Home / Mahabharata / Virāṭaparva

Caturdaśo'dhyāyaḥ||14||

Virāṭaparva

चतुर्दशोऽध्यायः॥१४॥

वैशम्पायन उवाच

ततः कृष्णा सुकेशी सा दर्शनीया शुचिस्मिता।
वेणीकेशान् समुत्क्षिप्य पीनवृत्तकुचा शुभा।
जुगूहे दक्षिणे पार्श्वे मृदूनसितलोचना॥१॥
वासश्च परिधायैकं कृष्णा सुमलिनं महत्।
कृत्वा वेषं च सैरन्ध्र्याः कृष्णा व्यचरदार्तवत्॥२॥
प्रविष्टा नगरं भीरूः सैरन्ध्रीवेषसंयुता।
तां नराः परिधावन्तः स्त्रियश्च समुपाद्रवन्॥३॥
अपृच्छंस्ते च तां दृष्ट्वा का त्वं किं च चिकीर्षसि।
सा तानुवाच राजेन्द्र सैरन्ध्र्यहमुपागता।
कर्म चेच्छामि वै कर्तुं तस्य या मां भरिष्यति॥४॥

वैशम्पायन उवाच

तस्या रूपेण वेषेण श्लक्ष्णया च गिरा तथा।
न श्रद्दधानास्तां देवीमन्नहेतोरुपस्थिताम्॥५॥
विराटस्य तु कैकेयी भार्या परमसम्मता।
आलोकयन्ती ददृशे प्रासादाद् द्रुपदात्मजाम्॥६॥
सा समीक्ष्य तथारूपामनाथामेकवाससम्।
स्त्रीभिश्च पुरुषैश्चापि सर्वतः परिवारिताम्॥७॥
विराटभार्या तां देवी कारुण्याज्जातसम्भ्रमा।
अप्रेषयत् समीपस्थाः स्त्रियो वृद्धाश्च तत्पराः॥८॥
अपनीय ततः सर्वा आनयध्वमिहैव ताम्।
यदा दृष्टा मया साध्वी कम्पते मे मनस्तदा।
तस्माच्छीघ्रमिहानाय्य दर्शयध्वं यदीच्छथ॥९॥
तास्तथोक्ता उपागम्य द्रौपदीं परिसङ्गताः।
आनीय सर्वथा त्वेनामब्रुवन्मधुराक्षरम्॥१०॥
भद्रे त्वां द्रष्टुमिच्छन्ती सुदेष्णा हर्म्यभूतले।
त्वदर्थं प्रैषयच्चास्मान् द्रष्टुं तां त्वं यदीच्छसि।
आयाह्यस्माभिरेवाद्य रक्ष्यमाणा यथेष्टतः॥११॥
तच्छ्रुत्वा द्रौपदी तासां वचनं वाक्यकोविदा।
ईप्सितार्थातिलाभेन हृष्टाऽऽयाता गृहोत्तमम्॥१२॥
राजवेश्म ह्युपाक्रम्य यत्राग्र्यमहिषी स्थिता।
सुदेष्णामगमत् कृष्णा राजभार्यां यशस्विनीम्॥१३॥
कृष्णान् केशान् मृदून् दीर्घान् समुद्ग्रथ्यासितेक्षणा।
कुञ्चिताग्रांस्तु सूक्ष्माग्रान् दर्शनीयान्निबध्य च।
जुगूहे दक्षिणे पार्श्वे मृदूनायतलोचना॥१४॥
सा प्रविश्य विराटस्य द्रौपद्यन्तःपुरं शुभा।
ह्रीनिषेवान्विता बाला कम्पमाना लतेव सा॥१५॥
अभिगम्य च सुश्रोणी सर्वलक्षणसंयुता।
ददर्शावस्थितां हैमे पीठे रत्नपरिच्छदे॥१६॥
रक्तसूक्ष्माम्बरधरां मेघे सौदामिनीमिव।
नानावर्णविचित्रां च सर्वाभरणभूषिताम्॥१७॥
सुभ्रूं सुकेशीं सुश्रोणीं कुब्जवामनमध्यगाम्।
बहुपुष्पोपकीर्णायां भूम्यां वेदिमिवाध्वरे॥१८॥
सुदेष्णां राजमहिषीं सर्वालङ्कारभूषिताम्।
श्रीमतीं राजपुत्रीणां शतेन परिवारिताम्॥१९॥
ताः सर्वा द्रौपदीं दृष्ट्वा सन्तप्ताः परमाङ्गनाः।
परितश्चोपतस्थुस्ताः सहसोत्थाय चाऽऽसनात्॥२०॥
निरीक्षमाणाः सर्वास्ताः शचीं देवीमिवागताम्।
गूढगुल्फां वरारोहां कृष्णां ताम्रायतेक्षणाम्।
अतिसर्वानवद्याङ्गीं नतगात्रीं सुमध्यमाम्॥२१॥
न ह्रस्वां नातिमहतीं जातां बहुतृणे वने।
ऋश्यरोहीमिवानिन्द्यां सुकेशीं मृगलोचनाम्॥२२॥
तां मृगीमिव वित्रस्तां यूथभ्रष्टामिव द्विपाम्।
लक्ष्मीमिव विशालाक्षीं विद्यामिव यशस्विनीम्॥२३॥
रोहिणीमिव ताराणां दीप्तामग्निशिखामिव।
पार्वतीमिव रुद्राणीं वेलामिव महोदधेः॥२४॥
सुलभामिव नागीनां मृगीणामिव किन्नरीम्।
गङ्गामिव विशुद्धाङ्गीं शारदीमिव शर्वरीम्॥२५॥
तामचिन्त्यतमां लोके इलामिव यशस्विनीम्।
सावित्रीमिव दुर्धर्षां ब्राह्म्या लक्ष्म्या समन्विताम्॥२६॥
सीतामिव सतीं शुद्धामरुन्धतीमिव प्रियाम्।
सुदेष्णा पर्यपृच्छत् तां विस्मयोत्फुल्ललोचना॥२७॥
का त्वं सर्वानवद्याङ्गि कुतोऽसि त्वमिहागता।
कस्य वा त्वं विशालाक्षि किं वा ते करवाण्यहम्॥२८॥
गूढगुल्फा समानोरूस्त्रिगम्भीरा षडुन्नता।
स्निग्धा पञ्चसु रक्तेषु हंसगद्गदभाषिणी॥२९॥
सुकेशी सुस्वरा श्यामा पीनश्रोणीपयोधरा।
अरालपक्ष्मनयना बिम्बोष्ठी तनुमध्यमा॥३०॥
कम्बुग्रीवा गूढसिरा पूर्णचन्द्रनिभानना।
दानवी किन्नरी वा त्वं गन्धर्वी वनदेवता॥३१॥
अप्सरा वाऽसि नागी वा तारा वा त्वं विलासिनी।
अलम्बुसा मिश्रकेशी पुण्डरीकाऽथ मालिनी॥३२॥
तेन तेनैव सम्पन्ना काश्मीरीव तुरङ्गमा।
इन्द्राणी त्वथ रुद्राणी स्वधा वाऽप्यथवा रतिः॥३३॥
देवि देवेषु विख्याता ब्रूहि का त्वमिहागता।
तव ह्यनुपमं रूपं भूषणैरपि वर्जितम्॥३४॥
त्वां सृष्ट्वोपरतं मन्ये लोककर्तारमीश्वरम्।
न तृप्यन्ति स्त्रियो दृष्ट्वा का न पुंसां रतिर्भवेत्॥३५॥
प्रवालपुष्पस्तबकैराचिता वनदेवताः।
त्वामेव हि निरीक्षन्ते विस्मिता रूपसम्पदा॥३६॥
अन्तःपुरगता नार्यो मृगाः पक्षिगणा नराः।
सर्वे त्वामेव कल्याणि निरीक्षन्ते सुविस्मिताः॥३७॥
न त्वादृशी काचन मे त्रिषु लोकेषु सुन्दरी।
दृष्टपूर्वा श्रुता वाऽपि चक्षुषा विद्यते शुभा॥३८॥

द्रौपद्युवाच

नास्ति देवी न गन्धर्वी न यक्षी न च किन्नरी।
सैरन्ध्री नाम मे जातिर्वन्यमूलफलाशना॥३९॥
पतीनां प्रेक्षमाणानां कस्मिंश्चित् कारणान्तरे।
केशपाशे परामृष्टा साऽहं त्रस्ता वनं गता॥४०॥
तत्र द्वादशवर्षाणि वन्यमूलफलाशना।
चराम्यनिलया सुभ्रूः सा तवान्तिकमागता॥४१॥
जानामि केशान् ग्रथितुं विचित्रान् ग्रथितुं मणीन्।
मल्लिकोत्पलपद्मानां जानामि ग्रथितुं स्रजः॥४२॥
सिन्धुवारकजातीनां रचयाम्यवतंसकान्।
पत्रं मृगाङ्गमगरुं पिषे च हरिचन्दनम्।
ग्रथयिष्यामि चित्राश्च स्रजः परमशोभनाः॥४३॥
आराधनं सत्यभामां कृष्णस्य महिषीं प्रियाम्।
कृष्णां च भार्यां पार्थानां नारीणामुत्तमां तथा॥४४॥
तथाऽस्मि सुभ्रुवा चाहमिष्टलाभेन तोषिता।
मालिनी चेति मे नाम स्वयं देवी चकार ह।
कृष्णा कमलपत्राक्षी सा मे प्राणसमा सखी॥४५॥
न चाहं चिरमिच्छामि क्वचिद् वस्तुं शुभानने।
व्रतं किलैतदस्माकं कुलधर्मोऽयमीदृशः॥४६॥
योऽस्माकं तु हरेद्द्रव्यं देशं वसनमेव वा।
न क्रोद्धव्यं किलास्माभिरस्मद्गुरुरमर्षणः॥४७॥
साऽहं वनानि दुर्गाणि तीर्थानि च सरांसि च।
शैलांश्च विविधान् रम्यान् सरितश्च समुद्रगाः॥४८॥
भर्तृशोकपरीताङ्गी भर्तृसब्रह्मचारिणी।
विचरामि महीं दुर्गां यत्र सायन्निवेशना॥४९॥
वीरपत्नी यदा देवी चरमाणेषु भर्तृषु।
साऽहं विवत्सा विधिना गन्धमादनपर्वतात्।
शृणोमि तव सौशील्यं भर्तुर्मधुरभाषिणि॥५०॥
माहात्म्यं च ततः श्रुत्वा ब्राह्मणानां समीपतः।
त्वामुपस्थातुमिच्छामि ततश्चाहमिहागता॥५१॥
गुरवो मम धर्मश्च वायुः शक्रस्तथाऽश्विनौ।
तेषां प्रसादाच्च न मां कश्चिद् धर्षयते पुमान्॥५२॥

वैशम्पायन उवाच

एवमुक्त्वा सुदेष्णां तां कृताञ्जलिपुटा स्थिता।
साऽब्रवीद् विस्मयाविष्टा द्रौपदीं योषितां वराम्॥५३॥
न भरेयमहं भद्रे संशयो मम विद्यते।
राजा त्वयं हि त्वां दृष्ट्वा मतिं पापां करिष्यति॥५४॥
साऽहं त्वां न क्षमां मन्ये वसन्तीमिह वेश्मनि।
एष दोषोऽस्ति सुश्रोणि कथं वा भीरु मन्यसे॥५५॥
स्थिता राजकुले नार्यो याश्चेमा मम वेश्मनि।
त्वामेवैकां निरीक्षन्ते विस्मयाद् वरवर्णिनि॥५६॥
वृक्षांश्चोपस्थितान् पश्य य इमे मम वेश्मनि।
विनमन्ते हि त्वां दृष्ट्वा पुमांसं कं न लोभयेः॥५७॥
बिभर्षि परमं रूपमतिमानुषमद्भुतम्।
तिर्यग्योनिगताश्चापि निरीक्षन्ते सविस्मयाः।
तव रूपमनिन्द्याङ्गि किं पुनर्मानवा भुवि॥५८॥
राजा विराटः सुश्रोणि दृष्ट्वा ते परमं वपुः।
मां विहाय वरारोहे त्वां गच्छेत् सर्वचेतसा॥५९॥
यं हि त्वमनवद्याङ्गी नरमायतलोचने।
सुप्रसन्ना हि वीक्षेथाः स कामवशगो भवेत्॥६०॥
सुस्नाताऽलङ्कृता हि त्वं यमीक्षेथा हि मानुषम्।
ग्लानिर्न तस्य दुःखं वा न तन्द्रिर्न पराजयः॥६१॥
न शोको न च सन्तापो न क्रोधो नानृतं वदे।
यं त्वं सर्वानवद्याङ्गि भजेथाः समलङ्कृता॥६२॥
न व्याधिर्न जरा तस्य न तृष्णा न क्षुधा भवेत्।
यस्य त्वं वशगा सुभ्रु भवेरङ्कगता सती॥६३॥
पञ्चत्वमपि सम्प्राप्तं यं च त्वं परिषस्वजेः।
बाहुभ्यामनुरूपाभ्यां स जीवेदिति मे मतिः॥६४॥
यस्य हि त्वं भवेर्भार्या यं च हृष्टा परिष्वजेः।
अतिजीवेत् स सर्वेषु देवेष्विव पुरन्दरः॥६५॥
अध्यारोहेद् यथा वृक्षं यथा वाऽऽरुह्य तक्षति।
राजवेश्मनि वामोरु ननु स्यास्त्वं तथा मम॥६६॥
यथा कर्कटकी गर्भमाधत्ते मृत्युमात्मनः।
तथाविधमहं मन्ये तव सुभ्रु समागमम्॥६७॥
अनुमानये त्वां सैरन्ध्रि नावमन्ये कथञ्चन।
भर्तृशीलभयाद् भद्रे तव वासं न रोचये॥६८॥

सैरन्ध्र्युवाच

नाहं शक्या विराटेन यद् वा चान्येन केनचित्।
देवगन्धर्वयक्षैर्वा द्रष्टुं दुष्टेन चेतसा॥६९॥
गन्धर्वाः पालयन्ते मां सुकुलाः पञ्च सुव्रताः।
पुत्रा देवादिदेवानां सूर्यपावकवर्चसः॥७०॥
यश्च दुःशीलवान् मर्त्यो मां स्पृशेद् दुष्टचेतसा।
स तामेव निशां शीघ्रं शयीत मुसलैर्हतः॥७१॥
यस्यापि हि शतं पूर्णं बान्धवानां भवेदपि।
सहस्रं वा विशालाक्षि कोटिर्वाऽपि सहस्रिका।
दुष्टचित्तश्च मां ब्रूयान्न स जीवेत् तवाग्रतः॥७२॥
न तस्य त्रिदशा देवा नासुरा न च पन्नगाः।
तेभ्यो गन्धर्वराजेभ्यस्त्राणं कुर्युरसंशयम्॥७३॥
सुदेष्णे विश्वस त्वं मां स्वजने बान्धवेऽपि वा।
नाहं शक्या नरैर्द्रष्टुं न च मे वृत्तमीदृशम्॥७४॥
यो मे न दद्यादुच्छिष्टं न च पादौ प्रधावयेत्।
प्रीयेरंस्तेन वासेन गन्धर्वाः पतयो मम॥७५॥
यो हि मां पुरुषो गृद्ध्येद् यथाऽन्याः प्राकृतस्त्रियः।
तामेव स इमां रात्रिं प्रविशेदपरां तनुम्॥७६॥
न चाप्यहं चालयितुं शक्या केनचिदङ्गने।
दुःखशीलाश्च गन्धर्वास्त इमे बलिनः प्रियाः।
एवं निवसमानायां मयि मा ते भयं हि भूत्॥७७॥

वैशम्पायन उवाच

एवमुक्ता तु सैरन्ध्र्या सुदेष्णा वाक्यमब्रवीत्।
वसेह मयि कल्याणि यदि ते वृत्तमीदृशम्॥७८॥
कश्च ते दातुमुच्छिष्टं पुमानर्हति भामिनि।
प्रसारयेच्च कः पादौ लक्ष्मीं दृष्ट्वैव बुद्धिमान्॥७९॥
एवमाचारसम्पन्ना एवं देवपरायणा।
रक्ष्या त्वमसि भूतानां सावित्रीवद् द्विजन्मनाम्॥८०॥
देवता इव कल्याणि पूजिता वरवर्णिनी।
वस भद्रे मयि प्रीता प्रीतिर्हि मयि वर्तते।
सर्वकामैः प्रमुदिता निरुद्विग्नमनाः सुखम्॥८१॥

वैशम्पायन उवाच

सुदेष्णयैवमुक्ता सा सम्प्रीता चारुहासिनी।
निर्विशङ्का विराटस्य विवेशान्तःपुरं सुखम्॥८२॥
याज्ञसेनी सुदेष्णां तु शुश्रूषन्ती विशाम्पते।
अवसत् परिचारार्हा सुदुःखं जनमेजय॥८३॥
एवं विराटे न्यवसंस्तु पाण्डवाः
कृष्णा तथाऽन्तःपुरमेत्य शोभना।
अज्ञातचर्यां प्रतिरुद्धमानसा
यथाऽग्रथो भस्मनि गूढतेजसः॥८४॥

॥इति श्रीमन्महाभारते विराटपर्वणि पाण्डवप्रवेशपर्वणि चतुर्दशोऽध्यायः॥१४॥

पाण्डवप्रवेशपर्व समाप्तम्॥१॥

ಚತುರ್ದಶೋಽಧ್ಯಾಯಃ॥೧೪॥

ವೈಶಂಪಾಯನ ಉವಾಚ

ತತಃ ಕೃಷ್ಣಾ ಸುಕೇಶೀ ಸಾ ದರ್ಶನೀಯಾ ಶುಚಿಸ್ಮಿತಾ।
ವೇಣೀಕೇಶಾನ್ ಸಮುತ್ಕ್ಷಿಪ್ಯ ಪೀನವೃತ್ತಕುಚಾ ಶುಭಾ।
ಜುಗೂಹೇ ದಕ್ಷಿಣೇ ಪಾರ್ಶ್ವೇ ಮೃದೂನಸಿತಲೋಚನಾ॥೧॥
ವಾಸಶ್ಚ ಪರಿಧಾಯೈಕಂ ಕೃಷ್ಣಾ ಸುಮಲಿನಂ ಮಹತ್।
ಕೃತ್ವಾ ವೇಷಂ ಚ ಸೈರಂಧ್ರ್ಯಾಃ ಕೃಷ್ಣಾ ವ್ಯಚರದಾರ್ತವತ್॥೨॥
ಪ್ರವಿಷ್ಟಾ ನಗರಂ ಭೀರೂಃ ಸೈರಂಧ್ರೀವೇಷಸಂಯುತಾ।
ತಾಂ ನರಾಃ ಪರಿಧಾವಂತಃ ಸ್ತ್ರಿಯಶ್ಚ ಸಮುಪಾದ್ರವನ್॥೩॥
ಅಪೃಚ್ಛಂಸ್ತೇ ಚ ತಾಂ ದೃಷ್ಟ್ವಾ ಕಾ ತ್ವಂ ಕಿಂ ಚ ಚಿಕೀರ್ಷಸಿ।
ಸಾ ತಾನುವಾಚ ರಾಜೇಂದ್ರ ಸೈರಂಧ್ರ್ಯಹಮುಪಾಗತಾ।
ಕರ್ಮ ಚೇಚ್ಛಾಮಿ ವೈ ಕರ್ತುಂ ತಸ್ಯ ಯಾ ಮಾಂ ಭರಿಷ್ಯತಿ॥೪॥

ವೈಶಂಪಾಯನ ಉವಾಚ

ತಸ್ಯಾ ರೂಪೇಣ ವೇಷೇಣ ಶ್ಲಕ್ಷ್ಣಯಾ ಚ ಗಿರಾ ತಥಾ।
ನ ಶ್ರದ್ದಧಾನಾಸ್ತಾಂ ದೇವೀಮನ್ನಹೇತೋರುಪಸ್ಥಿತಾಮ್॥೫॥
ವಿರಾಟಸ್ಯ ತು ಕೈಕೇಯೀ ಭಾರ್ಯಾ ಪರಮಸಮ್ಮತಾ।
ಆಲೋಕಯಂತೀ ದದೃಶೇ ಪ್ರಾಸಾದಾದ್ ದ್ರುಪದಾತ್ಮಜಾಮ್॥೬॥
ಸಾ ಸಮೀಕ್ಷ್ಯ ತಥಾರೂಪಾಮನಾಥಾಮೇಕವಾಸಸಮ್।
ಸ್ತ್ರೀಭಿಶ್ಚ ಪುರುಷೈಶ್ಚಾಪಿ ಸರ್ವತಃ ಪರಿವಾರಿತಾಮ್॥೭॥
ವಿರಾಟಭಾರ್ಯಾ ತಾಂ ದೇವೀ ಕಾರುಣ್ಯಾಜ್ಜಾತಸಂಭ್ರಮಾ।
ಅಪ್ರೇಷಯತ್ ಸಮೀಪಸ್ಥಾಃ ಸ್ತ್ರಿಯೋ ವೃದ್ಧಾಶ್ಚ ತತ್ಪರಾಃ॥೮॥
ಅಪನೀಯ ತತಃ ಸರ್ವಾ ಆನಯಧ್ವಮಿಹೈವ ತಾಮ್।
ಯದಾ ದೃಷ್ಟಾ ಮಯಾ ಸಾಧ್ವೀ ಕಂಪತೇ ಮೇ ಮನಸ್ತದಾ।
ತಸ್ಮಾಚ್ಛೀಘ್ರಮಿಹಾನಾಯ್ಯ ದರ್ಶಯಧ್ವಂ ಯದೀಚ್ಛಥ॥೯॥
ತಾಸ್ತಥೋಕ್ತಾ ಉಪಾಗಮ್ಯ ದ್ರೌಪದೀಂ ಪರಿಸಂಗತಾಃ।
ಆನೀಯ ಸರ್ವಥಾ ತ್ವೇನಾಮಬ್ರುವನ್ಮಧುರಾಕ್ಷರಮ್॥೧೦॥
ಭದ್ರೇ ತ್ವಾಂ ದ್ರಷ್ಟುಮಿಚ್ಛಂತೀ ಸುದೇಷ್ಣಾ ಹರ್ಮ್ಯಭೂತಲೇ।
ತ್ವದರ್ಥಂ ಪ್ರೈಷಯಚ್ಚಾಸ್ಮಾನ್ ದ್ರಷ್ಟುಂ ತಾಂ ತ್ವಂ ಯದೀಚ್ಛಸಿ।
ಆಯಾಹ್ಯಸ್ಮಾಭಿರೇವಾದ್ಯ ರಕ್ಷ್ಯಮಾಣಾ ಯಥೇಷ್ಟತಃ॥೧೧॥
ತಚ್ಛ್ರುತ್ವಾ ದ್ರೌಪದೀ ತಾಸಾಂ ವಚನಂ ವಾಕ್ಯಕೋವಿದಾ।
ಈಪ್ಸಿತಾರ್ಥಾತಿಲಾಭೇನ ಹೃಷ್ಟಾಽಽಯಾತಾ ಗೃಹೋತ್ತಮಮ್॥೧೨॥
ರಾಜವೇಶ್ಮ ಹ್ಯುಪಾಕ್ರಮ್ಯ ಯತ್ರಾಗ್ರ್ಯಮಹಿಷೀ ಸ್ಥಿತಾ।
ಸುದೇಷ್ಣಾಮಗಮತ್ ಕೃಷ್ಣಾ ರಾಜಭಾರ್ಯಾಂ ಯಶಸ್ವಿನೀಮ್॥೧೩॥
ಕೃಷ್ಣಾನ್ ಕೇಶಾನ್ ಮೃದೂನ್ ದೀರ್ಘಾನ್ ಸಮುದ್ಗ್ರಥ್ಯಾಸಿತೇಕ್ಷಣಾ।
ಕುಂಚಿತಾಗ್ರಾಂಸ್ತು ಸೂಕ್ಷ್ಮಾಗ್ರಾನ್ ದರ್ಶನೀಯಾನ್ನಿಬಧ್ಯ ಚ।
ಜುಗೂಹೇ ದಕ್ಷಿಣೇ ಪಾರ್ಶ್ವೇ ಮೃದೂನಾಯತಲೋಚನಾ॥೧೪॥
ಸಾ ಪ್ರವಿಶ್ಯ ವಿರಾಟಸ್ಯ ದ್ರೌಪದ್ಯಂತಃಪುರಂ ಶುಭಾ।
ಹ್ರೀನಿಷೇವಾನ್ವಿತಾ ಬಾಲಾ ಕಂಪಮಾನಾ ಲತೇವ ಸಾ॥೧೫॥
ಅಭಿಗಮ್ಯ ಚ ಸುಶ್ರೋಣೀ ಸರ್ವಲಕ್ಷಣಸಂಯುತಾ।
ದದರ್ಶಾವಸ್ಥಿತಾಂ ಹೈಮೇ ಪೀಠೇ ರತ್ನಪರಿಚ್ಛದೇ॥೧೬॥
ರಕ್ತಸೂಕ್ಷ್ಮಾಂಬರಧರಾಂ ಮೇಘೇ ಸೌದಾಮಿನೀಮಿವ।
ನಾನಾವರ್ಣವಿಚಿತ್ರಾಂ ಚ ಸರ್ವಾಭರಣಭೂಷಿತಾಮ್॥೧೭॥
ಸುಭ್ರೂಂ ಸುಕೇಶೀಂ ಸುಶ್ರೋಣೀಂ ಕುಬ್ಜವಾಮನಮಧ್ಯಗಾಮ್।
ಬಹುಪುಷ್ಪೋಪಕೀರ್ಣಾಯಾಂ ಭೂಮ್ಯಾಂ ವೇದಿಮಿವಾಧ್ವರೇ॥೧೮॥
ಸುದೇಷ್ಣಾಂ ರಾಜಮಹಿಷೀಂ ಸರ್ವಾಲಂಕಾರಭೂಷಿತಾಮ್।
ಶ್ರೀಮತೀಂ ರಾಜಪುತ್ರೀಣಾಂ ಶತೇನ ಪರಿವಾರಿತಾಮ್॥೧೯॥
ತಾಃ ಸರ್ವಾ ದ್ರೌಪದೀಂ ದೃಷ್ಟ್ವಾ ಸಂತಪ್ತಾಃ ಪರಮಾಂಗನಾಃ।
ಪರಿತಶ್ಚೋಪತಸ್ಥುಸ್ತಾಃ ಸಹಸೋತ್ಥಾಯ ಚಾಽಽಸನಾತ್॥೨೦॥
ನಿರೀಕ್ಷಮಾಣಾಃ ಸರ್ವಾಸ್ತಾಃ ಶಚೀಂ ದೇವೀಮಿವಾಗತಾಮ್।
ಗೂಢಗುಲ್ಫಾಂ ವರಾರೋಹಾಂ ಕೃಷ್ಣಾಂ ತಾಮ್ರಾಯತೇಕ್ಷಣಾಮ್।
ಅತಿಸರ್ವಾನವದ್ಯಾಂಗೀಂ ನತಗಾತ್ರೀಂ ಸುಮಧ್ಯಮಾಮ್॥೨೧॥
ನ ಹ್ರಸ್ವಾಂ ನಾತಿಮಹತೀಂ ಜಾತಾಂ ಬಹುತೃಣೇ ವನೇ।
ಋಶ್ಯರೋಹೀಮಿವಾನಿಂದ್ಯಾಂ ಸುಕೇಶೀಂ ಮೃಗಲೋಚನಾಮ್॥೨೨॥
ತಾಂ ಮೃಗೀಮಿವ ವಿತ್ರಸ್ತಾಂ ಯೂಥಭ್ರಷ್ಟಾಮಿವ ದ್ವಿಪಾಮ್।
ಲಕ್ಷ್ಮೀಮಿವ ವಿಶಾಲಾಕ್ಷೀಂ ವಿದ್ಯಾಮಿವ ಯಶಸ್ವಿನೀಮ್॥೨೩॥
ರೋಹಿಣೀಮಿವ ತಾರಾಣಾಂ ದೀಪ್ತಾಮಗ್ನಿಶಿಖಾಮಿವ।
ಪಾರ್ವತೀಮಿವ ರುದ್ರಾಣೀಂ ವೇಲಾಮಿವ ಮಹೋದಧೇಃ॥೨೪॥
ಸುಲಭಾಮಿವ ನಾಗೀನಾಂ ಮೃಗೀಣಾಮಿವ ಕಿನ್ನರೀಮ್।
ಗಂಗಾಮಿವ ವಿಶುದ್ಧಾಂಗೀಂ ಶಾರದೀಮಿವ ಶರ್ವರೀಮ್॥೨೫॥
ತಾಮಚಿಂತ್ಯತಮಾಂ ಲೋಕೇ ಇಲಾಮಿವ ಯಶಸ್ವಿನೀಮ್।
ಸಾವಿತ್ರೀಮಿವ ದುರ್ಧರ್ಷಾಂ ಬ್ರಾಹ್ಮ್ಯಾ ಲಕ್ಷ್ಮ್ಯಾ ಸಮನ್ವಿತಾಮ್॥೨೬॥
ಸೀತಾಮಿವ ಸತೀಂ ಶುದ್ಧಾಮರುಂಧತೀಮಿವ ಪ್ರಿಯಾಮ್।
ಸುದೇಷ್ಣಾ ಪರ್ಯಪೃಚ್ಛತ್ ತಾಂ ವಿಸ್ಮಯೋತ್ಫುಲ್ಲಲೋಚನಾ॥೨೭॥
ಕಾ ತ್ವಂ ಸರ್ವಾನವದ್ಯಾಂಗಿ ಕುತೋಽಸಿ ತ್ವಮಿಹಾಗತಾ।
ಕಸ್ಯ ವಾ ತ್ವಂ ವಿಶಾಲಾಕ್ಷಿ ಕಿಂ ವಾ ತೇ ಕರವಾಣ್ಯಹಮ್॥೨೮॥
ಗೂಢಗುಲ್ಫಾ ಸಮಾನೋರೂಸ್ತ್ರಿಗಂಭೀರಾ ಷಡುನ್ನತಾ।
ಸ್ನಿಗ್ಧಾ ಪಂಚಸು ರಕ್ತೇಷು ಹಂಸಗದ್ಗದಭಾಷಿಣೀ॥೨೯॥
ಸುಕೇಶೀ ಸುಸ್ವರಾ ಶ್ಯಾಮಾ ಪೀನಶ್ರೋಣೀಪಯೋಧರಾ।
ಅರಾಲಪಕ್ಷ್ಮನಯನಾ ಬಿಂಬೋಷ್ಠೀ ತನುಮಧ್ಯಮಾ॥೩೦॥
ಕಂಬುಗ್ರೀವಾ ಗೂಢಸಿರಾ ಪೂರ್ಣಚಂದ್ರನಿಭಾನನಾ।
ದಾನವೀ ಕಿನ್ನರೀ ವಾ ತ್ವಂ ಗಂಧರ್ವೀ ವನದೇವತಾ॥೩೧॥
ಅಪ್ಸರಾ ವಾಽಸಿ ನಾಗೀ ವಾ ತಾರಾ ವಾ ತ್ವಂ ವಿಲಾಸಿನೀ।
ಅಲಂಬುಸಾ ಮಿಶ್ರಕೇಶೀ ಪುಂಡರೀಕಾಽಥ ಮಾಲಿನೀ॥೩೨॥
ತೇನ ತೇನೈವ ಸಂಪನ್ನಾ ಕಾಶ್ಮೀರೀವ ತುರಂಗಮಾ।
ಇಂದ್ರಾಣೀ ತ್ವಥ ರುದ್ರಾಣೀ ಸ್ವಧಾ ವಾಽಪ್ಯಥವಾ ರತಿಃ॥೩೩॥
ದೇವಿ ದೇವೇಷು ವಿಖ್ಯಾತಾ ಬ್ರೂಹಿ ಕಾ ತ್ವಮಿಹಾಗತಾ।
ತವ ಹ್ಯನುಪಮಂ ರೂಪಂ ಭೂಷಣೈರಪಿ ವರ್ಜಿತಮ್॥೩೪॥
ತ್ವಾಂ ಸೃಷ್ಟ್ವೋಪರತಂ ಮನ್ಯೇ ಲೋಕಕರ್ತಾರಮೀಶ್ವರಮ್।
ನ ತೃಪ್ಯಂತಿ ಸ್ತ್ರಿಯೋ ದೃಷ್ಟ್ವಾ ಕಾ ನ ಪುಂಸಾಂ ರತಿರ್ಭವೇತ್॥೩೫॥
ಪ್ರವಾಲಪುಷ್ಪಸ್ತಬಕೈರಾಚಿತಾ ವನದೇವತಾಃ।
ತ್ವಾಮೇವ ಹಿ ನಿರೀಕ್ಷಂತೇ ವಿಸ್ಮಿತಾ ರೂಪಸಂಪದಾ॥೩೬॥
ಅಂತಃಪುರಗತಾ ನಾರ್ಯೋ ಮೃಗಾಃ ಪಕ್ಷಿಗಣಾ ನರಾಃ।
ಸರ್ವೇ ತ್ವಾಮೇವ ಕಲ್ಯಾಣಿ ನಿರೀಕ್ಷಂತೇ ಸುವಿಸ್ಮಿತಾಃ॥೩೭॥
ನ ತ್ವಾದೃಶೀ ಕಾಚನ ಮೇ ತ್ರಿಷು ಲೋಕೇಷು ಸುಂದರೀ।
ದೃಷ್ಟಪೂರ್ವಾ ಶ್ರುತಾ ವಾಽಪಿ ಚಕ್ಷುಷಾ ವಿದ್ಯತೇ ಶುಭಾ॥೩೮॥

ದ್ರೌಪದ್ಯುವಾಚ

ನಾಸ್ತಿ ದೇವೀ ನ ಗಂಧರ್ವೀ ನ ಯಕ್ಷೀ ನ ಚ ಕಿನ್ನರೀ।
ಸೈರಂಧ್ರೀ ನಾಮ ಮೇ ಜಾತಿರ್ವನ್ಯಮೂಲಫಲಾಶನಾ॥೩೯॥
ಪತೀನಾಂ ಪ್ರೇಕ್ಷಮಾಣಾನಾಂ ಕಸ್ಮಿಂಶ್ಚಿತ್ ಕಾರಣಾಂತರೇ।
ಕೇಶಪಾಶೇ ಪರಾಮೃಷ್ಟಾ ಸಾಽಹಂ ತ್ರಸ್ತಾ ವನಂ ಗತಾ॥೪೦॥
ತತ್ರ ದ್ವಾದಶವರ್ಷಾಣಿ ವನ್ಯಮೂಲಫಲಾಶನಾ।
ಚರಾಮ್ಯನಿಲಯಾ ಸುಭ್ರೂಃ ಸಾ ತವಾಂತಿಕಮಾಗತಾ॥೪೧॥
ಜಾನಾಮಿ ಕೇಶಾನ್ ಗ್ರಥಿತುಂ ವಿಚಿತ್ರಾನ್ ಗ್ರಥಿತುಂ ಮಣೀನ್।
ಮಲ್ಲಿಕೋತ್ಪಲಪದ್ಮಾನಾಂ ಜಾನಾಮಿ ಗ್ರಥಿತುಂ ಸ್ರಜಃ॥೪೨॥
ಸಿಂಧುವಾರಕಜಾತೀನಾಂ ರಚಯಾಮ್ಯವತಂಸಕಾನ್।
ಪತ್ರಂ ಮೃಗಾಂಗಮಗರುಂ ಪಿಷೇ ಚ ಹರಿಚಂದನಮ್।
ಗ್ರಥಯಿಷ್ಯಾಮಿ ಚಿತ್ರಾಶ್ಚ ಸ್ರಜಃ ಪರಮಶೋಭನಾಃ॥೪೩॥
ಆರಾಧನಂ ಸತ್ಯಭಾಮಾಂ ಕೃಷ್ಣಸ್ಯ ಮಹಿಷೀಂ ಪ್ರಿಯಾಮ್।
ಕೃಷ್ಣಾಂ ಚ ಭಾರ್ಯಾಂ ಪಾರ್ಥಾನಾಂ ನಾರೀಣಾಮುತ್ತಮಾಂ ತಥಾ॥೪೪॥
ತಥಾಽಸ್ಮಿ ಸುಭ್ರುವಾ ಚಾಹಮಿಷ್ಟಲಾಭೇನ ತೋಷಿತಾ।
ಮಾಲಿನೀ ಚೇತಿ ಮೇ ನಾಮ ಸ್ವಯಂ ದೇವೀ ಚಕಾರ ಹ।
ಕೃಷ್ಣಾ ಕಮಲಪತ್ರಾಕ್ಷೀ ಸಾ ಮೇ ಪ್ರಾಣಸಮಾ ಸಖೀ॥೪೫॥
ನ ಚಾಹಂ ಚಿರಮಿಚ್ಛಾಮಿ ಕ್ವಚಿದ್ ವಸ್ತುಂ ಶುಭಾನನೇ।
ವ್ರತಂ ಕಿಲೈತದಸ್ಮಾಕಂ ಕುಲಧರ್ಮೋಽಯಮೀದೃಶಃ॥೪೬॥
ಯೋಽಸ್ಮಾಕಂ ತು ಹರೇದ್ದ್ರವ್ಯಂ ದೇಶಂ ವಸನಮೇವ ವಾ।
ನ ಕ್ರೋದ್ಧವ್ಯಂ ಕಿಲಾಸ್ಮಾಭಿರಸ್ಮದ್ಗುರುರಮರ್ಷಣಃ॥೪೭॥
ಸಾಽಹಂ ವನಾನಿ ದುರ್ಗಾಣಿ ತೀರ್ಥಾನಿ ಚ ಸರಾಂಸಿ ಚ।
ಶೈಲಾಂಶ್ಚ ವಿವಿಧಾನ್ ರಮ್ಯಾನ್ ಸರಿತಶ್ಚ ಸಮುದ್ರಗಾಃ॥೪೮॥
ಭರ್ತೃಶೋಕಪರೀತಾಂಗೀ ಭರ್ತೃಸಬ್ರಹ್ಮಚಾರಿಣೀ।
ವಿಚರಾಮಿ ಮಹೀಂ ದುರ್ಗಾಂ ಯತ್ರ ಸಾಯನ್ನಿವೇಶನಾ॥೪೯॥
ವೀರಪತ್ನೀ ಯದಾ ದೇವೀ ಚರಮಾಣೇಷು ಭರ್ತೃಷು।
ಸಾಽಹಂ ವಿವತ್ಸಾ ವಿಧಿನಾ ಗಂಧಮಾದನಪರ್ವತಾತ್।
ಶೃಣೋಮಿ ತವ ಸೌಶೀಲ್ಯಂ ಭರ್ತುರ್ಮಧುರಭಾಷಿಣಿ॥೫೦॥
ಮಾಹಾತ್ಮ್ಯಂ ಚ ತತಃ ಶ್ರುತ್ವಾ ಬ್ರಾಹ್ಮಣಾನಾಂ ಸಮೀಪತಃ।
ತ್ವಾಮುಪಸ್ಥಾತುಮಿಚ್ಛಾಮಿ ತತಶ್ಚಾಹಮಿಹಾಗತಾ॥೫೧॥
ಗುರವೋ ಮಮ ಧರ್ಮಶ್ಚ ವಾಯುಃ ಶಕ್ರಸ್ತಥಾಽಶ್ವಿನೌ।
ತೇಷಾಂ ಪ್ರಸಾದಾಚ್ಚ ನ ಮಾಂ ಕಶ್ಚಿದ್ ಧರ್ಷಯತೇ ಪುಮಾನ್॥೫೨॥

ವೈಶಂಪಾಯನ ಉವಾಚ

ಏವಮುಕ್ತ್ವಾ ಸುದೇಷ್ಣಾಂ ತಾಂ ಕೃತಾಂಜಲಿಪುಟಾ ಸ್ಥಿತಾ।
ಸಾಽಬ್ರವೀದ್ ವಿಸ್ಮಯಾವಿಷ್ಟಾ ದ್ರೌಪದೀಂ ಯೋಷಿತಾಂ ವರಾಮ್॥೫೩॥
ನ ಭರೇಯಮಹಂ ಭದ್ರೇ ಸಂಶಯೋ ಮಮ ವಿದ್ಯತೇ।
ರಾಜಾ ತ್ವಯಂ ಹಿ ತ್ವಾಂ ದೃಷ್ಟ್ವಾ ಮತಿಂ ಪಾಪಾಂ ಕರಿಷ್ಯತಿ॥೫೪॥
ಸಾಽಹಂ ತ್ವಾಂ ನ ಕ್ಷಮಾಂ ಮನ್ಯೇ ವಸಂತೀಮಿಹ ವೇಶ್ಮನಿ।
ಏಷ ದೋಷೋಽಸ್ತಿ ಸುಶ್ರೋಣಿ ಕಥಂ ವಾ ಭೀರು ಮನ್ಯಸೇ॥೫೫॥
ಸ್ಥಿತಾ ರಾಜಕುಲೇ ನಾರ್ಯೋ ಯಾಶ್ಚೇಮಾ ಮಮ ವೇಶ್ಮನಿ।
ತ್ವಾಮೇವೈಕಾಂ ನಿರೀಕ್ಷಂತೇ ವಿಸ್ಮಯಾದ್ ವರವರ್ಣಿನಿ॥೫೬॥
ವೃಕ್ಷಾಂಶ್ಚೋಪಸ್ಥಿತಾನ್ ಪಶ್ಯ ಯ ಇಮೇ ಮಮ ವೇಶ್ಮನಿ।
ವಿನಮಂತೇ ಹಿ ತ್ವಾಂ ದೃಷ್ಟ್ವಾ ಪುಮಾಂಸಂ ಕಂ ನ ಲೋಭಯೇಃ॥೫೭॥
ಬಿಭರ್ಷಿ ಪರಮಂ ರೂಪಮತಿಮಾನುಷಮದ್ಭುತಮ್।
ತಿರ್ಯಗ್ಯೋನಿಗತಾಶ್ಚಾಪಿ ನಿರೀಕ್ಷಂತೇ ಸವಿಸ್ಮಯಾಃ।
ತವ ರೂಪಮನಿಂದ್ಯಾಂಗಿ ಕಿಂ ಪುನರ್ಮಾನವಾ ಭುವಿ॥೫೮॥
ರಾಜಾ ವಿರಾಟಃ ಸುಶ್ರೋಣಿ ದೃಷ್ಟ್ವಾ ತೇ ಪರಮಂ ವಪುಃ।
ಮಾಂ ವಿಹಾಯ ವರಾರೋಹೇ ತ್ವಾಂ ಗಚ್ಛೇತ್ ಸರ್ವಚೇತಸಾ॥೫೯॥
ಯಂ ಹಿ ತ್ವಮನವದ್ಯಾಂಗೀ ನರಮಾಯತಲೋಚನೇ।
ಸುಪ್ರಸನ್ನಾ ಹಿ ವೀಕ್ಷೇಥಾಃ ಸ ಕಾಮವಶಗೋ ಭವೇತ್॥೬೦॥
ಸುಸ್ನಾತಾಽಲಂಕೃತಾ ಹಿ ತ್ವಂ ಯಮೀಕ್ಷೇಥಾ ಹಿ ಮಾನುಷಮ್।
ಗ್ಲಾನಿರ್ನ ತಸ್ಯ ದುಃಖಂ ವಾ ನ ತಂದ್ರಿರ್ನ ಪರಾಜಯಃ॥೬೧॥
ನ ಶೋಕೋ ನ ಚ ಸಂತಾಪೋ ನ ಕ್ರೋಧೋ ನಾನೃತಂ ವದೇ।
ಯಂ ತ್ವಂ ಸರ್ವಾನವದ್ಯಾಂಗಿ ಭಜೇಥಾಃ ಸಮಲಂಕೃತಾ॥೬೨॥
ನ ವ್ಯಾಧಿರ್ನ ಜರಾ ತಸ್ಯ ನ ತೃಷ್ಣಾ ನ ಕ್ಷುಧಾ ಭವೇತ್।
ಯಸ್ಯ ತ್ವಂ ವಶಗಾ ಸುಭ್ರು ಭವೇರಂಕಗತಾ ಸತೀ॥೬೩॥
ಪಂಚತ್ವಮಪಿ ಸಂಪ್ರಾಪ್ತಂ ಯಂ ಚ ತ್ವಂ ಪರಿಷಸ್ವಜೇಃ।
ಬಾಹುಭ್ಯಾಮನುರೂಪಾಭ್ಯಾಂ ಸ ಜೀವೇದಿತಿ ಮೇ ಮತಿಃ॥೬೪॥
ಯಸ್ಯ ಹಿ ತ್ವಂ ಭವೇರ್ಭಾರ್ಯಾ ಯಂ ಚ ಹೃಷ್ಟಾ ಪರಿಷ್ವಜೇಃ।
ಅತಿಜೀವೇತ್ ಸ ಸರ್ವೇಷು ದೇವೇಷ್ವಿವ ಪುರಂದರಃ॥೬೫॥
ಅಧ್ಯಾರೋಹೇದ್ ಯಥಾ ವೃಕ್ಷಂ ಯಥಾ ವಾಽಽರುಹ್ಯ ತಕ್ಷತಿ।
ರಾಜವೇಶ್ಮನಿ ವಾಮೋರು ನನು ಸ್ಯಾಸ್ತ್ವಂ ತಥಾ ಮಮ॥೬೬॥
ಯಥಾ ಕರ್ಕಟಕೀ ಗರ್ಭಮಾಧತ್ತೇ ಮೃತ್ಯುಮಾತ್ಮನಃ।
ತಥಾವಿಧಮಹಂ ಮನ್ಯೇ ತವ ಸುಭ್ರು ಸಮಾಗಮಮ್॥೬೭॥
ಅನುಮಾನಯೇ ತ್ವಾಂ ಸೈರಂಧ್ರಿ ನಾವಮನ್ಯೇ ಕಥಂಚನ।
ಭರ್ತೃಶೀಲಭಯಾದ್ ಭದ್ರೇ ತವ ವಾಸಂ ನ ರೋಚಯೇ॥೬೮॥

ಸೈರಂಧ್ರ್ಯುವಾಚ

ನಾಹಂ ಶಕ್ಯಾ ವಿರಾಟೇನ ಯದ್ ವಾ ಚಾನ್ಯೇನ ಕೇನಚಿತ್।
ದೇವಗಂಧರ್ವಯಕ್ಷೈರ್ವಾ ದ್ರಷ್ಟುಂ ದುಷ್ಟೇನ ಚೇತಸಾ॥೬೯॥
ಗಂಧರ್ವಾಃ ಪಾಲಯಂತೇ ಮಾಂ ಸುಕುಲಾಃ ಪಂಚ ಸುವ್ರತಾಃ।
ಪುತ್ರಾ ದೇವಾದಿದೇವಾನಾಂ ಸೂರ್ಯಪಾವಕವರ್ಚಸಃ॥೭೦॥
ಯಶ್ಚ ದುಃಶೀಲವಾನ್ ಮರ್ತ್ಯೋ ಮಾಂ ಸ್ಪೃಶೇದ್ ದುಷ್ಟಚೇತಸಾ।
ಸ ತಾಮೇವ ನಿಶಾಂ ಶೀಘ್ರಂ ಶಯೀತ ಮುಸಲೈರ್ಹತಃ॥೭೧॥
ಯಸ್ಯಾಪಿ ಹಿ ಶತಂ ಪೂರ್ಣಂ ಬಾಂಧವಾನಾಂ ಭವೇದಪಿ।
ಸಹಸ್ರಂ ವಾ ವಿಶಾಲಾಕ್ಷಿ ಕೋಟಿರ್ವಾಽಪಿ ಸಹಸ್ರಿಕಾ।
ದುಷ್ಟಚಿತ್ತಶ್ಚ ಮಾಂ ಬ್ರೂಯಾನ್ನ ಸ ಜೀವೇತ್ ತವಾಗ್ರತಃ॥೭೨॥
ನ ತಸ್ಯ ತ್ರಿದಶಾ ದೇವಾ ನಾಸುರಾ ನ ಚ ಪನ್ನಗಾಃ।
ತೇಭ್ಯೋ ಗಂಧರ್ವರಾಜೇಭ್ಯಸ್ತ್ರಾಣಂ ಕುರ್ಯುರಸಂಶಯಮ್॥೭೩॥
ಸುದೇಷ್ಣೇ ವಿಶ್ವಸ ತ್ವಂ ಮಾಂ ಸ್ವಜನೇ ಬಾಂಧವೇಽಪಿ ವಾ।
ನಾಹಂ ಶಕ್ಯಾ ನರೈರ್ದ್ರಷ್ಟುಂ ನ ಚ ಮೇ ವೃತ್ತಮೀದೃಶಮ್॥೭೪॥
ಯೋ ಮೇ ನ ದದ್ಯಾದುಚ್ಛಿಷ್ಟಂ ನ ಚ ಪಾದೌ ಪ್ರಧಾವಯೇತ್।
ಪ್ರೀಯೇರಂಸ್ತೇನ ವಾಸೇನ ಗಂಧರ್ವಾಃ ಪತಯೋ ಮಮ॥೭೫॥
ಯೋ ಹಿ ಮಾಂ ಪುರುಷೋ ಗೃದ್ಧ್ಯೇದ್ ಯಥಾಽನ್ಯಾಃ ಪ್ರಾಕೃತಸ್ತ್ರಿಯಃ।
ತಾಮೇವ ಸ ಇಮಾಂ ರಾತ್ರಿಂ ಪ್ರವಿಶೇದಪರಾಂ ತನುಮ್॥೭೬॥
ನ ಚಾಪ್ಯಹಂ ಚಾಲಯಿತುಂ ಶಕ್ಯಾ ಕೇನಚಿದಂಗನೇ।
ದುಃಖಶೀಲಾಶ್ಚ ಗಂಧರ್ವಾಸ್ತ ಇಮೇ ಬಲಿನಃ ಪ್ರಿಯಾಃ।
ಏವಂ ನಿವಸಮಾನಾಯಾಂ ಮಯಿ ಮಾ ತೇ ಭಯಂ ಹಿ ಭೂತ್॥೭೭॥

ವೈಶಂಪಾಯನ ಉವಾಚ

ಏವಮುಕ್ತಾ ತು ಸೈರಂಧ್ರ್ಯಾ ಸುದೇಷ್ಣಾ ವಾಕ್ಯಮಬ್ರವೀತ್।
ವಸೇಹ ಮಯಿ ಕಲ್ಯಾಣಿ ಯದಿ ತೇ ವೃತ್ತಮೀದೃಶಮ್॥೭೮॥
ಕಶ್ಚ ತೇ ದಾತುಮುಚ್ಛಿಷ್ಟಂ ಪುಮಾನರ್ಹತಿ ಭಾಮಿನಿ।
ಪ್ರಸಾರಯೇಚ್ಚ ಕಃ ಪಾದೌ ಲಕ್ಷ್ಮೀಂ ದೃಷ್ಟ್ವೈವ ಬುದ್ಧಿಮಾನ್॥೭೯॥
ಏವಮಾಚಾರಸಂಪನ್ನಾ ಏವಂ ದೇವಪರಾಯಣಾ।
ರಕ್ಷ್ಯಾ ತ್ವಮಸಿ ಭೂತಾನಾಂ ಸಾವಿತ್ರೀವದ್ ದ್ವಿಜನ್ಮನಾಮ್॥೮೦॥
ದೇವತಾ ಇವ ಕಲ್ಯಾಣಿ ಪೂಜಿತಾ ವರವರ್ಣಿನೀ।
ವಸ ಭದ್ರೇ ಮಯಿ ಪ್ರೀತಾ ಪ್ರೀತಿರ್ಹಿ ಮಯಿ ವರ್ತತೇ।
ಸರ್ವಕಾಮೈಃ ಪ್ರಮುದಿತಾ ನಿರುದ್ವಿಗ್ನಮನಾಃ ಸುಖಮ್॥೮೧॥

ವೈಶಂಪಾಯನ ಉವಾಚ

ಸುದೇಷ್ಣಯೈವಮುಕ್ತಾ ಸಾ ಸಂಪ್ರೀತಾ ಚಾರುಹಾಸಿನೀ।
ನಿರ್ವಿಶಂಕಾ ವಿರಾಟಸ್ಯ ವಿವೇಶಾಂತಃಪುರಂ ಸುಖಮ್॥೮೨॥
ಯಾಜ್ಞಸೇನೀ ಸುದೇಷ್ಣಾಂ ತು ಶುಶ್ರೂಷಂತೀ ವಿಶಾಂಪತೇ।
ಅವಸತ್ ಪರಿಚಾರಾರ್ಹಾ ಸುದುಃಖಂ ಜನಮೇಜಯ॥೮೩॥
ಏವಂ ವಿರಾಟೇ ನ್ಯವಸಂಸ್ತು ಪಾಂಡವಾಃ
ಕೃಷ್ಣಾ ತಥಾಽಂತಃಪುರಮೇತ್ಯ ಶೋಭನಾ।
ಅಜ್ಞಾತಚರ್ಯಾಂ ಪ್ರತಿರುದ್ಧಮಾನಸಾ
ಯಥಾಽಗ್ರಥೋ ಭಸ್ಮನಿ ಗೂಢತೇಜಸಃ॥೮೪॥

॥ಇತಿ ಶ್ರೀಮನ್ಮಹಾಭಾರತೇ ವಿರಾಟಪರ್ವಣಿ ಪಾಂಡವಪ್ರವೇಶಪರ್ವಣಿ ಚತುರ್ದಶೋಽಧ್ಯಾಯಃ॥೧೪॥

ಪಾಂಡವಪ್ರವೇಶಪರ್ವ ಸಮಾಪ್ತಮ್॥೧॥

Caturdaśo'dhyāyaḥ||14||

vaiśampāyana uvāca

tataḥ kṛṣṇā sukeśī sā darśanīyā śucismitā|
veṇīkeśān samutkṣipya pīnavṛttakucā śubhā|
jugūhe dakṣiṇe pārśve mṛdūnasitalocanā||1||
vāsaśca paridhāyaikaṃ kṛṣṇā sumalinaṃ mahat|
kṛtvā veṣaṃ ca sairandhryāḥ kṛṣṇā vyacaradārtavat||2||
praviṣṭā nagaraṃ bhīrūḥ sairandhrīveṣasaṃyutā|
tāṃ narāḥ paridhāvantaḥ striyaśca samupādravan||3||
apṛcchaṃste ca tāṃ dṛṣṭvā kā tvaṃ kiṃ ca cikīrṣasi|
sā tānuvāca rājendra sairandhryahamupāgatā|
karma cecchāmi vai kartuṃ tasya yā māṃ bhariṣyati||4||

vaiśampāyana uvāca

tasyā rūpeṇa veṣeṇa ślakṣṇayā ca girā tathā|
na śraddadhānāstāṃ devīmannahetorupasthitām||5||
virāṭasya tu kaikeyī bhāryā paramasammatā|
ālokayantī dadṛśe prāsādād drupadātmajām||6||
sā samīkṣya tathārūpāmanāthāmekavāsasam|
strībhiśca puruṣaiścāpi sarvataḥ parivāritām||7||
virāṭabhāryā tāṃ devī kāruṇyājjātasambhramā|
apreṣayat samīpasthāḥ striyo vṛddhāśca tatparāḥ||8||
apanīya tataḥ sarvā ānayadhvamihaiva tām|
yadā dṛṣṭā mayā sādhvī kampate me manastadā|
tasmācchīghramihānāyya darśayadhvaṃ yadīcchatha||9||
tāstathoktā upāgamya draupadīṃ parisaṅgatāḥ|
ānīya sarvathā tvenāmabruvanmadhurākṣaram||10||
bhadre tvāṃ draṣṭumicchantī sudeṣṇā harmyabhūtale|
tvadarthaṃ praiṣayaccāsmān draṣṭuṃ tāṃ tvaṃ yadīcchasi|
āyāhyasmābhirevādya rakṣyamāṇā yatheṣṭataḥ||11||
tacchrutvā draupadī tāsāṃ vacanaṃ vākyakovidā|
īpsitārthātilābhena hṛṣṭā''yātā gṛhottamam||12||
rājaveśma hyupākramya yatrāgryamahiṣī sthitā|
sudeṣṇāmagamat kṛṣṇā rājabhāryāṃ yaśasvinīm||13||
kṛṣṇān keśān mṛdūn dīrghān samudgrathyāsitekṣaṇā|
kuñcitāgrāṃstu sūkṣmāgrān darśanīyānnibadhya ca|
jugūhe dakṣiṇe pārśve mṛdūnāyatalocanā||14||
sā praviśya virāṭasya draupadyantaḥpuraṃ śubhā|
hrīniṣevānvitā bālā kampamānā lateva sā||15||
abhigamya ca suśroṇī sarvalakṣaṇasaṃyutā|
dadarśāvasthitāṃ haime pīṭhe ratnaparicchade||16||
raktasūkṣmāmbaradharāṃ meghe saudāminīmiva|
nānāvarṇavicitrāṃ ca sarvābharaṇabhūṣitām||17||
subhrūṃ sukeśīṃ suśroṇīṃ kubjavāmanamadhyagām|
bahupuṣpopakīrṇāyāṃ bhūmyāṃ vedimivādhvare||18||
sudeṣṇāṃ rājamahiṣīṃ sarvālaṅkārabhūṣitām|
śrīmatīṃ rājaputrīṇāṃ śatena parivāritām||19||
tāḥ sarvā draupadīṃ dṛṣṭvā santaptāḥ paramāṅganāḥ|
paritaścopatasthustāḥ sahasotthāya cā''sanāt||20||
nirīkṣamāṇāḥ sarvāstāḥ śacīṃ devīmivāgatām|
gūḍhagulphāṃ varārohāṃ kṛṣṇāṃ tāmrāyatekṣaṇām|
atisarvānavadyāṅgīṃ natagātrīṃ sumadhyamām||21||
na hrasvāṃ nātimahatīṃ jātāṃ bahutṛṇe vane|
ṛśyarohīmivānindyāṃ sukeśīṃ mṛgalocanām||22||
tāṃ mṛgīmiva vitrastāṃ yūthabhraṣṭāmiva dvipām|
lakṣmīmiva viśālākṣīṃ vidyāmiva yaśasvinīm||23||
rohiṇīmiva tārāṇāṃ dīptāmagniśikhāmiva|
pārvatīmiva rudrāṇīṃ velāmiva mahodadheḥ||24||
sulabhāmiva nāgīnāṃ mṛgīṇāmiva kinnarīm|
gaṅgāmiva viśuddhāṅgīṃ śāradīmiva śarvarīm||25||
tāmacintyatamāṃ loke ilāmiva yaśasvinīm|
sāvitrīmiva durdharṣāṃ brāhmyā lakṣmyā samanvitām||26||
sītāmiva satīṃ śuddhāmarundhatīmiva priyām|
sudeṣṇā paryapṛcchat tāṃ vismayotphullalocanā||27||
kā tvaṃ sarvānavadyāṅgi kuto'si tvamihāgatā|
kasya vā tvaṃ viśālākṣi kiṃ vā te karavāṇyaham||28||
gūḍhagulphā samānorūstrigambhīrā ṣaḍunnatā|
snigdhā pañcasu rakteṣu haṃsagadgadabhāṣiṇī||29||
sukeśī susvarā śyāmā pīnaśroṇīpayodharā|
arālapakṣmanayanā bimboṣṭhī tanumadhyamā||30||
kambugrīvā gūḍhasirā pūrṇacandranibhānanā|
dānavī kinnarī vā tvaṃ gandharvī vanadevatā||31||
apsarā vā'si nāgī vā tārā vā tvaṃ vilāsinī|
alambusā miśrakeśī puṇḍarīkā'tha mālinī||32||
tena tenaiva sampannā kāśmīrīva turaṅgamā|
indrāṇī tvatha rudrāṇī svadhā vā'pyathavā ratiḥ||33||
devi deveṣu vikhyātā brūhi kā tvamihāgatā|
tava hyanupamaṃ rūpaṃ bhūṣaṇairapi varjitam||34||
tvāṃ sṛṣṭvoparataṃ manye lokakartāramīśvaram|
na tṛpyanti striyo dṛṣṭvā kā na puṃsāṃ ratirbhavet||35||
pravālapuṣpastabakairācitā vanadevatāḥ|
tvāmeva hi nirīkṣante vismitā rūpasampadā||36||
antaḥpuragatā nāryo mṛgāḥ pakṣigaṇā narāḥ|
sarve tvāmeva kalyāṇi nirīkṣante suvismitāḥ||37||
na tvādṛśī kācana me triṣu lokeṣu sundarī|
dṛṣṭapūrvā śrutā vā'pi cakṣuṣā vidyate śubhā||38||

draupadyuvāca

nāsti devī na gandharvī na yakṣī na ca kinnarī|
sairandhrī nāma me jātirvanyamūlaphalāśanā||39||
patīnāṃ prekṣamāṇānāṃ kasmiṃścit kāraṇāntare|
keśapāśe parāmṛṣṭā sā'haṃ trastā vanaṃ gatā||40||
tatra dvādaśavarṣāṇi vanyamūlaphalāśanā|
carāmyanilayā subhrūḥ sā tavāntikamāgatā||41||
jānāmi keśān grathituṃ vicitrān grathituṃ maṇīn|
mallikotpalapadmānāṃ jānāmi grathituṃ srajaḥ||42||
sindhuvārakajātīnāṃ racayāmyavataṃsakān|
patraṃ mṛgāṅgamagaruṃ piṣe ca haricandanam|
grathayiṣyāmi citrāśca srajaḥ paramaśobhanāḥ||43||
ārādhanaṃ satyabhāmāṃ kṛṣṇasya mahiṣīṃ priyām|
kṛṣṇāṃ ca bhāryāṃ pārthānāṃ nārīṇāmuttamāṃ tathā||44||
tathā'smi subhruvā cāhamiṣṭalābhena toṣitā|
mālinī ceti me nāma svayaṃ devī cakāra ha|
kṛṣṇā kamalapatrākṣī sā me prāṇasamā sakhī||45||
na cāhaṃ ciramicchāmi kvacid vastuṃ śubhānane|
vrataṃ kilaitadasmākaṃ kuladharmo'yamīdṛśaḥ||46||
yo'smākaṃ tu hareddravyaṃ deśaṃ vasanameva vā|
na kroddhavyaṃ kilāsmābhirasmadgururamarṣaṇaḥ||47||
sā'haṃ vanāni durgāṇi tīrthāni ca sarāṃsi ca|
śailāṃśca vividhān ramyān saritaśca samudragāḥ||48||
bhartṛśokaparītāṅgī bhartṛsabrahmacāriṇī|
vicarāmi mahīṃ durgāṃ yatra sāyanniveśanā||49||
vīrapatnī yadā devī caramāṇeṣu bhartṛṣu|
sā'haṃ vivatsā vidhinā gandhamādanaparvatāt|
śṛṇomi tava sauśīlyaṃ bharturmadhurabhāṣiṇi||50||
māhātmyaṃ ca tataḥ śrutvā brāhmaṇānāṃ samīpataḥ|
tvāmupasthātumicchāmi tataścāhamihāgatā||51||
guravo mama dharmaśca vāyuḥ śakrastathā'śvinau|
teṣāṃ prasādācca na māṃ kaścid dharṣayate pumān||52||

vaiśampāyana uvāca

evamuktvā sudeṣṇāṃ tāṃ kṛtāñjalipuṭā sthitā|
sā'bravīd vismayāviṣṭā draupadīṃ yoṣitāṃ varām||53||
na bhareyamahaṃ bhadre saṃśayo mama vidyate|
rājā tvayaṃ hi tvāṃ dṛṣṭvā matiṃ pāpāṃ kariṣyati||54||
sā'haṃ tvāṃ na kṣamāṃ manye vasantīmiha veśmani|
eṣa doṣo'sti suśroṇi kathaṃ vā bhīru manyase||55||
sthitā rājakule nāryo yāścemā mama veśmani|
tvāmevaikāṃ nirīkṣante vismayād varavarṇini||56||
vṛkṣāṃścopasthitān paśya ya ime mama veśmani|
vinamante hi tvāṃ dṛṣṭvā pumāṃsaṃ kaṃ na lobhayeḥ||57||
bibharṣi paramaṃ rūpamatimānuṣamadbhutam|
tiryagyonigatāścāpi nirīkṣante savismayāḥ|
tava rūpamanindyāṅgi kiṃ punarmānavā bhuvi||58||
rājā virāṭaḥ suśroṇi dṛṣṭvā te paramaṃ vapuḥ|
māṃ vihāya varārohe tvāṃ gacchet sarvacetasā||59||
yaṃ hi tvamanavadyāṅgī naramāyatalocane|
suprasannā hi vīkṣethāḥ sa kāmavaśago bhavet||60||
susnātā'laṅkṛtā hi tvaṃ yamīkṣethā hi mānuṣam|
glānirna tasya duḥkhaṃ vā na tandrirna parājayaḥ||61||
na śoko na ca santāpo na krodho nānṛtaṃ vade|
yaṃ tvaṃ sarvānavadyāṅgi bhajethāḥ samalaṅkṛtā||62||
na vyādhirna jarā tasya na tṛṣṇā na kṣudhā bhavet|
yasya tvaṃ vaśagā subhru bhaveraṅkagatā satī||63||
pañcatvamapi samprāptaṃ yaṃ ca tvaṃ pariṣasvajeḥ|
bāhubhyāmanurūpābhyāṃ sa jīvediti me matiḥ||64||
yasya hi tvaṃ bhaverbhāryā yaṃ ca hṛṣṭā pariṣvajeḥ|
atijīvet sa sarveṣu deveṣviva purandaraḥ||65||
adhyārohed yathā vṛkṣaṃ yathā vā''ruhya takṣati|
rājaveśmani vāmoru nanu syāstvaṃ tathā mama||66||
yathā karkaṭakī garbhamādhatte mṛtyumātmanaḥ|
tathāvidhamahaṃ manye tava subhru samāgamam||67||
anumānaye tvāṃ sairandhri nāvamanye kathañcana|
bhartṛśīlabhayād bhadre tava vāsaṃ na rocaye||68||

sairandhryuvāca

nāhaṃ śakyā virāṭena yad vā cānyena kenacit|
devagandharvayakṣairvā draṣṭuṃ duṣṭena cetasā||69||
gandharvāḥ pālayante māṃ sukulāḥ pañca suvratāḥ|
putrā devādidevānāṃ sūryapāvakavarcasaḥ||70||
yaśca duḥśīlavān martyo māṃ spṛśed duṣṭacetasā|
sa tāmeva niśāṃ śīghraṃ śayīta musalairhataḥ||71||
yasyāpi hi śataṃ pūrṇaṃ bāndhavānāṃ bhavedapi|
sahasraṃ vā viśālākṣi koṭirvā'pi sahasrikā|
duṣṭacittaśca māṃ brūyānna sa jīvet tavāgrataḥ||72||
na tasya tridaśā devā nāsurā na ca pannagāḥ|
tebhyo gandharvarājebhyastrāṇaṃ kuryurasaṃśayam||73||
sudeṣṇe viśvasa tvaṃ māṃ svajane bāndhave'pi vā|
nāhaṃ śakyā narairdraṣṭuṃ na ca me vṛttamīdṛśam||74||
yo me na dadyāducchiṣṭaṃ na ca pādau pradhāvayet|
prīyeraṃstena vāsena gandharvāḥ patayo mama||75||
yo hi māṃ puruṣo gṛddhyed yathā'nyāḥ prākṛtastriyaḥ|
tāmeva sa imāṃ rātriṃ praviśedaparāṃ tanum||76||
na cāpyahaṃ cālayituṃ śakyā kenacidaṅgane|
duḥkhaśīlāśca gandharvāsta ime balinaḥ priyāḥ|
evaṃ nivasamānāyāṃ mayi mā te bhayaṃ hi bhūt||77||

vaiśampāyana uvāca

evamuktā tu sairandhryā sudeṣṇā vākyamabravīt|
vaseha mayi kalyāṇi yadi te vṛttamīdṛśam||78||
kaśca te dātumucchiṣṭaṃ pumānarhati bhāmini|
prasārayecca kaḥ pādau lakṣmīṃ dṛṣṭvaiva buddhimān||79||
evamācārasampannā evaṃ devaparāyaṇā|
rakṣyā tvamasi bhūtānāṃ sāvitrīvad dvijanmanām||80||
devatā iva kalyāṇi pūjitā varavarṇinī|
vasa bhadre mayi prītā prītirhi mayi vartate|
sarvakāmaiḥ pramuditā nirudvignamanāḥ sukham||81||

vaiśampāyana uvāca

sudeṣṇayaivamuktā sā samprītā cāruhāsinī|
nirviśaṅkā virāṭasya viveśāntaḥpuraṃ sukham||82||
yājñasenī sudeṣṇāṃ tu śuśrūṣantī viśāmpate|
avasat paricārārhā suduḥkhaṃ janamejaya||83||
evaṃ virāṭe nyavasaṃstu pāṇḍavāḥ
kṛṣṇā tathā'ntaḥpurametya śobhanā|
ajñātacaryāṃ pratiruddhamānasā
yathā'gratho bhasmani gūḍhatejasaḥ||84||

||iti śrīmanmahābhārate virāṭaparvaṇi pāṇḍavapraveśaparvaṇi caturdaśo'dhyāyaḥ||14||

pāṇḍavapraveśaparva samāptam||1||