Home / Adhyatma Ramayana / Yuddhakāṇḍaḥ

Tṛtīyaḥ Sargaḥ

Yuddhakāṇḍaḥ

तृतीयः सर्गः

श्री-महादेव उवाच

विभीषणो महाभागश्चतुर्भिर्मन्त्रिभिः सह।
आगत्य गगने रामसम्मुखे समवस्थितः॥१॥
उच्चैरुवाच भोः स्वामिन् राम राजीवलोचन।
रावणस्यानुजोऽहं ते दारहर्तुर्विभीषणः॥२॥
नाम्ना भ्रात्रा निरस्तोऽहं त्वामेव शरणं गतः।
हितमुक्तं मया देव तस्य चाविदितात्मनः॥३॥
सीतां रामाय वैदेहीं प्रेषयेति पुनः पुनः।
उक्तोऽपि न शृणोत्येव कालपाशवशं गतः॥४॥
हन्तुं मां खड्गमादाय प्राद्रवद् राक्षसाधमः।
ततोऽचिरेण सचिवैश्चतुर्भिः सहितो भयात्॥५॥
त्वामेव भवमोक्षाय मुमुक्षुः शरणं गतः।
विभीषणवचः श्रुत्वा सुग्रीवो वाक्यमब्रवीत्॥६॥
विश्वासार्हो न ते राम मायावी राक्षसाधमः।
सीताहर्तुर्विशेषेण रावणस्यानुजो बली॥७॥
मन्त्रिभिः सायुधैरस्मान् विवरे निहनिष्यति।
तदाज्ञापय मे देव वानरैर्हन्यतामयम्॥८॥
ममैवं भाति मे राम बुद्ध्या किं निश्चितं वद।
श्रुत्वा सुग्रीववचनं रामः सस्मितमब्रवीत्॥९॥
यदीच्छामि कपिश्रेष्ठ लोकान् सर्वान् सहेश्वरान्।
निमिषार्धेन संहन्यां सृजामि निमिषार्धतः॥१०॥
अतो मयाऽभयं दत्तं शीघ्रमानय राक्षसम्॥११॥
सकृदेव प्रपन्नाय तवास्मीति च याचते।
अभयं सर्वभूतेभ्यो ददाम्येतद्व्रतं मम॥१२॥
रामस्य वचनं श्रुत्वा सुग्रीवो हृष्टमानसः।
विभीषणमथानाय्य दर्शयामास राघवम्॥१३॥
विभीषणस्तु साष्टाङ्गं प्रणिपत्य रघूत्तमम्।
हर्षगद्गदया वाचा भक्त्या च परयान्वितः॥१४॥
रामं श्यामं विशालाक्षं प्रसन्नमुखपङ्कजम्।
धनुर्बाणधरं शान्तं लक्ष्मणेन समन्वितम्॥१५॥
कृताञ्जलिपुटो भूत्वा स्तोतुं समुपचक्रमे॥१६॥

विभीषण उवाच

नमस्ते राम राजेन्द्र नमः सीतामनोरम।
नमस्ते चण्डकोदण्ड नमस्ते भक्तवत्सल॥१७॥
नमोऽनन्ताय शान्ताय रामायामिततेजसे।
सुग्रीवमित्राय च ते रघूणां पतये नमः॥१८॥
जगदुत्पत्तिनाशानां कारणाय महात्मने।
त्रैलोक्यगुरवेऽनादिगृहस्थाय नमो नमः॥१९॥
त्वमादिर्जगतां राम त्वमेव स्थितिकारणम्।
त्वमन्ते निधनस्थानं स्वेच्छाचारस्त्वमेव हि॥२०॥
चराचराणां भूतानां बहिरन्तश्च राघव।
व्याप्यव्यापकरूपेण भवान् भाति जगन्मयः॥२१॥
त्वन्मायया हृतज्ञाना नष्टात्मानो विचेतसः।
गतागतं प्रपद्यन्ते पापपुण्यवशात् सदा॥२२॥
तावत् सत्यं जगद्भाति शुक्तिकारजतं यथा।
यावन्न ज्ञायते ज्ञानं चेतसाऽनन्यगामिना॥२३॥
त्वदज्ञानात् सदा युक्ताः पुत्रदारगृहादिषु।
रमन्ते विषयान् सर्वानन्ते दुःखप्रदान् विभो॥२४॥
त्वमिन्द्रोऽग्निर्यमो रक्षो वरुणश्च तथाऽनिलः।
कुबेरश्च तथा रुद्रस्त्वमेव पुरुषोत्तम॥२५॥
त्वमणोरप्यणीयांश्च स्थूलात् स्थूलतरः प्रभो।
त्वं पिता सर्वलोकानां माता धाता त्वमेव हि॥२६॥
आदिमध्यान्तरहितः परिपूर्णोऽच्युतोऽव्ययः।
त्वं पाणिपादरहितश्चक्षुःश्रोत्रविवर्जितः॥२७॥
श्रोता द्रष्टा ग्रहीता च जवनस्त्वं खरान्तक।
कोशेभ्यो व्यतिरिक्तस्त्वं निर्गुणो निरुपाश्रयः॥२८॥
निर्विकल्पो निर्विकारो निराकारो निरीश्वरः।
षड्भावरहितोऽनादिः पुरुषः प्रकृतेः परः॥२९॥
मायया गृह्यमाणस्त्वं मनुष्य इव भाव्यसे।
ज्ञात्वा त्वां निर्गुणमजं वैष्णवा मोक्षगामिनः॥३०॥
अहं त्वत्पादसद्भक्तिनिःश्रेणीं प्राप्य राघव।
इच्छामि ज्ञानयोगाख्यं सौधमारोढुमीश्वर॥३१॥
नमः सीतापते राम नमः कारुणिकोत्तम।
रावणारे नमस्तुभ्यं त्राहि मां भवसागरात्॥३२॥
ततः प्रसन्नः प्रोवाच श्रीरामो भक्तवत्सलः।
वरं वृणीष्व भद्रं ते वाञ्छितं वरदोऽस्म्यहम्॥३३॥

विभीषण उवाच

धन्योऽस्मि कृतकृत्योऽस्मि कृतकार्योऽस्मि राघव।
त्वत्पाददर्शनादेव विमुक्तोऽस्मि न संशयः॥३४॥
नास्ति मत्सदृशो धन्यो नास्ति मत्सदृशः शुचिः।
नास्ति मत्सदृशो लोके राम त्वन्मूर्तिदर्शनात्॥३५॥
कर्मबन्धविनाशाय त्वज्ज्ञानं भक्तिलक्षणम्।
त्वद्ध्यानं परमार्थं च देहि मे रघुनन्दन॥३६॥
न याचे राम राजेन्द्र सुखं विषयसम्भवम्।
त्वत्पादकमले सक्ता भक्तिरेव सदाऽस्तु मे॥३७॥
ओमित्युक्त्वा पुनः प्रीतो रामः प्रोवाच राक्षसम्।
शृणु वक्ष्यामि ते भद्रं रहस्यं मम निश्चितम्॥३८॥
मद्भक्तानां प्रशान्तानां योगिनां वीतरागिणाम्।
हृदये सीतया नित्यं वसाम्यत्र न संशयः॥३९॥
तस्मात् त्वं सर्वदा शान्तः सर्वकल्मषवर्जितः।
मां ध्यात्वा मोक्ष्यसे नित्यं घोरसंसारसागरात्॥४०॥
स्तोत्रमेतत्पठेद्यस्तु लिखेद्यः शृणुयादपि।
मत्प्रीतये ममाभीष्टं सारूप्यं समवाप्नुयात्॥४१॥
इत्युक्त्वा लक्ष्मणं प्राह श्रीरामो भक्तभक्तिमान्।
पश्यत्विदानीमेवैष मम सन्दर्शने फलम्॥४२॥
लङ्काराज्येऽभिषेक्ष्यामि जलमानय सागरात्।
यावच्चन्द्रश्च सूर्यश्च यावत् तिष्ठति मेदिनी॥४३॥
यावन्मम कथा लोके तावद् राज्यं करोत्वसौ।
इत्युक्त्वा लक्ष्मणेनाम्बु ह्यानाय्य कलशेन तम्॥४४॥
लङ्काराज्याधिपत्यार्थमभिषेकं रमापतिः।
कारयामास सचिवैर्लक्ष्मणेन विशेषतः॥४५॥
साधु साध्विति ते सर्वे वानरास्तुष्टुवुर्भृशम्।
सुग्रीवोऽपि परिष्वज्य विभीषणमथाब्रवीत्॥४६॥
विभीषण वयं सर्वे रामस्य परमात्मनः।
किङ्करास्तत्र मुख्यस्त्वं भक्त्या रामपरिग्रहात्।
रावणस्य विनाशे त्वं साहाय्यं कर्तुमर्हसि॥४७॥

विभीषण उवाच

अहं कियान् सहायत्वे रामस्य परमात्मनः।
किन्तु दास्यं करिष्येऽहं भक्त्या शक्त्या ह्यमायया॥४८॥
दशग्रीवेण सन्दिष्टः शुको नाम महासुरः।
संस्थितो ह्यम्बरे वाक्यं सुग्रीवमिदमब्रवीत्॥४९॥
त्वामाह रावणो राजा भ्रातरं राक्षसाधिपः।
महाकुलप्रसूतस्त्वं राजाऽसि वनचारिणाम्॥५०॥
मम भ्रातृसमानस्त्वं तव नास्त्यर्थविप्लवः।
अहं यदहरं भार्यां राजपुत्रस्य किं तव॥५१॥
किष्किन्धां याहि हरिभिर्लङ्का शक्या न दैवतैः।
प्राप्तुं किं मानवैरल्पसत्त्वैर्वानरयूथपैः॥५२॥
तं प्रापयन्तं वचनं तूर्णमुत्प्लुत्य वानराः।
प्रापद्यन्त तदा क्षिप्रं निहन्तुं दृढमुष्टिभिः॥५३॥
वानरैर्हन्यमानस्तु शुको राममथाब्रवीत्।
न दूतान् घ्नन्ति राजेन्द्र वानरान् वारय प्रभो॥५४॥
रामः श्रुत्वा तदा वाक्यं शुकस्य परिदेवितम्।
मा वधिष्टेति रामस्तान् वारयामास वानरान्॥५५॥
पुनरम्बरमासाद्य शुकः सुग्रीवमब्रवीत्।
ब्रूहि राजन् दशग्रीवं किं वक्ष्यामि व्रजाम्यहम्॥५६॥

सुग्रीव उवाच

यथा वाली मम भ्राता तथा त्वं राक्षसाधम।
हन्तव्यस्त्वं मया यत्नात्सपुत्रबलवाहनः॥५७॥
ब्रूहि मे रामचन्द्रस्य भार्यां हृत्वा क्व यास्यसि।
ततो रामाज्ञया धृत्वा शुकं बध्वाऽन्वरक्षयत्॥५८॥
शार्दूलोऽपि ततः पूर्वं दृष्ट्वा कपिबलं महत्।
यथावत् कथयामास रावणाय स राक्षसः॥५९॥
दीर्घचिन्तापरो भूत्वा निःश्वसन्नास मन्दिरे।
ततः समुद्रमावेक्ष्य रामो रक्तान्तलोचनः॥६०॥
पश्य लक्ष्मण दुष्टोऽसौ वारिधिर्मामुपागतम्।
नाभिनन्दति दुष्टात्मा दर्शनार्थं ममानघ॥६१॥
जानाति मानुषोऽयं मे किं करिष्यति वानरैः।
अद्य पश्य महाबाहो शोषयिष्यामि वारिधिम्॥६२॥
पादेनैव गमिष्यन्ति वानरा विगतज्वराः।
इत्युक्त्वा क्रोधताम्राक्ष आरोपितधनुर्धरः॥६३॥
तूणीराद् बाणमादाय कालाग्निसदृशप्रभम्।
सन्धाय चापमाकृष्य रामो वाक्यमथाब्रवीत्॥६४॥
पश्यन्तु सर्वभूतानि रामस्य शरविक्रमम्।
इदानीं भस्मसात् कुर्यां समुद्रं सरितां पतिम्॥६५॥
एवं ब्रुवति रामे तु सशैलवनकानना।
चचाल वसुधा द्यौश्च दिशश्च तमसावृताः॥६६॥
चुक्षुभे सागरो वेलां भयाद्योजनमत्यगात्।
तिमिनक्रझषा मीनाः प्रतप्ताः परितत्रसुः॥६७॥
एतस्मिन्नन्तरे साक्षात् सागरो दिव्यरूपधृक्।
दिव्याभरणसम्पन्नः स्वभासा भासयन् दिशः॥६८॥
स्वान्तःस्थदिव्यरत्नानि कराभ्यां परिगृह्य सः।
पादयोः पुरतः क्षिप्त्वा रामस्योपायनं बहु॥६९॥
दण्डवत्प्रणिपत्याह रामं रक्तान्तलोचनम्।
त्राहि त्राहि जगन्नाथ राम त्रैलोक्यरक्षक॥७०॥
जडोऽहं राम ते सृष्टः सृजता निखिलं जगत्।
स्वभावमन्यथा कर्तुं कः शक्तो देवनिर्मितम्॥७१॥
स्थूलानि पञ्चभूतानि जडान्येव स्वभावतः।
सृष्टानि भवतैतानि त्वदाज्ञां लङ्घयन्ति न॥७२॥
तामसादहमो राम भूतानि प्रभवन्ति हि।
कारणानुगमात् तेषां जडत्वं तामसं स्वतः॥७३॥
निर्गुणस्त्वं निराकारो यदा मायागुणान् प्रभो।
लीलयाऽङ्गीकरोषि त्वं तदा वैराजनामवान्॥७४॥
गुणात्मनो विराजश्च सत्त्वाद् देवा बभूविरे।
रजोगुणात्प्रजेशाद्या मन्योर्भूतपतिस्तव॥७५॥

त्वामहं मायया छन्नं लीलया मानुषाकृतिम्

जडबुद्धिर्जडो मूर्खः कथं जानामि निर्गुणम्।
दण्ड एव हि मूर्खाणां सन्मार्गप्रापकः प्रभो॥७६॥
भूतानाममरश्रेष्ठ पशूनां लगुडो यथा।
शरणं ते व्रजामीशं शरण्यं भक्तवत्सल।
अभयं देहि मे राम लङ्कामार्गं ददामि ते॥७७॥

श्रीराम उवाच

अमोघोऽयं महाबाणः कस्मिन् देशे निपात्यताम्।
लक्ष्यं दर्शय मे शीघ्रं बाणस्यामोघपातिनः॥७८॥
रामस्य वचनं श्रुत्वा करे दृष्ट्वा महाशरम्।
महोदधिर्महातेजा राघवं वाक्यमब्रवीत्॥७९॥
रामोत्तरप्रदेशे तु द्रुमकुल्य इति श्रुतः।
प्रदेशस्तत्र बहवः पापात्मानो दिवानिशम्॥८०॥
बाधन्ते मां रघुश्रेष्ठ तत्र ते पात्यतां शरः।
रामेण सृष्टो बाणस्तु क्षणादाभीरमण्डलम्॥८१॥
हत्वा पुनः समागत्य तूणीरे पूर्ववत् स्थितः।
ततोऽब्रवीद् रघुश्रेष्ठं सागरो विनयान्वितः॥८२॥
नलः सेतुं करोत्वस्मिन् जले मे विश्वकर्मणः।
सुतो धीमान् समर्थोऽस्मिन् कार्ये लब्धवरो हरिः॥८३॥
कीर्तिं जानन्तु ते लोकाः सर्वलोकमलापहाम्।
इत्युक्त्वा राघवं नत्वा ययौ सिन्धुरदृश्यताम्॥८४॥
ततो रामस्तु सुग्रीवलक्ष्मणाभ्यां समन्वितः।
नलमाज्ञापयच्छीघ्रं वानरैः सेतुबन्धने॥८५॥
ततोऽतिहृष्टः प्लवगेन्द्रयूथपैर्-
महानगेन्द्रप्रतिमैर्युतो नलः।
बबन्ध सेतुं शतयोजनायतं
सुविस्तृतं पर्वतपादपैर्दृढम्॥८६॥

॥इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे युद्धकाण्डे तृतीयः सर्गः॥

ತೃತೀಯಃ ಸರ್ಗಃ

ಶ್ರೀ-ಮಹಾದೇವ ಉವಾಚ

ವಿಭೀಷಣೋ ಮಹಾಭಾಗಶ್ಚತುರ್ಭಿರ್ಮಂತ್ರಿಭಿಃ ಸಹ।
ಆಗತ್ಯ ಗಗನೇ ರಾಮಸಮ್ಮುಖೇ ಸಮವಸ್ಥಿತಃ॥೧॥
ಉಚ್ಚೈರುವಾಚ ಭೋಃ ಸ್ವಾಮಿನ್ ರಾಮ ರಾಜೀವಲೋಚನ।
ರಾವಣಸ್ಯಾನುಜೋಽಹಂ ತೇ ದಾರಹರ್ತುರ್ವಿಭೀಷಣಃ॥೨॥
ನಾಮ್ನಾ ಭ್ರಾತ್ರಾ ನಿರಸ್ತೋಽಹಂ ತ್ವಾಮೇವ ಶರಣಂ ಗತಃ।
ಹಿತಮುಕ್ತಂ ಮಯಾ ದೇವ ತಸ್ಯ ಚಾವಿದಿತಾತ್ಮನಃ॥೩॥
ಸೀತಾಂ ರಾಮಾಯ ವೈದೇಹೀಂ ಪ್ರೇಷಯೇತಿ ಪುನಃ ಪುನಃ।
ಉಕ್ತೋಽಪಿ ನ ಶೃಣೋತ್ಯೇವ ಕಾಲಪಾಶವಶಂ ಗತಃ॥೪॥
ಹಂತುಂ ಮಾಂ ಖಡ್ಗಮಾದಾಯ ಪ್ರಾದ್ರವದ್ ರಾಕ್ಷಸಾಧಮಃ।
ತತೋಽಚಿರೇಣ ಸಚಿವೈಶ್ಚತುರ್ಭಿಃ ಸಹಿತೋ ಭಯಾತ್॥೫॥
ತ್ವಾಮೇವ ಭವಮೋಕ್ಷಾಯ ಮುಮುಕ್ಷುಃ ಶರಣಂ ಗತಃ।
ವಿಭೀಷಣವಚಃ ಶ್ರುತ್ವಾ ಸುಗ್ರೀವೋ ವಾಕ್ಯಮಬ್ರವೀತ್॥೬॥
ವಿಶ್ವಾಸಾರ್ಹೋ ನ ತೇ ರಾಮ ಮಾಯಾವೀ ರಾಕ್ಷಸಾಧಮಃ।
ಸೀತಾಹರ್ತುರ್ವಿಶೇಷೇಣ ರಾವಣಸ್ಯಾನುಜೋ ಬಲೀ॥೭॥
ಮಂತ್ರಿಭಿಃ ಸಾಯುಧೈರಸ್ಮಾನ್ ವಿವರೇ ನಿಹನಿಷ್ಯತಿ।
ತದಾಜ್ಞಾಪಯ ಮೇ ದೇವ ವಾನರೈರ್ಹನ್ಯತಾಮಯಮ್॥೮॥
ಮಮೈವಂ ಭಾತಿ ಮೇ ರಾಮ ಬುದ್ಧ್ಯಾ ಕಿಂ ನಿಶ್ಚಿತಂ ವದ।
ಶ್ರುತ್ವಾ ಸುಗ್ರೀವವಚನಂ ರಾಮಃ ಸಸ್ಮಿತಮಬ್ರವೀತ್॥೯॥
ಯದೀಚ್ಛಾಮಿ ಕಪಿಶ್ರೇಷ್ಠ ಲೋಕಾನ್ ಸರ್ವಾನ್ ಸಹೇಶ್ವರಾನ್।
ನಿಮಿಷಾರ್ಧೇನ ಸಂಹನ್ಯಾಂ ಸೃಜಾಮಿ ನಿಮಿಷಾರ್ಧತಃ॥೧೦॥
ಅತೋ ಮಯಾಽಭಯಂ ದತ್ತಂ ಶೀಘ್ರಮಾನಯ ರಾಕ್ಷಸಮ್॥೧೧॥
ಸಕೃದೇವ ಪ್ರಪನ್ನಾಯ ತವಾಸ್ಮೀತಿ ಚ ಯಾಚತೇ।
ಅಭಯಂ ಸರ್ವಭೂತೇಭ್ಯೋ ದದಾಮ್ಯೇತದ್ವ್ರತಂ ಮಮ॥೧೨॥
ರಾಮಸ್ಯ ವಚನಂ ಶ್ರುತ್ವಾ ಸುಗ್ರೀವೋ ಹೃಷ್ಟಮಾನಸಃ।
ವಿಭೀಷಣಮಥಾನಾಯ್ಯ ದರ್ಶಯಾಮಾಸ ರಾಘವಮ್॥೧೩॥
ವಿಭೀಷಣಸ್ತು ಸಾಷ್ಟಾಂಗಂ ಪ್ರಣಿಪತ್ಯ ರಘೂತ್ತಮಮ್।
ಹರ್ಷಗದ್ಗದಯಾ ವಾಚಾ ಭಕ್ತ್ಯಾ ಚ ಪರಯಾನ್ವಿತಃ॥೧೪॥
ರಾಮಂ ಶ್ಯಾಮಂ ವಿಶಾಲಾಕ್ಷಂ ಪ್ರಸನ್ನಮುಖಪಂಕಜಮ್।
ಧನುರ್ಬಾಣಧರಂ ಶಾಂತಂ ಲಕ್ಷ್ಮಣೇನ ಸಮನ್ವಿತಮ್॥೧೫॥
ಕೃತಾಂಜಲಿಪುಟೋ ಭೂತ್ವಾ ಸ್ತೋತುಂ ಸಮುಪಚಕ್ರಮೇ॥೧೬॥

ವಿಭೀಷಣ ಉವಾಚ

ನಮಸ್ತೇ ರಾಮ ರಾಜೇಂದ್ರ ನಮಃ ಸೀತಾಮನೋರಮ।
ನಮಸ್ತೇ ಚಂಡಕೋದಂಡ ನಮಸ್ತೇ ಭಕ್ತವತ್ಸಲ॥೧೭॥
ನಮೋಽನಂತಾಯ ಶಾಂತಾಯ ರಾಮಾಯಾಮಿತತೇಜಸೇ।
ಸುಗ್ರೀವಮಿತ್ರಾಯ ಚ ತೇ ರಘೂಣಾಂ ಪತಯೇ ನಮಃ॥೧೮॥
ಜಗದುತ್ಪತ್ತಿನಾಶಾನಾಂ ಕಾರಣಾಯ ಮಹಾತ್ಮನೇ।
ತ್ರೈಲೋಕ್ಯಗುರವೇಽನಾದಿಗೃಹಸ್ಥಾಯ ನಮೋ ನಮಃ॥೧೯॥
ತ್ವಮಾದಿರ್ಜಗತಾಂ ರಾಮ ತ್ವಮೇವ ಸ್ಥಿತಿಕಾರಣಮ್।
ತ್ವಮಂತೇ ನಿಧನಸ್ಥಾನಂ ಸ್ವೇಚ್ಛಾಚಾರಸ್ತ್ವಮೇವ ಹಿ॥೨೦॥
ಚರಾಚರಾಣಾಂ ಭೂತಾನಾಂ ಬಹಿರಂತಶ್ಚ ರಾಘವ।
ವ್ಯಾಪ್ಯವ್ಯಾಪಕರೂಪೇಣ ಭವಾನ್ ಭಾತಿ ಜಗನ್ಮಯಃ॥೨೧॥
ತ್ವನ್ಮಾಯಯಾ ಹೃತಜ್ಞಾನಾ ನಷ್ಟಾತ್ಮಾನೋ ವಿಚೇತಸಃ।
ಗತಾಗತಂ ಪ್ರಪದ್ಯಂತೇ ಪಾಪಪುಣ್ಯವಶಾತ್ ಸದಾ॥೨೨॥
ತಾವತ್ ಸತ್ಯಂ ಜಗದ್ಭಾತಿ ಶುಕ್ತಿಕಾರಜತಂ ಯಥಾ।
ಯಾವನ್ನ ಜ್ಞಾಯತೇ ಜ್ಞಾನಂ ಚೇತಸಾಽನನ್ಯಗಾಮಿನಾ॥೨೩॥
ತ್ವದಜ್ಞಾನಾತ್ ಸದಾ ಯುಕ್ತಾಃ ಪುತ್ರದಾರಗೃಹಾದಿಷು।
ರಮಂತೇ ವಿಷಯಾನ್ ಸರ್ವಾನಂತೇ ದುಃಖಪ್ರದಾನ್ ವಿಭೋ॥೨೪॥
ತ್ವಮಿಂದ್ರೋಽಗ್ನಿರ್ಯಮೋ ರಕ್ಷೋ ವರುಣಶ್ಚ ತಥಾಽನಿಲಃ।
ಕುಬೇರಶ್ಚ ತಥಾ ರುದ್ರಸ್ತ್ವಮೇವ ಪುರುಷೋತ್ತಮ॥೨೫॥
ತ್ವಮಣೋರಪ್ಯಣೀಯಾಂಶ್ಚ ಸ್ಥೂಲಾತ್ ಸ್ಥೂಲತರಃ ಪ್ರಭೋ।
ತ್ವಂ ಪಿತಾ ಸರ್ವಲೋಕಾನಾಂ ಮಾತಾ ಧಾತಾ ತ್ವಮೇವ ಹಿ॥೨೬॥
ಆದಿಮಧ್ಯಾಂತರಹಿತಃ ಪರಿಪೂರ್ಣೋಽಚ್ಯುತೋಽವ್ಯಯಃ।
ತ್ವಂ ಪಾಣಿಪಾದರಹಿತಶ್ಚಕ್ಷುಃಶ್ರೋತ್ರವಿವರ್ಜಿತಃ॥೨೭॥
ಶ್ರೋತಾ ದ್ರಷ್ಟಾ ಗ್ರಹೀತಾ ಚ ಜವನಸ್ತ್ವಂ ಖರಾಂತಕ।
ಕೋಶೇಭ್ಯೋ ವ್ಯತಿರಿಕ್ತಸ್ತ್ವಂ ನಿರ್ಗುಣೋ ನಿರುಪಾಶ್ರಯಃ॥೨೮॥
ನಿರ್ವಿಕಲ್ಪೋ ನಿರ್ವಿಕಾರೋ ನಿರಾಕಾರೋ ನಿರೀಶ್ವರಃ।
ಷಡ್ಭಾವರಹಿತೋಽನಾದಿಃ ಪುರುಷಃ ಪ್ರಕೃತೇಃ ಪರಃ॥೨೯॥
ಮಾಯಯಾ ಗೃಹ್ಯಮಾಣಸ್ತ್ವಂ ಮನುಷ್ಯ ಇವ ಭಾವ್ಯಸೇ।
ಜ್ಞಾತ್ವಾ ತ್ವಾಂ ನಿರ್ಗುಣಮಜಂ ವೈಷ್ಣವಾ ಮೋಕ್ಷಗಾಮಿನಃ॥೩೦॥
ಅಹಂ ತ್ವತ್ಪಾದಸದ್ಭಕ್ತಿನಿಃಶ್ರೇಣೀಂ ಪ್ರಾಪ್ಯ ರಾಘವ।
ಇಚ್ಛಾಮಿ ಜ್ಞಾನಯೋಗಾಖ್ಯಂ ಸೌಧಮಾರೋಢುಮೀಶ್ವರ॥೩೧॥
ನಮಃ ಸೀತಾಪತೇ ರಾಮ ನಮಃ ಕಾರುಣಿಕೋತ್ತಮ।
ರಾವಣಾರೇ ನಮಸ್ತುಭ್ಯಂ ತ್ರಾಹಿ ಮಾಂ ಭವಸಾಗರಾತ್॥೩೨॥
ತತಃ ಪ್ರಸನ್ನಃ ಪ್ರೋವಾಚ ಶ್ರೀರಾಮೋ ಭಕ್ತವತ್ಸಲಃ।
ವರಂ ವೃಣೀಷ್ವ ಭದ್ರಂ ತೇ ವಾಂಛಿತಂ ವರದೋಽಸ್ಮ್ಯಹಮ್॥೩೩॥

ವಿಭೀಷಣ ಉವಾಚ

ಧನ್ಯೋಽಸ್ಮಿ ಕೃತಕೃತ್ಯೋಽಸ್ಮಿ ಕೃತಕಾರ್ಯೋಽಸ್ಮಿ ರಾಘವ।
ತ್ವತ್ಪಾದದರ್ಶನಾದೇವ ವಿಮುಕ್ತೋಽಸ್ಮಿ ನ ಸಂಶಯಃ॥೩೪॥
ನಾಸ್ತಿ ಮತ್ಸದೃಶೋ ಧನ್ಯೋ ನಾಸ್ತಿ ಮತ್ಸದೃಶಃ ಶುಚಿಃ।
ನಾಸ್ತಿ ಮತ್ಸದೃಶೋ ಲೋಕೇ ರಾಮ ತ್ವನ್ಮೂರ್ತಿದರ್ಶನಾತ್॥೩೫॥
ಕರ್ಮಬಂಧವಿನಾಶಾಯ ತ್ವಜ್ಜ್ಞಾನಂ ಭಕ್ತಿಲಕ್ಷಣಮ್।
ತ್ವದ್ಧ್ಯಾನಂ ಪರಮಾರ್ಥಂ ಚ ದೇಹಿ ಮೇ ರಘುನಂದನ॥೩೬॥
ನ ಯಾಚೇ ರಾಮ ರಾಜೇಂದ್ರ ಸುಖಂ ವಿಷಯಸಂಭವಮ್।
ತ್ವತ್ಪಾದಕಮಲೇ ಸಕ್ತಾ ಭಕ್ತಿರೇವ ಸದಾಽಸ್ತು ಮೇ॥೩೭॥
ಓಮಿತ್ಯುಕ್ತ್ವಾ ಪುನಃ ಪ್ರೀತೋ ರಾಮಃ ಪ್ರೋವಾಚ ರಾಕ್ಷಸಮ್।
ಶೃಣು ವಕ್ಷ್ಯಾಮಿ ತೇ ಭದ್ರಂ ರಹಸ್ಯಂ ಮಮ ನಿಶ್ಚಿತಮ್॥೩೮॥
ಮದ್ಭಕ್ತಾನಾಂ ಪ್ರಶಾಂತಾನಾಂ ಯೋಗಿನಾಂ ವೀತರಾಗಿಣಾಮ್।
ಹೃದಯೇ ಸೀತಯಾ ನಿತ್ಯಂ ವಸಾಮ್ಯತ್ರ ನ ಸಂಶಯಃ॥೩೯॥
ತಸ್ಮಾತ್ ತ್ವಂ ಸರ್ವದಾ ಶಾಂತಃ ಸರ್ವಕಲ್ಮಷವರ್ಜಿತಃ।
ಮಾಂ ಧ್ಯಾತ್ವಾ ಮೋಕ್ಷ್ಯಸೇ ನಿತ್ಯಂ ಘೋರಸಂಸಾರಸಾಗರಾತ್॥೪೦॥
ಸ್ತೋತ್ರಮೇತತ್ಪಠೇದ್ಯಸ್ತು ಲಿಖೇದ್ಯಃ ಶೃಣುಯಾದಪಿ।
ಮತ್ಪ್ರೀತಯೇ ಮಮಾಭೀಷ್ಟಂ ಸಾರೂಪ್ಯಂ ಸಮವಾಪ್ನುಯಾತ್॥೪೧॥
ಇತ್ಯುಕ್ತ್ವಾ ಲಕ್ಷ್ಮಣಂ ಪ್ರಾಹ ಶ್ರೀರಾಮೋ ಭಕ್ತಭಕ್ತಿಮಾನ್।
ಪಶ್ಯತ್ವಿದಾನೀಮೇವೈಷ ಮಮ ಸಂದರ್ಶನೇ ಫಲಮ್॥೪೨॥
ಲಂಕಾರಾಜ್ಯೇಽಭಿಷೇಕ್ಷ್ಯಾಮಿ ಜಲಮಾನಯ ಸಾಗರಾತ್।
ಯಾವಚ್ಚಂದ್ರಶ್ಚ ಸೂರ್ಯಶ್ಚ ಯಾವತ್ ತಿಷ್ಠತಿ ಮೇದಿನೀ॥೪೩॥
ಯಾವನ್ಮಮ ಕಥಾ ಲೋಕೇ ತಾವದ್ ರಾಜ್ಯಂ ಕರೋತ್ವಸೌ।
ಇತ್ಯುಕ್ತ್ವಾ ಲಕ್ಷ್ಮಣೇನಾಂಬು ಹ್ಯಾನಾಯ್ಯ ಕಲಶೇನ ತಮ್॥೪೪॥
ಲಂಕಾರಾಜ್ಯಾಧಿಪತ್ಯಾರ್ಥಮಭಿಷೇಕಂ ರಮಾಪತಿಃ।
ಕಾರಯಾಮಾಸ ಸಚಿವೈರ್ಲಕ್ಷ್ಮಣೇನ ವಿಶೇಷತಃ॥೪೫॥
ಸಾಧು ಸಾಧ್ವಿತಿ ತೇ ಸರ್ವೇ ವಾನರಾಸ್ತುಷ್ಟುವುರ್ಭೃಶಮ್।
ಸುಗ್ರೀವೋಽಪಿ ಪರಿಷ್ವಜ್ಯ ವಿಭೀಷಣಮಥಾಬ್ರವೀತ್॥೪೬॥
ವಿಭೀಷಣ ವಯಂ ಸರ್ವೇ ರಾಮಸ್ಯ ಪರಮಾತ್ಮನಃ।
ಕಿಂಕರಾಸ್ತತ್ರ ಮುಖ್ಯಸ್ತ್ವಂ ಭಕ್ತ್ಯಾ ರಾಮಪರಿಗ್ರಹಾತ್।
ರಾವಣಸ್ಯ ವಿನಾಶೇ ತ್ವಂ ಸಾಹಾಯ್ಯಂ ಕರ್ತುಮರ್ಹಸಿ॥೪೭॥

ವಿಭೀಷಣ ಉವಾಚ

ಅಹಂ ಕಿಯಾನ್ ಸಹಾಯತ್ವೇ ರಾಮಸ್ಯ ಪರಮಾತ್ಮನಃ।
ಕಿಂತು ದಾಸ್ಯಂ ಕರಿಷ್ಯೇಽಹಂ ಭಕ್ತ್ಯಾ ಶಕ್ತ್ಯಾ ಹ್ಯಮಾಯಯಾ॥೪೮॥
ದಶಗ್ರೀವೇಣ ಸಂದಿಷ್ಟಃ ಶುಕೋ ನಾಮ ಮಹಾಸುರಃ।
ಸಂಸ್ಥಿತೋ ಹ್ಯಂಬರೇ ವಾಕ್ಯಂ ಸುಗ್ರೀವಮಿದಮಬ್ರವೀತ್॥೪೯॥
ತ್ವಾಮಾಹ ರಾವಣೋ ರಾಜಾ ಭ್ರಾತರಂ ರಾಕ್ಷಸಾಧಿಪಃ।
ಮಹಾಕುಲಪ್ರಸೂತಸ್ತ್ವಂ ರಾಜಾಽಸಿ ವನಚಾರಿಣಾಮ್॥೫೦॥
ಮಮ ಭ್ರಾತೃಸಮಾನಸ್ತ್ವಂ ತವ ನಾಸ್ತ್ಯರ್ಥವಿಪ್ಲವಃ।
ಅಹಂ ಯದಹರಂ ಭಾರ್ಯಾಂ ರಾಜಪುತ್ರಸ್ಯ ಕಿಂ ತವ॥೫೧॥
ಕಿಷ್ಕಿಂಧಾಂ ಯಾಹಿ ಹರಿಭಿರ್ಲಂಕಾ ಶಕ್ಯಾ ನ ದೈವತೈಃ।
ಪ್ರಾಪ್ತುಂ ಕಿಂ ಮಾನವೈರಲ್ಪಸತ್ತ್ವೈರ್ವಾನರಯೂಥಪೈಃ॥೫೨॥
ತಂ ಪ್ರಾಪಯಂತಂ ವಚನಂ ತೂರ್ಣಮುತ್ಪ್ಲುತ್ಯ ವಾನರಾಃ।
ಪ್ರಾಪದ್ಯಂತ ತದಾ ಕ್ಷಿಪ್ರಂ ನಿಹಂತುಂ ದೃಢಮುಷ್ಟಿಭಿಃ॥೫೩॥
ವಾನರೈರ್ಹನ್ಯಮಾನಸ್ತು ಶುಕೋ ರಾಮಮಥಾಬ್ರವೀತ್।
ನ ದೂತಾನ್ ಘ್ನಂತಿ ರಾಜೇಂದ್ರ ವಾನರಾನ್ ವಾರಯ ಪ್ರಭೋ॥೫೪॥
ರಾಮಃ ಶ್ರುತ್ವಾ ತದಾ ವಾಕ್ಯಂ ಶುಕಸ್ಯ ಪರಿದೇವಿತಮ್।
ಮಾ ವಧಿಷ್ಟೇತಿ ರಾಮಸ್ತಾನ್ ವಾರಯಾಮಾಸ ವಾನರಾನ್॥೫೫॥
ಪುನರಂಬರಮಾಸಾದ್ಯ ಶುಕಃ ಸುಗ್ರೀವಮಬ್ರವೀತ್।
ಬ್ರೂಹಿ ರಾಜನ್ ದಶಗ್ರೀವಂ ಕಿಂ ವಕ್ಷ್ಯಾಮಿ ವ್ರಜಾಮ್ಯಹಮ್॥೫೬॥

ಸುಗ್ರೀವ ಉವಾಚ

ಯಥಾ ವಾಲೀ ಮಮ ಭ್ರಾತಾ ತಥಾ ತ್ವಂ ರಾಕ್ಷಸಾಧಮ।
ಹಂತವ್ಯಸ್ತ್ವಂ ಮಯಾ ಯತ್ನಾತ್ಸಪುತ್ರಬಲವಾಹನಃ॥೫೭॥
ಬ್ರೂಹಿ ಮೇ ರಾಮಚಂದ್ರಸ್ಯ ಭಾರ್ಯಾಂ ಹೃತ್ವಾ ಕ್ವ ಯಾಸ್ಯಸಿ।
ತತೋ ರಾಮಾಜ್ಞಯಾ ಧೃತ್ವಾ ಶುಕಂ ಬಧ್ವಾಽನ್ವರಕ್ಷಯತ್॥೫೮॥
ಶಾರ್ದೂಲೋಽಪಿ ತತಃ ಪೂರ್ವಂ ದೃಷ್ಟ್ವಾ ಕಪಿಬಲಂ ಮಹತ್।
ಯಥಾವತ್ ಕಥಯಾಮಾಸ ರಾವಣಾಯ ಸ ರಾಕ್ಷಸಃ॥೫೯॥
ದೀರ್ಘಚಿಂತಾಪರೋ ಭೂತ್ವಾ ನಿಃಶ್ವಸನ್ನಾಸ ಮಂದಿರೇ।
ತತಃ ಸಮುದ್ರಮಾವೇಕ್ಷ್ಯ ರಾಮೋ ರಕ್ತಾಂತಲೋಚನಃ॥೬೦॥
ಪಶ್ಯ ಲಕ್ಷ್ಮಣ ದುಷ್ಟೋಽಸೌ ವಾರಿಧಿರ್ಮಾಮುಪಾಗತಮ್।
ನಾಭಿನಂದತಿ ದುಷ್ಟಾತ್ಮಾ ದರ್ಶನಾರ್ಥಂ ಮಮಾನಘ॥೬೧॥
ಜಾನಾತಿ ಮಾನುಷೋಽಯಂ ಮೇ ಕಿಂ ಕರಿಷ್ಯತಿ ವಾನರೈಃ।
ಅದ್ಯ ಪಶ್ಯ ಮಹಾಬಾಹೋ ಶೋಷಯಿಷ್ಯಾಮಿ ವಾರಿಧಿಮ್॥೬೨॥
ಪಾದೇನೈವ ಗಮಿಷ್ಯಂತಿ ವಾನರಾ ವಿಗತಜ್ವರಾಃ।
ಇತ್ಯುಕ್ತ್ವಾ ಕ್ರೋಧತಾಮ್ರಾಕ್ಷ ಆರೋಪಿತಧನುರ್ಧರಃ॥೬೩॥
ತೂಣೀರಾದ್ ಬಾಣಮಾದಾಯ ಕಾಲಾಗ್ನಿಸದೃಶಪ್ರಭಮ್।
ಸಂಧಾಯ ಚಾಪಮಾಕೃಷ್ಯ ರಾಮೋ ವಾಕ್ಯಮಥಾಬ್ರವೀತ್॥೬೪॥
ಪಶ್ಯಂತು ಸರ್ವಭೂತಾನಿ ರಾಮಸ್ಯ ಶರವಿಕ್ರಮಮ್।
ಇದಾನೀಂ ಭಸ್ಮಸಾತ್ ಕುರ್ಯಾಂ ಸಮುದ್ರಂ ಸರಿತಾಂ ಪತಿಮ್॥೬೫॥
ಏವಂ ಬ್ರುವತಿ ರಾಮೇ ತು ಸಶೈಲವನಕಾನನಾ।
ಚಚಾಲ ವಸುಧಾ ದ್ಯೌಶ್ಚ ದಿಶಶ್ಚ ತಮಸಾವೃತಾಃ॥೬೬॥
ಚುಕ್ಷುಭೇ ಸಾಗರೋ ವೇಲಾಂ ಭಯಾದ್ಯೋಜನಮತ್ಯಗಾತ್।
ತಿಮಿನಕ್ರಝಷಾ ಮೀನಾಃ ಪ್ರತಪ್ತಾಃ ಪರಿತತ್ರಸುಃ॥೬೭॥
ಏತಸ್ಮಿನ್ನಂತರೇ ಸಾಕ್ಷಾತ್ ಸಾಗರೋ ದಿವ್ಯರೂಪಧೃಕ್।
ದಿವ್ಯಾಭರಣಸಂಪನ್ನಃ ಸ್ವಭಾಸಾ ಭಾಸಯನ್ ದಿಶಃ॥೬೮॥
ಸ್ವಾಂತಃಸ್ಥದಿವ್ಯರತ್ನಾನಿ ಕರಾಭ್ಯಾಂ ಪರಿಗೃಹ್ಯ ಸಃ।
ಪಾದಯೋಃ ಪುರತಃ ಕ್ಷಿಪ್ತ್ವಾ ರಾಮಸ್ಯೋಪಾಯನಂ ಬಹು॥೬೯॥
ದಂಡವತ್ಪ್ರಣಿಪತ್ಯಾಹ ರಾಮಂ ರಕ್ತಾಂತಲೋಚನಮ್।
ತ್ರಾಹಿ ತ್ರಾಹಿ ಜಗನ್ನಾಥ ರಾಮ ತ್ರೈಲೋಕ್ಯರಕ್ಷಕ॥೭೦॥
ಜಡೋಽಹಂ ರಾಮ ತೇ ಸೃಷ್ಟಃ ಸೃಜತಾ ನಿಖಿಲಂ ಜಗತ್।
ಸ್ವಭಾವಮನ್ಯಥಾ ಕರ್ತುಂ ಕಃ ಶಕ್ತೋ ದೇವನಿರ್ಮಿತಮ್॥೭೧॥
ಸ್ಥೂಲಾನಿ ಪಂಚಭೂತಾನಿ ಜಡಾನ್ಯೇವ ಸ್ವಭಾವತಃ।
ಸೃಷ್ಟಾನಿ ಭವತೈತಾನಿ ತ್ವದಾಜ್ಞಾಂ ಲಂಘಯಂತಿ ನ॥೭೨॥
ತಾಮಸಾದಹಮೋ ರಾಮ ಭೂತಾನಿ ಪ್ರಭವಂತಿ ಹಿ।
ಕಾರಣಾನುಗಮಾತ್ ತೇಷಾಂ ಜಡತ್ವಂ ತಾಮಸಂ ಸ್ವತಃ॥೭೩॥
ನಿರ್ಗುಣಸ್ತ್ವಂ ನಿರಾಕಾರೋ ಯದಾ ಮಾಯಾಗುಣಾನ್ ಪ್ರಭೋ।
ಲೀಲಯಾಽಂಗೀಕರೋಷಿ ತ್ವಂ ತದಾ ವೈರಾಜನಾಮವಾನ್॥೭೪॥
ಗುಣಾತ್ಮನೋ ವಿರಾಜಶ್ಚ ಸತ್ತ್ವಾದ್ ದೇವಾ ಬಭೂವಿರೇ।
ರಜೋಗುಣಾತ್ಪ್ರಜೇಶಾದ್ಯಾ ಮನ್ಯೋರ್ಭೂತಪತಿಸ್ತವ॥೭೫॥

ತ್ವಾಮಹಂ ಮಾಯಯಾ ಛನ್ನಂ ಲೀಲಯಾ ಮಾನುಷಾಕೃತಿಮ್

ಜಡಬುದ್ಧಿರ್ಜಡೋ ಮೂರ್ಖಃ ಕಥಂ ಜಾನಾಮಿ ನಿರ್ಗುಣಮ್।
ದಂಡ ಏವ ಹಿ ಮೂರ್ಖಾಣಾಂ ಸನ್ಮಾರ್ಗಪ್ರಾಪಕಃ ಪ್ರಭೋ॥೭೬॥
ಭೂತಾನಾಮಮರಶ್ರೇಷ್ಠ ಪಶೂನಾಂ ಲಗುಡೋ ಯಥಾ।
ಶರಣಂ ತೇ ವ್ರಜಾಮೀಶಂ ಶರಣ್ಯಂ ಭಕ್ತವತ್ಸಲ।
ಅಭಯಂ ದೇಹಿ ಮೇ ರಾಮ ಲಂಕಾಮಾರ್ಗಂ ದದಾಮಿ ತೇ॥೭೭॥

ಶ್ರೀರಾಮ ಉವಾಚ

ಅಮೋಘೋಽಯಂ ಮಹಾಬಾಣಃ ಕಸ್ಮಿನ್ ದೇಶೇ ನಿಪಾತ್ಯತಾಮ್।
ಲಕ್ಷ್ಯಂ ದರ್ಶಯ ಮೇ ಶೀಘ್ರಂ ಬಾಣಸ್ಯಾಮೋಘಪಾತಿನಃ॥೭೮॥
ರಾಮಸ್ಯ ವಚನಂ ಶ್ರುತ್ವಾ ಕರೇ ದೃಷ್ಟ್ವಾ ಮಹಾಶರಮ್।
ಮಹೋದಧಿರ್ಮಹಾತೇಜಾ ರಾಘವಂ ವಾಕ್ಯಮಬ್ರವೀತ್॥೭೯॥
ರಾಮೋತ್ತರಪ್ರದೇಶೇ ತು ದ್ರುಮಕುಲ್ಯ ಇತಿ ಶ್ರುತಃ।
ಪ್ರದೇಶಸ್ತತ್ರ ಬಹವಃ ಪಾಪಾತ್ಮಾನೋ ದಿವಾನಿಶಮ್॥೮೦॥
ಬಾಧಂತೇ ಮಾಂ ರಘುಶ್ರೇಷ್ಠ ತತ್ರ ತೇ ಪಾತ್ಯತಾಂ ಶರಃ।
ರಾಮೇಣ ಸೃಷ್ಟೋ ಬಾಣಸ್ತು ಕ್ಷಣಾದಾಭೀರಮಂಡಲಮ್॥೮೧॥
ಹತ್ವಾ ಪುನಃ ಸಮಾಗತ್ಯ ತೂಣೀರೇ ಪೂರ್ವವತ್ ಸ್ಥಿತಃ।
ತತೋಽಬ್ರವೀದ್ ರಘುಶ್ರೇಷ್ಠಂ ಸಾಗರೋ ವಿನಯಾನ್ವಿತಃ॥೮೨॥
ನಲಃ ಸೇತುಂ ಕರೋತ್ವಸ್ಮಿನ್ ಜಲೇ ಮೇ ವಿಶ್ವಕರ್ಮಣಃ।
ಸುತೋ ಧೀಮಾನ್ ಸಮರ್ಥೋಽಸ್ಮಿನ್ ಕಾರ್ಯೇ ಲಬ್ಧವರೋ ಹರಿಃ॥೮೩॥
ಕೀರ್ತಿಂ ಜಾನಂತು ತೇ ಲೋಕಾಃ ಸರ್ವಲೋಕಮಲಾಪಹಾಮ್।
ಇತ್ಯುಕ್ತ್ವಾ ರಾಘವಂ ನತ್ವಾ ಯಯೌ ಸಿಂಧುರದೃಶ್ಯತಾಮ್॥೮೪॥
ತತೋ ರಾಮಸ್ತು ಸುಗ್ರೀವಲಕ್ಷ್ಮಣಾಭ್ಯಾಂ ಸಮನ್ವಿತಃ।
ನಲಮಾಜ್ಞಾಪಯಚ್ಛೀಘ್ರಂ ವಾನರೈಃ ಸೇತುಬಂಧನೇ॥೮೫॥
ತತೋಽತಿಹೃಷ್ಟಃ ಪ್ಲವಗೇಂದ್ರಯೂಥಪೈರ್-
ಮಹಾನಗೇಂದ್ರಪ್ರತಿಮೈರ್ಯುತೋ ನಲಃ।
ಬಬಂಧ ಸೇತುಂ ಶತಯೋಜನಾಯತಂ
ಸುವಿಸ್ತೃತಂ ಪರ್ವತಪಾದಪೈರ್ದೃಢಮ್॥೮೬॥

॥ಇತಿ ಶ್ರೀಮದಧ್ಯಾತ್ಮರಾಮಾಯಣೇ ಉಮಾಮಹೇಶ್ವರಸಂವಾದೇ ಯುದ್ಧಕಾಂಡೇ ತೃತೀಯಃ ಸರ್ಗಃ॥

Tṛtīyaḥ Sargaḥ

śrī-mahādeva uvāca

vibhīṣaṇo mahābhāgaścaturbhirmantribhiḥ saha|
āgatya gagane rāmasammukhe samavasthitaḥ||1||
uccairuvāca bhoḥ svāmin rāma rājīvalocana|
rāvaṇasyānujo'haṃ te dāraharturvibhīṣaṇaḥ||2||
nāmnā bhrātrā nirasto'haṃ tvāmeva śaraṇaṃ gataḥ|
hitamuktaṃ mayā deva tasya cāviditātmanaḥ||3||
sītāṃ rāmāya vaidehīṃ preṣayeti punaḥ punaḥ|
ukto'pi na śṛṇotyeva kālapāśavaśaṃ gataḥ||4||
hantuṃ māṃ khaḍgamādāya prādravad rākṣasādhamaḥ|
tato'cireṇa sacivaiścaturbhiḥ sahito bhayāt||5||
tvāmeva bhavamokṣāya mumukṣuḥ śaraṇaṃ gataḥ|
vibhīṣaṇavacaḥ śrutvā sugrīvo vākyamabravīt||6||
viśvāsārho na te rāma māyāvī rākṣasādhamaḥ|
sītāharturviśeṣeṇa rāvaṇasyānujo balī||7||
mantribhiḥ sāyudhairasmān vivare nihaniṣyati|
tadājñāpaya me deva vānarairhanyatāmayam||8||
mamaivaṃ bhāti me rāma buddhyā kiṃ niścitaṃ vada|
śrutvā sugrīvavacanaṃ rāmaḥ sasmitamabravīt||9||
yadīcchāmi kapiśreṣṭha lokān sarvān saheśvarān|
nimiṣārdhena saṃhanyāṃ sṛjāmi nimiṣārdhataḥ||10||
ato mayā'bhayaṃ dattaṃ śīghramānaya rākṣasam||11||
sakṛdeva prapannāya tavāsmīti ca yācate|
abhayaṃ sarvabhūtebhyo dadāmyetadvrataṃ mama||12||
rāmasya vacanaṃ śrutvā sugrīvo hṛṣṭamānasaḥ|
vibhīṣaṇamathānāyya darśayāmāsa rāghavam||13||
vibhīṣaṇastu sāṣṭāṅgaṃ praṇipatya raghūttamam|
harṣagadgadayā vācā bhaktyā ca parayānvitaḥ||14||
rāmaṃ śyāmaṃ viśālākṣaṃ prasannamukhapaṅkajam|
dhanurbāṇadharaṃ śāntaṃ lakṣmaṇena samanvitam||15||
kṛtāñjalipuṭo bhūtvā stotuṃ samupacakrame||16||

vibhīṣaṇa uvāca

namaste rāma rājendra namaḥ sītāmanorama|
namaste caṇḍakodaṇḍa namaste bhaktavatsala||17||
namo'nantāya śāntāya rāmāyāmitatejase|
sugrīvamitrāya ca te raghūṇāṃ pataye namaḥ||18||
jagadutpattināśānāṃ kāraṇāya mahātmane|
trailokyagurave'nādigṛhasthāya namo namaḥ||19||
tvamādirjagatāṃ rāma tvameva sthitikāraṇam|
tvamante nidhanasthānaṃ svecchācārastvameva hi||20||
carācarāṇāṃ bhūtānāṃ bahirantaśca rāghava|
vyāpyavyāpakarūpeṇa bhavān bhāti jaganmayaḥ||21||
tvanmāyayā hṛtajñānā naṣṭātmāno vicetasaḥ|
gatāgataṃ prapadyante pāpapuṇyavaśāt sadā||22||
tāvat satyaṃ jagadbhāti śuktikārajataṃ yathā|
yāvanna jñāyate jñānaṃ cetasā'nanyagāminā||23||
tvadajñānāt sadā yuktāḥ putradāragṛhādiṣu|
ramante viṣayān sarvānante duḥkhapradān vibho||24||
tvamindro'gniryamo rakṣo varuṇaśca tathā'nilaḥ|
kuberaśca tathā rudrastvameva puruṣottama||25||
tvamaṇorapyaṇīyāṃśca sthūlāt sthūlataraḥ prabho|
tvaṃ pitā sarvalokānāṃ mātā dhātā tvameva hi||26||
ādimadhyāntarahitaḥ paripūrṇo'cyuto'vyayaḥ|
tvaṃ pāṇipādarahitaścakṣuḥśrotravivarjitaḥ||27||
śrotā draṣṭā grahītā ca javanastvaṃ kharāntaka|
kośebhyo vyatiriktastvaṃ nirguṇo nirupāśrayaḥ||28||
nirvikalpo nirvikāro nirākāro nirīśvaraḥ|
ṣaḍbhāvarahito'nādiḥ puruṣaḥ prakṛteḥ paraḥ||29||
māyayā gṛhyamāṇastvaṃ manuṣya iva bhāvyase|
jñātvā tvāṃ nirguṇamajaṃ vaiṣṇavā mokṣagāminaḥ||30||
ahaṃ tvatpādasadbhaktiniḥśreṇīṃ prāpya rāghava|
icchāmi jñānayogākhyaṃ saudhamāroḍhumīśvara||31||
namaḥ sītāpate rāma namaḥ kāruṇikottama|
rāvaṇāre namastubhyaṃ trāhi māṃ bhavasāgarāt||32||
tataḥ prasannaḥ provāca śrīrāmo bhaktavatsalaḥ|
varaṃ vṛṇīṣva bhadraṃ te vāñchitaṃ varado'smyaham||33||

vibhīṣaṇa uvāca

dhanyo'smi kṛtakṛtyo'smi kṛtakāryo'smi rāghava|
tvatpādadarśanādeva vimukto'smi na saṃśayaḥ||34||
nāsti matsadṛśo dhanyo nāsti matsadṛśaḥ śuciḥ|
nāsti matsadṛśo loke rāma tvanmūrtidarśanāt||35||
karmabandhavināśāya tvajjñānaṃ bhaktilakṣaṇam|
tvaddhyānaṃ paramārthaṃ ca dehi me raghunandana||36||
na yāce rāma rājendra sukhaṃ viṣayasambhavam|
tvatpādakamale saktā bhaktireva sadā'stu me||37||
omityuktvā punaḥ prīto rāmaḥ provāca rākṣasam|
śṛṇu vakṣyāmi te bhadraṃ rahasyaṃ mama niścitam||38||
madbhaktānāṃ praśāntānāṃ yogināṃ vītarāgiṇām|
hṛdaye sītayā nityaṃ vasāmyatra na saṃśayaḥ||39||
tasmāt tvaṃ sarvadā śāntaḥ sarvakalmaṣavarjitaḥ|
māṃ dhyātvā mokṣyase nityaṃ ghorasaṃsārasāgarāt||40||
stotrametatpaṭhedyastu likhedyaḥ śṛṇuyādapi|
matprītaye mamābhīṣṭaṃ sārūpyaṃ samavāpnuyāt||41||
ityuktvā lakṣmaṇaṃ prāha śrīrāmo bhaktabhaktimān|
paśyatvidānīmevaiṣa mama sandarśane phalam||42||
laṅkārājye'bhiṣekṣyāmi jalamānaya sāgarāt|
yāvaccandraśca sūryaśca yāvat tiṣṭhati medinī||43||
yāvanmama kathā loke tāvad rājyaṃ karotvasau|
ityuktvā lakṣmaṇenāmbu hyānāyya kalaśena tam||44||
laṅkārājyādhipatyārthamabhiṣekaṃ ramāpatiḥ|
kārayāmāsa sacivairlakṣmaṇena viśeṣataḥ||45||
sādhu sādhviti te sarve vānarāstuṣṭuvurbhṛśam|
sugrīvo'pi pariṣvajya vibhīṣaṇamathābravīt||46||
vibhīṣaṇa vayaṃ sarve rāmasya paramātmanaḥ|
kiṅkarāstatra mukhyastvaṃ bhaktyā rāmaparigrahāt|
rāvaṇasya vināśe tvaṃ sāhāyyaṃ kartumarhasi||47||

vibhīṣaṇa uvāca

ahaṃ kiyān sahāyatve rāmasya paramātmanaḥ|
kintu dāsyaṃ kariṣye'haṃ bhaktyā śaktyā hyamāyayā||48||
daśagrīveṇa sandiṣṭaḥ śuko nāma mahāsuraḥ|
saṃsthito hyambare vākyaṃ sugrīvamidamabravīt||49||
tvāmāha rāvaṇo rājā bhrātaraṃ rākṣasādhipaḥ|
mahākulaprasūtastvaṃ rājā'si vanacāriṇām||50||
mama bhrātṛsamānastvaṃ tava nāstyarthaviplavaḥ|
ahaṃ yadaharaṃ bhāryāṃ rājaputrasya kiṃ tava||51||
kiṣkindhāṃ yāhi haribhirlaṅkā śakyā na daivataiḥ|
prāptuṃ kiṃ mānavairalpasattvairvānarayūthapaiḥ||52||
taṃ prāpayantaṃ vacanaṃ tūrṇamutplutya vānarāḥ|
prāpadyanta tadā kṣipraṃ nihantuṃ dṛḍhamuṣṭibhiḥ||53||
vānarairhanyamānastu śuko rāmamathābravīt|
na dūtān ghnanti rājendra vānarān vāraya prabho||54||
rāmaḥ śrutvā tadā vākyaṃ śukasya paridevitam|
mā vadhiṣṭeti rāmastān vārayāmāsa vānarān||55||
punarambaramāsādya śukaḥ sugrīvamabravīt|
brūhi rājan daśagrīvaṃ kiṃ vakṣyāmi vrajāmyaham||56||

sugrīva uvāca

yathā vālī mama bhrātā tathā tvaṃ rākṣasādhama|
hantavyastvaṃ mayā yatnātsaputrabalavāhanaḥ||57||
brūhi me rāmacandrasya bhāryāṃ hṛtvā kva yāsyasi|
tato rāmājñayā dhṛtvā śukaṃ badhvā'nvarakṣayat||58||
śārdūlo'pi tataḥ pūrvaṃ dṛṣṭvā kapibalaṃ mahat|
yathāvat kathayāmāsa rāvaṇāya sa rākṣasaḥ||59||
dīrghacintāparo bhūtvā niḥśvasannāsa mandire|
tataḥ samudramāvekṣya rāmo raktāntalocanaḥ||60||
paśya lakṣmaṇa duṣṭo'sau vāridhirmāmupāgatam|
nābhinandati duṣṭātmā darśanārthaṃ mamānagha||61||
jānāti mānuṣo'yaṃ me kiṃ kariṣyati vānaraiḥ|
adya paśya mahābāho śoṣayiṣyāmi vāridhim||62||
pādenaiva gamiṣyanti vānarā vigatajvarāḥ|
ityuktvā krodhatāmrākṣa āropitadhanurdharaḥ||63||
tūṇīrād bāṇamādāya kālāgnisadṛśaprabham|
sandhāya cāpamākṛṣya rāmo vākyamathābravīt||64||
paśyantu sarvabhūtāni rāmasya śaravikramam|
idānīṃ bhasmasāt kuryāṃ samudraṃ saritāṃ patim||65||
evaṃ bruvati rāme tu saśailavanakānanā|
cacāla vasudhā dyauśca diśaśca tamasāvṛtāḥ||66||
cukṣubhe sāgaro velāṃ bhayādyojanamatyagāt|
timinakrajhaṣā mīnāḥ prataptāḥ paritatrasuḥ||67||
etasminnantare sākṣāt sāgaro divyarūpadhṛk|
divyābharaṇasampannaḥ svabhāsā bhāsayan diśaḥ||68||
svāntaḥsthadivyaratnāni karābhyāṃ parigṛhya saḥ|
pādayoḥ purataḥ kṣiptvā rāmasyopāyanaṃ bahu||69||
daṇḍavatpraṇipatyāha rāmaṃ raktāntalocanam|
trāhi trāhi jagannātha rāma trailokyarakṣaka||70||
jaḍo'haṃ rāma te sṛṣṭaḥ sṛjatā nikhilaṃ jagat|
svabhāvamanyathā kartuṃ kaḥ śakto devanirmitam||71||
sthūlāni pañcabhūtāni jaḍānyeva svabhāvataḥ|
sṛṣṭāni bhavataitāni tvadājñāṃ laṅghayanti na||72||
tāmasādahamo rāma bhūtāni prabhavanti hi|
kāraṇānugamāt teṣāṃ jaḍatvaṃ tāmasaṃ svataḥ||73||
nirguṇastvaṃ nirākāro yadā māyāguṇān prabho|
līlayā'ṅgīkaroṣi tvaṃ tadā vairājanāmavān||74||
guṇātmano virājaśca sattvād devā babhūvire|
rajoguṇātprajeśādyā manyorbhūtapatistava||75||

tvāmahaṃ māyayā channaṃ līlayā mānuṣākṛtim

jaḍabuddhirjaḍo mūrkhaḥ kathaṃ jānāmi nirguṇam|
daṇḍa eva hi mūrkhāṇāṃ sanmārgaprāpakaḥ prabho||76||
bhūtānāmamaraśreṣṭha paśūnāṃ laguḍo yathā|
śaraṇaṃ te vrajāmīśaṃ śaraṇyaṃ bhaktavatsala|
abhayaṃ dehi me rāma laṅkāmārgaṃ dadāmi te||77||

śrīrāma uvāca

amogho'yaṃ mahābāṇaḥ kasmin deśe nipātyatām|
lakṣyaṃ darśaya me śīghraṃ bāṇasyāmoghapātinaḥ||78||
rāmasya vacanaṃ śrutvā kare dṛṣṭvā mahāśaram|
mahodadhirmahātejā rāghavaṃ vākyamabravīt||79||
rāmottarapradeśe tu drumakulya iti śrutaḥ|
pradeśastatra bahavaḥ pāpātmāno divāniśam||80||
bādhante māṃ raghuśreṣṭha tatra te pātyatāṃ śaraḥ|
rāmeṇa sṛṣṭo bāṇastu kṣaṇādābhīramaṇḍalam||81||
hatvā punaḥ samāgatya tūṇīre pūrvavat sthitaḥ|
tato'bravīd raghuśreṣṭhaṃ sāgaro vinayānvitaḥ||82||
nalaḥ setuṃ karotvasmin jale me viśvakarmaṇaḥ|
suto dhīmān samartho'smin kārye labdhavaro hariḥ||83||
kīrtiṃ jānantu te lokāḥ sarvalokamalāpahām|
ityuktvā rāghavaṃ natvā yayau sindhuradṛśyatām||84||
tato rāmastu sugrīvalakṣmaṇābhyāṃ samanvitaḥ|
nalamājñāpayacchīghraṃ vānaraiḥ setubandhane||85||
tato'tihṛṣṭaḥ plavagendrayūthapair-
mahānagendrapratimairyuto nalaḥ|
babandha setuṃ śatayojanāyataṃ
suvistṛtaṃ parvatapādapairdṛḍham||86||

||iti śrīmadadhyātmarāmāyaṇe umāmaheśvarasaṃvāde yuddhakāṇḍe tṛtīyaḥ sargaḥ||