಮಿ।

ದೇಹೋ ದೇವಾಲಯಃ ಪ್ರೋಕ್ತೋ ಜೀವೋ ದೇವಃ ಸನಾತನಃ।
ತ್ಯಜೇದಜ್ಞಾನನಿರ್ಮಾಲ್ಯಂ ಸೋಽಹಂ ಭಾವೇನ ಪೂಜಯೇತ್॥

ಪೀಠ-ಪೂಜಾ

ಆಧಾರಶಕ್ತ್ಯೈ ನಮಃ
ಮೂಲಪ್ರಕೃತ್ಯೈ ನಮಃ
ಆದಿಕೂರ್ಮಾಯ ನಮಃ
ಆದಿವರಾಹಾಯ ನಮಃ
ಅನಂತಾಯ ನಮಃ
ಪೃಥಿವ್ಯೈ ನಮಃ
ರತ್ನಮಂಡಪಾಯ ನಮಃ
ರತ್ನವೇದಿಕಾಯೈ ನಮಃ
ಸ್ವರ್ಣಸ್ತಂಭಾಯ ನಮಃ
ಶ್ವೇತಚ್ಛತ್ತ್ರಾಯ ನಮಃ
ಕಲ್ಪಕವೃಕ್ಷಾಯ ನಮಃ
ಕ್ಷೀರಸಮುದ್ರಾಯ ನಮಃ
ಸಿತಚಾಮರಾಭ್ಯಾಂ ನಮಃ
ಯೋಗಪೀಠಾಸನಾಯ ನಮಃ

ಗುರು-ಧ್ಯಾನಮ್

ಗುರುರ್ಬ್ರಹ್ಮಾ ಗುರುರ್ವಿಷ್ಣುರ್ಗುರುರ್ದೇವೋ ಮಹೇಶ್ವರಃ।
ಗುರುಃ ಸಾಕ್ಷಾತ್ ಪರಂ ಬ್ರಹ್ಮ ತಸ್ಮೈ ಶ್ರೀ-ಗುರವೇ ನಮಃ॥

ಪ್ರಾಣ-ಪ್ರತಿಷ್ಠಾ

ಅಸುನೀತೇ ಪುನರಿತಿ ಋಚಂ ಪಠಿತ್ವಾ ತಚ್ಚಕ್ಷುರ್ದೇವಹಿತಮ್ ಇತಿ ಮಂತ್ರೇಣ ದೇವಸ್ಯ ಆಜ್ಯೇನ ನೇತ್ರೋನ್ಮೀಲನಂ ಕೃತ್ವಾ ಪ್ರಾಣಾನ್ ಪ್ರತಿಷ್ಠಾಪಯಾಮಿ ಇತಿ ಪ್ರಾಣಪ್ರತಿಷ್ಠಾಂ ಕೃತ್ವಾ ದೀಪಂ ಪ್ರಜ್ವಾಲ್ಯ ವಕ್ಷ್ಯಮಾಣಪ್ರಕಾರೇಣ ಪೂಜಯೇತ್॥

ಷೋಡಶೋಪಚಾರ-ಪೂಜಾ

ಧ್ಯಾಯೇಚ್ಚತುರ್ಭುಜಂ ದೇವಂ ಶಂಖಚಕ್ರಗದಾಧರಮ್।
ಶ್ರೀಭೂಮಿನೀಲಾಸಹಿತಂ ಪ್ರಸನ್ನಮುಖಪಂಕಜಮ್॥

ಅಸ್ಮಿನ್ ದೀಪೇ ಶ್ರೀಭೂಮಿನೀಲಾಸಮೇತಂ ಶ್ರೀಮಹಾವಿಷ್ಣುಂ ಧ್ಯಾಯಾಮಿ।

ಆವಾಹಯಾಮಿ ಲಕ್ಷ್ಮೀಶಮ್ ಆದಿಮಧ್ಯಾಂತವರ್ಜಿತಮ್।
ಶ್ಯಾಮಲಂ ಶಾಂತಹೃದಯಂ ಜ್ಯೋತಿಷ್ಯಸ್ಮಿನ್ ಜನಾರ್ದನಮ್॥

ಶ್ರೀಭೂಮಿನೀಲಾಸಮೇತಂ ಶ್ರೀಮಹಾವಿಷ್ಣುಮ್ ಆವಾಹಯಾಮಿ।

ಮುಕ್ತಾವೈಡೂರ್ಯಖಚಿತಂ ಮುಕುಂದ ಮುನಿಸೇವಿತ।
ರತ್ನಸಿಂಹಾಸನಂ ಚಾರು ರಮಾನಾಥ ದದಾಮಿ ತೇ॥

ಶ್ರೀಭೂಮಿನೀಲಾಸಮೇತ-ಶ್ರೀಮಹಾವಿಷ್ಣವೇ ನಮಃ, ಆಸನಂ ಸಮರ್ಪಯಾಮಿ।

ಪಾದ್ಯಂ ಗೃಹಾಣ ಭಗವನ್ ಪಂಕಜಾಕ್ಷ ಪರಾತ್ಪರ।
ಹೇಮಪಾತ್ರಸ್ಥಿತಂ ಶುದ್ಧಂ ಹೇತುತ್ರಯವಿವರ್ಜಿತಮ್॥

ಶ್ರೀಭೂಮಿನೀಲಾಸಮೇತ-ಶ್ರೀಮಹಾವಿಷ್ಣವೇ ನಮಃ, ಪಾದ್ಯಂ ಸಮರ್ಪಯಾಮಿ।

ಅರ್ಘ್ಯಂ ಗೃಹಾಣ ಭಗವನ್ನ್ ಅಚ್ಯುತಾನಂತ ಕೇಶವ।
ಅಕ್ಷತಾದಿಸಮಾಯುಕ್ತಮ್ ಅರ್ಘ್ಯಂ ದೇಹಿ ಮೇ ಪದಮ್॥

ಶ್ರೀಭೂಮಿನೀಲಾಸಮೇತ-ಶ್ರೀಮಹಾವಿಷ್ಣವೇ ನಮಃ, ಅರ್ಘ್ಯಂ ಸಮರ್ಪಯಾಮಿ।

ಅವಿಶುದ್ಧಮಿದಂ ತೋಯಂ ಸುವರ್ಣಕಲಶಸ್ಥಿತಮ್।
ಗೃಹಾಣಾಚಮನಾರ್ಥಾಯ ಗೋವಿಂದ ಗರುಡಧ್ವಜ॥

ಶ್ರೀಭೂಮಿನೀಲಾಸಮೇತ-ಶ್ರೀಮಹಾವಿಷ್ಣವೇ ನಮಃ, ಆಚಮನೀಯಂ ಸಮರ್ಪಯಾಮಿ।

ಮಧುವೈರಿನ್ ಮಹಾದೇವ ಮಹನೀಯಪದಾಂಬುಜ।
ಮಧುಪರ್ಕಂ ಗೃಹಾಣಾದ್ಯ ಮಹಾಪಾಪವಿನಾಶನ॥

ಶ್ರೀಭೂಮಿನೀಲಾಸಮೇತ-ಶ್ರೀಮಹಾವಿಷ್ಣವೇ ನಮಃ, ಮಧುಪರ್ಕಂ ಸಮರ್ಪಯಾಮಿ।

ಪಂಚಾಮೃತಂ ಗೃಹಾಣೇದಂ ಪಂಚಪಾತಕನಾಶನ।
ಪಂಚಾನನಸಮಾರಾಧ್ಯ ಪಂಚಬಾಣಾತಿಸುಂದರ॥

ಶ್ರೀಭೂಮಿನೀಲಾಸಮೇತ-ಶ್ರೀಮಹಾವಿಷ್ಣವೇ ನಮಃ, ಪಂಚಾಮೃತಸ್ನಾನಂ ಸಮರ್ಪಯಾಮಿ।

ತುಂಗಾ-ಗೋದಾವರೀ-ಕೃಷ್ಣಾ-ಗಂಗಾದಿಭ್ಯಸ್ಸಮಾಹೃತಮ್।
ಸಲಿಲಂ ವಿಮಲಂ ದೇವ ಕಮಲಾಧವ ಗೃಹ್ಯತಾಮ್॥

ಶ್ರೀಭೂಮಿನೀಲಾಸಮೇತ-ಶ್ರೀಮಹಾವಿಷ್ಣವೇ ನಮಃ, ಸ್ನಾನಂ ಸಮರ್ಪಯಾಮಿ। ಸ್ನಾನಾನಂತರಮ್ ಆಚಮನೀಯಂ ಸಮರ್ಪಯಾಮಿ।

ಪೀತಾಂಬರಯುಗಂ ದೇವ ದಾಮೋದರ ಗುಣಾರ್ಣವ।
ಗೃಹ್ಯತಾಂ ಕರುಣಾಸಿಂಧೋ ಭಕ್ತ್ಯಾ ತುಭ್ಯಂ ಸಮರ್ಪಿತಮ್॥

ಶ್ರೀಭೂಮಿನೀಲಾಸಮೇತ-ಶ್ರೀಮಹಾವಿಷ್ಣವೇ ನಮಃ, ವಸ್ತ್ರಯುಗ್ಮಂ ಸಮರ್ಪಯಾಮಿ।

ಯಜ್ಞೋಪವೀತಂ ಪರಮಂ ಪವಿತ್ರಂ ಪಾಪನಾಶನಮ್।
ದತ್ತಂ ಮಯಾ ಗೃಹಾಣೇದಂ ಧಾರಣಾರ್ಥಂ ದಯಾನಿಧೇ॥

ಶ್ರೀಭೂಮಿನೀಲಾಸಮೇತ-ಶ್ರೀಮಹಾವಿಷ್ಣವೇ ನಮಃ, ಯಜ್ಞೋಪವೀತಮ್ ಆಭರಣಾನಿ ಚ ಸಮರ್ಪಯಾಮಿ।

ಶ್ರೀಗಂಧಂ ಕುಂಕುಮೋಪೇತಂ ಶ್ರೀನಿವಾಸ ಜಗತ್ಪತೇ।
ವಿಷ್ಣೋ ವಿಲೇಪನಾರ್ಥಾಯ ಗೃಹಾಣ ಗರುಡಧ್ವಜ॥

ಶ್ರೀಭೂಮಿನೀಲಾಸಮೇತ-ಶ್ರೀಮಹಾವಿಷ್ಣವೇ ನಮಃ, ಗಂಧಾನ್ ಧಾರಯಾಮಿ।

ಅಕ್ಷತಾನ್ ಧವಲಾನ್ ದೇವ ಶಾಲಿಜಾನ್ ಶಾಸಿತಾಸುರ।
ಗೃಹಾಣ ಕಮಲಾಕಾಂತ ದೇಹಿ ಮೇ ಪದಮಕ್ಷತಮ್॥

ಶ್ರೀಭೂಮಿನೀಲಾಸಮೇತ-ಶ್ರೀಮಹಾವಿಷ್ಣವೇ ನಮಃ, ಅಕ್ಷತಾನ್ ಸಮರ್ಪಯಾಮಿ।

ಪಂಕಜೈಃ ಪಾರಿಜಾತೈಶ್ಚ ಮಂದಾರೈರ್ಮಲ್ಲಿಕಾಸುಮೈಃ।
ತುಲಸೀದಲಸಂಯುಕ್ತೈಃ ಪೂಜಯಾಮಿ ಪುರಾತನಮ್॥

ಶ್ರೀಭೂಮಿನೀಲಾಸಮೇತ-ಶ್ರೀಮಹಾವಿಷ್ಣವೇ ನಮಃ, ಪುಷ್ಪಾಣಿ ಸಮರ್ಪಯಾಮಿ। ಪುಷ್ಪೈಃ ಪೂಜಯಾಮಿ।

ಅಂಗ-ಪೂಜಾ

೧.ಪಾವನಾಯ ನಮಃಪಾದೌ ಪೂಜಯಾಮಿ
೨.ಗೋವಿಂದಾಯ ನಮಃಗುಲ್ಫೌ ಪೂಜಯಾಮಿ
೩.ಜ್ಯೋತಿಸ್ಸ್ವರೂಪಾಯ ನಮಃಜಂಘೇ ಪೂಜಯಾಮಿ
೪.ಜಗತ್ಕುಕ್ಷಯೇ ನಮಃಜಾನುನೀ ಪೂಜಯಾಮಿ
೫.ಉಪೇಂದ್ರಾಯ ನಮಃಊರೂ ಪೂಜಯಾಮಿ
೬.ಕಮಲಾಕ್ಷಾಯ ನಮಃಕಟಿಂ ಪೂಜಯಾಮಿ
೭.ಗುಣನಿಧಯೇ ನಮಃಗುಹ್ಯಂ ಪೂಜಯಾಮಿ
೮.ನಾರಾಯಣಾಯ ನಮಃನಾಭಿಂ ಪೂಜಯಾಮಿ
೯.ದಾಮೋದರಾಯ ನಮಃಉದರಂ ಪೂಜಯಾಮಿ
೧೦.ಮಾಧವಾಯ ನಮಃಮಧ್ಯಂ ಪೂಜಯಾಮಿ
೧೧.ವನಮಾಲಿನೇ ನಮಃವಕ್ಷಃ ಪೂಜಯಾಮಿ
೧೨.ಚತುರ್ಭುಜಾಯ ನಮಃಬಾಹೂನ್ ಪೂಜಯಾಮಿ
೧೩.ಕಮಲಾಧವಾಯ ನಮಃಕಂಠಂ ಪೂಜಯಾಮಿ
೧೪.ಕೇಶವಾಯ ನಮಃಕಪೋಲೌ ಪೂಜಯಾಮಿ
೧೫.ಚಂದ್ರವದನಾಯ ನಮಃಚುಬುಕಂ ಪೂಜಯಾಮಿ
೧೬.ಮಂದಸ್ಮಿತಾಯ ನಮಃಮುಖಂ ಪೂಜಯಾಮಿ
೧೭.ಪದ್ಮನೇತ್ರಾಯ ನಮಃನೇತ್ರೇ ಪೂಜಯಾಮಿ
೧೮.ನಾಸಾಹೀನಾಯ ನಮಃನಾಸಿಕಾಂ ಪೂಜಯಾಮಿ
೧೯.ಶ್ರುತಿಮಧ್ಯಾಯ ನಮಃಶ್ರೋತ್ರೇ ಪೂಜಯಾಮಿ
೨೦.ಲಕ್ಷ್ಮೀಪ್ರಿಯಾಯ ನಮಃಲಲಾಟಂ ಪೂಜಯಾಮಿ
೨೧.ಶ್ಯಾಮಾಂಗಾಯ ನಮಃಶಿರಃ ಪೂಜಯಾಮಿ
೨೨.ಸರ್ವೇಶ್ವರಾಯ ನಮಃಸರ್ವಾಣ್ಯಂಗಾನಿ ಪೂಜಯಾಮಿ

ಉತ್ತರಾಂಗ-ಪೂಜಾ

ಧೂಪಂ ಗೃಹಾಣ ದೇವೇಶ ದಶಾಂಗೇನ ಸುವಾಸಿತಮ್।
ಧೂತಪಾಪ ದಯಾರಾಶೇ ದುರಿತೋನ್ಮುಕ್ತವಿಗ್ರಹ॥

ಶ್ರೀಭೂಮಿನೀಲಾಸಮೇತ-ಶ್ರೀಮಹಾವಿಷ್ಣವೇ ನಮಃ, ಧೂಪಮಾಘ್ರಾಪಯಾಮಿ।

ಸಾಜ್ಯವರ್ತಿಸಮಾಯುಕ್ತಂ ಪೂಜ್ಯಪಾದ ಪುರಾತನ।
ದೀಪಂ ಗೃಹಾಣ ದಯಯಾ ಜ್ಯೋತೀರೂಪ ಜಗತ್ಪ್ರಭೋ॥

ಶ್ರೀಭೂಮಿನೀಲಾಸಮೇತ-ಶ್ರೀಮಹಾವಿಷ್ಣವೇ ನಮಃ, ದೀಪಂ ದರ್ಶಯಾಮಿ।

ನಾನಾಭಕ್ಷ್ಯಸಮಾಯುಕ್ತಂ ನಾನಾಫಲಸಮನ್ವಿತಮ್।
ನೈವೇದ್ಯಂ ಗೃಹ್ಯತಾಂ ದೇವ ನೀರಜಾಕ್ಷ ನಮೋಽಸ್ತು ತೇ॥

ಶ್ರೀಭೂಮಿನೀಲಾಸಮೇತ-ಶ್ರೀಮಹಾವಿಷ್ಣವೇ ನಮಃ, ನೈವೇದ್ಯಂ ನಿವೇದಯಾಮಿ।

ಪೂಗೀಫಲಂ ಸಕರ್ಪೂರಂ ನಾಗವಲ್ಲೀದಲಾನಿ ಚ।
ಮುಖವಾಸಾಯ ಗೋವಿಂದ ಗೃಹ್ಯತಾಂ ಗರುಡಧ್ವಜ॥

ಶ್ರೀಭೂಮಿನೀಲಾಸಮೇತ-ಶ್ರೀಮಹಾವಿಷ್ಣವೇ ನಮಃ, ತಾಂಬೂಲಂ ಸಮರ್ಪಯಾಮಿ।

ಕರ್ಪೂರೈಃ ಕಲ್ಪಿತಂ ದೇವ ಕರುಣಾರಸಸಾಗರ।
ನೀರಾಜನಂ ನೀರಜಾಕ್ಷ ಗೃಹ್ಯತಾಂ ಗುಣಸಾಗರ॥

ಶ್ರೀಭೂಮಿನೀಲಾಸಮೇತ-ಶ್ರೀಮಹಾವಿಷ್ಣವೇ ನಮಃ, ಕರ್ಪೂರನೀರಾಜನಂ ಸಮರ್ಪಯಾಮಿ। ಕರ್ಪೂರನೀರಾಜನಾನಂತರಮ್ ಆಚಮನೀಯಂ ಸಮರ್ಪಯಾಮಿ।

ಪ್ರಕೃಷ್ಟಪಾಪನಾಶಾಯ ಪ್ರಕೃಷ್ಟಪದಲಬ್ಧಯೇ।
ಪ್ರದಕ್ಷಿಣಂ ಕರೋಮಿ ತ್ವಾಂ ಜ್ಯೋತೀರೂಪ ಜನಾರ್ದನ॥

ಶ್ರೀಭೂಮಿನೀಲಾಸಮೇತ-ಶ್ರೀಮಹಾವಿಷ್ಣವೇ ನಮಃ, ಪ್ರದಕ್ಷಿಣಾನ್ ಸಮರ್ಪಯಾಮಿ।

ನಮಸ್ತೇಽಸ್ತು ಹೃಷೀಕೇಶ ನಾರಾಯಣ ನತಾವನ।
ಜ್ಯೋತೀರೂಪ ಜಗನ್ನಾಥ ಜನಾರ್ದನ ನಮೋ ನಮಃ॥

ಶ್ರೀಭೂಮಿನೀಲಾಸಮೇತ-ಶ್ರೀಮಹಾವಿಷ್ಣವೇ ನಮಃ, ನಮಸ್ಕಾರಾನ್ ಸಮರ್ಪಯಾಮಿ।

ಮಂತ್ರಪುಷ್ಪಂ ಗೃಹಾಣೇದಂ ಮಹಾದೇವಾದಿವಂದಿತ।
ಮಧುಸೂದನ ದೇವೇಶ ಮಹಾಪಾಪವಿನಾಶನ॥

ಶ್ರೀಭೂಮಿನೀಲಾಸಮೇತ-ಶ್ರೀಮಹಾವಿಷ್ಣವೇ ನಮಃ, ಮಂತ್ರಪುಷ್ಪಂ ಸಮರ್ಪಯಾಮಿ।

ನಾನಾರತ್ನಸಮಾಯುಕ್ತಂ ವಜ್ರನಾಲಸಮನ್ವಿತಮ್।
ಮುಕ್ತಾಕೇಸರಸಂಯುಕ್ತಂ ಸ್ವರ್ಣಪುಷ್ಪಂ ದದಾಮ್ಯಹಮ್॥

ಶ್ರೀಭೂಮಿನೀಲಾಸಮೇತ-ಶ್ರೀಮಹಾವಿಷ್ಣವೇ ನಮಃ, ಸ್ವರ್ಣಪುಷ್ಪಂ ಸಮರ್ಪಯಾಮಿ।

ಅಖಂಡದೀಪೇ ದೇವೇಶ ತವ ಪೂಜಾ ಕೃತಾ ಮಯಾ।
ಸಫಲಾ ಭವತು ಕ್ಷಿಪ್ರಂ ತ್ವತ್ಪ್ರಸಾದಾಜ್ಜನಾರ್ದನ॥
ಋಣಪಾತಕದೌರ್ಭಾಗ್ಯವ್ಯಾಧೀನ್ ಮೇ ವಿನಿವಾರಯ।
ಪದಂ ದೇಹಿ ಪರಂ ದೇವ ಪ್ರಸೀದ ಪುರುಷೋತ್ತಮ॥

ಶ್ರೀಭೂಮಿನೀಲಾಸಮೇತ-ಶ್ರೀಮಹಾವಿಷ್ಣವೇ ನಮಃ, ಪ್ರಾರ್ಥನಾಃ ಸಮರ್ಪಯಾಮಿ।

ಮಾಸಾಂತೇ ಅರ್ಘ್ಯ-ದೀಪ-ದಾನ-ವಿಧಿಃ

ಅದ್ಯ ಪೂರ್ವೋಕ್ತ-ಏವಂಗುಣ-ವಿಶೇಷಣ-ವಿಶಿಷ್ಟಾಯಾಮ್ ಅಸ್ಯಾಮ್ ಶುಭತಿಥೌ ಶ್ರೀಭೂಮಿನೀಲಾಸಮೇತ-ಶ್ರೀಮಹಾವಿಷ್ಣು-ಪ್ರೀತ್ಯರ್ಥಂ
ಶ್ರೀಭೂಮಿನೀಲಾಸಮೇತ-ಶ್ರೀಮಹಾವಿಷ್ಣು-ಪೂಜಾಂತೇ ಕ್ಷೀರಾರ್ಘ್ಯಪ್ರದಾನಂ ದೀಪದಾನಂ ಚ ಕರಿಷ್ಯೇ॥

ಶ್ರೀಭೂಮಿನೀಲಾಸಹಿತ ಮಹಾವಿಷ್ಣೋ ದಯಾನಿಧೇ।
ಗೃಹಾಣೇದಂ ಮಯಾ ದತ್ತಂ ಜ್ಯೋತೀರೂಪ ನಮೋಽಸ್ತು ತೇ॥

ಶ್ರೀಭೂಮಿನೀಲಾಸಮೇತಾಯ ನಮಃ ಇದಮರ್ಘ್ಯಮ್ ಇದಮರ್ಘ್ಯಮ್ ಇದಮರ್ಘ್ಯಮ್।
ಅನೇನ ದೀಪಪೂಜನೇನ ಅರ್ಘ್ಯಪ್ರದಾನೇನ ಚ ಶ್ರೀಮಹಾವಿಷ್ಣುಃ ಪ್ರೀಯತಾಮ್॥
ಇತ್ಯುಕ್ತ್ವಾ ಬ್ರಾಹ್ಮಣಂ ಸಂಪೂಜ್ಯ,

ದೀಪಂ ಪ್ರಜ್ವಲಿತಂ ಸಾಜ್ಯಮ್ ಅಜ್ಞಾನವಿನಿವಾರಕಮ್।
ಲಕ್ಷ್ಮೀಕರಂ ಬ್ರಾಹ್ಮಣಾಯ ವಿಷ್ಣುಪ್ರೀತ್ಯೈ ದದಾಮ್ಯಹಮ್॥

ಇತಿ ದೀಪಂ ದತ್ತ್ವಾ ಬ್ರಾಹ್ಮಣಂ ಭೋಜಯಿತ್ವಾ ಸ್ವಯಂ ಭುಂಜೀತ॥ ವಿಚ್ಛೇದೇ ಸತಿ ದೀಪಸ್ಯ ಕೃಚ್ಛ್ರಮೇಕಂ ಸಮಾಚರೇತ್।
ಸಾಯಂ ಪ್ರಾತಃ ಪ್ರತಿದಿನಂ ಯಥಾಶಕ್ತಿ ಪ್ರಪೂಜಯೇತ್॥ ಮಾಸೇ ಪೂರ್ಣೇ ಮಹಾದೀಪಂ ಯಥಾವಿಭವವಿಸ್ತರಂ ಸಂಪೂಜ್ಯ ಚ ತತೋ
ದದ್ಯಾದಾಚಾರ್ಯಾಯ ಸದಕ್ಷಿಣಮ್। ದಶದಾನಂ ತತೋ ದದ್ಯಾತ್ ಭೂರಿದಾನಂ ಯಥಾಬಲಮ್। ಬ್ರಾಹ್ಮಣಾನ್ ಪೂಜಯೇತ್ಪಶ್ಚಾತ್
ಷಡ್ರಸೈಃ ಓದನೈಸ್ತಥಾ॥

ಏವಂ ಯಃ ಕುರುತೇ ಭಕ್ತ್ಯಾ ಸರ್ವಪಾಪೈಃ ಪ್ರಮುಚ್ಯತೇ।
ಭುಕ್ತ್ವಾ ಭೋಗಾನ್ ಸ ದೇಹಾಂತೇ ವಿಷ್ಣೋಸ್ಸಾಯುಜ್ಯಮಾಪ್ನುಯಾತ್॥

॥ ಇತಿ ಶ್ರೀವ್ರತರತ್ನಾಕರೇ ಅಖಂಡದೀಪಪೂಜಾಕಲ್ಪಃ ಸಂಪೂರ್ಣಃ ॥

Śrī-akhaṇḍadīpa-pūjā-kalpaḥ

(mūlam—śrīvrataratnākaraḥ, prathamo bhāgaḥ)

akhaṇḍadīpāropaṇa-vidhiḥ

sūta uvāca

akhaṇḍadīpāropasya vidhiṃ vakṣye munīśvarāḥ|
śṛṇvantu śraddhayā yūyam āśvayugdarśataḥ param||
pratipattithimārabhya māsamekaṃ nirantaram|
akhaṇḍadīpassaṃsthāpyaḥ śrīviṣṇoḥ parituṣṭaye||
sauvarṇaṃ vā rājataṃ vā kāṃsyaṃ vā'pi svaśaktitaḥ|
kṛtvā pātraṃ goghṛtena pūrayedabjatantubhiḥ||
tataḥ kuryānmāsamadhye vicchedo na bhavedyathā|
kalpoktena prakāreṇa pūjayet pratyahaṃ dvijāḥ||
pūjānte ca pratidinaṃ dīpaṃ dadyāddvijanmane|
haimaṃ vā rājataṃ vā'pi kāṃsyaṃ vā'pi sadakṣiṇam||
bhojayecca dvijaṃ bhaktyā māsamevaṃ samācaret|
aśaktāvapi māsānte saha vā bhojayeddvijān||
viprānujñāṃ purā labdhvā sampūjya ca gaṇādhipam|
kuryāt saṅkalpamatha ca vṛddhiśrāddhaṃ samācaret||
puṇyāhaṃ vācayettatra dīpamāropayettataḥ|
kalaśaṃ śaṅkhamabhyarcya pīṭhapūjāṃ vidhāya ca||
bhaktyā samarcayedvipro jyotiṣyeva janārdanam|

pūrvāṅga-vighneśvara-pūjā

(ācamya)

śuklāmbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam|
prasannavadanaṃ dhyāyet sarvavighnopaśāntaye||

prāṇān āyamya|
[apa upaspṛśya, puṣpākṣatān gṛhītvā|]

tadeva lagnaṃ sudinaṃ tadeva tārābalaṃ candrabalaṃ tadeva|
vidyābalaṃ daivabalaṃ tadeva lakṣmīpateraṅghriyugaṃ smarāmi||

mamopātta-samasta-durita-kṣayadvārā
śrī-parameśvara-prītyarthaṃ kariṣyamāṇasya karmaṇaḥ
avighnena parisamāptyartham ādau vighneśvarapūjāṃ kariṣye|
[apa upaspṛśya]

agajānānapadmārkaṃ gajānanamaharniśam|
anekadaṃ taṃ bhaktānām ekadantamupāsmahe||

asmin haridrābimbe sumukhaṃ mahāgaṇapatiṃ dhyāyāmi, āvāhayāmi|
śrī- mahāgaṇapataye namaḥ, āsanaṃ samarpayāmi|
śrī- mahāgaṇapataye namaḥ, pādayoḥ pādyaṃ samarpayāmi|
śrī- mahāgaṇapataye namaḥ, arghyaṃ samarpayāmi|
śrī- mahāgaṇapataye namaḥ, ācamanīyaṃ samarpayāmi|
śrī- mahāgaṇapataye namaḥ, madhuparkaṃ samarpayāmi|
śrī- mahāgaṇapataye namaḥ, śuddhodakasnānaṃ samarpayāmi| snānānantaramācamanīyaṃ samarpayāmi|
śrī- mahāgaṇapataye namaḥ, vastrārthamakṣatān samarpayāmi|
śrī- mahāgaṇapataye namaḥ, yajñopavītābharaṇārthe akṣatān samarpayāmi|
śrī- mahāgaṇapataye namaḥ, divyaparimalagandhān dhārayāmi| gandhasyopari haridrākuṅkumaṃ samarpayāmi|
śrī- mahāgaṇapataye namaḥ, akṣatān samarpayāmi|
śrī- mahāgaṇapataye namaḥ, puṣpamālikāṃ samarpayāmi| puṣpaiḥ pūjayāmi|

arcanā

sumukhāya namaḥ
ekadantāya namaḥ
kapilāya namaḥ
gajakarṇakāya namaḥ
lambodarāya namaḥ
vikaṭāya namaḥ
vighnarājāya namaḥ
vināyakāya namaḥ
dhūmaketave namaḥ
gaṇādhyakṣāya namaḥ
phālacandrāya namaḥ
gajānanāya namaḥ
vakratuṇḍāya namaḥ
śūrpakarṇāya namaḥ
herambāya namaḥ
skandapūrvajāya namaḥ
śrī- mahāgaṇapataye namaḥ, nānāvidhaparimalapatrapuṣpāṇi samarpayāmi|
śrī- mahāgaṇapataye namaḥ, dhūpamāghrāpayāmi|
śrī- mahāgaṇapataye namaḥ, alaṅkāradīpaṃ sandarśayāmi|
śrī- mahāgaṇapataye namaḥ, ( ) (naivedyaṃ) nivedayāmi|
nivedanāntaram ācamanīyaṃ samarpayāmi|
śrī- mahāgaṇapataye namaḥ, tāmbūlaṃ samarpayāmi|
śrī- mahāgaṇapataye namaḥ, karpūranīrājanaṃ darśayāmi| karpūranīrājanānantaramācamanīyaṃ samarpayāmi|
śrī- mahāgaṇapataye namaḥ, mantrapuṣpaṃ samarpayāmi| svarṇapuṣpaṃ samarpayāmi|

abhīpsitārthasiddhyarthaṃ pūjito yaḥ surairapi|
sarvavighnacchide tasmai gaṇādhipataye namaḥ||
gajānanaṃ bhūtagaṇādisevitaṃ kapittha-jambūphala-sāra-bhakṣitam|
umāsutaṃ śokavināśakāraṇaṃ namāmi vighneśvarapādapaṅkajam||

anantakoṭipradakṣiṇanamaskārān samarpayāmi|
chattracāmarādisamastopacārān samarpayāmi|

vakratuṇḍamahākāya koṭisūryasamaprabha|
avighnaṃ kuru me deva sarvakāryeṣu sarvadā||
sumukhaścaikadantaśca kapilo gajakarṇakaḥ|
lambodaraśca vikaṭo vighnarājo gaṇādhipaḥ||
dhūmaketurgaṇādhyakṣo phālacandro gajānanaḥ|
vakratuṇḍaḥ śūrpakarṇo herambhaḥ skandapūrvajaḥ||
ṣoḍaśaitāni nāmāni yaḥ paṭhecchṛṇuyādapi|
vidyārambhe vivāhe ca praveśe nirgame tathā|
saṅgrāme sarvakāryeṣu vighnastasya na jāyate||

prārthanāḥ samarpayāmi|

pradhāna-pūjā — śrībhūminīlāsameta-śrīmahāviṣṇu-pūjā

śuklāmbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam|
prasannavadanaṃ dhyāyet sarvavighnopaśāntaye||

saṅkalpaḥ

mamopātta-samasta-durita-kṣayadvārā śrī-parameśvara-prītyarthaṃ śubhe śobhane muhūrte adya brahmaṇaḥ
dvitīyaparārdhe śvetavarāhakalpe vaivasvatamanvantare aṣṭāviṃśatitame kaliyuge prathame pāde
jambūdvīpe bhāratavarṣe bharatakhaṇḍe meroḥ dakṣiṇe pārśve śakābde asmin vartamāne vyāvahārikāṇāṃ
prabhavādīnāṃ ṣaṣṭyāḥ saṃvatsarāṇāṃ madhye ( ) nāma saṃvatsare ( ) ayane
( )-ṛtau āśvina-māse kṛṣṇapakṣe pratipadi śubhatithau ( ) vāsarayuktāyām
( ) nakṣatra ( ) nāma yoge
( )-karaṇa-yuktāyāṃ ca evaṃ guṇa viśeṣaṇa viśiṣṭāyām
asyām pratipadi śubhatithau mama ajñānanivṛttidvārā sujñānasiddhyarthaṃ paraloke andhatvanivṛttyarthaṃ
śrībhūminīlāsameta-śrīmahāviṣṇu-prītyarthaṃ adyaprabhṛti āgāmi-darśaparyantaṃ māsamekaṃ nirantaraṃ
purāṇoktaprakāreṇa akhaṇḍadīpe yathāśakti-dhyānāvāhanādiṣoḍaśopacāraiḥ
śrībhūminīlāsameta-śrīmahāviṣṇu-pūjāṃ kariṣye| tadaṅgaṃ kalaśapūjāṃ ca kariṣye|
śrīvighneśvarāya namaḥ yathāsthānaṃ pratiṣṭhāpayāmi| śobhanārthe kṣemāya punarāgamanāya ca|
(gaṇapati-prasādaṃ śirasā gṛhītvā)

āsana-pūjā

pṛthivyā merupṛṣṭha ṛṣiḥ| sutalaṃ chandaḥ| kūrmo devatā||

pṛthvi tvayā dhṛtā lokā devi tvaṃ viṣṇunā dhṛtā|
tvaṃ ca dhāraya māṃ devi pavitraṃ cāsanaṃ kuru||

ghaṇṭā-pūjā

āgamārthaṃ tu devānāṃ gamanārthaṃ tu rakṣasām|
ghaṇṭāravaṃ karomyādau devatā''hvānakāraṇam||

kalaśa-pūjā

kalaśāya namaḥ divyagandhān dhārayāmi|

gaṅge ca yamune caiva godāvari sarasvati|
narmade sindhukāveri jale'smin sannidhiṃ kuru||

śrī- gaṅgāyai namaḥ| śrī- yamunāyai namaḥ| śrī- godāvaryai namaḥ| śrī- sarasvatyai namaḥ| śrī- narmadāyai namaḥ| śrī- sindhave namaḥ| śrī- kāveryai namaḥ|
saptakoṭimahātīrthānyāvāhayāmi|
(atha kalaśaṃ spṛṣṭvā japaṃ kuryāt)

kalaśasya mukhe viṣṇuḥ kaṇṭhe rudraḥ samāśritaḥ|
mūle tatra sthito brahmā madhye mātṛgaṇāḥ smṛtāḥ||
kukṣau tu sāgarāḥ sarve saptadvīpā vasundharā|
ṛgvedo'tha yajurvedaḥ sāmavedo'pyatharvaṇaḥ|
aṅgaiśca sahitāḥ sarve kalaśāmbusamāśritāḥ||
sarve samudrāḥ saritaḥ tīrthāni ca hradā nadāḥ|
āyāntu devapūjārthaṃ duritakṣayakārakāḥ||

(iti kalaśajalena sarvopakaraṇāni ātmānaṃ ca prokṣya|)

ātma-pūjā

ātmane namaḥ, divyagandhān dhārayāmi|

1. ātmane namaḥ
2. antarātmane namaḥ
3. yogātmane namaḥ
4. jīvātmane namaḥ
5. paramātmane namaḥ
6. jñānātmane namaḥ

samastopacārān samarpayāmi|

deho devālayaḥ prokto jīvo devaḥ sanātanaḥ|
tyajedajñānanirmālyaṃ so'haṃ bhāvena pūjayet||

pīṭha-pūjā

ādhāraśaktyai namaḥ
mūlaprakṛtyai namaḥ
ādikūrmāya namaḥ
ādivarāhāya namaḥ
anantāya namaḥ
pṛthivyai namaḥ
ratnamaṇḍapāya namaḥ
ratnavedikāyai namaḥ
svarṇastambhāya namaḥ
śvetacchattrāya namaḥ
kalpakavṛkṣāya namaḥ
kṣīrasamudrāya namaḥ
sitacāmarābhyāṃ namaḥ
yogapīṭhāsanāya namaḥ

guru-dhyānam

gururbrahmā gururviṣṇurgururdevo maheśvaraḥ|
guruḥ sākṣāt paraṃ brahma tasmai śrī-gurave namaḥ||

prāṇa-pratiṣṭhā

asunīte punariti ṛcaṃ paṭhitvā taccakṣurdevahitam iti mantreṇa devasya ājyena netronmīlanaṃ kṛtvā prāṇān pratiṣṭhāpayāmi iti prāṇapratiṣṭhāṃ kṛtvā dīpaṃ prajvālya vakṣyamāṇaprakāreṇa pūjayet||

ṣoḍaśopacāra-pūjā

dhyāyeccaturbhujaṃ devaṃ śaṅkhacakragadādharam|
śrībhūminīlāsahitaṃ prasannamukhapaṅkajam||

asmin dīpe śrībhūminīlāsametaṃ śrīmahāviṣṇuṃ dhyāyāmi|

āvāhayāmi lakṣmīśam ādimadhyāntavarjitam|
śyāmalaṃ śāntahṛdayaṃ jyotiṣyasmin janārdanam||

śrībhūminīlāsametaṃ śrīmahāviṣṇum āvāhayāmi|

muktāvaiḍūryakhacitaṃ mukunda munisevita|
ratnasiṃhāsanaṃ cāru ramānātha dadāmi te||

śrībhūminīlāsameta-śrīmahāviṣṇave namaḥ, āsanaṃ samarpayāmi|

pādyaṃ gṛhāṇa bhagavan paṅkajākṣa parātpara|
hemapātrasthitaṃ śuddhaṃ hetutrayavivarjitam||

śrībhūminīlāsameta-śrīmahāviṣṇave namaḥ, pādyaṃ samarpayāmi|

arghyaṃ gṛhāṇa bhagavann acyutānanta keśava|
akṣatādisamāyuktam arghyaṃ dehi me padam||

śrībhūminīlāsameta-śrīmahāviṣṇave namaḥ, arghyaṃ samarpayāmi|

aviśuddhamidaṃ toyaṃ suvarṇakalaśasthitam|
gṛhāṇācamanārthāya govinda garuḍadhvaja||

śrībhūminīlāsameta-śrīmahāviṣṇave namaḥ, ācamanīyaṃ samarpayāmi|

madhuvairin mahādeva mahanīyapadāmbuja|
madhuparkaṃ gṛhāṇādya mahāpāpavināśana||

śrībhūminīlāsameta-śrīmahāviṣṇave namaḥ, madhuparkaṃ samarpayāmi|

pañcāmṛtaṃ gṛhāṇedaṃ pañcapātakanāśana|
pañcānanasamārādhya pañcabāṇātisundara||

śrībhūminīlāsameta-śrīmahāviṣṇave namaḥ, pañcāmṛtasnānaṃ samarpayāmi|

tuṅgā-godāvarī-kṛṣṇā-gaṅgādibhyassamāhṛtam|
salilaṃ vimalaṃ deva kamalādhava gṛhyatām||

śrībhūminīlāsameta-śrīmahāviṣṇave namaḥ, snānaṃ samarpayāmi| snānānantaram ācamanīyaṃ samarpayāmi|

pītāmbarayugaṃ deva dāmodara guṇārṇava|
gṛhyatāṃ karuṇāsindho bhaktyā tubhyaṃ samarpitam||

śrībhūminīlāsameta-śrīmahāviṣṇave namaḥ, vastrayugmaṃ samarpayāmi|

yajñopavītaṃ paramaṃ pavitraṃ pāpanāśanam|
dattaṃ mayā gṛhāṇedaṃ dhāraṇārthaṃ dayānidhe||

śrībhūminīlāsameta-śrīmahāviṣṇave namaḥ, yajñopavītam ābharaṇāni ca samarpayāmi|

śrīgandhaṃ kuṅkumopetaṃ śrīnivāsa jagatpate|
viṣṇo vilepanārthāya gṛhāṇa garuḍadhvaja||

śrībhūminīlāsameta-śrīmahāviṣṇave namaḥ, gandhān dhārayāmi|

akṣatān dhavalān deva śālijān śāsitāsura|
gṛhāṇa kamalākānta dehi me padamakṣatam||

śrībhūminīlāsameta-śrīmahāviṣṇave namaḥ, akṣatān samarpayāmi|

paṅkajaiḥ pārijātaiśca mandārairmallikāsumaiḥ|
tulasīdalasaṃyuktaiḥ pūjayāmi purātanam||

śrībhūminīlāsameta-śrīmahāviṣṇave namaḥ, puṣpāṇi samarpayāmi| puṣpaiḥ pūjayāmi|

aṅga-pūjā

1.pāvanāya namaḥpādau pūjayāmi
2.govindāya namaḥgulphau pūjayāmi
3.jyotissvarūpāya namaḥjaṅghe pūjayāmi
4.jagatkukṣaye namaḥjānunī pūjayāmi
5.upendrāya namaḥūrū pūjayāmi
6.kamalākṣāya namaḥkaṭiṃ pūjayāmi
7.guṇanidhaye namaḥguhyaṃ pūjayāmi
8.nārāyaṇāya namaḥnābhiṃ pūjayāmi
9.dāmodarāya namaḥudaraṃ pūjayāmi
10.mādhavāya namaḥmadhyaṃ pūjayāmi
11.vanamāline namaḥvakṣaḥ pūjayāmi
12.caturbhujāya namaḥbāhūn pūjayāmi
13.kamalādhavāya namaḥkaṇṭhaṃ pūjayāmi
14.keśavāya namaḥkapolau pūjayāmi
15.candravadanāya namaḥcubukaṃ pūjayāmi
16.mandasmitāya namaḥmukhaṃ pūjayāmi
17.padmanetrāya namaḥnetre pūjayāmi
18.nāsāhīnāya namaḥnāsikāṃ pūjayāmi
19.śrutimadhyāya namaḥśrotre pūjayāmi
20.lakṣmīpriyāya namaḥlalāṭaṃ pūjayāmi
21.śyāmāṅgāya namaḥśiraḥ pūjayāmi
22.sarveśvarāya namaḥsarvāṇyaṅgāni pūjayāmi

uttarāṅga-pūjā

dhūpaṃ gṛhāṇa deveśa daśāṅgena suvāsitam|
dhūtapāpa dayārāśe duritonmuktavigraha||

śrībhūminīlāsameta-śrīmahāviṣṇave namaḥ, dhūpamāghrāpayāmi|

sājyavartisamāyuktaṃ pūjyapāda purātana|
dīpaṃ gṛhāṇa dayayā jyotīrūpa jagatprabho||

śrībhūminīlāsameta-śrīmahāviṣṇave namaḥ, dīpaṃ darśayāmi|

nānābhakṣyasamāyuktaṃ nānāphalasamanvitam|
naivedyaṃ gṛhyatāṃ deva nīrajākṣa namo'stu te||

śrībhūminīlāsameta-śrīmahāviṣṇave namaḥ, naivedyaṃ nivedayāmi|

pūgīphalaṃ sakarpūraṃ nāgavallīdalāni ca|
mukhavāsāya govinda gṛhyatāṃ garuḍadhvaja||

śrībhūminīlāsameta-śrīmahāviṣṇave namaḥ, tāmbūlaṃ samarpayāmi|

karpūraiḥ kalpitaṃ deva karuṇārasasāgara|
nīrājanaṃ nīrajākṣa gṛhyatāṃ guṇasāgara||

śrībhūminīlāsameta-śrīmahāviṣṇave namaḥ, karpūranīrājanaṃ samarpayāmi| karpūranīrājanānantaram ācamanīyaṃ samarpayāmi|

prakṛṣṭapāpanāśāya prakṛṣṭapadalabdhaye|
pradakṣiṇaṃ karomi tvāṃ jyotīrūpa janārdana||

śrībhūminīlāsameta-śrīmahāviṣṇave namaḥ, pradakṣiṇān samarpayāmi|

namaste'stu hṛṣīkeśa nārāyaṇa natāvana|
jyotīrūpa jagannātha janārdana namo namaḥ||

śrībhūminīlāsameta-śrīmahāviṣṇave namaḥ, namaskārān samarpayāmi|

mantrapuṣpaṃ gṛhāṇedaṃ mahādevādivandita|
madhusūdana deveśa mahāpāpavināśana||

śrībhūminīlāsameta-śrīmahāviṣṇave namaḥ, mantrapuṣpaṃ samarpayāmi|

nānāratnasamāyuktaṃ vajranālasamanvitam|
muktākesarasaṃyuktaṃ svarṇapuṣpaṃ dadāmyaham||

śrībhūminīlāsameta-śrīmahāviṣṇave namaḥ, svarṇapuṣpaṃ samarpayāmi|

akhaṇḍadīpe deveśa tava pūjā kṛtā mayā|
saphalā bhavatu kṣipraṃ tvatprasādājjanārdana||
ṛṇapātakadaurbhāgyavyādhīn me vinivāraya|
padaṃ dehi paraṃ deva prasīda puruṣottama||

śrībhūminīlāsameta-śrīmahāviṣṇave namaḥ, prārthanāḥ samarpayāmi|

māsānte arghya-dīpa-dāna-vidhiḥ

adya pūrvokta-evaṅguṇa-viśeṣaṇa-viśiṣṭāyām asyām śubhatithau śrībhūminīlāsameta-śrīmahāviṣṇu-prītyarthaṃ
śrībhūminīlāsameta-śrīmahāviṣṇu-pūjānte kṣīrārghyapradānaṃ dīpadānaṃ ca kariṣye||

śrībhūminīlāsahita mahāviṣṇo dayānidhe|
gṛhāṇedaṃ mayā dattaṃ jyotīrūpa namo'stu te||

śrībhūminīlāsametāya namaḥ idamarghyam idamarghyam idamarghyam|
anena dīpapūjanena arghyapradānena ca śrīmahāviṣṇuḥ prīyatām||
ityuktvā brāhmaṇaṃ sampūjya,

dīpaṃ prajvalitaṃ sājyam ajñānavinivārakam|
lakṣmīkaraṃ brāhmaṇāya viṣṇuprītyai dadāmyaham||

iti dīpaṃ dattvā brāhmaṇaṃ bhojayitvā svayaṃ bhuñjīta|| vicchede sati dīpasya kṛcchramekaṃ samācaret|
sāyaṃ prātaḥ pratidinaṃ yathāśakti prapūjayet|| māse pūrṇe mahādīpaṃ yathāvibhavavistaraṃ sampūjya ca tato
dadyādācāryāya sadakṣiṇam| daśadānaṃ tato dadyāt bhūridānaṃ yathābalam| brāhmaṇān pūjayetpaścāt
ṣaḍrasaiḥ odanaistathā||

evaṃ yaḥ kurute bhaktyā sarvapāpaiḥ pramucyate|
bhuktvā bhogān sa dehānte viṣṇossāyujyamāpnuyāt||

|| iti śrīvrataratnākare akhaṇḍadīpapūjākalpaḥ sampūrṇaḥ ||