Home / Mahabharata / Virāṭaparva
Viṃśo'dhyāyaḥ||20||
Virāṭaparva
विंशोऽध्यायः॥२०॥
वैशम्पायन उवाच
एवं विलपमानायां पाञ्चाल्यां मत्स्यपुङ्गवः।
अशक्तः कीचकं तत्र शासितुं बलदर्पितम्।
विराटराजः सूतं तु सान्त्वेनैव न्यवारयत्॥१॥

कीचकं मत्स्यराजेन कृतागसमनिन्दिता।
नापराधानुरूपेण दण्डेन प्रतिपादितम्॥२॥
नापराधानुरूपेण दण्डेन प्रतिपादितम्॥२॥
पाञ्चालराजस्य सुता दृष्ट्वा सुरसुतोपमा।
धर्मज्ञा व्यवहाराणां कीचके कृतकिल्बिषे।
पुनः प्रोवाच राजानं स्मरन्ती धर्ममुत्तमम्॥३॥

सम्प्रेक्ष्य च वरारोहा सर्वांस्तत्र सभासदः।
राजानुवर्तनपरान् कीचकं च कृतागसम्।
विराटं चाऽऽह पाञ्चाली दुःखेनाऽऽविष्टचेतना॥४॥

न राजन् राजवत् किञ्चित् समाचरसि कीचके।
दस्यूनामिव ते धर्मो न सत्सु परिवर्तते॥५॥

न कीचकः स्वधर्मस्थो न च मत्स्यः कथञ्चन।
सभासदोऽप्यधर्मज्ञा य इमं पर्युपासते॥६॥
सभासदोऽप्यधर्मज्ञा य इमं पर्युपासते॥६॥
न धर्मं कीचको वेत्ति राजभृत्यास्तथैव च।
न राजा विनयं ब्रूते अमात्याश्च न जानते॥७॥

नोपालभे त्वां नृपते विराटं नृपसंसदि।
नाहमेतेन युक्ता वै हन्तुं मात्स्य तवान्तिके॥८॥

सभासदस्तु पश्यन्तु कीचकं धर्मलङ्घिनम्।
विराटनृपते पश्य मामनाथामनागसम्॥९॥
विराटनृपते पश्य मामनाथामनागसम्॥९॥
न साम फलते दुष्टे दुष्टे दण्डः प्रयुज्यते॥१०॥
अदण्ड्यान् दण्डयन् राजा दण्ड्यांश्चैवाप्यदण्डयन्।
स राजा न भवेल्लोके राजशब्दस्य भाजनम्॥११॥

दीनान्धकृपणाशक्तपङ्गुकुब्जजडादिकान्।
अनाथबालवृद्धांश्च पुरुषान् वा स्त्रियोऽपि वा।
दुष्टचोराभिभूतांश्च पालयेदवनीपतिः॥१२॥

अनाथानां च नाथः स्यादपितॄणां पिता नृपः।
माता भवेदमातॄणामगुरूणां गुरुर्भवेत्।
अगतीनां गती राजा नृणां राजा परायणम्॥१३॥
माता भवेदमातॄणामगुरूणां गुरुर्भवेत्।
अगतीनां गती राजा नृणां राजा परायणम्॥१३॥
विशेषतः परैर्दुष्टैः परामृष्टं नरोत्तमः।
स्त्रियं साध्वीमनाथां च पालयेत् स्वसुतामिव॥१४॥

त्वद्गृहावसतिं राजन्नेतावत् कालपर्ययम्।
अधिकां त्वत्सुतायाश्च पश्य मां कीचकाहताम्॥१५॥

विराट उवाच
परोक्षं नाभिजानामि विग्रहं युवयोरहम्।
अर्थतत्त्वमविज्ञाय किं स्यादकुशलं मम॥१६॥

द्रौपद्युवाच
येषां न वैरी स्वपिति पदा भूमिमुपस्पृशन्।
तेषां मां मानिनीं भार्यां सूतपुत्रः पदाऽवधीत्॥१७॥

ये च दद्युर्न याचेयुर्ब्रह्मण्याः सत्यवादिनः।
येषां दुन्दुभिनिर्घोषो ज्याघोषः श्रूयते भृशम्।
तेषां मां दयितां भार्यां सूतपुत्रः पदाऽवधीत्॥१८॥

तेजस्विनस्तथा क्षान्ता बलवन्तश्च मानिनः।
महेष्वासा रणे शूरा गर्विता मानतत्पराः।
तेषां मां मानिनीं भार्यां सूतपुत्रः पदाऽवधीत्॥१९॥

सर्वलोकमिमं हन्युर्यदि क्रुद्धा महाबलाः।
तेषां मां दयितां भार्यां सूतपुत्रः पदाऽवधीत्॥२०॥

येषां नास्ति समः कश्चिद् वीर्ये सत्ये बले दमे।
तेषां मां दयितां भार्यां सूतपुत्रः पदाऽवधीत्॥२१॥

येषां न सदृशः कश्चिद् धनाद्यैर्भुवि मानवः।
तेषां मां दयितां भार्यां सूतपुत्रः पदाऽवधीत्॥२२॥

तवाग्रतो विशेषेण प्रजानां च हितैषिणः।
पश्यतो निहता राजंस्तेनेह जगतीपते॥२३॥
पश्यतो निहता राजंस्तेनेह जगतीपते॥२३॥
शरणं ये प्रपन्नानां भवन्ति शरणार्थिनाम्।
चरन्ति लोके प्रच्छन्नाः क्व नु तेऽद्य महाबलाः॥२४॥

कथं ते सूतपुत्रेण वध्यमानां प्रियां सतीम्।
मर्षयन्ति यथा क्लीबा बलवन्तोऽतितेजसः॥२५॥

क्व नु तेषाममर्षश्च वीर्यं तेषां च तद्बलम्।
न परीप्सन्ति ये भार्यां वध्यमानां दुरात्मना॥२६॥

मयाऽपि शक्यं किं कर्तुं विराटे धर्मदूषणे।
मां मर्षयति यः पश्यन्वध्यमानामनागसम्॥२७॥

धर्मो विद्धो ह्यधर्मेण सभां यत्रोपतिष्ठति।
न चेद् विशल्यः क्रियते सर्वे विद्धाः सभासदः॥२८॥

यत्र धर्मो ह्यधर्मेण सत्यं यत्रानृतेन च।
हन्यते प्रेक्षमाणानां हतास्तत्र सभासदः॥२९॥
हन्यते प्रेक्षमाणानां हतास्तत्र सभासदः॥२९॥
वैशम्पायन उवाच
तस्यास्तत् कृपणं श्रुत्वा सैरन्ध्र्याः परिदेवितम्।
ततः सभ्यास्तु ते सर्वे भूयः कृष्णामपूजयन्।
साधु साध्विति चाप्याहुः कीचकं चाप्यगर्हयन्॥३०॥

केचित् कृष्णां प्रशंसन्ति केचिन्निन्दन्ति कीचकम्।
केचिन्निन्दन्ति राजानं केचिद् देवीं च तां नराः॥३१॥

सभ्या ऊचुः
यस्येयं चारुसर्वाङ्गी भार्या स्यादायतेक्षणा।
परो लाभश्च तस्य स्यान्न स शोचेत् कदाचन॥३२॥

यस्या गात्रं शुभं पीनं मुखं जयति पङ्कजम्।
गतिर्हंसं स्मितं कुन्दं सैषा नार्हति पद्वधम्॥३३॥

द्वात्रिंशद्दशना यस्याः श्वेता मांसनिबन्धनाः।
स्निग्धाश्च मृदवः केशाः सैषा नार्हति पद्वधम्॥३४॥

पद्मं चक्रं ध्वजं शङ्खं प्रासादो मकरस्तथा।
यस्याः पाणितले सन्ति सैषा नार्हति पद्वधम्॥३५॥

आवर्ताः खलु चत्वारः सर्वे चैव प्रदक्षिणाः।
समं गात्रं शुभं स्निग्धं यस्या नार्हति पद्वधम्॥३६॥

अच्छिद्रहस्तपादा च अच्छिद्रदशना च या।
कन्या कमलपत्राक्षी कथमर्हति पद्वधम्॥३७॥
कन्या कमलपत्राक्षी कथमर्हति पद्वधम्॥३७॥
सेयं लक्षणसम्पन्ना पूर्णचन्द्रनिभानना।
सुरूपिणी सुवदना नेयं योग्या पदा वधम्॥३८॥

देवदेवीव सुभगा शक्रदेवीव शोभना।
अप्सरा इव सारूप्यान्नेयं योग्या पदा वधम्॥३९॥

इति स्मापूजयंस्तत्र कृष्णां प्रेक्ष्य सभासदः॥४०॥
सा विनिःश्वस्य सुश्रोणी भूमावन्तर्मुखी स्थिता।
तूष्णीमासीत् तदा दृष्ट्वा विवक्षन्तं युधिष्ठिरम्॥४१॥

युधिष्ठिरस्य कोपात् तु ललाटे स्वेद आस्रवत्।
अब्रवीद् धर्मपुत्रोऽथ सैरन्ध्रीं महिषीं प्रियाम्।
कृष्णां तत्र नृपाभ्याशे परिव्राजकरूपधृत्॥४२॥

गच्छ सैरन्ध्रि मा भैस्त्वं सुदेष्णाया निवेशनम्।
राजा ह्ययं धर्मशीलो विराटः परलोकभीः।
यतस्त्वां न परित्राति सत्ये धर्मपथे स्थितः॥४३॥

भर्तारमनुरुन्धन्त्यः क्लिश्यन्ते वीरपत्नयः।
शुश्रूषया क्लिश्यमानाः पतिलोकं जयन्त्युत॥४४॥

मन्ये न कालः क्रोधस्य पश्यन्ति पतयस्तव।
तेन त्वां नाभिधावन्ति गन्धर्वाः सूर्यवर्चसः॥४५॥

श्रूयन्तां ते सुकेशान्ते मोक्षधर्माश्रयाः कथाः।
यथा धर्मः कुलस्त्रीणां दृष्टो धर्मानुरोधनात्॥४६॥

नास्ति यज्ञः स्त्रियाः कश्चिन्न श्राद्धं नाप्युपोषणम्।
या तु भर्तरि शुश्रूषा सा स्वर्गायाभिजायते॥४७॥

पिता रक्षति कौमारे भर्ता रक्षति यौवने।
पुत्रस्तु स्थाविरे भावे न स्त्री स्वातन्त्र्यमर्हति॥४८॥

भीरु भर्तृभयात् पत्न्यो न क्रुध्यन्ति कदाचन।
बहुभिश्च परिक्लेशैरवज्ञाताश्च शत्रुभिः।
अनन्यभावाः शुद्धाश्च पुण्यलोकं जयन्त्युत॥४९॥

न क्रोधकालं नियतं पश्यन्ति पतयस्तव।
न क्रुद्धान् प्रतियायाद् वै पतींस्ते वृत्रहा अपि।
तेन त्वां नाभिधावन्ति गन्धर्वाः कामरूपिणः॥५०॥

यदि ते समयः कश्चित् कृतो ह्यायतलोचने।
तं स्मरस्व क्षमाशीले क्षमा धर्मो ह्यनुत्तमः॥५१॥

क्षमा धर्मः क्षमा सत्यं क्षमा दानं क्षमा तपः।
क्षमावतामयं लोकः परलोकः क्षमावताम्॥५२॥
क्षमावतामयं लोकः परलोकः क्षमावताम्॥५२॥
द्व्यंशिनो द्वादशाङ्गस्य चतुर्विंशतिपर्वणः।
कस्त्रिषष्टिशतारस्य मासोनस्याक्षमी भवेत्॥५३॥

गच्छ सैरन्ध्रि गन्धर्वाः करिष्यन्ति तव प्रियम्।
व्यपनेष्यन्ति ते दुःखं येन ते विप्रियं कृतम्॥५४॥

इत्येवमुक्ते तिष्ठन्तीं पुनरेवाह धर्मराट्।
विघ्नं करोषि वै भद्रे दीव्यतां राजसंसदि॥५५॥

तस्मात् त्वमपि सुश्रोणि शैलूषीव विभासि नः।
एवमुक्ता तु सा भर्त्रा समुद्वीक्ष्याब्रवीदिदम्॥५६॥

सत्यमुक्तं त्वया विद्वञ्छैलूषीं विद्धि मां पुनः।
शैलूषकस्य तस्याहं येषां ज्येष्ठोऽक्षकोविदः॥५७॥

एवमुक्त्वा वरारोहा परिमृज्याननं शुभम्।
केशान् विमुक्तान् संयम्य रुधिरेण समुक्षितान्॥५८॥

पांसुकुण्ठितसर्वाङ्गी गजराजवधूरिव।
प्रतस्थे नागनासोरूर्भर्तुराज्ञाय शासनम्॥५९॥

विमुक्ता मृगशावाक्षी निरन्तरपयोधरा।
प्रभा नक्षत्रराजस्य कालमेघैरिवावृता॥६०॥
प्रभा नक्षत्रराजस्य कालमेघैरिवावृता॥६०॥
यस्यार्थे पाण्डवेयास्तु त्यजेयुरपि जीवितम्।
तां ते दृष्ट्वा तथा कृष्णां क्षमिणो धर्मचारिणः।
समयं नातिवर्तन्ते वेलामिव महोदधिः॥६१॥

सा प्रविश्य प्रवेपन्ती सुदेष्णाया निवेशनम्।
रुदन्ती चारुसर्वाङ्गी तस्यास्तस्थावथाग्रतः॥६२॥

तामुवाच विराटस्य महिषी शाठ्यमास्थिता।
किमिदं पद्मसङ्काशं सुदन्तोष्ठाक्षिनासिकम्॥६३॥

रुदन्त्या अवमृष्टास्रं पूर्णेन्दुसमवर्चसम्।
बिम्बोष्ठं कृष्णताराभ्यामत्यन्तरुचिरप्रभम्।
नयनाभ्यामजिह्माभ्यां मुखं ते मुञ्चते जलम्॥६४॥

कस्त्वाऽवधीद् वरारोहे कस्माद् रोदिषि शोभने।
को विप्रयुज्यते दारैः सपुत्रैः सह बान्धवैः॥६५॥

कस्याद्य राजा कुपितो वधमाज्ञापयिष्यति।
ब्रूहि किं ते प्रियं कर्म कं त्यजे घातयामि वा॥६६॥
ब्रूहि किं ते प्रियं कर्म कं त्यजे घातयामि वा॥६६॥
वैशम्पायन उवाच
तां निःश्वस्याब्रवीत् कृष्णा जानन्ती नाम पृच्छसि।
भ्रातुस्त्वं मामनुप्रेष्य किमेवं हि विकत्थसे॥६७॥

कीचको माऽवधीत् तत्र सुराहारीमितोगताम्।
सभायां पश्यतो राज्ञो यथा वै निर्जने वने॥६८॥

सुदेष्णोवाच
घातयामि सुदन्तोष्ठि कीचकं यदि मन्यसे।
भ्राता यद्येष मे व्यक्तं योऽतीतो धर्मचारिणीम्।
यस्त्वां कामाभिभूतात्मा दुर्लभामवमन्यते॥६९॥
भ्राता यद्येष मे व्यक्तं योऽतीतो धर्मचारिणीम्।
यस्त्वां कामाभिभूतात्मा दुर्लभामवमन्यते॥६९॥
द्रौपद्युवाच
अद्यैव तं हनिष्यन्ति येषामागस्करो हि सः।
मन्येऽहमद्य वा श्वो वा परलोकं गमिष्यति॥७०॥

भ्रातुः प्रयच्छ त्वरिता जीवच्छ्राद्धं त्वमद्य वै।
सुहृष्टं कुरु वै चैनं नासून्मन्ये धरिष्यति॥७१॥

तेषां हि मम भर्तॄणां पञ्चानां धर्मचारिणाम्।
एको दुर्धर्षणोऽत्यर्थं बले चाप्रतिमो भुवि॥७२॥

निर्मनुष्यमिमं लोकं कुर्यात् क्रुद्धो निशामिमाम्।
न स सङ्क्रुध्यते तावद् गन्धर्वः कामरूपधृत्॥७३॥

नूनं ज्ञास्यति यावद् वै ममैतत् पादघातनम्।
तत्क्षणात् कीचकः पापः सपुत्रभ्रातृबान्धवः।
विनशिष्यति दुष्टात्मा यथा दुष्कृतकर्मकृत्॥७४॥

अपि चैतत् पुरा प्रोक्तं निपुणैर्मनुजोत्तमैः।
एकस्तु कुरुते पापं कालपाशवशं गतः।
नीचेनाऽऽत्मापराधेन कुलं तेन विनश्यति॥७५॥
एकस्तु कुरुते पापं कालपाशवशं गतः।
नीचेनाऽऽत्मापराधेन कुलं तेन विनश्यति॥७५॥
वैशम्पायन उवाच
सुदेष्णामेवमुक्त्वा तु सैरन्ध्री दुःखमोहिता।
कीचकस्य वधार्थाय व्रतदीक्षामुपागमत्॥७६॥
कीचकस्य वधार्थाय व्रतदीक्षामुपागमत्॥७६॥
अभ्यर्थिता च नारीभिर्मानिता च सुदेष्णया।
न च स्नाति न चाश्नाति न पांसून् परिमार्जति।
रुधिरक्लिन्नवदना बभूव मृदितेक्षणा॥७७॥

तां तथा शोकसन्तप्तां दृष्ट्वा प्ररुदितां स्त्रियः।
कीचकस्य वधं सर्वा मनोभिश्च शशंसिरे॥७८॥
कीचकस्य वधं सर्वा मनोभिश्च शशंसिरे॥७८॥
॥इति श्रीमन्महाभारते विराटपर्वणि कीचकवधपर्वणि विंशोऽध्यायः॥२०॥
ವಿಂಶೋಽಧ್ಯಾಯಃ॥೨೦॥
ವೈಶಂಪಾಯನ ಉವಾಚ
ಏವಂ ವಿಲಪಮಾನಾಯಾಂ ಪಾಂಚಾಲ್ಯಾಂ ಮತ್ಸ್ಯಪುಂಗವಃ।
ಅಶಕ್ತಃ ಕೀಚಕಂ ತತ್ರ ಶಾಸಿತುಂ ಬಲದರ್ಪಿತಮ್।
ವಿರಾಟರಾಜಃ ಸೂತಂ ತು ಸಾಂತ್ವೇನೈವ ನ್ಯವಾರಯತ್॥೧॥

ಕೀಚಕಂ ಮತ್ಸ್ಯರಾಜೇನ ಕೃತಾಗಸಮನಿಂದಿತಾ।
ನಾಪರಾಧಾನುರೂಪೇಣ ದಂಡೇನ ಪ್ರತಿಪಾದಿತಮ್॥೨॥
ನಾಪರಾಧಾನುರೂಪೇಣ ದಂಡೇನ ಪ್ರತಿಪಾದಿತಮ್॥೨॥
ಪಾಂಚಾಲರಾಜಸ್ಯ ಸುತಾ ದೃಷ್ಟ್ವಾ ಸುರಸುತೋಪಮಾ।
ಧರ್ಮಜ್ಞಾ ವ್ಯವಹಾರಾಣಾಂ ಕೀಚಕೇ ಕೃತಕಿಲ್ಬಿಷೇ।
ಪುನಃ ಪ್ರೋವಾಚ ರಾಜಾನಂ ಸ್ಮರಂತೀ ಧರ್ಮಮುತ್ತಮಮ್॥೩॥

ಸಂಪ್ರೇಕ್ಷ್ಯ ಚ ವರಾರೋಹಾ ಸರ್ವಾಂಸ್ತತ್ರ ಸಭಾಸದಃ।
ರಾಜಾನುವರ್ತನಪರಾನ್ ಕೀಚಕಂ ಚ ಕೃತಾಗಸಮ್।
ವಿರಾಟಂ ಚಾಽಽಹ ಪಾಂಚಾಲೀ ದುಃಖೇನಾಽಽವಿಷ್ಟಚೇತನಾ॥೪॥

ನ ರಾಜನ್ ರಾಜವತ್ ಕಿಂಚಿತ್ ಸಮಾಚರಸಿ ಕೀಚಕೇ।
ದಸ್ಯೂನಾಮಿವ ತೇ ಧರ್ಮೋ ನ ಸತ್ಸು ಪರಿವರ್ತತೇ॥೫॥

ನ ಕೀಚಕಃ ಸ್ವಧರ್ಮಸ್ಥೋ ನ ಚ ಮತ್ಸ್ಯಃ ಕಥಂಚನ।
ಸಭಾಸದೋಽಪ್ಯಧರ್ಮಜ್ಞಾ ಯ ಇಮಂ ಪರ್ಯುಪಾಸತೇ॥೬॥
ಸಭಾಸದೋಽಪ್ಯಧರ್ಮಜ್ಞಾ ಯ ಇಮಂ ಪರ್ಯುಪಾಸತೇ॥೬॥
ನ ಧರ್ಮಂ ಕೀಚಕೋ ವೇತ್ತಿ ರಾಜಭೃತ್ಯಾಸ್ತಥೈವ ಚ।
ನ ರಾಜಾ ವಿನಯಂ ಬ್ರೂತೇ ಅಮಾತ್ಯಾಶ್ಚ ನ ಜಾನತೇ॥೭॥

ನೋಪಾಲಭೇ ತ್ವಾಂ ನೃಪತೇ ವಿರಾಟಂ ನೃಪಸಂಸದಿ।
ನಾಹಮೇತೇನ ಯುಕ್ತಾ ವೈ ಹಂತುಂ ಮಾತ್ಸ್ಯ ತವಾಂತಿಕೇ॥೮॥

ಸಭಾಸದಸ್ತು ಪಶ್ಯಂತು ಕೀಚಕಂ ಧರ್ಮಲಂಘಿನಮ್।
ವಿರಾಟನೃಪತೇ ಪಶ್ಯ ಮಾಮನಾಥಾಮನಾಗಸಮ್॥೯॥
ವಿರಾಟನೃಪತೇ ಪಶ್ಯ ಮಾಮನಾಥಾಮನಾಗಸಮ್॥೯॥
ನ ಸಾಮ ಫಲತೇ ದುಷ್ಟೇ ದುಷ್ಟೇ ದಂಡಃ ಪ್ರಯುಜ್ಯತೇ॥೧೦॥
ಅದಂಡ್ಯಾನ್ ದಂಡಯನ್ ರಾಜಾ ದಂಡ್ಯಾಂಶ್ಚೈವಾಪ್ಯದಂಡಯನ್।
ಸ ರಾಜಾ ನ ಭವೇಲ್ಲೋಕೇ ರಾಜಶಬ್ದಸ್ಯ ಭಾಜನಮ್॥೧೧॥

ದೀನಾಂಧಕೃಪಣಾಶಕ್ತಪಂಗುಕುಬ್ಜಜಡಾದಿಕಾನ್।
ಅನಾಥಬಾಲವೃದ್ಧಾಂಶ್ಚ ಪುರುಷಾನ್ ವಾ ಸ್ತ್ರಿಯೋಽಪಿ ವಾ।
ದುಷ್ಟಚೋರಾಭಿಭೂತಾಂಶ್ಚ ಪಾಲಯೇದವನೀಪತಿಃ॥೧೨॥

ಅನಾಥಾನಾಂ ಚ ನಾಥಃ ಸ್ಯಾದಪಿತೄಣಾಂ ಪಿತಾ ನೃಪಃ।
ಮಾತಾ ಭವೇದಮಾತೄಣಾಮಗುರೂಣಾಂ ಗುರುರ್ಭವೇತ್।
ಅಗತೀನಾಂ ಗತೀ ರಾಜಾ ನೃಣಾಂ ರಾಜಾ ಪರಾಯಣಮ್॥೧೩॥
ಮಾತಾ ಭವೇದಮಾತೄಣಾಮಗುರೂಣಾಂ ಗುರುರ್ಭವೇತ್।
ಅಗತೀನಾಂ ಗತೀ ರಾಜಾ ನೃಣಾಂ ರಾಜಾ ಪರಾಯಣಮ್॥೧೩॥
ವಿಶೇಷತಃ ಪರೈರ್ದುಷ್ಟೈಃ ಪರಾಮೃಷ್ಟಂ ನರೋತ್ತಮಃ।
ಸ್ತ್ರಿಯಂ ಸಾಧ್ವೀಮನಾಥಾಂ ಚ ಪಾಲಯೇತ್ ಸ್ವಸುತಾಮಿವ॥೧೪॥

ತ್ವದ್ಗೃಹಾವಸತಿಂ ರಾಜನ್ನೇತಾವತ್ ಕಾಲಪರ್ಯಯಮ್।
ಅಧಿಕಾಂ ತ್ವತ್ಸುತಾಯಾಶ್ಚ ಪಶ್ಯ ಮಾಂ ಕೀಚಕಾಹತಾಮ್॥೧೫॥

ವಿರಾಟ ಉವಾಚ
ಪರೋಕ್ಷಂ ನಾಭಿಜಾನಾಮಿ ವಿಗ್ರಹಂ ಯುವಯೋರಹಮ್।
ಅರ್ಥತತ್ತ್ವಮವಿಜ್ಞಾಯ ಕಿಂ ಸ್ಯಾದಕುಶಲಂ ಮಮ॥೧೬॥

ದ್ರೌಪದ್ಯುವಾಚ
ಯೇಷಾಂ ನ ವೈರೀ ಸ್ವಪಿತಿ ಪದಾ ಭೂಮಿಮುಪಸ್ಪೃಶನ್।
ತೇಷಾಂ ಮಾಂ ಮಾನಿನೀಂ ಭಾರ್ಯಾಂ ಸೂತಪುತ್ರಃ ಪದಾಽವಧೀತ್॥೧೭॥

ಯೇ ಚ ದದ್ಯುರ್ನ ಯಾಚೇಯುರ್ಬ್ರಹ್ಮಣ್ಯಾಃ ಸತ್ಯವಾದಿನಃ।
ಯೇಷಾಂ ದುಂದುಭಿನಿರ್ಘೋಷೋ ಜ್ಯಾಘೋಷಃ ಶ್ರೂಯತೇ ಭೃಶಮ್।
ತೇಷಾಂ ಮಾಂ ದಯಿತಾಂ ಭಾರ್ಯಾಂ ಸೂತಪುತ್ರಃ ಪದಾಽವಧೀತ್॥೧೮॥

ತೇಜಸ್ವಿನಸ್ತಥಾ ಕ್ಷಾಂತಾ ಬಲವಂತಶ್ಚ ಮಾನಿನಃ।
ಮಹೇಷ್ವಾಸಾ ರಣೇ ಶೂರಾ ಗರ್ವಿತಾ ಮಾನತತ್ಪರಾಃ।
ತೇಷಾಂ ಮಾಂ ಮಾನಿನೀಂ ಭಾರ್ಯಾಂ ಸೂತಪುತ್ರಃ ಪದಾಽವಧೀತ್॥೧೯॥

ಸರ್ವಲೋಕಮಿಮಂ ಹನ್ಯುರ್ಯದಿ ಕ್ರುದ್ಧಾ ಮಹಾಬಲಾಃ।
ತೇಷಾಂ ಮಾಂ ದಯಿತಾಂ ಭಾರ್ಯಾಂ ಸೂತಪುತ್ರಃ ಪದಾಽವಧೀತ್॥೨೦॥

ಯೇಷಾಂ ನಾಸ್ತಿ ಸಮಃ ಕಶ್ಚಿದ್ ವೀರ್ಯೇ ಸತ್ಯೇ ಬಲೇ ದಮೇ।
ತೇಷಾಂ ಮಾಂ ದಯಿತಾಂ ಭಾರ್ಯಾಂ ಸೂತಪುತ್ರಃ ಪದಾಽವಧೀತ್॥೨೧॥

ಯೇಷಾಂ ನ ಸದೃಶಃ ಕಶ್ಚಿದ್ ಧನಾದ್ಯೈರ್ಭುವಿ ಮಾನವಃ।
ತೇಷಾಂ ಮಾಂ ದಯಿತಾಂ ಭಾರ್ಯಾಂ ಸೂತಪುತ್ರಃ ಪದಾಽವಧೀತ್॥೨೨॥

ತವಾಗ್ರತೋ ವಿಶೇಷೇಣ ಪ್ರಜಾನಾಂ ಚ ಹಿತೈಷಿಣಃ।
ಪಶ್ಯತೋ ನಿಹತಾ ರಾಜಂಸ್ತೇನೇಹ ಜಗತೀಪತೇ॥೨೩॥
ಪಶ್ಯತೋ ನಿಹತಾ ರಾಜಂಸ್ತೇನೇಹ ಜಗತೀಪತೇ॥೨೩॥
ಶರಣಂ ಯೇ ಪ್ರಪನ್ನಾನಾಂ ಭವಂತಿ ಶರಣಾರ್ಥಿನಾಮ್।
ಚರಂತಿ ಲೋಕೇ ಪ್ರಚ್ಛನ್ನಾಃ ಕ್ವ ನು ತೇಽದ್ಯ ಮಹಾಬಲಾಃ॥೨೪॥

ಕಥಂ ತೇ ಸೂತಪುತ್ರೇಣ ವಧ್ಯಮಾನಾಂ ಪ್ರಿಯಾಂ ಸತೀಮ್।
ಮರ್ಷಯಂತಿ ಯಥಾ ಕ್ಲೀಬಾ ಬಲವಂತೋಽತಿತೇಜಸಃ॥೨೫॥
ಮರ್ಷಯಂತಿ ಯಥಾ ಕ್ಲೀಬಾ ಬಲವಂತೋಽತಿತೇಜಸಃ॥೨೫॥
ಕ್ವ ನು ತೇಷಾಮಮರ್ಷಶ್ಚ ವೀರ್ಯಂ ತೇಷಾಂ ಚ ತದ್ಬಲಮ್।
ನ ಪರೀಪ್ಸಂತಿ ಯೇ ಭಾರ್ಯಾಂ ವಧ್ಯಮಾನಾಂ ದುರಾತ್ಮನಾ॥೨೬॥

ಮಯಾಽಪಿ ಶಕ್ಯಂ ಕಿಂ ಕರ್ತುಂ ವಿರಾಟೇ ಧರ್ಮದೂಷಣೇ।
ಮಾಂ ಮರ್ಷಯತಿ ಯಃ ಪಶ್ಯನ್ವಧ್ಯಮಾನಾಮನಾಗಸಮ್॥೨೭॥

ಧರ್ಮೋ ವಿದ್ಧೋ ಹ್ಯಧರ್ಮೇಣ ಸಭಾಂ ಯತ್ರೋಪತಿಷ್ಠತಿ।
ನ ಚೇದ್ ವಿಶಲ್ಯಃ ಕ್ರಿಯತೇ ಸರ್ವೇ ವಿದ್ಧಾಃ ಸಭಾಸದಃ॥೨೮॥

ಯತ್ರ ಧರ್ಮೋ ಹ್ಯಧರ್ಮೇಣ ಸತ್ಯಂ ಯತ್ರಾನೃತೇನ ಚ।
ಹನ್ಯತೇ ಪ್ರೇಕ್ಷಮಾಣಾನಾಂ ಹತಾಸ್ತತ್ರ ಸಭಾಸದಃ॥೨೯॥
ಹನ್ಯತೇ ಪ್ರೇಕ್ಷಮಾಣಾನಾಂ ಹತಾಸ್ತತ್ರ ಸಭಾಸದಃ॥೨೯॥
ವೈಶಂಪಾಯನ ಉವಾಚ
ತಸ್ಯಾಸ್ತತ್ ಕೃಪಣಂ ಶ್ರುತ್ವಾ ಸೈರಂಧ್ರ್ಯಾಃ ಪರಿದೇವಿತಮ್।
ತತಃ ಸಭ್ಯಾಸ್ತು ತೇ ಸರ್ವೇ ಭೂಯಃ ಕೃಷ್ಣಾಮಪೂಜಯನ್।
ಸಾಧು ಸಾಧ್ವಿತಿ ಚಾಪ್ಯಾಹುಃ ಕೀಚಕಂ ಚಾಪ್ಯಗರ್ಹಯನ್॥೩೦॥

ಕೇಚಿತ್ ಕೃಷ್ಣಾಂ ಪ್ರಶಂಸಂತಿ ಕೇಚಿನ್ನಿಂದಂತಿ ಕೀಚಕಮ್।
ಕೇಚಿನ್ನಿಂದಂತಿ ರಾಜಾನಂ ಕೇಚಿದ್ ದೇವೀಂ ಚ ತಾಂ ನರಾಃ॥೩೧॥

ಸಭ್ಯಾ ಊಚುಃ
ಯಸ್ಯೇಯಂ ಚಾರುಸರ್ವಾಂಗೀ ಭಾರ್ಯಾ ಸ್ಯಾದಾಯತೇಕ್ಷಣಾ।
ಪರೋ ಲಾಭಶ್ಚ ತಸ್ಯ ಸ್ಯಾನ್ನ ಸ ಶೋಚೇತ್ ಕದಾಚನ॥೩೨॥

ಯಸ್ಯಾ ಗಾತ್ರಂ ಶುಭಂ ಪೀನಂ ಮುಖಂ ಜಯತಿ ಪಂಕಜಮ್।
ಗತಿರ್ಹಂಸಂ ಸ್ಮಿತಂ ಕುಂದಂ ಸೈಷಾ ನಾರ್ಹತಿ ಪದ್ವಧಮ್॥೩೩॥

ದ್ವಾತ್ರಿಂಶದ್ದಶನಾ ಯಸ್ಯಾಃ ಶ್ವೇತಾ ಮಾಂಸನಿಬಂಧನಾಃ।
ಸ್ನಿಗ್ಧಾಶ್ಚ ಮೃದವಃ ಕೇಶಾಃ ಸೈಷಾ ನಾರ್ಹತಿ ಪದ್ವಧಮ್॥೩೪॥

ಪದ್ಮಂ ಚಕ್ರಂ ಧ್ವಜಂ ಶಂಖಂ ಪ್ರಾಸಾದೋ ಮಕರಸ್ತಥಾ।
ಯಸ್ಯಾಃ ಪಾಣಿತಲೇ ಸಂತಿ ಸೈಷಾ ನಾರ್ಹತಿ ಪದ್ವಧಮ್॥೩೫॥

ಆವರ್ತಾಃ ಖಲು ಚತ್ವಾರಃ ಸರ್ವೇ ಚೈವ ಪ್ರದಕ್ಷಿಣಾಃ।
ಸಮಂ ಗಾತ್ರಂ ಶುಭಂ ಸ್ನಿಗ್ಧಂ ಯಸ್ಯಾ ನಾರ್ಹತಿ ಪದ್ವಧಮ್॥೩೬॥

ಅಚ್ಛಿದ್ರಹಸ್ತಪಾದಾ ಚ ಅಚ್ಛಿದ್ರದಶನಾ ಚ ಯಾ।
ಕನ್ಯಾ ಕಮಲಪತ್ರಾಕ್ಷೀ ಕಥಮರ್ಹತಿ ಪದ್ವಧಮ್॥೩೭॥
ಕನ್ಯಾ ಕಮಲಪತ್ರಾಕ್ಷೀ ಕಥಮರ್ಹತಿ ಪದ್ವಧಮ್॥೩೭॥
ಸೇಯಂ ಲಕ್ಷಣಸಂಪನ್ನಾ ಪೂರ್ಣಚಂದ್ರನಿಭಾನನಾ।
ಸುರೂಪಿಣೀ ಸುವದನಾ ನೇಯಂ ಯೋಗ್ಯಾ ಪದಾ ವಧಮ್॥೩೮॥

ದೇವದೇವೀವ ಸುಭಗಾ ಶಕ್ರದೇವೀವ ಶೋಭನಾ।
ಅಪ್ಸರಾ ಇವ ಸಾರೂಪ್ಯಾನ್ನೇಯಂ ಯೋಗ್ಯಾ ಪದಾ ವಧಮ್॥೩೯॥

ಇತಿ ಸ್ಮಾಪೂಜಯಂಸ್ತತ್ರ ಕೃಷ್ಣಾಂ ಪ್ರೇಕ್ಷ್ಯ ಸಭಾಸದಃ॥೪೦॥
ಸಾ ವಿನಿಃಶ್ವಸ್ಯ ಸುಶ್ರೋಣೀ ಭೂಮಾವಂತರ್ಮುಖೀ ಸ್ಥಿತಾ।
ತೂಷ್ಣೀಮಾಸೀತ್ ತದಾ ದೃಷ್ಟ್ವಾ ವಿವಕ್ಷಂತಂ ಯುಧಿಷ್ಠಿರಮ್॥೪೧॥

ಯುಧಿಷ್ಠಿರಸ್ಯ ಕೋಪಾತ್ ತು ಲಲಾಟೇ ಸ್ವೇದ ಆಸ್ರವತ್।
ಅಬ್ರವೀದ್ ಧರ್ಮಪುತ್ರೋಽಥ ಸೈರಂಧ್ರೀಂ ಮಹಿಷೀಂ ಪ್ರಿಯಾಮ್।
ಕೃಷ್ಣಾಂ ತತ್ರ ನೃಪಾಭ್ಯಾಶೇ ಪರಿವ್ರಾಜಕರೂಪಧೃತ್॥೪೨॥

ಗಚ್ಛ ಸೈರಂಧ್ರಿ ಮಾ ಭೈಸ್ತ್ವಂ ಸುದೇಷ್ಣಾಯಾ ನಿವೇಶನಮ್।
ರಾಜಾ ಹ್ಯಯಂ ಧರ್ಮಶೀಲೋ ವಿರಾಟಃ ಪರಲೋಕಭೀಃ।
ಯತಸ್ತ್ವಾಂ ನ ಪರಿತ್ರಾತಿ ಸತ್ಯೇ ಧರ್ಮಪಥೇ ಸ್ಥಿತಃ॥೪೩॥

ಭರ್ತಾರಮನುರುಂಧಂತ್ಯಃ ಕ್ಲಿಶ್ಯಂತೇ ವೀರಪತ್ನಯಃ।
ಶುಶ್ರೂಷಯಾ ಕ್ಲಿಶ್ಯಮಾನಾಃ ಪತಿಲೋಕಂ ಜಯಂತ್ಯುತ॥೪೪॥

ಮನ್ಯೇ ನ ಕಾಲಃ ಕ್ರೋಧಸ್ಯ ಪಶ್ಯಂತಿ ಪತಯಸ್ತವ।
ತೇನ ತ್ವಾಂ ನಾಭಿಧಾವಂತಿ ಗಂಧರ್ವಾಃ ಸೂರ್ಯವರ್ಚಸಃ॥೪೫॥

ಶ್ರೂಯಂತಾಂ ತೇ ಸುಕೇಶಾಂತೇ ಮೋಕ್ಷಧರ್ಮಾಶ್ರಯಾಃ ಕಥಾಃ।
ಯಥಾ ಧರ್ಮಃ ಕುಲಸ್ತ್ರೀಣಾಂ ದೃಷ್ಟೋ ಧರ್ಮಾನುರೋಧನಾತ್॥೪೬॥

ನಾಸ್ತಿ ಯಜ್ಞಃ ಸ್ತ್ರಿಯಾಃ ಕಶ್ಚಿನ್ನ ಶ್ರಾದ್ಧಂ ನಾಪ್ಯುಪೋಷಣಮ್।
ಯಾ ತು ಭರ್ತರಿ ಶುಶ್ರೂಷಾ ಸಾ ಸ್ವರ್ಗಾಯಾಭಿಜಾಯತೇ॥೪೭॥

ಪಿತಾ ರಕ್ಷತಿ ಕೌಮಾರೇ ಭರ್ತಾ ರಕ್ಷತಿ ಯೌವನೇ।
ಪುತ್ರಸ್ತು ಸ್ಥಾವಿರೇ ಭಾವೇ ನ ಸ್ತ್ರೀ ಸ್ವಾತಂತ್ರ್ಯಮರ್ಹತಿ॥೪೮॥

ಭೀರು ಭರ್ತೃಭಯಾತ್ ಪತ್ನ್ಯೋ ನ ಕ್ರುಧ್ಯಂತಿ ಕದಾಚನ।
ಬಹುಭಿಶ್ಚ ಪರಿಕ್ಲೇಶೈರವಜ್ಞಾತಾಶ್ಚ ಶತ್ರುಭಿಃ।
ಅನನ್ಯಭಾವಾಃ ಶುದ್ಧಾಶ್ಚ ಪುಣ್ಯಲೋಕಂ ಜಯಂತ್ಯುತ॥೪೯॥

ನ ಕ್ರೋಧಕಾಲಂ ನಿಯತಂ ಪಶ್ಯಂತಿ ಪತಯಸ್ತವ।
ನ ಕ್ರುದ್ಧಾನ್ ಪ್ರತಿಯಾಯಾದ್ ವೈ ಪತೀಂಸ್ತೇ ವೃತ್ರಹಾ ಅಪಿ।
ತೇನ ತ್ವಾಂ ನಾಭಿಧಾವಂತಿ ಗಂಧರ್ವಾಃ ಕಾಮರೂಪಿಣಃ॥೫೦॥

ಯದಿ ತೇ ಸಮಯಃ ಕಶ್ಚಿತ್ ಕೃತೋ ಹ್ಯಾಯತಲೋಚನೇ।
ತಂ ಸ್ಮರಸ್ವ ಕ್ಷಮಾಶೀಲೇ ಕ್ಷಮಾ ಧರ್ಮೋ ಹ್ಯನುತ್ತಮಃ॥೫೧॥

ಕ್ಷಮಾ ಧರ್ಮಃ ಕ್ಷಮಾ ಸತ್ಯಂ ಕ್ಷಮಾ ದಾನಂ ಕ್ಷಮಾ ತಪಃ।
ಕ್ಷಮಾವತಾಮಯಂ ಲೋಕಃ ಪರಲೋಕಃ ಕ್ಷಮಾವತಾಮ್॥೫೨॥
ಕ್ಷಮಾವತಾಮಯಂ ಲೋಕಃ ಪರಲೋಕಃ ಕ್ಷಮಾವತಾಮ್॥೫೨॥
ದ್ವ್ಯಂಶಿನೋ ದ್ವಾದಶಾಂಗಸ್ಯ ಚತುರ್ವಿಂಶತಿಪರ್ವಣಃ।
ಕಸ್ತ್ರಿಷಷ್ಟಿಶತಾರಸ್ಯ ಮಾಸೋನಸ್ಯಾಕ್ಷಮೀ ಭವೇತ್॥೫೩॥

ಗಚ್ಛ ಸೈರಂಧ್ರಿ ಗಂಧರ್ವಾಃ ಕರಿಷ್ಯಂತಿ ತವ ಪ್ರಿಯಮ್।
ವ್ಯಪನೇಷ್ಯಂತಿ ತೇ ದುಃಖಂ ಯೇನ ತೇ ವಿಪ್ರಿಯಂ ಕೃತಮ್॥೫೪॥

ಇತ್ಯೇವಮುಕ್ತೇ ತಿಷ್ಠಂತೀಂ ಪುನರೇವಾಹ ಧರ್ಮರಾಟ್।
ವಿಘ್ನಂ ಕರೋಷಿ ವೈ ಭದ್ರೇ ದೀವ್ಯತಾಂ ರಾಜಸಂಸದಿ॥೫೫॥

ತಸ್ಮಾತ್ ತ್ವಮಪಿ ಸುಶ್ರೋಣಿ ಶೈಲೂಷೀವ ವಿಭಾಸಿ ನಃ।
ಏವಮುಕ್ತಾ ತು ಸಾ ಭರ್ತ್ರಾ ಸಮುದ್ವೀಕ್ಷ್ಯಾಬ್ರವೀದಿದಮ್॥೫೬॥

ಸತ್ಯಮುಕ್ತಂ ತ್ವಯಾ ವಿದ್ವಂಛೈಲೂಷೀಂ ವಿದ್ಧಿ ಮಾಂ ಪುನಃ।
ಶೈಲೂಷಕಸ್ಯ ತಸ್ಯಾಹಂ ಯೇಷಾಂ ಜ್ಯೇಷ್ಠೋಽಕ್ಷಕೋವಿದಃ॥೫೭॥

ಏವಮುಕ್ತ್ವಾ ವರಾರೋಹಾ ಪರಿಮೃಜ್ಯಾನನಂ ಶುಭಮ್।
ಕೇಶಾನ್ ವಿಮುಕ್ತಾನ್ ಸಂಯಮ್ಯ ರುಧಿರೇಣ ಸಮುಕ್ಷಿತಾನ್॥೫೮॥

ಪಾಂಸುಕುಂಠಿತಸರ್ವಾಂಗೀ ಗಜರಾಜವಧೂರಿವ।
ಪ್ರತಸ್ಥೇ ನಾಗನಾಸೋರೂರ್ಭರ್ತುರಾಜ್ಞಾಯ ಶಾಸನಮ್॥೫೯॥

ವಿಮುಕ್ತಾ ಮೃಗಶಾವಾಕ್ಷೀ ನಿರಂತರಪಯೋಧರಾ।
ಪ್ರಭಾ ನಕ್ಷತ್ರರಾಜಸ್ಯ ಕಾಲಮೇಘೈರಿವಾವೃತಾ॥೬೦॥
ಪ್ರಭಾ ನಕ್ಷತ್ರರಾಜಸ್ಯ ಕಾಲಮೇಘೈರಿವಾವೃತಾ॥೬೦॥
ಯಸ್ಯಾರ್ಥೇ ಪಾಂಡವೇಯಾಸ್ತು ತ್ಯಜೇಯುರಪಿ ಜೀವಿತಮ್।
ತಾಂ ತೇ ದೃಷ್ಟ್ವಾ ತಥಾ ಕೃಷ್ಣಾಂ ಕ್ಷಮಿಣೋ ಧರ್ಮಚಾರಿಣಃ।
ಸಮಯಂ ನಾತಿವರ್ತಂತೇ ವೇಲಾಮಿವ ಮಹೋದಧಿಃ॥೬೧॥

ಸಾ ಪ್ರವಿಶ್ಯ ಪ್ರವೇಪಂತೀ ಸುದೇಷ್ಣಾಯಾ ನಿವೇಶನಮ್।
ರುದಂತೀ ಚಾರುಸರ್ವಾಂಗೀ ತಸ್ಯಾಸ್ತಸ್ಥಾವಥಾಗ್ರತಃ॥೬೨॥

ತಾಮುವಾಚ ವಿರಾಟಸ್ಯ ಮಹಿಷೀ ಶಾಠ್ಯಮಾಸ್ಥಿತಾ।
ಕಿಮಿದಂ ಪದ್ಮಸಂಕಾಶಂ ಸುದಂತೋಷ್ಠಾಕ್ಷಿನಾಸಿಕಮ್॥೬೩॥

ರುದಂತ್ಯಾ ಅವಮೃಷ್ಟಾಸ್ರಂ ಪೂರ್ಣೇಂದುಸಮವರ್ಚಸಮ್।
ಬಿಂಬೋಷ್ಠಂ ಕೃಷ್ಣತಾರಾಭ್ಯಾಮತ್ಯಂತರುಚಿರಪ್ರಭಮ್।
ನಯನಾಭ್ಯಾಮಜಿಹ್ಮಾಭ್ಯಾಂ ಮುಖಂ ತೇ ಮುಂಚತೇ ಜಲಮ್॥೬೪॥

ಕಸ್ತ್ವಾಽವಧೀದ್ ವರಾರೋಹೇ ಕಸ್ಮಾದ್ ರೋದಿಷಿ ಶೋಭನೇ।
ಕೋ ವಿಪ್ರಯುಜ್ಯತೇ ದಾರೈಃ ಸಪುತ್ರೈಃ ಸಹ ಬಾಂಧವೈಃ॥೬೫॥

ಕಸ್ಯಾದ್ಯ ರಾಜಾ ಕುಪಿತೋ ವಧಮಾಜ್ಞಾಪಯಿಷ್ಯತಿ।
ಬ್ರೂಹಿ ಕಿಂ ತೇ ಪ್ರಿಯಂ ಕರ್ಮ ಕಂ ತ್ಯಜೇ ಘಾತಯಾಮಿ ವಾ॥೬೬॥
ಬ್ರೂಹಿ ಕಿಂ ತೇ ಪ್ರಿಯಂ ಕರ್ಮ ಕಂ ತ್ಯಜೇ ಘಾತಯಾಮಿ ವಾ॥೬೬॥
ವೈಶಂಪಾಯನ ಉವಾಚ
ತಾಂ ನಿಃಶ್ವಸ್ಯಾಬ್ರವೀತ್ ಕೃಷ್ಣಾ ಜಾನಂತೀ ನಾಮ ಪೃಚ್ಛಸಿ।
ಭ್ರಾತುಸ್ತ್ವಂ ಮಾಮನುಪ್ರೇಷ್ಯ ಕಿಮೇವಂ ಹಿ ವಿಕತ್ಥಸೇ॥೬೭॥

ಕೀಚಕೋ ಮಾಽವಧೀತ್ ತತ್ರ ಸುರಾಹಾರೀಮಿತೋಗತಾಮ್।
ಸಭಾಯಾಂ ಪಶ್ಯತೋ ರಾಜ್ಞೋ ಯಥಾ ವೈ ನಿರ್ಜನೇ ವನೇ॥೬೮॥

ಸುದೇಷ್ಣೋವಾಚ
ಘಾತಯಾಮಿ ಸುದಂತೋಷ್ಠಿ ಕೀಚಕಂ ಯದಿ ಮನ್ಯಸೇ।
ಭ್ರಾತಾ ಯದ್ಯೇಷ ಮೇ ವ್ಯಕ್ತಂ ಯೋಽತೀತೋ ಧರ್ಮಚಾರಿಣೀಮ್।
ಯಸ್ತ್ವಾಂ ಕಾಮಾಭಿಭೂತಾತ್ಮಾ ದುರ್ಲಭಾಮವಮನ್ಯತೇ॥೬೯॥
ಭ್ರಾತಾ ಯದ್ಯೇಷ ಮೇ ವ್ಯಕ್ತಂ ಯೋಽತೀತೋ ಧರ್ಮಚಾರಿಣೀಮ್।
ಯಸ್ತ್ವಾಂ ಕಾಮಾಭಿಭೂತಾತ್ಮಾ ದುರ್ಲಭಾಮವಮನ್ಯತೇ॥೬೯॥
ದ್ರೌಪದ್ಯುವಾಚ
ಅದ್ಯೈವ ತಂ ಹನಿಷ್ಯಂತಿ ಯೇಷಾಮಾಗಸ್ಕರೋ ಹಿ ಸಃ।
ಮನ್ಯೇಽಹಮದ್ಯ ವಾ ಶ್ವೋ ವಾ ಪರಲೋಕಂ ಗಮಿಷ್ಯತಿ॥೭೦॥

ಭ್ರಾತುಃ ಪ್ರಯಚ್ಛ ತ್ವರಿತಾ ಜೀವಚ್ಛ್ರಾದ್ಧಂ ತ್ವಮದ್ಯ ವೈ।
ಸುಹೃಷ್ಟಂ ಕುರು ವೈ ಚೈನಂ ನಾಸೂನ್ಮನ್ಯೇ ಧರಿಷ್ಯತಿ॥೭೧॥

ತೇಷಾಂ ಹಿ ಮಮ ಭರ್ತೄಣಾಂ ಪಂಚಾನಾಂ ಧರ್ಮಚಾರಿಣಾಮ್।
ಏಕೋ ದುರ್ಧರ್ಷಣೋಽತ್ಯರ್ಥಂ ಬಲೇ ಚಾಪ್ರತಿಮೋ ಭುವಿ॥೭೨॥

ನಿರ್ಮನುಷ್ಯಮಿಮಂ ಲೋಕಂ ಕುರ್ಯಾತ್ ಕ್ರುದ್ಧೋ ನಿಶಾಮಿಮಾಮ್।
ನ ಸ ಸಂಕ್ರುಧ್ಯತೇ ತಾವದ್ ಗಂಧರ್ವಃ ಕಾಮರೂಪಧೃತ್॥೭೩॥

ನೂನಂ ಜ್ಞಾಸ್ಯತಿ ಯಾವದ್ ವೈ ಮಮೈತತ್ ಪಾದಘಾತನಮ್।
ತತ್ಕ್ಷಣಾತ್ ಕೀಚಕಃ ಪಾಪಃ ಸಪುತ್ರಭ್ರಾತೃಬಾಂಧವಃ।
ವಿನಶಿಷ್ಯತಿ ದುಷ್ಟಾತ್ಮಾ ಯಥಾ ದುಷ್ಕೃತಕರ್ಮಕೃತ್॥೭೪॥

ಅಪಿ ಚೈತತ್ ಪುರಾ ಪ್ರೋಕ್ತಂ ನಿಪುಣೈರ್ಮನುಜೋತ್ತಮೈಃ।
ಏಕಸ್ತು ಕುರುತೇ ಪಾಪಂ ಕಾಲಪಾಶವಶಂ ಗತಃ।
ನೀಚೇನಾಽಽತ್ಮಾಪರಾಧೇನ ಕುಲಂ ತೇನ ವಿನಶ್ಯತಿ॥೭೫॥
ಏಕಸ್ತು ಕುರುತೇ ಪಾಪಂ ಕಾಲಪಾಶವಶಂ ಗತಃ।
ನೀಚೇನಾಽಽತ್ಮಾಪರಾಧೇನ ಕುಲಂ ತೇನ ವಿನಶ್ಯತಿ॥೭೫॥
ವೈಶಂಪಾಯನ ಉವಾಚ
ಸುದೇಷ್ಣಾಮೇವಮುಕ್ತ್ವಾ ತು ಸೈರಂಧ್ರೀ ದುಃಖಮೋಹಿತಾ।
ಕೀಚಕಸ್ಯ ವಧಾರ್ಥಾಯ ವ್ರತದೀಕ್ಷಾಮುಪಾಗಮತ್॥೭೬॥
ಕೀಚಕಸ್ಯ ವಧಾರ್ಥಾಯ ವ್ರತದೀಕ್ಷಾಮುಪಾಗಮತ್॥೭೬॥
ಅಭ್ಯರ್ಥಿತಾ ಚ ನಾರೀಭಿರ್ಮಾನಿತಾ ಚ ಸುದೇಷ್ಣಯಾ।
ನ ಚ ಸ್ನಾತಿ ನ ಚಾಶ್ನಾತಿ ನ ಪಾಂಸೂನ್ ಪರಿಮಾರ್ಜತಿ।
ರುಧಿರಕ್ಲಿನ್ನವದನಾ ಬಭೂವ ಮೃದಿತೇಕ್ಷಣಾ॥೭೭॥

ತಾಂ ತಥಾ ಶೋಕಸಂತಪ್ತಾಂ ದೃಷ್ಟ್ವಾ ಪ್ರರುದಿತಾಂ ಸ್ತ್ರಿಯಃ।
ಕೀಚಕಸ್ಯ ವಧಂ ಸರ್ವಾ ಮನೋಭಿಶ್ಚ ಶಶಂಸಿರೇ॥೭೮॥
ಕೀಚಕಸ್ಯ ವಧಂ ಸರ್ವಾ ಮನೋಭಿಶ್ಚ ಶಶಂಸಿರೇ॥೭೮॥
॥ಇತಿ ಶ್ರೀಮನ್ಮಹಾಭಾರತೇ ವಿರಾಟಪರ್ವಣಿ ಕೀಚಕವಧಪರ್ವಣಿ ವಿಂಶೋಽಧ್ಯಾಯಃ॥೨೦॥
Viṃśo'dhyāyaḥ||20||
vaiśampāyana uvāca
evaṃ vilapamānāyāṃ pāñcālyāṃ matsyapuṅgavaḥ|
aśaktaḥ kīcakaṃ tatra śāsituṃ baladarpitam|
virāṭarājaḥ sūtaṃ tu sāntvenaiva nyavārayat||1||

kīcakaṃ matsyarājena kṛtāgasamaninditā|
nāparādhānurūpeṇa daṇḍena pratipāditam||2||

pāñcālarājasya sutā dṛṣṭvā surasutopamā|
dharmajñā vyavahārāṇāṃ kīcake kṛtakilbiṣe|
punaḥ provāca rājānaṃ smarantī dharmamuttamam||3||

samprekṣya ca varārohā sarvāṃstatra sabhāsadaḥ|
rājānuvartanaparān kīcakaṃ ca kṛtāgasam|
virāṭaṃ cā''ha pāñcālī duḥkhenā''viṣṭacetanā||4||

na rājan rājavat kiñcit samācarasi kīcake|
dasyūnāmiva te dharmo na satsu parivartate||5||

na kīcakaḥ svadharmastho na ca matsyaḥ kathañcana|
sabhāsado'pyadharmajñā ya imaṃ paryupāsate||6||

na dharmaṃ kīcako vetti rājabhṛtyāstathaiva ca|
na rājā vinayaṃ brūte amātyāśca na jānate||7||

nopālabhe tvāṃ nṛpate virāṭaṃ nṛpasaṃsadi|
nāhametena yuktā vai hantuṃ mātsya tavāntike||8||

sabhāsadastu paśyantu kīcakaṃ dharmalaṅghinam|
virāṭanṛpate paśya māmanāthāmanāgasam||9||

na sāma phalate duṣṭe duṣṭe daṇḍaḥ prayujyate||10||
adaṇḍyān daṇḍayan rājā daṇḍyāṃścaivāpyadaṇḍayan|
sa rājā na bhavelloke rājaśabdasya bhājanam||11||

dīnāndhakṛpaṇāśaktapaṅgukubjajaḍādikān|
anāthabālavṛddhāṃśca puruṣān vā striyo'pi vā|
duṣṭacorābhibhūtāṃśca pālayedavanīpatiḥ||12||

anāthānāṃ ca nāthaḥ syādapitṝṇāṃ pitā nṛpaḥ|
mātā bhavedamātṝṇāmagurūṇāṃ gururbhavet|
agatīnāṃ gatī rājā nṛṇāṃ rājā parāyaṇam||13||

viśeṣataḥ parairduṣṭaiḥ parāmṛṣṭaṃ narottamaḥ|
striyaṃ sādhvīmanāthāṃ ca pālayet svasutāmiva||14||

tvadgṛhāvasatiṃ rājannetāvat kālaparyayam|
adhikāṃ tvatsutāyāśca paśya māṃ kīcakāhatām||15||

virāṭa uvāca
parokṣaṃ nābhijānāmi vigrahaṃ yuvayoraham|
arthatattvamavijñāya kiṃ syādakuśalaṃ mama||16||

draupadyuvāca
yeṣāṃ na vairī svapiti padā bhūmimupaspṛśan|
teṣāṃ māṃ māninīṃ bhāryāṃ sūtaputraḥ padā'vadhīt||17||

ye ca dadyurna yāceyurbrahmaṇyāḥ satyavādinaḥ|
yeṣāṃ dundubhinirghoṣo jyāghoṣaḥ śrūyate bhṛśam|
teṣāṃ māṃ dayitāṃ bhāryāṃ sūtaputraḥ padā'vadhīt||18||

tejasvinastathā kṣāntā balavantaśca māninaḥ|
maheṣvāsā raṇe śūrā garvitā mānatatparāḥ|
teṣāṃ māṃ māninīṃ bhāryāṃ sūtaputraḥ padā'vadhīt||19||

sarvalokamimaṃ hanyuryadi kruddhā mahābalāḥ|
teṣāṃ māṃ dayitāṃ bhāryāṃ sūtaputraḥ padā'vadhīt||20||

yeṣāṃ nāsti samaḥ kaścid vīrye satye bale dame|
teṣāṃ māṃ dayitāṃ bhāryāṃ sūtaputraḥ padā'vadhīt||21||

yeṣāṃ na sadṛśaḥ kaścid dhanādyairbhuvi mānavaḥ|
teṣāṃ māṃ dayitāṃ bhāryāṃ sūtaputraḥ padā'vadhīt||22||

tavāgrato viśeṣeṇa prajānāṃ ca hitaiṣiṇaḥ|
paśyato nihatā rājaṃsteneha jagatīpate||23||

śaraṇaṃ ye prapannānāṃ bhavanti śaraṇārthinām|
caranti loke pracchannāḥ kva nu te'dya mahābalāḥ||24||

kathaṃ te sūtaputreṇa vadhyamānāṃ priyāṃ satīm|
marṣayanti yathā klībā balavanto'titejasaḥ||25||

kva nu teṣāmamarṣaśca vīryaṃ teṣāṃ ca tadbalam|
na parīpsanti ye bhāryāṃ vadhyamānāṃ durātmanā||26||

mayā'pi śakyaṃ kiṃ kartuṃ virāṭe dharmadūṣaṇe|
māṃ marṣayati yaḥ paśyanvadhyamānāmanāgasam||27||

dharmo viddho hyadharmeṇa sabhāṃ yatropatiṣṭhati|
na ced viśalyaḥ kriyate sarve viddhāḥ sabhāsadaḥ||28||

yatra dharmo hyadharmeṇa satyaṃ yatrānṛtena ca|
hanyate prekṣamāṇānāṃ hatāstatra sabhāsadaḥ||29||
hanyate prekṣamāṇānāṃ hatāstatra sabhāsadaḥ||29||
vaiśampāyana uvāca
tasyāstat kṛpaṇaṃ śrutvā sairandhryāḥ paridevitam|
tataḥ sabhyāstu te sarve bhūyaḥ kṛṣṇāmapūjayan|
sādhu sādhviti cāpyāhuḥ kīcakaṃ cāpyagarhayan||30||

kecit kṛṣṇāṃ praśaṃsanti kecinnindanti kīcakam|
kecinnindanti rājānaṃ kecid devīṃ ca tāṃ narāḥ||31||

sabhyā ūcuḥ
yasyeyaṃ cārusarvāṅgī bhāryā syādāyatekṣaṇā|
paro lābhaśca tasya syānna sa śocet kadācana||32||

yasyā gātraṃ śubhaṃ pīnaṃ mukhaṃ jayati paṅkajam|
gatirhaṃsaṃ smitaṃ kundaṃ saiṣā nārhati padvadham||33||

dvātriṃśaddaśanā yasyāḥ śvetā māṃsanibandhanāḥ|
snigdhāśca mṛdavaḥ keśāḥ saiṣā nārhati padvadham||34||

padmaṃ cakraṃ dhvajaṃ śaṅkhaṃ prāsādo makarastathā|
yasyāḥ pāṇitale santi saiṣā nārhati padvadham||35||

āvartāḥ khalu catvāraḥ sarve caiva pradakṣiṇāḥ|
samaṃ gātraṃ śubhaṃ snigdhaṃ yasyā nārhati padvadham||36||

acchidrahastapādā ca acchidradaśanā ca yā|
kanyā kamalapatrākṣī kathamarhati padvadham||37||

seyaṃ lakṣaṇasampannā pūrṇacandranibhānanā|
surūpiṇī suvadanā neyaṃ yogyā padā vadham||38||

devadevīva subhagā śakradevīva śobhanā|
apsarā iva sārūpyānneyaṃ yogyā padā vadham||39||

iti smāpūjayaṃstatra kṛṣṇāṃ prekṣya sabhāsadaḥ||40||
sā viniḥśvasya suśroṇī bhūmāvantarmukhī sthitā|
tūṣṇīmāsīt tadā dṛṣṭvā vivakṣantaṃ yudhiṣṭhiram||41||

yudhiṣṭhirasya kopāt tu lalāṭe sveda āsravat|
abravīd dharmaputro'tha sairandhrīṃ mahiṣīṃ priyām|
kṛṣṇāṃ tatra nṛpābhyāśe parivrājakarūpadhṛt||42||

gaccha sairandhri mā bhaistvaṃ sudeṣṇāyā niveśanam|
rājā hyayaṃ dharmaśīlo virāṭaḥ paralokabhīḥ|
yatastvāṃ na paritrāti satye dharmapathe sthitaḥ||43||

bhartāramanurundhantyaḥ kliśyante vīrapatnayaḥ|
śuśrūṣayā kliśyamānāḥ patilokaṃ jayantyuta||44||

manye na kālaḥ krodhasya paśyanti patayastava|
tena tvāṃ nābhidhāvanti gandharvāḥ sūryavarcasaḥ||45||

śrūyantāṃ te sukeśānte mokṣadharmāśrayāḥ kathāḥ|
yathā dharmaḥ kulastrīṇāṃ dṛṣṭo dharmānurodhanāt||46||

nāsti yajñaḥ striyāḥ kaścinna śrāddhaṃ nāpyupoṣaṇam|
yā tu bhartari śuśrūṣā sā svargāyābhijāyate||47||

pitā rakṣati kaumāre bhartā rakṣati yauvane|
putrastu sthāvire bhāve na strī svātantryamarhati||48||

bhīru bhartṛbhayāt patnyo na krudhyanti kadācana|
bahubhiśca parikleśairavajñātāśca śatrubhiḥ|
ananyabhāvāḥ śuddhāśca puṇyalokaṃ jayantyuta||49||

na krodhakālaṃ niyataṃ paśyanti patayastava|
na kruddhān pratiyāyād vai patīṃste vṛtrahā api|
tena tvāṃ nābhidhāvanti gandharvāḥ kāmarūpiṇaḥ||50||

yadi te samayaḥ kaścit kṛto hyāyatalocane|
taṃ smarasva kṣamāśīle kṣamā dharmo hyanuttamaḥ||51||

kṣamā dharmaḥ kṣamā satyaṃ kṣamā dānaṃ kṣamā tapaḥ|
kṣamāvatāmayaṃ lokaḥ paralokaḥ kṣamāvatām||52||

dvyaṃśino dvādaśāṅgasya caturviṃśatiparvaṇaḥ|
kastriṣaṣṭiśatārasya māsonasyākṣamī bhavet||53||

gaccha sairandhri gandharvāḥ kariṣyanti tava priyam|
vyapaneṣyanti te duḥkhaṃ yena te vipriyaṃ kṛtam||54||

ityevamukte tiṣṭhantīṃ punarevāha dharmarāṭ|
vighnaṃ karoṣi vai bhadre dīvyatāṃ rājasaṃsadi||55||

tasmāt tvamapi suśroṇi śailūṣīva vibhāsi naḥ|
evamuktā tu sā bhartrā samudvīkṣyābravīdidam||56||

satyamuktaṃ tvayā vidvañchailūṣīṃ viddhi māṃ punaḥ|
śailūṣakasya tasyāhaṃ yeṣāṃ jyeṣṭho'kṣakovidaḥ||57||

evamuktvā varārohā parimṛjyānanaṃ śubham|
keśān vimuktān saṃyamya rudhireṇa samukṣitān||58||

pāṃsukuṇṭhitasarvāṅgī gajarājavadhūriva|
pratasthe nāganāsorūrbharturājñāya śāsanam||59||

vimuktā mṛgaśāvākṣī nirantarapayodharā|
prabhā nakṣatrarājasya kālameghairivāvṛtā||60||

yasyārthe pāṇḍaveyāstu tyajeyurapi jīvitam|
tāṃ te dṛṣṭvā tathā kṛṣṇāṃ kṣamiṇo dharmacāriṇaḥ|
samayaṃ nātivartante velāmiva mahodadhiḥ||61||

sā praviśya pravepantī sudeṣṇāyā niveśanam|
rudantī cārusarvāṅgī tasyāstasthāvathāgrataḥ||62||

tāmuvāca virāṭasya mahiṣī śāṭhyamāsthitā|
kimidaṃ padmasaṅkāśaṃ sudantoṣṭhākṣināsikam||63||

rudantyā avamṛṣṭāsraṃ pūrṇendusamavarcasam|
bimboṣṭhaṃ kṛṣṇatārābhyāmatyantaruciraprabham|
nayanābhyāmajihmābhyāṃ mukhaṃ te muñcate jalam||64||

kastvā'vadhīd varārohe kasmād rodiṣi śobhane|
ko viprayujyate dāraiḥ saputraiḥ saha bāndhavaiḥ||65||

kasyādya rājā kupito vadhamājñāpayiṣyati|
brūhi kiṃ te priyaṃ karma kaṃ tyaje ghātayāmi vā||66||
brūhi kiṃ te priyaṃ karma kaṃ tyaje ghātayāmi vā||66||
vaiśampāyana uvāca
tāṃ niḥśvasyābravīt kṛṣṇā jānantī nāma pṛcchasi|
bhrātustvaṃ māmanupreṣya kimevaṃ hi vikatthase||67||

kīcako mā'vadhīt tatra surāhārīmitogatām|
sabhāyāṃ paśyato rājño yathā vai nirjane vane||68||

sudeṣṇovāca
ghātayāmi sudantoṣṭhi kīcakaṃ yadi manyase|
bhrātā yadyeṣa me vyaktaṃ yo'tīto dharmacāriṇīm|
yastvāṃ kāmābhibhūtātmā durlabhāmavamanyate||69||
bhrātā yadyeṣa me vyaktaṃ yo'tīto dharmacāriṇīm|
yastvāṃ kāmābhibhūtātmā durlabhāmavamanyate||69||
draupadyuvāca
adyaiva taṃ haniṣyanti yeṣāmāgaskaro hi saḥ|
manye'hamadya vā śvo vā paralokaṃ gamiṣyati||70||

bhrātuḥ prayaccha tvaritā jīvacchrāddhaṃ tvamadya vai|
suhṛṣṭaṃ kuru vai cainaṃ nāsūnmanye dhariṣyati||71||

teṣāṃ hi mama bhartṝṇāṃ pañcānāṃ dharmacāriṇām|
eko durdharṣaṇo'tyarthaṃ bale cāpratimo bhuvi||72||

nirmanuṣyamimaṃ lokaṃ kuryāt kruddho niśāmimām|
na sa saṅkrudhyate tāvad gandharvaḥ kāmarūpadhṛt||73||

nūnaṃ jñāsyati yāvad vai mamaitat pādaghātanam|
tatkṣaṇāt kīcakaḥ pāpaḥ saputrabhrātṛbāndhavaḥ|
vinaśiṣyati duṣṭātmā yathā duṣkṛtakarmakṛt||74||

api caitat purā proktaṃ nipuṇairmanujottamaiḥ|
ekastu kurute pāpaṃ kālapāśavaśaṃ gataḥ|
nīcenā''tmāparādhena kulaṃ tena vinaśyati||75||
ekastu kurute pāpaṃ kālapāśavaśaṃ gataḥ|
nīcenā''tmāparādhena kulaṃ tena vinaśyati||75||
vaiśampāyana uvāca
sudeṣṇāmevamuktvā tu sairandhrī duḥkhamohitā|
kīcakasya vadhārthāya vratadīkṣāmupāgamat||76||

abhyarthitā ca nārībhirmānitā ca sudeṣṇayā|
na ca snāti na cāśnāti na pāṃsūn parimārjati|
rudhiraklinnavadanā babhūva mṛditekṣaṇā||77||

tāṃ tathā śokasantaptāṃ dṛṣṭvā praruditāṃ striyaḥ|
kīcakasya vadhaṃ sarvā manobhiśca śaśaṃsire||78||

||iti śrīmanmahābhārate virāṭaparvaṇi kīcakavadhaparvaṇi viṃśo'dhyāyaḥ||20||